पद्म पुराण · अध्याय 2.19
सूत उवाच-
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः ।
कपिलासंगमे पुण्ये रेवातीरे सुपुण्यदे
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन् ।
तपस्तेपे सुशांतात्मा जपन्नारायणं शिवम्
द्वादशाक्षरमंत्रेण ध्यानयुक्तो महामनाः ।
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः
आसने शयने याने स्वप्ने पश्यति केशवम् ।
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः
सा च साध्वी महाभागा पतिव्रतपरायणा ।
सुमना कांतमेवापि शुश्रूषति तपोन्वितम्
ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयम् ।
सर्पा विषोल्बणाः कृष्णास्तत्र यांति महात्मनः
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः ।
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे
वेताला राक्षसा भूताः कूष्मांडाः प्रेतभैरवाः ।
भयं विदर्शयंत्येते दारुणं प्राणनाशनम्
नानाविधा महाभीमाः सिंहास्तत्र समागताः ।
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम्
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः ।
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुंगवः
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः ।
झंझावातैश्च शीतेन महावृष्ट्या सुपीडितः
भंभारावमहाभीमः सिंहस्तत्र समागतः ।
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः
इंद्रनीलप्रतीकाशं पीतवस्त्रं महौजसम् ।
शंखचक्रधरं देवं गदापंकजधारिणम्
महामौक्तिकहारेण इंदुवर्णानुकारिणा ।
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम्
श्रीवत्सांकेन दिव्येन हृदयं यस्य राजते ।
सर्वाभरणशोभांगं शतपत्रनिभेक्षणम्
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम् ।
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम्
त्वमेव शरणं कृष्ण शरणागतवत्सल ।
नमोस्तु देवदेवाय किं मे भयं करिष्यति
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः ।
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि
यस्माद्भयाः प्रवर्तंते कृत्यादिक महाबलाः ।
सर्वभयप्रहर्तारं तमस्मि शरणं गतः
पातकानां तु सर्वेषां दानवानां महाभयम् ।
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः
वृंदारकाणां सर्वेषां दानवानां महात्मनाम् ।
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः
अभयो भयनाशाय पापनाशाय ज्ञानवान् ।
एकश्चेंद्रस्वरूपेण तमस्मि शरणं गतः
व्याधीनां नाशकायैव य औषधस्वरूपवान् ।
निरामयो निरानंदस्तमस्मि शरणंगतः
अचलश्चालयेल्लोकानपापो ज्ञानमेव च ।
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति
साधूनां चापि सर्वेषां पालको यो ह्यनामयः ।
पाति विश्वं च विश्वात्मा तमस्मि शरणंगतः
यो मे मृगेंद्ररूपेण भयं दर्शयतेग्रतः ।
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम्
मदमत्तो महाकायो वनहस्ती समागतः ।
गजलीलागतिं देवं शरणागतवत्सलम्
गजास्यं ज्ञानसंपन्नं सपाशांकुशधारिणम् ।
कालास्यं गजतुंडं च शरणं सुगतोस्म्यहम्
हिरण्याक्षप्रहर्तारं वाराहं शरणंगतः ।
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम्
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्मांडकादयः ।
मृत्युरूपधराः सर्वे दर्शयंति भयं मम
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति ।
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति ।
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति ।
तारकः सर्वलोकानां नाशकः सर्वपापिनाम्
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम् ।
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम्
शरणं तस्य गंतास्मि सदागतिरयं मम ।
झंझावातो महाचंडो वपुर्दूयति मे भृशम्
शरणं तं प्रपन्नोस्मि सदागतिरयं मम ।
अतिशीतं चातिवर्षा आतपस्तापदायकः
एषां रूपेण यो देवस्तस्याहं शरणं गतः ।
कालरूपा अमी प्राप्ता भयदा मम चालकाः
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम् ।
वदंति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम् ।
भक्त्या तेन समानीतस्तदात्महृदये हरिः
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः ।
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान्
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह ।
वासुदेवोस्मि विप्रेंद्र वरं याचय सुव्रत
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम् ।
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम्
सर्वाभरणशोभांगं सर्वायुधसमन्वितम् ।
दिव्यलक्षणसंपन्नं पुंडरीकनिभेक्षणम्
पीतेन वाससा युक्तं राजमानं सुरेश्वरम् ।
वैनतेयसमारूढं शंखचक्रगदाधरम्
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः ।
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम्
हर्षेण महताविष्टो दंडवत्प्रणिपत्य तम् ।
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम्
बद्धांजलिपुटोभूत्वा तया सुमनया सह ।
जयजयेत्युवाचैनं जयमाधवमानद
जय योगीश योगीन्द्र जय नागांगशायन ।
यज्ञांग जय यज्ञेश जय शाश्वतसर्वग
जय सर्वेश्वरानंत यज्ञरूप नमोऽस्तु ते ।
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन ।
जय जीवस्वरूपेश महाजीव नमोस्तुते
जय प्रज्ञादप्रज्ञांग जय प्राणप्रदायक ।
जय पापघ्न पुण्येश जय पुण्यपते हरे
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः ।
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः
जय गोविंदगोपाल जय शंखधरामल ।
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः
जय विक्रमशोभांग जय विक्रमनायक ।
जय लक्ष्मीविलासांग नमो वेदमयाय ते
जय विक्रमशोभांग जय उद्यमदायक ।
जय उद्यमकालाय उद्यमाय नमोनमः
जय उद्यमशक्ताय उद्यमत्रयधारक ।
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः
नमो हिरण्यरेताय तस्मै ते जायते नमः ।
अतितेजःस्वरूपाय सर्वतेजोमयाय च
दैत्यतेजोविनाशाय पापतेजोहराय च ।
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते ।
नमः कव्यवहायैव स्वधारूपाय ते नमः
स्वाहारूपाय यज्ञाय पावनाय नमोनमः ।
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे
सदसच्चोदनायैव नमो विज्ञानशालिने ।
नमो वेदस्वरूपाय पावनाय नमोनमः
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते ।
केशवाय परायैव नमस्ते विश्वधारिणे
नमः कृपाकरायैव नमो हर्षमयाय ते ।
अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने
आनंदाय नमो नित्यं शुद्धाय केवलाय ते ।
रुद्रैर्नमितपादाय विरंचिनमिताय ते
सुरासुरेंद्रनमित पादपद्माय ते नमः ।
नमोनमः परेशाय अजितायामृतात्मने
क्षीरसागरवासाय नमः पद्माप्रियाय ते ।
ॐकाराय च शुद्धाय अचलाय नमोनमः
व्यापिने व्यापकायैव सर्वव्यसनहारिणे ।
नमोनमो वराहाय महाकूर्माय ते नमः
नमो वामनरूपाय नृसिंहाय महात्मने ।
नमो रामाय दिव्याय सर्वक्षत्रवधाय च
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः ।
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने
नमः कपिलविप्राय हयग्रीवाय ते नमः ।
नमो व्यासस्वरूपाय नमः सर्वमयाय ते
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम् ।
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक् ।
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव ।
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत
जन्मजन्मनि लोकेश दयां मे कुरु पावन
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां एंद्रे सुमनोपाख्याने एकोनविंशोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0