भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.26

2.26.1

सूत उवाच-
तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता ।
पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः

2.26.2

पुनरूचे महात्मानं कश्यपं मुनिपुंगवम् ।
इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम

2.26.3

ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः ।
पुत्रैकं दीयतां कांत सुप्रियाहं यदा विभो

2.26.4

कश्यप उवाच-
निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ ।
अघमाश्रित्य देवेन इंद्रेणापि दुरात्मना

2.26.5

तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् ।
वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि

2.26.6

एवमुक्त्वा स योगींद्रो हस्तं शिरसि वै तदा ।
दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम्

2.26.7

तपस्तताप सा देवी तपोवननिवासिनी ।
शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम

2.26.8

ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च ।
दित्याश्चैव महाभाग अंतरप्रेक्षकोऽभवत्

2.26.9

पंचविंशाब्दिको भूत्वा देवराड्दैवतोपमः ।
ब्राह्मणस्य च रूपेण तस्याश्चांतिकमागतः

2.26.10

स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् ।
तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम

2.26.11

तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने ।
ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि

2.26.12

तपसस्तव साहाय्यं करिष्ये नात्र संशयः ।
शुश्रूषति स तां देवीं मातरं तपसान्विताम्

2.26.13

तमिंद्रं सा न जानाति आगतं दुष्टकारिणम् ।
धर्मपुत्रं विजानाति शुश्रूषंतं दिने दिने

2.26.14

अंगं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः ।
पत्रं मूलं फलं तत्र वल्कलाजिनमेव च

2.26.15

ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि ।
भक्त्या संतोषिता तस्य संतुष्टा तमभाषत

2.26.16

पुत्रे जाते महापुण्ये इंद्रे च निहते सति ।
कुरु राज्यं महाभाग पुत्रेण मम दैवकम्

2.26.17

एवमस्तु महाभागे ते प्रसादाद्भविष्यति ।
तस्याश्चैवांतरं प्रेप्सुरभवत्पाकशासनः

2.26.18

ऊने वर्षशते चास्या ददर्शांतरमच्युतः ।
अकृत्वा पादयोः शौचं दितिः शयनमाविशत्

2.26.19

शय्यांते सा शिरः कृत्वा मुक्तकेशातिविह्वला ।
निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह

2.26.20

वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृंतत ।
वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः

2.26.21

स गर्भस्तत्र विप्रेंद्रा इंद्रहस्तगतेन वै ।
रोदमानं महागर्भं तमुवाच पुनः पुनः

2.26.22

शतक्रतुर्महातेजा मा रोदीरित्यभाषत ।
सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः

2.26.23

एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट् ।
एवं वै मरुतो जातास्ते तु देवा महौजसः

2.26.24

यथा इंद्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः ।
अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः

2.26.25

एकोना वै बभूवुस्ते पंचाशन्मरुतस्ततः ।
मरुतो नाम ते ख्याता इंद्रमेव समाश्रिताः

2.26.26

भूतानामेव सर्वेषां रोचयंति गणं महत् ।
निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः

2.26.27

क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै ।
स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः

2.26.28

तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः ।
पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि

2.26.29

तस्य सर्वमिदं पुण्यं जगत्स्थावरजंगमम् ।
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम

2.26.30

नावृत्तिभयमस्तीह परलोकभयं कुतः ।
इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम्

2.26.31

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ।
स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः

2.26.32

यः शृणोति इमां सृष्टिं स याति परमां गतिम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति

2.26.26

इति श्रीपद्मपुराणे भूमिखंडे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc