भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.11

2.11.1

ऋषय ऊचुः-
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् ।
इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः

2.11.2

कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः ।
किं तपस्तस्य विप्रस्य कथमाराधितो हरिः

2.11.3

सूत उवाच-
कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता ।
तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः

2.11.4

चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम् ।
भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः

2.11.5

पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने ।
रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके

2.11.6

कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः ।
स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः

2.11.7

दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः ।
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत्

2.11.8

एकदा तु प्रिया तस्य सुमना नाम सुव्रता ।
भर्तारं चिंतयोपेतमधोमुखमलक्षयत्

2.11.9

समालोक्य तदा कांतं तमुवाच तपस्विनी ।
दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम्

2.11.10

व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ।
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज

2.11.11

नास्ति चिंतासमं दुःखं कायशोषणमेव हि ।
यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते

2.11.12

चिंतायाः कारणं विप्र कथयस्व ममाग्रतः ।
प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम्

2.11.13

सोमशर्मोवाच-।
इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम् ।
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम्

2.11.14

न जाने केन पापेन धनहीनोस्मि सुव्रते ।
तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम्

2.11.15

सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् ।
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम्

2.11.16

लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि ।
असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा

2.11.17

दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा ।
अनृतं तस्य सौगंधं फलमज्ञानमेव च

2.11.18

छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः ।
पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः

2.11.19

अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि ।
तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय

2.11.20

अधर्मः सुरसस्तस्य उत्कटो मधुरायते ।
यादृशैश्च फलैश्चैव सुफलो लोभपादपः

2.11.21

अस्यच्छायां समाश्रित्य यो नरः परितुष्यते ।
फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने

2.11.22

फलानां तु रसेनापि अधर्मेण तु पालितः ।
स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति

2.11.23

तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत् ।
धनपुत्रकलत्राणां चिंतामेकां न कारयेत्

2.11.24

यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि ।
मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि

2.11.25

सुभार्यामिह विंदामि कथं पुत्रानहं लभे ।
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः

2.11.26

क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम् ।
पुनश्चैतन्यमायाति महादुःखेन पीड्यते

2.11.17

चिंतामोहौ परित्यज्य अनुवर्तस्व च द्विज ।
संसारे नास्ति संबंधः केन सार्धं महामते

2.11.28

मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः ।
संबंधिनो भवंत्येव कलत्राणि तथैव च

2.11.29

सोमशर्मोवाच-
संबंधः कीदृशो भद्रे तथा विस्तरतो वद ।
येन संबंधिनः सर्वे धनपुत्रादिबांधवाः

2.11.30

सुमनोवाच-
ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः ।
लाभप्रदा भवंत्येके उदासीनास्तथापरे

2.11.31

भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा ।
भार्या पिता च माता च भृत्याः स्वजनबांधवाः

2.11.32

स्वेनस्वेन हि जायंते संबंधेन महीतले ।
न्यासापहारभावेन यस्य येन कृतं भुवि

2.11.33

न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ।
येनैवापह्रतं न्यासं तस्य गेहे न संशयः

2.11.34

न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः ।
न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च

2.11.35

गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ।
भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने

2.11.36

प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन् ।
स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम्

2.11.37

यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा ।
दुःखमेव महाभाग दारुणं प्राणनाशनम्

2.11.38

तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः ।
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति

2.11.39

दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः ।
यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः

2.11.40

तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता ।
अनेनापहृतं न्यासं मदीयस्योपकारणम्

2.11.41

द्रव्यापहरणेनापि न मे प्राणा गताः किल ।
दुःखेन महता चैव असह्येन च वै पुरा

2.11.42

तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम् ।
गंतास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः

2.11.43

न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित् ।
पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः

2.11.44

एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः ।
प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम्

2.11.45

एवं न्यासं समुद्धर्तुः पुत्राः कांत भवंति वै ।
संसारे दुःखबहुला दृश्यंते यत्रतत्र च

2.11.46

ऋणसंबंधिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः

2.11.11

इति श्रीपद्मपुराणे भूमिखंडे सुव्रतोपाख्याने एकादशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc