भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.12

3.12.1

वसिष्ठ उवाच-
प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत् ।
जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम्

3.12.2

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।
तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः

3.12.3

न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ।
जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम्

3.12.4

न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ।
अगस्त्याश्रममासाद्य पितृदेवार्चने रतः

3.12.5

त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ।
शाकवृत्तिः फलैर्वापि कौमारं विंदते परम्

3.12.6

कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् ।
धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ

3.12.7

यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ।
अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः

3.12.8

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत्

3.12.9

हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै ।
महाकालमतो गच्छेन्नियतो नियताशनः

3.12.10

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।
ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः

3.12.11

नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ।
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्

3.12.12

महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ।
समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम

3.12.13

नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्

3.12.12

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वादशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc