भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.93

2.93.1

।
कुंजल उवाच-
किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम् ।
आश्चर्येण समायुक्तं तन्मे कथय सुव्रत

2.93.2

इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी ।
यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम

2.93.3

विज्वल उवाच-
अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम् ।
दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा

2.93.4

देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम् ।
अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः

2.93.5

वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा ।
आनंदकाननं पुण्यं दिव्यभावैः प्रभासते

2.93.6

विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः ।
गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम्

2.93.7

षट्पदानां निनादेन सर्वत्र मधुरायते ।
चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम्

2.93.8

नानावृक्षैः प्रभात्येवमानंदवनमुत्तमम् ।
नानापक्षिनिनादेन बहुकोलाहलान्वितम्

2.93.9

एवमानंदनं दृष्टं मया तत्र सुशोभनम् ।
विमलं च सरस्तात शोभते सागरोपमम्

2.93.10

संपूर्णं पुण्यतोयेन पद्मसौगंधिकैः शुभैः ।
जलजैस्तु समाकीर्णं हंसकारंडवान्वितम्

2.93.11

एवमासीत्सरस्तस्य सुमध्ये काननस्य हि ।
देवगंधर्वसंबाधैर्मुनिवृंदैरलंकृतम्

2.93.12

किंनरोरगगंधर्वैश्चारणैश्च सुशोभते ।
तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते

2.93.13

विमानेनापि दिव्येन कलशैरुपशोभते ।
छत्रदंडपताकाभीराजमानेन सत्तम

2.93.14

सर्वभोगाविलेनापि गीयमानेथ किन्नरैः ।
गंधर्वैरप्सरोभिश्च शोभमानोथ सुव्रत

2.93.15

स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः ।
रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित्

2.93.16

सर्वाभरणशोभांगो दिव्यमालाविशोभितः ।
महारत्नकृतामाला यस्योरसि विराजते

2.93.17

तत्समीपे स्थिता चैका नारी दृष्टा वरानना ।
हेमहारैश्च मुक्तानां वलयैः कंकणैर्युता

2.93.18

दिव्यवस्त्रैश्च गंधैश्च चंदनैश्चारुलेपनैः ।
स्तूयमानो गीयमानः पुरुषस्तत्र चागतः

2.93.19

रतिरूपा वरारोहा पीनश्रोणिपयोधरा ।
सर्वाभरणशोभांगी तादृशी रूपसंपदा

2.93.20

द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ ।
रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ

2.93.21

समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके ।
स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ

2.93.22

प्रगृह्य तौ महाशस्त्रौ दंपती तु परस्परम् ।
तादृशौ च शवौ तत्र पतितौ सरसस्तटे

2.93.23

प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ ।
रूपेणापि महाभाग तादृशावेव तौ शवौ

2.93.24

देवरूपोपमस्तात यथा पुंसस्तथा शवः ।
यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते

2.93.25

यथारूपं तु भार्यायास्तथा शवो द्वितीयकः ।
स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः

2.93.26

भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु ।
पुरुषो भक्षते तद्वच्छवमांसं समातुरः

2.93.27

क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः ।
यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम्

2.93.28

सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः ।
कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः

2.93.29

अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै ।
रूपसौभाग्यसंपन्ने ते स्त्रियौ चारुलक्षणे

2.93.30

ताभ्यां प्रभक्षितं मांसं यदा तात महावने ।
प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः

2.93.31

भक्षते च स्वमांसानि तावेतौ परिनित्यशः ।
कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि

2.93.32

अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते ।
दंष्ट्राकरालवदने तत्रैवाति विभीषणे

2.93.33

ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः ।
एवं दृष्टं मया तात वसता वनसंनिधौ

2.93.34

नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च ।
जायेते च सुसंपूर्णौ कायौ च शवयोः पुनः

2.93.35

नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः ।
कुर्वंति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः

2.93.36

एतदाश्चर्य संजातं दृष्टं तात मया तदा ।
भवता पृच्छितं तात दृष्टमाश्चर्यमेव च

2.93.37

मया ख्यातं तवाग्रे वै सर्वसंदेहकारणम् ।
कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा

2.93.38

विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम ।
दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः

2.93.39

का च नारी महाभाग महामांसं प्रभक्षति ।
स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति

2.93.40

प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः ।
ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः

2.93.41

तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ ।
एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत

2.93.42

एवमुक्त्वा महाराज विरराम स चांडजः ।
एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः

2.93.43

प्रोवाच सर्वं वृत्तांतं च्यवनस्यापि शृण्वतः

2.93.93

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc