भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.6

2.6.1

सूत उवाच-
कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी ।
पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम्

2.6.2

रोदमाना प्रणम्यैव पादपद्मयुगं तदा ।
दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत्

2.6.3

दितिरुवाच-
तवैव हि महाभागे किमिदं रोदकारणम् ।
पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै

2.6.4

भवती शतपुत्राणां गुणिनामपि भामिनि ।
माता त्वमसि कल्याणि शुंभादीनां महात्मनाम्

2.6.5

कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद ।
हिरण्यकशिपू राजा हिरण्याक्षो महाबलः

2.6.6

यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ ।
कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद

2.6.7

आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम् ।
एवमाभाष्य तां देवीं विरराम मनस्विनी

2.6.8

दनुरुवाच-
पश्य पश्य महाभागे सपत्न्याश्च मनोरथम् ।
परिपूर्णं कृतं तेन देवदेवेन चक्रिणा

2.6.9

यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना ।
तथेदानीं च पुत्राय तस्या दत्तो वरो महान्

2.6.10

कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः ।
इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च

2.6.11

मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी ।
कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति

2.6.12

ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च ।
दितिरुवाच-
कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः

2.6.13

अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे ।
तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि

2.6.14

तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता ।
दनुरुवाच-
देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः

2.6.15

तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् ।
देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः

2.6.16

तथैव तव पुत्रास्ते देवदेवेन चक्रिणा ।
वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा

2.6.17

तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना ।
कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः

2.6.18

नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् ।
स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने

2.6.19

तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः ।
मम पुत्रा मृता देवि बहुशस्तव नंदनाः

2.6.20

वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् ।
तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः

2.6.21

एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् ।
दितिरुवाच-
वज्रपातोपमं भद्रे वदस्येवं कथं मम

2.6.22

एवमाभाष्य तां देवी मूर्च्छिता निपपात ह ।
हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम्

2.6.23

रुरोद करुणं साथ पुत्रशोकसुपीडिता ।
तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम्

2.6.24

मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः ।
सत्ववंतो महाभागे लोभमोहेन वर्जिताः

2.6.25

कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः ।
नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये

2.6.26

दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः ।
भवतीनामहं भर्ता कामनापूरकः शुभे

2.6.27

योजकः पालकश्चैव रक्षकोस्मि वरानने ।
कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः

2.6.28

तव पुत्रा महाभागे सत्यधर्मविवर्जिताः ।
तेन दोषेण ते सर्वे तव दोषेण वै शुभे

2.6.29

निहता वासुदेवेन दैवतैस्तु निपातिताः ।
तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः

2.6.30

शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति ।
तस्माच्छोकं परित्यज विघ्नरूपं वरानने

2.6.31

आत्मदोषप्रभावेण दानवा मरणं गताः ।
देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा

2.6.32

एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति ।
एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम्

2.6.33

विषादाच्च निवृत्तोसौ विरराम महामतिः

2.6.6

इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc