भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.62

3.62.1

सूत उवाच-
एवं यन्महिमा लोके लोकनिस्तारकारणम् ।
तस्य विष्णोः परेशस्य नानाविग्रहधारिणः

3.62.2

एकं पुराणं रूपं वै तत्र पाद्मं परं महत् ।
ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितम्

3.62.3

वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः ।
ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम्

3.62.4

मार्कंडेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते ।
भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः

3.62.5

ब्रह्मवैवर्तसंज्ञं तु वामजानुरुदाहृतः ।
लैंगं ह गुल्फकं दक्षं वाराहं वामगुल्फकम्

3.62.6

स्कांदं पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।
कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम्

3.62.7

मज्जा तु गारुडं प्रोक्तं ब्रह्मांडमस्थि गीयते ।
एवमेवाभवद्विष्णुः पुराणावयवो हरिः

3.62.8

हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते ।
पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः

3.62.9

यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते ।
तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम्

3.62.10

स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये ।
मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः

3.62.11

अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः ।
आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात्

3.62.12

आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः ।
माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः

3.62.13

यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् ।
दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला

3.62.14

कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम् ।
हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः

3.62.15

सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा ।
अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः

3.62.16

अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः ।
गुणवंतो ज्ञानवंतो धर्मवंतोनुमानिताः

3.62.17

मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम् ।
ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि

3.62.18

अन्यानि च सुकर्माणि कृतानि तेन धीमता ।
येनादिखंडं सदसि श्रुतं संश्रावितं तथा

3.62.19

स्वर्गखंडं समाधीत्य नानाभोगान्समश्नुते ।
अंतःपुरगनारीणां सुखसुप्तः प्रबुध्यते

3.62.20

किंकिणीरवसन्नादैस्तथा मधुरभाषणैः ।
इंद्रस्यार्धासनं भुंक्ते इंद्रलोके वसेच्चिरम्

3.62.21

ततः सूर्यस्य भवनं चंद्रलोकं ततो व्रजेत् ।
सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम्

3.62.22

ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः ।
तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति

3.62.23

सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् ।
कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः

3.62.24

तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम् ।
स्वर्गखंडं च तन्मध्ये महापुण्यफलप्रदम्

3.62.25

भजध्वं गोविंदं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम् ।
शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत

3.62.62

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विषष्टितमोऽध्यायः

संपूर्णमिदमादिखण्डापरनामकमादिस्वर्गखंडं स्वर्गखंडं वा ।
शुभमस्तु श्रीरस्तु ।
इति श्रीपाद्मे महापुराणे तृतीयं स्वर्गखण्डं समाप्तम्।

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc