पद्म पुराण · अध्याय 3.45
युधिष्ठिर उवाच-
एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् ।
विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात् ।
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम्
मार्कंडेय उवाच-
शृणु राजन्प्रयागे तु अनाशकफलं विभो ।
प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम्
अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः ।
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान् ।
मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम्
युधिष्ठिर उवाच-
महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो ।
अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात्
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह ।
एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे
मार्कंडेय उवाच-
शृणु राजन्महावीर युदुक्तं पद्मयोनिना ।
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम्
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।
प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश ।
नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत्
एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत् ।
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः ।
न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम्
युधिष्ठिर उवाच-
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः ।
कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः
विक्रयं सर्वभांडानां कार्याकार्यमजानतः ।
प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने
मार्कंडेय उवाच-
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् ।
मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा ।
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ।
विश्रंभघातकानां तु प्रयागे शृणु तत्फलम्
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् ।
त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते
स्थानं स लभते नित्यं धनधान्यसमाकुलम् ।
एवं ज्ञानेन संपूर्णः सदा भवति भोगवान्
तारिताः पितरस्तेन नरकात्प्रपितामहाः ।
धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः ।
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम्
युधिष्ठिर उवाच-
अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ।
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै ।
त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः
मार्कंडेय उवाच-
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् ।
कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम्
युधिष्ठिर उवाच-
यमुनायां तु किं पुण्यं किं फलं तु महामुने ।
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम्
मार्कंडेय उवाच-।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा
येनैव निःसृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।
कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम्
अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे ।
पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम्
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ।
तीर्थं तु विरजं नाम यत्र देवाः सवासवाः
उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर ।
देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् ।
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः
तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
गंगा च यमुना चैव उभे तुल्यफले स्मृते
केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते ।
एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।
यस्त्विदं कल्य उत्थाय पठते च शृणोति वा
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0