भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.55

3.55.1

व्यास उवाच-
न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित् ।
नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन

3.55.2

तृणं वा यदि वा शाकं मृदं वा जलमेव च ।
परस्यापहरञ्जंतुर्नरकं प्रतिपद्यते

3.55.3

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्चेन्निंदितान्वर्जयेद्बुधः

3.55.4

नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः

3.55.5

न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन

3.55.6

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत्ततः

3.55.7

पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् ।
अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः

3.55.8

गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः ।
नैकस्मादेव नियतमननुज्ञाय केवलम्

3.55.9

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।
धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत्

3.55.10

तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः ।
क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः

3.55.11

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दंभनम्

3.55.12

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति

3.55.13

अलिंगी लिंगिवेषेण यो वृत्तिमुपतिष्ठति ।
सलिगिंनो हरेदेनस्तिर्यग्योनौ च जायते

3.55.14

याचनं योनिसंबंधं सहवासं च भाषणम् ।
कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत्

3.55.15

देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च ।
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः

3.55.16

जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ।
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया

3.55.17

कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः ।
कुविचारैः क्रियालोपैर्वेदानध्ययनेन च

3.55.18

कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च ।
अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात्

3.55.19

अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम् ।
अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च

3.55.20

विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ।
अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत्

3.55.21

शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते ।
हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम्

3.55.22

मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ।
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः

3.55.23

पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ।
अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः

3.55.24

नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ ।
न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः

3.55.25

न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः ।
एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम्

3.55.26

यजनाध्यापने योनिस्तथैव सहभोजनम् ।
सहाध्यायस्तु दशमः सहयाजनमेव च

3.55.27

एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः ।
समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम्

3.55.28

तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत् ।
एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम्

3.55.29

भस्मना कृतमर्य्यादा न तेषां संकरो भवेत् ।
अग्निना भस्मना चैव सलिलेन विलेखतः

3.55.30

द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते ।
न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम्

3.55.31

परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित् ।
न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत्

3.55.32

न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम् ।
परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम्

3.55.33

न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्

3.55.34

तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् ।
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः

3.55.35

न देवगुरुविप्राणां दीयमानं तु वारयेत् ।
न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत्

3.55.36

वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत् ।
यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः

3.55.37

न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ।
निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम्

3.55.38

कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।
तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम्

3.55.39

कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत् ।
वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः

3.55.40

विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन ।
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः

3.55.41

सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत् ।
नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात्

3.55.42

तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम् ।
ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे

3.55.43

दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ।
नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः

3.55.44

नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम् ।
तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम्

3.55.45

न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।
न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम्

3.55.46

नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः ।
नाभिभाषेत च परमुच्छिष्टो वावगुंठितः

3.55.47

न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पंक्तिं भोजने सति

3.55.48

न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा ।
नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम्

3.55.49

क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम् ।
नोदके चात्मनो रूपं शुभं वाशुभमेव वा

3.55.50

न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन ।
न शूद्राय मतिं दद्यात्कृसरं पायसं दधि

3.55.51

नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।
न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः

3.55.52

न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् ।
लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम्

3.55.53

ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत् ।
न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत्

3.55.54

न हीनानुपसेवेत न च तृष्णामतिः क्वचित् ।
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत्

3.55.55

न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः ।
न नखेन लिखेद्भूमिं गां च संवेशयन्नहि

3.55.56

न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान् ।
आवासे भोजने वापि न त्यजेत्सहयायिनम्

3.55.57

नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा ।
शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत्

3.55.58

न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत्

3.55.59

न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत् ।
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित्

3.55.60

न चांगनखवाद्यं वै कुर्यान्नांजलिना पिबेत् ।
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन

3.55.61

न शातयेदिष्टिकाभिर्मूलानि च फलानि च ।
न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम्

3.55.62

नखभेदनमास्फोटं छेदनं वा विलेखनम् ।
कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम्

3.55.63

नोत्संगे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत् ।
न नृत्येदथवा गायेन्न वादित्राणि वादयेत्

3.55.64

न संहताभ्यां पाणिभ्यां कंडूयेदात्मनः शिरः ।
न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि

3.55.65

नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत्

3.55.66

न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत् ।
न दंतैर्नखरोमाणि च्छिंद्यात्सुप्तं न बोधयेत्

3.55.67

नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत् ।
नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत्

3.55.68

नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।
न पादक्षालनं कुर्यात्पादेनैव कदाचन

3.55.69

नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः ।
नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा

3.55.70

वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति ।
अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम्

3.55.71

बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन ।
स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम्

3.55.72

उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ।
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान्

3.55.73

न चालनं पदा वापि न देवप्रतिमां स्पृशेत् ।
नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन्

3.55.74

नावगाहेदगाधांबु धावयेन्नाऽनिमित्ततः ।
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम्

3.55.75

नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ।
अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा

3.55.76

व्यतिक्रामेन्न स्रवंतीं नाप्सु मैथुनमाचरेत् ।
चैत्यवृक्षं न वै छिंद्यान्नाप्सु ष्ठीवनमाचरेत्

3.55.77

नास्थिभस्मकपालानि न केशान्न च कंटकान् ।
तुषांगारकरीषं वा नाधितिष्ठेत्कदाचन

3.55.78

न चाग्निं लंघयेद्धीमान्नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः

3.55.79

न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा

3.55.80

सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् ।
अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत्

3.55.81

न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्थानोदकस्थाने सीमांतं वाहयेन्न तु

3.55.82

न भिंद्यात्पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत्

3.55.83

परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा सुकर्माणि गुरून्पश्चान्न वंचयेत्

3.55.84

सायंप्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत् ।
बहिर्माल्यं सुगंधिं वा भार्यया सह भोजनम्

3.55.85

विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् ।
नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः

3.55.86

स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत् ।
न पक्षकेणोपधमेन्न शूर्पेण च पाणिना

3.55.87

मुखेनाग्निं समिंधीत मुखादग्निरजायत ।
परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः

3.55.88

नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत् ।
न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम्

3.55.89

न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् ।
नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह

3.55.90

न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ।
नोपानद्वर्जितो वाथ जलादिरहितस्तथा

3.55.91

न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः ।
न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा

3.55.92

देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम् ।
नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि

3.55.93

स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः ।
नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन

3.55.94

वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः

3.55.55

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc