भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.17

3.17.1

नारद उवाच-
उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम् ।
पत्रेश्वरेति विख्यातं सर्वपापहरं परम्

3.17.2

तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते ।
पंचवर्षसहस्राणि क्रीडते कामरूपधृक्

3.17.3

गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः ।
इंद्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावतः

3.17.4

मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् ।
मेघनादो गणस्तत्र वरसंपन्नतां गतः

3.17.5

ततो गच्छेत राजेंद्र ब्रह्मावर्तमिति स्मृतम् ।
तत्र संनिहितो ब्रह्मा नित्यमेव युधिष्ठिर

3.17.6

तत्र स्नात्वा तु राजेंद्र ब्रह्मलोके महीयते ।
ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः

3.17.7

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम्

3.17.8

तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् ।
कांचीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम्

3.17.9

तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात् ।
ततो गच्छेत्तु राजेंद्र कुंडलेश्वरमुत्तमम्

3.17.10

तत्र संनिहितो रुद्रस्तिष्ठते उमया सह ।
तत्र स्नात्वा तु राजेंद्र अवध्यस्त्रिदशैरपि

3.17.11

पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् ।
तत्र गत्वा तु राजेंद्र रुद्रलोके महीयते

3.17.12

ततो गच्छेत्तु राजेंद्र विमलं विमलेश्वरम् ।
तत्र देवशिखा रम्या ईश्वरेण निपातिता

3.17.13

तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम् ।
ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत्

3.17.14

स्नानमात्रे नरस्तत्र इंद्रस्यार्द्धासनं लभेत् ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता

3.17.15

तारयेत्सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवातिदेवेन ईश्वरेण महात्मना

3.17.16

कथिता ऋषिसंघेभ्यो ह्यस्माकं च विशेषतः ।
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी

3.17.17

रुद्रदेहाद्विनिष्क्रांता लोकानां हितकाम्यया ।
सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता

3.17.18

संस्तुता देवगंधर्वैरप्सरोभिस्तथैव च ।
नमः पुण्यजले आद्ये नमः सागरगामिनि

3.17.19

नमोस्तु ते ऋषिगणैः शंकरदेहनिःसृते ।
नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवंदिते

3.17.20

नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते ।
यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः

3.17.21

ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ।
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम्

3.17.22

अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ।
नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी

3.17.17

इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तदशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc