भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.120

2.120.1

कुंजल उवाच-
कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् ।
सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः

2.120.2

कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः ।
कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम्

2.120.3

तया संपूजितो विप्रः सुवाक्यैः स्वागतादिभिः ।
दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः

2.120.4

सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे ।
अनामयं च पप्रच्छ आशीर्भिरभिनंद्य ताम्

2.120.5

कामोदोवाच-।
प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम् ।
कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम्

2.120.6

महामोहः समुत्पन्नो ममांगे मुनिपुंगव ।
व्यापकः सर्वलोकानां ममांगे मतिनाशकः

2.120.7

तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते ।
सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने

2.120.8

केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम ।
अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति

2.120.9

तदा प्रभृति दुःखेन व्यापिताहं महामते ।
तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः

2.120.10

नारद उवाच-
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ।
स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः

2.120.11

न जायते च देवेषु स्वप्नो निद्रा च सुंदरि ।
आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः

2.120.12

सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः ।
अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे

2.120.13

महावातांदोलनैश्च चलंत्यापो वरानने ।
त्रुटंत्यंबुकणाः सूक्ष्मास्तस्मादुदकसंचयात्

2.120.14

बहिरेव पतंत्येते निर्मलांबुकणाः शुभे ।
पुनर्लयं प्रयांत्येते दृश्यादृश्या भवंति वै

2.120.15

तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि ।
आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः

2.120.16

पंचभूतात्मकानां च मुषित्वैव सुनिश्चलः ।
षड्विंशतिसु तत्वानां मध्ये चैष विराजते

2.120.17

शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः ।
तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा

2.120.18

आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते ।
अंतरात्मा शुभं नाम तस्य एव प्रकथ्यते

2.120.19

पयसश्च यथा भिन्ना भवंत्यंबुकणाः शुभे ।
आत्मनस्तु तथा तेज अंतरात्मा प्रकथ्यते

2.120.20

स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि ।
स वै तोयं स दीप्येत एते पंच पुरा कृताः

2.120.21

आत्मनस्तेजसो भूता मलरूपा महात्मनः ।
तस्यापि संगतिं प्राप्ता एकत्वं हि प्रयांति ते

2.120.22

स्वात्मभावप्रदोषेण नाशयंति वरानने ।
तत्पिंडमन्यमिच्छंति वारं वारं वरानने

2.120.23

तेषां क्रीडाविहारोयं सृष्टिसंबंधकारणम् ।
उदकस्य तरंगस्तु जायते च विलीयते

2.120.24

पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः ।
अपां रूपस्य दृष्टांतं तद्वदेषां न संशयः

2.120.25

आत्मा न नश्यते देवि तेजो वायुर्न नश्यति ।
न नश्यतो धराकाशौ न नश्यंत्याप एव च

2.120.26

पंचैव आत्मना सार्द्धं प्रभवंति प्रयांति च ।
आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः

2.120.27

पिंड एव प्रणश्येत तेषां संजात एव च ।
विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः

2.120.28

प्राणाः प्रयांति वै पिंडात्पंचपंचात्मका द्विज ।
पिंडांते वसते आत्मा प्रतिरूपस्तु तस्य च

2.120.29

अंतरात्मा यथा चाग्नेः स्फुलिंगस्तु प्रकाशते ।
तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते

2.120.30

शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः ।
अंतरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः

2.120.31

अन्नाहारेण संपुष्टैरंतरात्मा सुखं व्रजेत् ।
सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति

2.120.32

पश्चात्संजायते निद्रा तामसी लयवर्द्धिनी ।
नाडीमार्गेण यः सूर्यो मेरुमुल्लंघ्य गच्छति

2.120.33

तदा रात्रिः प्रजायेत यावन्नोदयते रविः ।
विषयांधकारैर्मुक्तस्तु अंतरात्मा प्रकाशते

2.120.34

भावैस्तत्त्वात्मकानां तु पंचतत्त्वैः प्रपोषितैः ।
पूर्वजन्मस्थितैः पिंडैरंतरात्मा प्रगृह्यते

2.120.35

स यास्यति च वै स्थानमुच्चावचं महामते ।
संसार अंतरात्मा वै दोषैर्बद्धः प्रणीयते

2.120.36

कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः ।
उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते

2.120.37

शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता ।
तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात्

2.120.38

आत्मनस्तु प्रभावेण उदानो बलवान्भवेत् ।
एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते

2.120.39

ततो निद्रा महामाया तस्यांगेषु प्रयाति सा ।
हृदि कंठे तथा चास्ये नासिकाग्रे प्रतिष्ठति

2.120.40

बाहू संकुच्य संतिष्ठेद्धृद्गतो नाभिमंडले ।
आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः

2.120.41

प्रजायते महातीव्रा बलरोधं करोति सः ।
यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः

2.120.42

तथा चात्मासु संलग्नः प्राणवायुर्न संशयः ।
अंतरात्मप्रसक्तस्तु प्राणवायुः शुभानने

2.120.43

बुद्धिवद्रोहितो भद्रे अंतरात्मा प्रधावति ।
पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति

2.120.44

तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ।
एवं नानाविधान्स्वप्नानंतरात्मा प्रपश्यति

2.120.45

उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति ।
गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति

2.120.46

तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम् ।
जलं नदीं तडागं च पयः स्थानानि पश्यति

2.120.47

अग्निं च पश्यते देवि बहुकांचनमुत्तमम् ।
तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम्

2.120.48

प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च ।
कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः

2.120.49

स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि ।
तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति

2.120.50

तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः

2.120.120

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc