भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.110

2.110.1

कुंजल उवाच-
आमंत्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम् ।
समुत्सुको गंतुकामो नहुषो दानवं प्रति

2.110.2

ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः ।
आशीर्भिरभिनंद्यैनमायुपुत्रं महाबलम्

2.110.3

आकाशे देवताः सर्वा जघ्नुर्वै दुंदुभीन्मुदा ।
पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि

2.110.4

अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः ।
ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च

2.110.5

देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम ।
तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत्

2.110.6

अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन् ।
स्यंदनो दीयतामस्मै नहुषाय सुरेश्वर

2.110.7

देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम् ।
आहूय मातलि तं तु आदिदेश ततो द्विज

2.110.8

एनं गच्छ महात्मानमुह्यतां स्यंदनेन वै ।
सध्वजेन महाप्राज्ञमायुजं समरोद्यतम्

2.110.9

स चोवाच सहस्राक्षं करिष्ये तवशासनम् ।
एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम्

2.110.10

राजानं प्रत्युवाचैव देवराजस्य भाषितम् ।
विजयी भव धर्मज्ञ रथेनानेन संगरे

2.110.11

इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर ।
जहि त्वं दानवं संख्ये तं हुंडं पापचेतनम्

2.110.12

समाकर्ण्य स राजेंद्र सानंदपुलकोद्गमः ।
प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः

2.110.13

दानवं सूदयिष्यामि समरे पापचेतनम् ।
देवानां च विशेषेण मम मायापचारितम्

2.110.14

एवमुक्ते महावाक्ये नहुषेण महात्मना ।
अथायातः स्वयं देवः शंखचक्रगदाधरः

2.110.15

चक्राच्चक्रं समुत्पाट्य सूर्यबिंबोपमं महत् ।
ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम्

2.110.16

नहुषाय ददौ देवो हर्षेण महता किल ।
तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसान्वितम्

2.110.17

तेन शूलवरेणासौ शोभते समरोद्यतः ।
द्वितीयः शंकरश्चासौ त्रिपुरघ्नो यथा प्रभुः

2.110.18

ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् ।
चंद्र तेजःप्रतीकाशं शंखं च नादमंगलम्

2.110.19

वज्रमिंद्रस्तथा शक्तिं वायुश्चापं समार्गणम् ।
आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने

2.110.20

शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च ।
ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे

2.110.21

कुंजल उवाच-
अथ आयुसुतो वीरो दैवतैः परिमानितः ।
आशीर्भिर्नंदितश्चापि मुनिभिस्तत्त्ववेदिभिः

2.110.22

आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम् ।
घंटारवैः प्रणदंतं क्षुद्रघंटासमाकुलम्

2.110.23

रथेन तेन दिव्येन शुशुभे नृपनदंनः ।
दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल

2.110.24

प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः ।
जगाम शीघ्रं वेगेन यथा वायुः सदागतिः

2.110.25

यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः ।
तेन मातलिना सार्द्धं वाहकेन महात्मना

2.110.110

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने दशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc