पद्म पुराण · अध्याय 5.1
श्रीगणेशाय नमः।
श्रीकुलदेवतायै नमः।
श्रीगुरुचरणारविंदाभ्यां नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत्
ऋषय ऊचुः।
श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम् ।
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः
सूत उवाच।
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम् ।
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम्
श्रीवात्स्यायन उवाच।
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः ।
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः ।
नानाराजचरित्राणि कथितानि त्वयानघ
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम् ।
तत्रानेकमहापापहरा रामकृता कथा
तस्य वीरस्य रामस्य हयमेधकथा श्रुता ।
संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम्
या श्रुता संस्मृता चोक्ता महापातकहारिणी ।
चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा
शेष उवाच।
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी ।
रघुवीरपदद्वंद्व मकरंद स्पृहावती
वदंति मुनयः सर्वे साधूनां संगमं वरम् ।
यस्मात्पापक्षयकरी रघुनाथकथा भवेत्
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः ।
सुरासुरकिरीटौघ मणिनीराजितांघ्रिकः
रावणारिकथा वार्द्धौ मशको मादृशः कियान् ।
यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः ।
पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम्
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम् ।
करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा
सूत उवाच।
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः ।
ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम्
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः ।
कथयामास विशदां कथां दाशरथेः पुनः
शेष उवाच।
लंकेश्वरे विनिहते देवदानवदुःखदे ।
अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा ।
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम् ।
सीतयासहितो रामः पुष्पकं समुपाश्रितः
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा ।
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम् ।
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान् ।
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात्
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति ।
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान् ।
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च ।
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता ।
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् ।
तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह
यत्र वै भरतो राजा पालयन्धर्ममास्थितः ।
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः ।
कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः ।
उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत् ।
मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः ।
या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता
या सीता रविसंतापं कदापि प्राप नो सती ।
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा ।
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति ।
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः ।
प्रातःप्रातर्महाराजो भरतो रामवल्लभः
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः ।
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम् ।
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् ।
करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया ।
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम्
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः ।
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य भरतावासनंदिग्रामदर्शनोनाम प्रथमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0