भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.48

3.48.1

युधिष्ठिर उवाच-
कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने ।
एवं मे सर्वमाख्याहि यथा च मम तारयेत्

3.48.2

मार्कंडेय उवाच-
शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् ।
ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः

3.48.3

ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत् ।
तान्येतानि परो लोके विष्णुः पालयति प्रजाः

3.48.4

कल्पांते तत्समग्रं हि रुद्रः संहरते जगत् ।
न ददाति च नाध्येति न कदाचिद्विनश्यति

3.48.5

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति ।
उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति

3.48.6

महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः ।
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः

3.48.7

रक्षंति परमं नित्यं पापकर्मपरायणान् ।
ये तु चान्ये च तिष्ठंति न यांति परमां गतिम्

3.48.8

युधिष्ठिर उवाच-
अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम् ।
केन वा कारणेनैव तिष्ठंति लोकसंमताः

3.48.9

मार्कंडेय उवाच-
प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराः ।
कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर

3.48.10

पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।
तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः

3.48.11

तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति ।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः

3.48.12

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले ।
तिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम्

3.48.13

ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिर ।
पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः

3.48.14

प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् ।
एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर

3.48.15

स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव

3.48.48

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये अष्टचत्वारिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc