भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.20

4.20.1

शौनक उवाच।
सुकृतं किं तथा प्राह कृत्वा संसारसागरात् ।
तरिष्यंति कलौ सूत तमोन्धकूपमंडुकाः

4.20.2

सूत उवाच।
राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत् ।
राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता

4.20.3

त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा ।
सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम्

4.20.4

राधादामोदराभ्यां या धूपदीपं तु कार्तिके ।
दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः

4.20.5

योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने ।
राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम्

4.20.6

राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम् ।
कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम्

4.20.7

गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम् ।
राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम्

4.20.8

यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये ।
राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत्

4.20.9

या नारी कार्तिके भक्त्या राधादामोदरं द्विज ।
प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम्

4.20.10

कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि ।
भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च

4.20.11

पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः ।
सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया

4.20.12

जाराकांक्षी सदा नाम्ना तृणवन्मन्यते पतिम् ।
असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः

4.20.13

इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै ।
नीचसंगान्महामूढा मद्यमांसं चखाद ह

4.20.14

स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा ।
पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च

4.20.15

मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया ।
विचार्येति हृदा मूढा जारेणैकेन सा तदा

4.20.16

अन्यदेशं गमिष्यावः संकेतमकरोद्द्विज ।
सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज

4.20.17

छित्त्वा जारकृते सापि संकेतस्य स्थलं गता ।
आगतं जारपुरुषं द्वीपिना भक्षितं द्विज

4.20.18

दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह ।
चिरादाश्वस्य सा मूढा करुणं विललाप ह

4.20.19

कलिप्रियोवाच।
स्वकीयं स्वामिनं हत्वा चागता परपूरुषम् ।
तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम ।
किं करोमि क्व गच्छामि विधात्रा वंचितास्म्यहम्

4.20.20

सूत उवाच।
ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति ।
लपने स्वामिनो दत्वा मुखं च विललाप सा

4.20.21

कलिप्रियोवाच।
हा नाथ किं कृतं कर्म्म मया हंतातिदारुणम् ।
कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम्

4.20.22

भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता ।
किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते

4.20.23

सूत उवाच।
ननाम चरणे तस्य गतान्यनगरं प्रति ।
तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून्

4.20.24

ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान् ।
तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज

4.20.25

सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः ।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः

4.20.26

मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता ।
पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः

4.20.27

स्त्रिय ऊचुः -
सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ ।
पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम्

4.20.28

कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम् ।
सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने

4.20.29

निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज ।
किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति

4.20.30

नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः ।
तदागता विष्णुदूता विमानं स्वर्णनिर्मितम्

4.20.31

शंखचक्रगदापद्मधारिणो वनमालिनः ।
निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः

4.20.32

राजहंसयुते विप्र विमाने स्वर्णनिर्मिते ।
आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम्

4.20.33

तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् ।
या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम्

4.20.34

याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम् ।
य इदं शृणुयाद्भक्त्या या च नारी समाहिता ।
कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति

4.20.20

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे राधादामोदरपूजामाहात्म्यकथनंनाम विंशतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc