भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.20

3.20.1

नारद उवाच-
ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति

3.20.2

अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन ।
तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत्

3.20.3

विलयं यांति सर्वाणि रूपवान्जायते नरः ।
गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते

3.20.4

ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्

3.20.5

ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति

3.20.6

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम् ।
सघृतं श्रीफलं दत्वा कृत्वा चांते प्रदक्षिणम्

3.20.7

घंटाभरणसंयुक्तां कपिलां यः प्रयच्छति ।
शिवतुल्यो नरो भूत्वा न चेह जायते पुनः

3.20.8

अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम्

3.20.9

अंगारकनवम्यां तु अमावस्यां तथैव च ।
स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत्

3.20.10

घृतेन स्नापयेल्लिंगं पूजयेद्भक्तितो द्विजान् ।
पुष्पकेण विमानेन सहस्रैः परिवारितः

3.20.11

शैवं पदमवाप्नोति नात्र चाभिगतं भवेत् ।
अक्षयं मोदते कालं यथा रुद्रस्तथैव च

3.20.12

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः ।
राजा भवति धर्मिष्ठो रूपवान्जायते बली

3.20.13

ततो गच्छेत राजेंद्र ऋषितीर्थमनुत्तमम् ।
तृणबिंदुऋषिर्नाम शापदग्धो व्यवस्थितः

3.20.14

तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः ।
ततो गच्छेत राजेंद्र गणेश्वरमनुत्तमम्

3.20.15

श्रावणेमासि संप्राप्ते कृष्णपक्षे चतुर्दशीम् ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते

3.20.16

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ।
गणेश्वरसमीपे तु गंगावदनमुत्तमम्

3.20.17

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः

3.20.18

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्

3.20.19

प्रयागे यत्फलं दृष्टं शंकरेण महात्मना ।
तदेव निखिलं पुण्यं गंगाराह्वर्कसंगमे

3.20.20

तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः ।
दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम्

3.20.21

उपोष्य रजनीमेकां मासि भाद्रपदे तथा ।
अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शंकरः

3.20.22

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत्

3.20.23

दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः ।
दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत

3.20.24

वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।
आश्चर्यं च महज्जातमुमायाः शंकरस्य च

3.20.25

गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः ।
देवो वा दानवो वाथ कथयस्व महेश्वर

3.20.26

ईश्वर उवाच-।
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ।
ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये

3.20.27

तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत ।
धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि ।
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा

3.20.28

देव उवाच-।
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः ।
दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम्

3.20.29

स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ।
स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः

3.20.30

प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो ।
वल्मीकैश्छादितो विप्र एनं भूमौ निपातय

3.20.31

योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः ।
तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम्

3.20.32

एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष ।
अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष

3.20.33

धर्षितस्तु तदा विप्रो ह्यंतरिक्षं गतं वृषम् ।
आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम्

3.20.34

ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ।
तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि

3.20.35

प्रणम्य दंडवद्भूमौ स्तुवते परमेश्वरम् ।
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम् ।
भवभीतो भुवनपते भूतं विज्ञापये किंचित्

3.20.36

त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ ।
वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य

3.20.37

भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य ।
वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य

3.20.38

सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव ।
त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित्

3.20.39

यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात् ।
त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन

3.20.40

उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा ।
चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम्

3.20.41

शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव ।
भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ

3.20.42

परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् ।
परवदनवीक्षणपरं परमेश्वर मां परित्राहि

3.20.43

अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव ।
क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश

3.20.44

दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा ।
तुच्छा तथापि शंकर किं मूढं मां विडंबयसि

3.20.45

तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम् ।
छिंधि मदमोहपाशानुत्तारय मां महादेव

3.20.46

करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम् ।
यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः

3.20.47

ईश्वर उवाच-।
अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम् ।
उमया सहितो देवो वरं तस्य हि दापयेत्

3.20.48

भृगुरुवाच-।
यदि तुष्टोसि देवेश यदि देयो वरो मम ।
रुद्रवेदी भवेदेवमेतत्संपादयस्व मे

3.20.49

ईश्वर उवाच-।
एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति ।
न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति

3.20.50

तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।
उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः

3.20.51

दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते ।
अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः

3.20.52

गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत् ।
एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम्

3.20.53

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
औपानहं तदा छत्रं देयमन्नं च कांचनम्

3.20.54

भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् ।
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया

3.20.55

तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत् ।
चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम्

3.20.56

न जानंति नरा मूढा विष्णुमायाविमोहिताः ।
नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप

3.20.57

भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत् ।
विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति

3.20.58

ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्नुपवासपरायणः

3.20.59

कांचनेन विमानेन ब्रह्मलोके महीयते ।
धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु

3.20.60

नर्मदायां स्थितं राजन्सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति

3.20.61

तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत्

3.20.62

वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः ।
कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत्

3.20.63

ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् ।
प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम्

3.20.64

तत्फलं लभते राजन्स्नातमात्रस्तु मानवः ।
मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम्

3.20.65

उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् ।
यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति

3.20.66

ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।
हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम्

3.20.67

तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत् ।
ततो गच्छेत राजेंद्र तीर्थं कनखलं महत्

3.20.68

गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ।
विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति

3.20.69

क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति ।
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते

3.20.70

ततो गच्छेत राजेंद्र ईशतीर्थमनुत्तमम् ।
ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः

3.20.71

ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।
वाराहं रूपमास्थाय अचिंत्यः परमेश्वरः

3.20.72

वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः ।
विष्णुलोकमवाप्नोति नरकं तु न गच्छति

3.20.73

ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम् ।
पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत्

3.20.74

प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति ।
हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते

3.20.75

चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने ।
नर्मदातोयवेगेन रुरुकच्छोपसेवितम्

3.20.76

तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत् ।
द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम्

3.20.77

ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे ।
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात्

3.20.78

देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम् ।
तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते

3.20.79

ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम् ।
तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत्

3.20.80

अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत् ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता

3.20.81

भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता ।
अकामो वा सकामो वा तत्र स्नायीत मानवः

3.20.82

अश्वमेधमवाप्नोति दैवतैः सह मोदते ।
तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः ।
अवतारः कृतस्तेन शंकरेण महात्मना

3.20.20

इति श्रीपाद्मे महापुराणे स्वर्गखंडे विंशतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc