भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.77

2.77.1

सुकर्मोवाच-
कामस्य गीतलास्येन हास्येन ललितेन च ।
मोहितो राजराजेंद्रो नटरूपेण पिप्पल

2.77.2

कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः ।
अकृत्वा पादयोः शौचमासने उपविष्टवान्

2.77.3

तदंतरं तु संप्राप्य संचचार जरा नृपम् ।
कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम्

2.77.4

निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः ।
जराभिभूतो धर्मात्मा कामसंसक्तमानसः

2.77.5

मोहितः काममोहेन विह्वलो विकलेंद्रियः ।
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः

2.77.6

एकदा तु गतो राजा मृगया व्यसनातुरः ।
वने च क्रीडते सोपि मोहरागवशं गतः

2.77.7

सरसं क्रीडमानस्य नृपतेश्च महात्मनः ।
मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः

2.77.8

सर्वांगसुंदरो राजन्हेमरूपतनूरुहः ।
रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः

2.77.9

अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः ।
इत्यमन्यत मेधावी कोपि दैत्यः समागतः

2.77.10

मृगेण च स तेनापि दूरमाकर्षितो नृपः ।
गतः सरथवेगेन श्रमेण परिखेदितः

2.77.11

वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत ।
स पश्यति वनं तत्र नंदंनोपममद्भुतम्

2.77.12

चारुवृक्षसमाकीर्णं भूतपंचकशोभितम् ।
गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः

2.77.13

बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः ।
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः

2.77.14

पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः ।
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः

2.77.15

वीक्षमाणो महाराज ददर्श सर उत्तमम् ।
पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम्

2.77.16

हंसकारंडवाकीर्णं जलपक्षिविनादितम् ।
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम्

2.77.17

रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम् ।
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम्

2.77.18

मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम् ।
एवं सर्वगुणोपेतं ददर्श सर उत्तमम्

2.77.19

पंचयोजनविस्तीर्णं दशयोजनदीर्घकम् ।
तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम्

2.77.20

रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः ।
निषसाद तटे तस्य चूतच्छायां सुशीतलाम्

2.77.21

स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम् ।
सर्वश्रमोपशमनममृतोपममेव तत्

2.77.22

वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता ।
गीतध्वनिः समाकर्णि गीयमानो यथा तथा

2.77.23

यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः ।
गीतप्रियो महाराज एव चिंतां परां गतः

2.77.24

चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम् ।
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा

2.77.25

नृपतेः पश्यतस्तस्य वने तस्मिन्समागता ।
सर्वाभरणशोभांगी शीललक्षणसंपदा

2.77.26

तस्मिन्वने समायाता नृपतेः पुरतः स्थिता ।
तामुवाच महाराजः का हि कस्य भविष्यसि

2.77.27

किमर्थं हि समायाता तन्मे त्वं कारणं वद ।
पृष्टा सती तदा तेन न किंचिदपि पिप्पल

2.77.28

शुभाशुभं च भूपालं प्रत्यवोचद्वरानना ।
प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला

2.77.29

विस्मयेनापि राजेंद्रो महता व्यापितस्तदा ।
मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम्

2.77.30

पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः ।
यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः

2.77.31

तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे ।
मायारूपमिदं सत्यं दानवानां भविष्यति

2.77.32

चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः ।
यावच्चिंतयते राजा तावन्नारी महावने

2.77.33

अंतर्धानं गता विप्र प्रहस्य नृपनंदनम् ।
एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत्

2.77.34

शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम् ।
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान्

2.77.35

जलांते पुष्करं चैव सहस्रदलमुत्तमम् ।
तस्योपरि वरा नारी शीलरूपगुणान्विता

2.77.36

दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता ।
दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला

2.77.37

गायंती सुस्वरं गीतं तालमानलयान्वितम् ।
तेन गीतप्रभावेण मोहयंती चराचरान्

2.77.38

देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान् ।
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम्

2.77.39

संसारे नास्ति चैवान्या नारीदृशी चराचरे ।
पुरा नटो जरायुक्तो नृपतेः कायमेव हि

2.77.40

संचारितो महाकामस्तदासौ प्रकटोभवत् ।
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते

2.77.41

तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत् ।
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम्

2.77.42

ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी ।
चिंतयित्वा क्षणं राजा कामसंसक्तमानसः

2.77.43

तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा ।
कामाग्निना दह्यमानः कामज्वरेणपीडितः

2.77.44

कथं स्यान्मम चैवेयं कथं भावो भविष्यति ।
यदा मां गूहते बाला पद्मास्या पद्मलोचना

2.77.45

यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत् ।
एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः

2.77.46

तामुवाच वरारोहां का त्वं कस्यापि वा शुभे ।
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च

2.77.47

तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा ।
सर्वं कथय कल्याणि अहं हि नहुषात्मजः

2.77.48

सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे ।
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये

2.77.49

तव संगमने चेतो भावमेवं प्रवांछते ।
देहि मे संगमं भद्रे कुरु सुप्रियमेव हि

2.77.50

यं यं हि वांछसे भद्रे तद्ददामि न संशयः ।
दुर्जयेनापि कामेन हतोहं वरवर्णिनि

2.77.51

तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव ।
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः

2.77.52

संगमे तव दास्यामि त्रैलोक्यमिदमेव ते ।
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना

2.77.53

विशालां स्वसखीं प्राह ब्रूहि राजानमागतम् ।
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे

2.77.54

ममापि भावमेकाग्रमस्याग्रे च निवेदय ।
तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा

2.77.55

उवाच मधुरालापैः श्रूयतां नृपनंदन ।
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शंभुना

2.77.56

रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम् ।
अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा

2.77.57

तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम् ।
समाकर्ण्य ततो देवाः कृपया परयान्विताः

2.77.58

संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन् ।
जीवयस्व महादेव पुनरेव मनोभवम्

2.77.59

वराकीयं महाभाग भर्तृहीना हि कीदृशी ।
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि

2.77.60

तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम् ।
कायेनापि विहीनोयं पंचबाणो मनोभवः

2.77.61

भविष्यति न संदेहो माधवस्य सखा पुनः ।
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा

2.77.62

महादेवप्रसादाच्च मीनकेतुः स जीवितः ।
आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम

2.77.63

गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः ।
एवमाह महातेजाः स्थितिसंहारकारकः

2.77.64

पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः ।
इदं कामसरो राजन्रतिरत्र सुसंस्थिता

2.77.65

दग्धे सति महाभागे मन्मथे दुःखधर्षिता ।
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः

2.77.66

अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता ।
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम

2.77.67

नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः ।
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः

2.77.68

जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम ।
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः

2.77.69

दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा ।
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी

2.77.70

शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः ।
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च

2.77.71

तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः ।
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः

2.77.72

मूर्तिमंतो महाराज सद्भावगुणसंयुताः ।
काम एष समायातः केनाप्युक्तं तदा नृप

2.77.73

महानंदेन संयुक्ता दृष्ट्वा कामं समागतम् ।
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः

2.77.74

अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः ।
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम

2.77.75

तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम ।
जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके

2.77.76

लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप ।
रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः

2.77.77

जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम् ।
तस्मात्सुपंकजाज्जाता इयं नारी वरानना

2.77.78

अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम ।
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा

2.77.79

सखीभावस्वभावेन संहृष्टा सर्वदा शुभा ।
विशाला नाम मे ख्यातं वरुणस्य सुता नृप

2.77.80

अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा ।
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते

2.77.81

तपश्चचार राजेंद्र पतिकामा वरानना ।
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु

2.77.82

मामेवं हि भजत्वेषा रतिपुत्री वरानना ।
यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम्

2.77.83

तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत् ।
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते

2.77.84

पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम् ।
देवराजसमं राजन्धर्माचारसमन्वितम्

2.77.85

तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम् ।
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम्

2.77.86

लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम् ।
सर्वैश्वर्यसमोपेतं नारायणमिवापरम्

2.77.87

देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम् ।
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम्

2.77.88

एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम् ।
सुमतिं सुप्रियं कांतं मनसा वरमीप्सति

2.77.89

ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम् ।
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः

2.77.90

विशालोवाच-
भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये ।
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि

2.77.91

एकेनापि च दोषेण त्वामेषा हि न मन्यते ।
एष मे संशयो जातो भवान्विष्णुमयो नृप

2.77.92

ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते ।
तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव

2.77.93

विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते ।
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते

2.77.94

एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः ।
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः

2.77.95

जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा ।
समुद्भूतं ममांगे वै तं न जाने जरागमम्

2.77.96

यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे ।
तमस्यै दातुकामोहं व्रियतां वर उत्तमः

2.77.97

विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् ।
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम्

2.77.98

श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके ।
जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत्

2.77.99

तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः ।
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः

2.77.100

यथात्मदानपुण्यस्य कृपया यो ददाति च ।
फलं राजन्हि तत्तस्य जायते नात्र संशयः

2.77.101

दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते ।
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते

2.77.102

पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च ।
प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते

2.77.103

यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते ।
एवमाभाष्य सा भूपं विशाला विरराम ह

2.77.104

सुकर्मोवाच-
एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा ।
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव

2.77.105

कामासक्तः समूढस्तु ययातिः पृथिवीपतिः ।
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह

2.77.106

तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम् ।
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात्

2.77.107

पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् ।
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः

2.77.108

एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः ।
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः

2.77.77

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे सप्तसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc