भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.19

3.19.1

नारद उवाच-
भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना ।
हुंकारितास्तु देवेन दानवाः प्रलयं गताः

3.19.2

तत्र स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते ।
शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पांडुनंदन

3.19.3

हिमवच्छिखरे रम्ये नानाधातुविचित्रिते ।
तरुणादित्यसंकाशे तप्तकांचनसंनिभे

3.19.4

वज्रस्फटिकसोपाने चित्रपट्टशिलातले ।
जांबूनदमये दिव्ये नाना पद्मोपशोभिते

3.19.5

तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ।
लोकानुग्राहकं शांतं गणवृंदैः समावृतम्

3.19.6

स्कंदनंदिमहाकालैर्वीरभद्र गणादिभिः ।
उमया सहितं देवं मार्कंडः परिपृच्छति

3.19.7

देवदेव महादेव इन्द्र कामादि संस्तुत ।
संसारभवभीतोहं सुखोपायं ब्रवीहि मे

3.19.8

भगवन्भूतभव्येश सर्वपापप्रणाशनम् ।
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर

3.19.9

ईश्वर उवाच-
शृणुविप्र महाभाग सर्वशास्त्रविशारद ।
स्नानादि कुरु गच्छ त्वं ऋषिसंघैस्समावृतः

3.19.10

मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अंगिराः ।
यमापस्तंब संवर्ताः कात्यायनबृहस्पती

3.19.11

नारदो गौतमश्चैव पृच्छंति धर्मकांक्षिणः ।
गंगाकनखले पुण्या प्रयागं पुष्करं गया

3.19.12

कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे ।
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम्

3.19.13

दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत्

3.19.14

शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम् ।
चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः

3.19.15

एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम् ।
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम्

3.19.16

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह

3.19.17

वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी ।
कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम्

3.19.18

देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः

3.19.19

गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः ।
शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः

3.19.20

रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति

3.19.21

स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम ।
शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति

3.19.22

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति

3.19.23

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।
देवदानेन या पुष्टिर्न सा क्रतुशतैरपि

3.19.24

कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम्

3.19.25

एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात् ।
शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम्

3.19.26

तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते ।
स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम्

3.19.27

जागरं कारयेत्तत्र नृत्यगीतादिमंगलैः ।
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम्

3.19.28

आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः ।
भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत्

3.19.29

प्रदक्षिणं ततः कृत्वा शनैर्देवांतिकं व्रजेत् ।
एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु

3.19.30

दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः ।
शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम्

3.19.31

शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ।
घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत्

3.19.32

एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ।
मोदते देवलोकस्था यावदिंद्राश्चतुर्दश

3.19.33

अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा ।
स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः

3.19.34

दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ ।
शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम्

3.19.35

अनाथं दुर्गतं विप्रं नाथवंतमथापि वा ।
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु

3.19.36

यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि शिवलोके महीयते

3.19.19

इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनविंशोध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc