भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.44

2.44.1

चतुश्चत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम् ।
चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति

2.44.2

धनुरादाय वेगेन बाणं कालानलोपमम् ।
तस्याभिमुखमेवासौ हयेनाभिससार सः

2.44.3

स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम् ।
परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले

2.44.4

निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः ।
तमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः

2.44.5

व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः ।
तुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः

2.44.6

स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः ।
गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः

2.44.7

परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम्

2.44.8

कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः ।
पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः

2.44.9

तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्च ।
सकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः

2.44.10

विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन् ।
दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा

2.44.11

दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः ।
गंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा

2.44.44

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
चतुश्चत्वारिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc