भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.17

2.17.1

सोमशर्मोवाच-
सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम् ।
कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम्

2.17.2

वद त्वं मे महाभागे यदि जानासि सुव्रते ।
दानधर्मादिकं भद्रे परत्रेह न संशयः

2.17.3

सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम्

2.17.4

सूत उवाच-
एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः ।
एवं करिष्ये कल्याणि तव वाक्यं न संशयः

2.17.5

एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम्

2.17.6

गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्

2.17.7

राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् ।
भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः

2.17.8

तमुवाच महातेजा ब्रह्मसूनुरकल्मषः ।
उपाविशासने पुण्ये सुखेन सुमहामते

2.17.9

एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम् ।
गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा

2.17.10

क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोसि चांगेषु धर्मं पालयसे सदा

2.17.11

एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम् ।
किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम

2.17.12

एवं संभाषितं विप्रं विरराम स कुंभजः ।
तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे

2.17.13

स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा

2.17.14

यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव ।
मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम

2.17.15

दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे

2.17.16

महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समातुरः

2.17.17

तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भवस्व त्वं ममसंसारबंधनात्

2.17.18

वसिष्ठ उवाच-
पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते

2.17.19

ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम

2.17.20

पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा

2.17.21

शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः

2.17.22

स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः ।
याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः

2.17.23

विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा ।
पितृमातृपरोनित्यं सर्वस्वजनवत्सलः

2.17.24

कुलस्य तारको विद्वान्कुलस्य परिपोषकः ।
एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः

2.17.25

अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः ।
एतादृशेन किं कार्यं फलहीनेन तेन च

2.17.26

आयांति यांति ते सर्वे तापं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम

2.17.27

पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः

2.17.28

वसिष्ठ उवाच-
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः

2.17.29

एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं नैव परिश्रुतम्

2.17.30

दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम् ।
कृता नैव त्वया तीर्थे यात्रा चैव महामते

2.17.31

एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः ।
पशूनां पालनं सर्व गवां चैव द्विजोत्तम

2.17.32

महिषीणां तथाऽश्वानां पालनं च पुनः पुनः ।
एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम

2.17.33

विपुलं च धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा

2.17.34

पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च ।
कृपां कृत्वा न दत्तं तु भवता धनमेव च

2.17.35

गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया ।
विक्रीय च धनं विप्र संचितं विपुलं त्वया

2.17.36

तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि ।
दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया

2.17.37

कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु कदाचन

2.17.38

देवानां पूजनं विप्र भवता न कृतं कदा ।
प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम्

2.17.39

श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया ।
भार्या वदति ते साध्वी दिनमेनं समागतम्

2.17.40

श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते ।
त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे

2.17.41

धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः

2.17.42

पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः

2.17.43

दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा

2.17.44

तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया ।
रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि

2.17.45

दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि ।
सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च

2.17.46

भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रं लक्षं च कोटिरर्बुदमेव च

2.17.47

खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
तव कायं परित्यज्य वृद्धिमायाति सर्वदा

2.17.48

नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते

2.17.49

अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान्

2.17.50

खनित्रमंजनं वादं धातुवादमतः परम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः

2.17.51

स्पर्शंचिंतयसेनित्यंकल्पान्सिद्धिप्रदायकान् ।
प्रवेशं विवराणां तु चिंतमानः सु पृच्छसि

2.17.52

तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि ।
तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः

2.17.53

एवं मुग्धोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया

2.17.54

कथितं नैव वृत्तांतं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वं मया ख्यातं वृत्तांतं तव पूर्वकम्

2.17.55

अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि

2.17.56

सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति

2.17.57

धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
स भुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान्

2.17.58

विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात् ।
सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम्

2.17.17

इति श्रीपद्मपुराणेभूमिखंडेएंद्रे सुमनोपाख्यानेसप्तदशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc