भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.101

2.101.1

सूत उवाच-
देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम् ।
समाचष्ट महाश्रेय आख्यानं पापनाशनम्

2.101.2

श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् ।
द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः

2.101.3

विष्णुरुवाच-
कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च ।
समाहूय मुदायुक्त उवाचैनं कपिंजलम्

2.101.4

किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे ।
भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम

2.101.5

तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम् ।
कपिंजल उवाच-
यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम्

2.101.6

यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया ।
तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः

2.101.7

शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् ।
कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः

2.101.8

नानाधातुसमाकीर्णो नानावृक्षोपशोभितः ।
गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः

2.101.9

नदीनां तु सहस्राणि दिव्यानि विविधानि च ।
यस्मात्तात प्रसूतानि जलानि विविधानि च

2.101.10

तडागानि सहस्राणि सोदकानि महागिरौ ।
नद्यः संति विशालिन्यो हंससारससेविताः

2.101.11

तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः ।
वनानि विविधान्येव पुष्पितानि फलानि च

2.101.12

नानावृक्षोपयुक्तानि हरितानि शुभानि च ।
किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः

2.101.13

गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितः ।
दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः

2.101.14

दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितः ।
शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः

2.101.15

सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः ।
चंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः

2.101.16

नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः ।
पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते

2.101.17

षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते ।
रुतैश्च कोकिलानां तु शोभते स वनो गिरिः

2.101.18

गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम् ।
अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम्

2.101.19

सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततः ।
दिग्गजानां सुघोषैश्च शब्दितं च समंततः

2.101.20

नानामृगैः समाकीर्णं शाखामृगगणाकुलम् ।
मयूरकेकाघोषैश्च गुहासु च विनादितम्

2.101.21

कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम् ।
नानाप्रस्रवणोपेतमोषधीभिर्विराजितम्

2.101.22

दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम् ।
सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम्

2.101.23

पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम् ।
विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते

2.101.24

अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैः ।
गंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे

2.101.25

शंकरस्य गृहं तत्र कैलासं गतवानहम् ।
तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम्

2.101.26

श्रूयतामभिधास्यामि तात सर्वं मयोदितम् ।
शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात्

2.101.27

हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि ।
गंगायाश्च महाभाग रंहसा घोषभूषितः

2.101.28

कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः ।
दशयोजनमानेन तत्र गंगा ह्रदो महान्

2.101.29

महातोयेन पुण्येन विमलेन विराजते ।
सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते

2.101.30

सामोच्चारेण पुण्येन दिव्येन मधुरेण च ।
हंसास्तत्र प्रकूजंति सरस्तेन विराजते

2.101.31

तस्य तीरे शिलायां वै हिमकन्या महामते ।
आसीना मुक्तकेशांता रूपद्रविणशालिनी

2.101.32

दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणा ।
दिव्यालंकारभूषा च तस्यास्तीरे विराजते

2.101.33

न जाने गिरिराजस्य तनया वा महोदधेः ।
नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति

2.101.34

इंद्राणी वा महाभागा रोहिणी वा भविष्यति ।
ईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते

2.101.35

अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ।
यादृशं रूपसंभावं गुणशीलं प्रदृश्यते

2.101.36

अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ।
यादृशं तु मया दृष्टं तदंगं विश्वमोहनम्

2.101.37

शिलापदे समासीना दुःखेनापि समाकुला ।
रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना

2.101.38

अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि च ।
निर्मलानि सरस्यत्र पतंत्येव महामते

2.101.39

बिंदवो मौक्तिकाभास्ते निपतंति महोदके ।
तेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु

2.101.40

पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ।
गंगांभसि तरंत्येव असंख्यातानि तानि तु

2.101.41

पतितानि सुहृद्यानि रंहसा यानि तानि तु ।
गंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते

2.101.42

भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः ।
कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम्

2.101.43

वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः ।
हंसवृंदसमाकीर्णो जलपक्षि समाकुलः

2.101.44

नानावर्णविशेषाणि संति पद्मानि तत्र च ।
प्रवाहे निर्मले तात मुनिवृंदनिषेविते

2.101.45

अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु ।
गंगोदकप्लुतान्येव सौरभाणि महांति च

2.101.46

प्रतरंति प्रवाहे तु निर्मले जलपूरिते ।
मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते

2.101.47

सूत उवाच-
रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः ।
देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा

2.101.48

तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः ।
जटाभारसमाक्रांतो निर्वासा दंडधारकः

2.101.49

निराधारो निराहारस्तपसातीव दुर्बलः ।
कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः

2.101.50

भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः ।
शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च

2.101.51

शिवभक्तिसमासीनो दुराधारो महातपाः ।
अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च

2.101.52

गंगातोयात्समानीय देवदेवं प्रपूजयेत् ।
रत्नेश्वरं महाभागो गीतनृत्यविशारदः

2.101.53

गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः ।
मठमागत्य धर्मात्मा रोदते सुस्वरैरपि

2.101.54

एतद्दृष्टं मया तात अपूर्वं वदतांवर ।
कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम्

2.101.55

सा का नारी महाभागा कस्मात्तात प्ररोदिति ।
कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम्

2.101.56

तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम् ।
एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि

2.101.57

कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः

2.101.101

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे एकाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc