भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.19

4.19.1

शौनक उवाच।
अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः ।
यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज

4.19.2

प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने ।
वृषैकादशगोदानं सशिखं वपनं ततः

4.19.3

गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा ।
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः

4.19.4

ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः ।
चांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु

4.19.5

यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत्

4.19.6

एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात् ।
वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै

4.19.7

शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषु ।
प्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा

4.19.8

गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विज ।
हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम्

4.19.9

आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज ।
तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः

4.19.10

पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम् ।
भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत्

4.19.11

मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैः ।
तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः

4.19.12

द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः ।
दान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः

4.19.13

अज्ञानाद्भुंजते विप्र सूतके मृतके यदि ।
गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत्

4.19.14

सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैः ।
पंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन

4.19.15

आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत् ।
अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत्

4.19.16

दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि ।
शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति

4.19.17

सशिखं वपनं कुर्यादहोरात्रोपवासतः ।
नीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज

4.19.18

प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वा ।
सशिखं वपनं चैव पंचगव्यं पिबेत्ततः

4.19.19

गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम् ।
मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया

4.19.20

यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः ।
गोबीजहंता यो विप्रच्छेदकश्च दलस्य च

4.19.21

स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत्

4.19.22

यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा ।
तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन

4.19.23

प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम् ।
त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम्

4.19.24

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः ।
सर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम्

4.19.25

ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम् ।
अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम्

4.19.26

प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज ।
सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने

4.19.27

अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः ।
पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन

4.19.28

एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत् ।
इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम्

4.19.29

अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितः ।
चतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम्

4.19.30

कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम् ।
कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम् ।
तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन

4.19.19

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकोनविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc