पद्म पुराण · अध्याय 2.45
पंचचत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे ।
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः
चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरी ।
कुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे
भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितः ।
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम्
यदा जीवंति मे बालाश्चत्वारो वंशधारकाः ।
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् ।
इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम्
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम्
तानुवाच महाराज पुत्रान्प्रति सुमोहितान् ।
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् ।
संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम्
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून् ।
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम्
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः ।
नरकं च प्रयात्येव कृमिकोटिसमाकुलम्
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत ।
संयास्यामि महापापा त्रयो गच्छंतु मे सुताः
कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम् ।
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम्
तेजसा सुबलेनापि गर्जंतौ च पुनःपुनः ।
अथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप ।
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः ।
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः ।
दंष्ट्रया निहताः केचित्केचित्तुंडेन घातिताः
संजघान खुराग्रैश्च शूराश्च पतिता रणे ।
युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः ।
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान्
निशितेनापि बाणेन अर्द्धचंद्रानुकारिणा ।
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना
ममार सहसा भूमौ पपात स हि शूकरः ।
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम्
तया च निहताः शूरास्तुंडघातैर्महीतले ।
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप
द्रावयंती महत्सैन्यं दंष्ट्रया सूकरी ततः ।
यथा कृत्या समुद्भूता महाभयविधायिका
तमुवाच ततो राज्ञी देवराजसुतोपमम् ।
अनया निहतं राजन्महत्सैन्यं तवैव हि
कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वद ।
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम्
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल ।
तस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरि ।
एवमुक्त्वा तदा राजा विरराम महीपतिः
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम् ।
कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि
आविव्याध सुवेगेन बाणेन निशितेन हि ।
संलग्नेन तु बाणेन शोणितेन परिप्लुता
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला ।
तुंडेनापि हतः संख्ये झार्झरः स तया पुनः
पतमानेन तेनापि झार्झरेण तदा हता ।
खड्गेन निशितेनापि पपात विदलीकृता
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता ।
दुःखेन महताविष्टा जीवमाना महीतले
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0