भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.82

2.82.1

सुकर्मोवाच-
एवं चिंतयते यावद्राजा परमधार्मिकः ।
तावत्प्रोवाच सा देवी रतिपुत्री वरानना

2.82.2

किमु चिंतयसे राजंस्त्वमिहैव महामते ।
प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः

2.82.3

नाहं चापल्यभावेन त्वामेवं प्रविचालये ।
नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम

2.82.4

अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति च ।
अकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः

2.82.5

लोकानां दर्शनायैव जाता श्रद्धा ममोरसि ।
देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः

2.82.6

तेषां च दर्शनं राजन्कारयामि वदस्व मे ।
दोषं पापकरं यत्तु मत्संगादिह चेद्भवेत्

2.82.7

एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनः ।
महाभयाद्यथाभीतो मोहगर्ते गतो यथा

2.82.8

त्यज चिंतां महाराज न गंतव्यं त्वया दिवि ।
येन ते जायते दुःखं तन्न कार्यं मया कदा

2.82.9

एवमुक्तस्तथा राजा तामुवाच वराननाम् ।
चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम्

2.82.10

मानभंगो मया दृष्टो नैव स्वस्य मनःप्रिये ।
मयि स्वर्गं गते कांते प्रजा दीना भविष्यति

2.82.11

त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः ।
त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने

2.82.12

एवमाभाष्य तां राजा समाहूय सुतोत्तमम् ।
पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम्

2.82.13

एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम् ।
ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया

2.82.14

जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः ।
राज्यं कुरु ममेदं त्वं सकोशबलवाहनम्

2.82.15

आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम् ।
मया दत्तां महाभाग सग्रामवनपत्तनाम्

2.82.16

प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ ।
दुष्टानां शासनं नित्यं साधूनां परिपालनम्

2.82.17

कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः ।
ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा

2.82.18

भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये ।
पंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः

2.82.19

बलं च नित्यं संपूज्यं प्रसादधनभोजनैः ।
चारचक्षुर्भवस्व त्वं नित्यं दानपरो भव

2.82.20

भव स्वनियतो मंत्रे सदा गोप्यः सुपंडितैः ।
नियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत

2.82.21

विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबले ।
पात्राणां त्वं तु सर्वेषां कलानां कुरु संग्रहम्

2.82.22

यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदा ।
प्रजानां कंटकान्सर्वान्मर्दयस्व दिने दिने

2.82.23

प्रजानां वांछितं सर्वमर्पयस्व दिने दिने ।
प्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक

2.82.24

स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाः ।
मतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा

2.82.25

वेदानां हि सदा चिंता शास्त्राणां हि च सर्वदा ।
कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव

2.82.26

संतुष्टः सर्वदा वत्स स्वशय्या निरतो भव ।
गजस्य वाजिनोभ्यासं स्यंदनस्य च सर्वदा

2.82.27

एवमादिश्य तं पुत्रमाशीर्भिरभिनंद्य च ।
स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम्

2.82.28

स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य च ।
गंतुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः

2.82.82

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc