भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.40

3.40.1

सूत उवाच-
एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः ।
एषामन्यतमा संगान्मुक्तो भवति मानवः

3.40.2

तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् ।
पापराशिनिपाताय नान्योपायः कलौयुगे

3.40.3

वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा ।
एवं योऽनुदिनं ब्रूते स याति परमं महत्

3.40.4

पापानि तस्य नश्यंति तीर्थालापनमात्रतः ।
तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः

3.40.5

तीर्थानां सेवनादेव सेवितो भवति प्रभुः ।
नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम्

3.40.6

ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः ।
विष्णुश्च परमेशानः सेव्य एव सदा नृभिः

3.40.7

ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः ।
सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः

3.40.8

तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम् ।
भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत्

3.40.9

अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम् ।
सर्वतीर्थफलंप्राप्य विष्णुलोके महीयते

3.40.10

तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात् ।
अन्यथा नरकं याति कर्म्मभोगाद्धि शाम्यति

3.40.11

पापिनां नरके वासः सुकृती स्वर्गमश्नुते ।
तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः

3.40.12

ऋषय ऊचुः-
श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत ।
इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम्

3.40.13

प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया ।
विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति

3.40.14

सूत उवाच-
साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः ।
हंताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम्

3.40.15

मार्कंडेयेन कथितं यत्पुरा पांडुसूनवे ।
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते

3.40.16

एतस्मिन्नंतरे राजा कुंतीपुत्रो युधिष्ठिरः ।
भ्रातृशोकेन संतप्तः चिंतयंस्तु पुनः पुनः

3.40.17

आसीद्दुर्योधनो राजा एकादशचमूपतिः ।
अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः

3.40.18

वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः ।
कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम्

3.40.19

दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम् ।
राजानो निहताः सर्वे ये चान्ये शूरमानिनः

3.40.20

विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा ।
धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः

3.40.21

निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः ।
लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः

3.40.22

कं चरे विधिना योगं नियमं तीर्थमेव वा ।
येनाहं शीघ्रमामुच्ये महापातककिल्बिषात्

3.40.23

यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् ।
कथं पृच्छामि वै कृष्णं येनेदं कारितं महत्

3.40.24

धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ।
व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः

3.40.25

एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः ।
रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः

3.40.26

ये च तत्र महात्मानः समेताः पांडवाश्रिताः ।
कुंती च द्रौपदी चैव ये च तत्र समागताः

3.40.27

भूमौ निपतिताः सर्वे रोदमानाः समंततः ।
वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः

3.40.28

यथाविक्लवमापन्नो रोदमानः सुदुःखितः ।
अचिरेणैव कालेन मार्कंडस्तु महातपाः

3.40.29

हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति ।
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम्

3.40.30

त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः ।
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः

3.40.31

युधिष्ठिर उवाच-
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ।
अद्य मे सफलं जन्म अद्य मे पावितं कुलम्

3.40.32

अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने ।
सिंहासन उपस्थाप्य पादशौचार्चनादिभिः

3.40.33

युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ।
ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो

3.40.34

आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया ।
केन वा विक्लवीभूतः कथयस्व ममाग्रतः

3.40.35

युधिष्ठिर उवाच-
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने ।
एतत्सर्वं विदित्वा तु भगवानिह चागतः

3.40.36

मार्कंडेय उवाच-
शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः ।
नैव दृष्टं रणे पापं युध्यमानस्य धीमतः

3.40.37

किं पुना राजधर्मेण क्षत्रियस्य विशेषतः ।
तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत्

3.40.38

ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् ।
पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् ।
कथयस्व समासेन मुच्येऽहं येन किल्बिषात्

3.40.39

मार्कंडेय उवाच-
शृणु राजन्महाभाग यन्मां पृच्छसि भारत ।
एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर

3.40.40

किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो ।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम्

3.40.40

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चत्वारिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc