भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.31

3.31.1

नारदौवाच-
ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि ।
संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ।
विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम

3.31.2

विकुंडल उवाच-
हे दूतवर पृच्छामि संशयं त्वामहं परम् ।
आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम्

3.31.3

दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा ।
कथं स नरके क्षिप्तस्तुल्यकर्म्मा ममाग्रजः

3.31.4

ममाभवत्कथं नाकमिति मे छिंधि संशयम् ।
देवदूत न पश्यामि मम स्वर्गस्य कारणम्

3.31.5

देवदूत उवाच-
माता पिता सुतो जाया स्वसा भ्राता विकुंडल ।
जन्महेतोरियं संज्ञा जंतोः कर्म्मोपभुक्तये

3.31.6

एकस्मिन्पादपे यद्वच्छकुनानां समागमः ।
यद्यत्समीहितं कर्म कुरुते पूर्वभावितः

3.31.7

तस्य तस्य फलं भुंक्ते कर्म्मणः पुरुषः सदा ।
सत्यं वदामि ते प्रीत्या नरैः कर्म्म शुभाशुभम्

3.31.8

स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः ।
एकः करोति कर्माणि एकस्तत्फलमश्नुते

3.31.9

अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् ।
अपतन्नरके पापैस्तवभ्राता सुदारुणैः ।
त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम्

3.31.10

विकुंडल उवाच-
आबाल्यान्मम पापेषु न पुण्येषु रतं मनः ।
अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया

3.31.11

देवदूत न जानामि सुकृतं कर्म चात्मनः ।
यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद

3.31.12

देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् ।
जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम्

3.31.13

हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः ।
आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे

3.31.14

तेन सख्यं वने तस्मिंस्तव जातं विशांवर ।
तत्संगेन त्वया स्नातं माघमासद्वयं तथा

3.31.15

कालिंदी पुण्यपानीये सर्वपापहरे वरे ।
तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने

3.31.16

एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपते ।
द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ

3.31.17

त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि ।
नरकेषु तव भ्राता महतीं पापयातनाम्

3.31.18

छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः ।
चूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः

3.31.19

इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः ।
पुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः

3.31.20

उवाच तं देवदूतं मधुरं निपुणं वचः ।
मैत्री सप्तपदी साधो सतां भवति सत्फला

3.31.21

मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसि ।
ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम

3.31.22

यमलोकं न पश्यंति कर्मणा केन मानवाः ।
गच्छंति निरयं येन तन्मे त्वं कृपया वद

3.31.23

देवदूत उवाच-
सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम् ।
विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते

3.31.24

यद्यप्यवसरोनास्ति मम सेवापरस्य वै ।
तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति

3.31.25

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
परपीडां न कुर्वंति न ते यांति यमालयम्

3.31.26

न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः ।
कथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः

3.31.27

अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।
अहिंसा परमं दानमित्याहुर्मुनयः सदा

3.31.28

मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा ।
आत्मौपम्येन पश्यंति मानवा ये दयालवः

3.31.29

तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम् ।
दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः

3.31.30

भूतानि येऽत्र हिंसंति जलस्थलचराणि च ।
जीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम्

3.31.31

श्वमांसभोजनास्तत्र पूयशोणितपायिनः ।
मज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः

3.31.32

परस्परं च खादंतो ध्वांते चान्योन्य घातिनः ।
वसंति कल्पानेकांस्ते रुदंतो दारुणं रवम्

3.31.33

कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते ।
ततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च

3.31.34

पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवः ।
दरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः

3.31.35

तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा ।
लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत्

3.31.36

लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाः ।
येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित्

3.31.37

प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाः ।
सर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम्

3.31.38

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
अभयं येन भूतेभ्यो दत्तमत्र विंशांवर

3.31.39

ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान् ।
पालयंतीह ये वैश्य न ते यांति यमालयम्

3.31.40

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
स्वधर्मनिरताः सर्वे नाकपृष्ठे वसंति ते

3.31.41

यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः ।
नरा जितेंद्रिया यांति ब्रह्मलोकं तु शाश्वतम्

3.31.42

इष्टापूर्तरता ये च पंचयज्ञरताश्च ये ।
दयान्विताश्च ये नित्यं नेक्षंते ते यमालयम्

3.31.43

इंद्रियार्थनिवृत्ता ये समर्था वेदवादिनः ।
अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः

3.31.44

अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः ।
आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः

3.31.45

अनाथ स्त्री द्विजार्थे च शरणागतपालने ।
प्राणांस्त्यजंति ये वैश्य न च्यवंति दिवस्तु ते

3.31.46

पंग्वंधबालवृद्धांश्च रोग्यनाथदरिद्रितान् ।
ये पुष्णंति सदा वैश्य ते मोदंति सदा दिवि

3.31.47

गां दृष्ट्वा पंकनिर्मग्नां रोगमग्नं द्विजं तथा ।
उद्धरंति नरा ये च तेषां लोकोऽश्वमेधिनाम्

3.31.48

गोग्रासं ये प्रयच्छंति ये शुश्रूषंति गाः सदा ।
येनारोहंति गोपृष्ठे ते स्वर्लोकनिवासिनः

3.31.49

गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत् ।
यमलोकमदृष्ट्वैव ते यांति स्वर्गतिं नराः

3.31.50

अग्निपूजा देवपूजा गुरुपूजा रताश्च ये ।
द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः

3.31.51

वापीकूपतडागादौ धर्मस्यांतो न विद्यते ।
पिबंति स्वेच्छया यत्र जलस्थल चरास्तदा

3.31.52

नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि ।
यथायथा च पानीयं पिबंति प्राणिनो भृशम्

3.31.53

तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर ।
प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः

3.31.54

नित्यस्नानेन पूयंते येऽपि पातकिनो नराः ।
प्रातःस्नानं हरेद्वैश्य बाह्माभ्यंतरजं मलम्

3.31.55

प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् ।
स्नानं विना तु यो भुंक्ते मलाशी स सदा नरः

3.31.56

अस्नायी यो नरस्तस्य विमुखा पितृदेवताः ।
स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः

3.31.57

अस्नायी नरकं भुंक्ते पुंस्कीटादिषु जायते ।
ये पुनः स्रोतसि स्नानमाचरंतीह पर्वणि

3.31.58

ते नैव नरकं यांति न जायंते कुयोनिषु ।
दुःस्वप्ना दुष्टचिंताश्च वंध्या भवंति सर्वदा

3.31.59

प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर ।
तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि

3.31.60

दत्त्वा प्रेतपतेर्भूमौ न व्रजंति नराः क्वचित् ।
पृथिवीं कांचनं गां च दत्वा दानानि षोडश

3.31.61

गत्वा न विनिवर्तंते स्वर्गलोकाद्विकुंडल ।
पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे

3.31.62

स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ ।
नैवाक्रामंति दातारो दारुणं रौरवं पथम् ।
इहलोके न जायंते कुले धनविवर्जिते

3.31.63

सत्यवादी सदा मौनी प्रियवादी च यो नरः ।
अक्रोधनः समाचारो नातिवाद्यनसूयकः

3.31.64

सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः ।
गोप्ता च परमर्माणां वक्ता परगुणस्य च

3.31.65

परस्वं तृणमात्रं च मनसापि न यो हरेत् ।
न पश्यंति विशांश्रेष्ठ ह्येते नरकयातनाम्

3.31.66

परापवादी पाखंडः पापेभ्योऽपि मतोऽधिकः ।
पच्यते नरके तावद्यावदाभूतसंप्लवम्

3.31.67

वक्ता परुषवाक्यानां मंतव्यो नरकागतः ।
संदेहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम्

3.31.68

न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः ।
सहते यातनां घोरां स नरो नरके चिरम्

3.31.69

पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः ।
जितेंद्रियो जिताहारो न स याति यमालयम्

3.31.70

न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम् ।
तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः

3.31.71

दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः ।
तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत्

3.31.72

सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणा ।
न नरो नरकं याति अपि पातकराशिकृत्

3.31.73

व्रतदानतपो यज्ञाः पवित्राणीतराणि च ।
गंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम्

3.31.74

अन्यतीर्थसमां गंगां यो ब्रवीति नराधमः ।
स याति नरकं वैश्य दारुणं रौरवं महत्

3.31.75

धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम् ।
धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम्

3.31.76

तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् ।
तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे

3.31.77

गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
नरो न नरकं याति किं तया सदृशं भवेत् ।
नान्येन दह्यते सद्यः क्रिया नरकदायिनी

3.31.78

गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैः ।
प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन् ।
स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि

3.31.79

गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणः ।
म्रियंते गोगृहे ये च तेषां नभसि तारकाः ।
यमलोकं न पश्यंति प्राणायामपरायणाः

3.31.80

अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः ।
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश ।
अपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः

3.31.81

तपांसि यानि तप्यंते व्रतानि नियमाश्च ये ।
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः

3.31.82

अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत् ।
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः

3.31.83

पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् ।
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः

3.31.84

मातृवत्परदारान्ये मन्यंते वै नरोत्तमाः ।
न ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम्

3.31.85

मनसापि परेषां यः कलत्राणि न सेवते ।
सह लोकद्वये नास्ति तेन वैश्य धरा धृता

3.31.86

तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम् ।
नयंति परदारास्तु नरकानेकविंशतिम्

3.31.87

लोभो न जायते येषां परदारेषु मानसे ।
ते यांति देवलोकं तु न यमं वैश्यसत्तम

3.31.88

शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते ।
जितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि

3.31.89

मातरं पितरं पुत्र आराधयति देववत् ।
अप्राप्ते वार्द्धके काले न याति च यमालयम्

3.31.90

पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराः ।
भवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर

3.31.91

इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।
शीलभंगे च नारीणां यमलोकः सुदारुणः

3.31.92

शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ।
शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः

3.31.93

शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च ।
दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः

3.31.94

विचारयंति ये शास्त्रं वेदाभ्यासरताश्च ये ।
पुराणं संहितां ये च श्रावयंति पठंति च

3.31.95

व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाः ।
वेदांतेषु निषण्णा ये तैरियं जगती धृता

3.31.96

तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः ।
गच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते

3.31.97

ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् ।
अपि वेदास्तमर्चंति भवबंधविदारणम्

3.31.98

श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम ।
सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम्

3.31.99

न यमं यमलोकं च न भूतान्घोरदर्शनान् ।
पश्यंति वैष्णवा नूनं सत्यं सत्यं मयोदितम्

3.31.100

प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनः ।
भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः

3.31.101

स्मरंति ये सकृद्भूताः प्रसंगेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यांति विष्णोः परं पदम्

3.31.102

दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः ।
भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः

3.31.103

वैष्णवो यद्गृहे भुंक्ते येषां वैष्णवसंगतिः ।
तेऽपि वः परिवार्याः स्युस्तत्संगहतकिल्बिषाः

3.31.104

इत्थं वैश्यानुशास्त्यस्मान्देवो दंडधरः सदा ।
अतो नो वैष्णवा यांति राजधानीं यमस्य तु

3.31.105

विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर ।
उपायो नास्ति नास्त्यन्यः संतर्तुं नरकांबुधिम्

3.31.106

श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम्

3.31.107

एतावता लमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम्

3.31.108

नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये ।
तदैव यांति ते स्वर्गं यदार्चंति मुदा हरिम्

3.31.109

विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये ।
ते तु क्रतुभुजां वैश्य गतिं यांति निराकुलाः

3.31.110

प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः ।
सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत्

3.31.111

गोविंदेति जपन्मंत्रं कुत्रचिन्म्रियते यदि ।
स नरो न यमं पश्येत्तं च नेक्षामहे वयम्

3.31.112

सांगं समुद्रं सध्यानं सऋषिः छंददैवतम् ।
दीक्षयाविधिवन्मंत्रं जपेद्वै द्वादशाक्षरम्

3.31.113

अष्टाक्षरं च मंत्रेशं ये जपंति नरोत्तमाः ।
तान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम्

3.31.114

शंखिनश्चक्रिणो भूत्वा ब्रह्माभ्यंतरगामिनः ।
वसंति वैष्णवे लोके विष्णुरूपेण ते नराः

3.31.115

हृदि सूर्ये जले वाथ प्रतिमा स्थंडिलेपि च ।
समभ्यर्च्य हरिं यांति नरास्तद्वैष्णवं पदम्

3.31.116

अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते

3.31.117

अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् ।
सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम्

3.31.118

यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरे

3.31.119

सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम् ।
तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात्

3.31.120

महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते ।
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते

3.31.121

अपि पापसमाचाराः कर्म्मण्यनधिकारिणः ।
शालग्रामार्चका वैश्य नैव यांति यमालयम्

3.31.122

न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः ।
शालग्रामशिलाचक्रे यथा स रमते सदा

3.31.123

अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा ।
येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे

3.31.124

शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः ।
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते

3.31.125

कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैः ।
यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत्

3.31.126

यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम् ।
उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते

3.31.127

कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः ।
सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात्

3.31.128

यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः ।
आभूतसंप्लवं यावन्न स प्रच्यवते दिवः

3.31.129

विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् ।
मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात्

3.31.130

नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् ।
न याति वैश्य पापोऽपि शालग्रामशिलार्चकः

3.31.131

दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् ।
गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः

3.31.132

निवसंति हिताः सर्वाः शालग्रामशिला जले ।
नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः

3.31.133

गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः

3.31.134

कल्पकोटिसहस्राणि रमते सन्निधौ हरेः ।
लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः

3.31.135

शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् ।
सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे

3.31.136

मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः ।
शालग्रामशिलारूपी यत्र तिष्ठति केशवः

3.31.137

तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ।
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः

3.31.138

पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिवि ।
ये पिबंति नरा नित्यं शालग्रामशिलाजलम्

3.31.139

पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम्

3.31.140

तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम् ।
शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम्

3.31.141

तत्र दानं च होमं च सर्वं कोटिगुणं भवेत् ।
शालग्रामशिला तोयं यः पिबेद्बिंदुना समम्

3.31.142

मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः ।
शालग्राम समीपे तु क्रोशमात्रं समंततः

3.31.143

कीटकोपि मृतो याति वैकुंठं भवनं परम् ।
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम्

3.31.144

भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ।
शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः

3.31.145

विक्रेता चानुमंता यः परीक्षासु च मोदते ।
ते सर्वे नरकं यांति यावदाभूतसंप्लवम्

3.31.146

ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् ।
बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा

3.31.147

स्मरणं वासुदेवस्य सर्वपापहरं हरेः ।
तपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः

3.31.148

यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् ।
कृत्वापि बहुशः पापं नरो मोहसमन्वितः

3.31.149

न याति नरकं गत्वा सर्वपापहरं हरिम् ।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च

3.31.150

तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ।
देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः

3.31.151

न तेषां यमसालोक्यं न ते स्युर्नरकौकसः ।
वैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः

3.31.152

न विंदेद्वैष्णवं लोकं स याति नरकं महत् ।
उपोष्यैकादशीमेकां प्रसंगेनापि मानवः

3.31.153

न याति यातनां यामीमिति लोमशतः श्रुतम् ।
नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते

3.31.154

उभयं पद्मनाभस्य दिनं पातकनाशनम् ।
तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर

3.31.155

यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् ।
अश्वमेधसहस्राणि राजसूयशतानि च

3.31.156

एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।
एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः

3.31.157

एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ।
एकादशीसमं किंचित्पुण्यं लोके न विद्यते

3.31.158

व्याजेनापि कृता यैस्तु वशं यांति न भास्करेः ।
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी

3.31.159

सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी ।
न गंगा न गया वैश्य न काशी न च पुष्करम्

3.31.160

न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु ।
यमुना चन्द्रभागा न तुल्या हरिदिनेन तु

3.31.161

अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ।
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने

3.31.162

दश वै पैतृके पक्षे मातृके दश पूर्वजाः ।
प्रियाया दश ये वैश्य तानुद्धरति निश्चितम्

3.31.163

द्वंद्वसंग परित्यक्ता नागारि कृतकेतनाः ।
स्रग्विणः पीतवसनाः प्रयांति हरिमंदिरम्

3.31.164

बालत्वे यौवने वापि वार्द्धके वा विशांवर ।
उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम्

3.31.165

उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् ।
दत्वा हेमतिलान्गाश्च स्वर्गं यांतीह मानवाः

3.31.166

तीर्थे स्नांति न ये वैश्य न दत्तं कांचनं च यैः ।
नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः

3.31.167

संक्षिप्य कथितं धर्म्मं नरकस्य निरूपणम् ।
अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः

3.31.168

इंद्रियाणां निरोधश्च दानं च हरिसेवनम् ।
वर्णाश्रमक्रियाणां च पालनं विधितः सदा

3.31.169

स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत् ।
यथाशक्ति तथा दद्यादात्मनो हितकाम्यया

3.31.170

उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम् ।
अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक

3.31.171

इहलोके परे चैव न दत्तं नोपतिष्ठते ।
दातारो नैव पश्यंति तां तां वै यमयातनाम्

3.31.172

दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनः ।
किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम्

3.31.173

आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा

3.31.174

तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः ।
इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि

3.31.175

विकुंडल उवाच-
श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे ।
गंगोदं पापहं सद्यः पापहारि सतां वचः

3.31.176

उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् ।
शीतांशुः क्रियते केन शीतलोऽमृतमंडलः

3.31.177

देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः ।
नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम्

3.31.178

इति तस्य वचः श्रुत्वा देवदूतो जगाद ह ।
ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः

3.31.179

यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् ।
तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि

3.31.180

विकुंडल उवाच-
किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् ।
तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम्

3.31.181

देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् ।
पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः

3.31.182

तपोऽध्ययन संपन्नस्तेजसां ब्रह्मणा समः ।
जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव

3.31.183

ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमः ।
अग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे

3.31.184

निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः ।
एते गृहविरक्ताश्च चत्वारो द्विजसूनवः

3.31.185

चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः ।
ग्रामैकवासिनः सर्वे निःसंगा निष्परिग्रहाः

3.31.186

निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकांचनाः ।
येनकेनचिदाच्छन्ना येनकेनचिदाशिताः

3.31.187

सायंग्रहास्तथा नित्यं विष्णुध्यानपरायणाः ।
जितनिद्रा जिताहारा वातशीतसहिष्णवः

3.31.188

पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम् ।
चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः

3.31.189

न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनः ।
दृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः

3.31.190

एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि ।
तिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः

3.31.191

गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः ।
वैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे

3.31.192

सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम् ।
दंडवत्प्रणिपातेन बहुमानपुरःसरम्

3.31.193

प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् ।
तदाभिनन्दिताः सर्वे तया सूनृतया गिरा

3.31.194

अद्य मे सफलं जन्म जीवितं सफलं तथा ।
अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः

3.31.195

धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनः ।
ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम्

3.31.196

यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया ।
भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव

3.31.197

एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा ।
धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा

3.31.198

यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम् ।
गंधपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम्

3.31.199

संपूज्य सुंदरान्नेन भोजिता यतयस्तथा ।
तृप्ताः परमहंसास्ते विश्रांता मंदिरे निशि

3.31.200

ध्यायंतश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् ।
तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर

3.31.201

न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलु ।
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः

3.31.202

मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयः ।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः

3.31.203

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ।
अतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये

3.31.204

तत्संगतिर्विशांश्रेष्ठ महापातकनाशिनी ।
विश्रांता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः

3.31.205

आजन्मसंचितं पापं नाशयंतीक्षणेन वै ।
संचितं यद्गृहस्थस्य पापमामरणांतिकम्

3.31.206

विनिर्दहति तत्सर्वमेकरात्रोषितो यतिः ।
स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते

3.31.207

इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् ।
हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः

3.31.208

देवैस्तु पुष्पवर्षेण पूजितौ च दिवंगतौ ।
ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः

3.31.209

अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य ।
स्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम

3.31.210

इतिहासमिमं राजन्यः पठेच्छृणुयादपि ।
स गोसहस्रदानस्य विशोको लभते फलम्

3.31.31

इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकत्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc