भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.44

3.44.1

मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

3.44.2

मानसं नाम तत्तीर्थं गंगायामुत्तरे तटे ।
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात्

3.44.3

गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः ।
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः

3.44.4

अकामो वा सकामो वा गंगायां यो विपद्यते ।
मृतस्तु भवति स्वर्गे नरकं न च पश्यति

3.44.5

अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते ।
हंससारसयुक्तेन विमानेन स गच्छति

3.44.6

बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुंजते ।
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः

3.44.7

सुवर्णमणिमुक्ताढ्ये जायते स महाकुले ।
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च

3.44.8

माघेमासि गमिष्यंति गंगायमुनसंगमे ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्

3.44.9

प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम् ।
गंगायमुनयोर्मध्ये पंचाग्निं यस्तु साधयेत्

3.44.10

अहीनांगो ह्यरोगश्च पंचेन्द्रियसमन्वितः ।
यावंति रोमकूपाणि तस्य गात्रस्य देहिनः

3.44.11

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
ततः स्वर्गात्परिभ्रष्टो जंबूद्वीपपतिर्भवेत्

3.44.12

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः ।
जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते

3.44.13

राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ।
सोमलोकमवाप्नोति सोमेन सह मोदते

3.44.14

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
स्वर्गलोकमवाप्नोति ऋषिगंधर्वसेवितः

3.44.15

परिभ्रष्टस्तु राजेंद्र समृद्धे जायते कुले ।
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः

3.44.16

शतं वर्षसहस्राणि स्वर्गलोके महीयते ।
परिभ्रष्टस्तु राजेंद्र अग्निहोत्री भवेन्नरः

3.44.17

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः ।
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति

3.44.18

विहंगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ।
शतं वर्षसहस्राणां सोमलोके महीयते

3.44.19

ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः ।
गुणवान्रूपसंपन्नो विद्वान्सुप्रियदेहवान्

3.44.20

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः ।
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे

3.44.21

ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम् ।
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते

3.44.22

सूर्यलोकमवाप्नोति अनृणी च सदा भवेत्

3.44.44

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc