पादार्थधर्मसंग्रह · श्लोक 9.4-297
सत्.प्रत्ययकर्मविधिः.।
कथम्.चिकीर्षितेषु.यज्ञाध्ययनदानकृष्यादिषु.यदा.हस्तम्.उत्क्षेप्तुम्.इच्छत्य्.अपक्षेप्तुम्.वा.तदा.हस्तवत्य्.आत्मप्रदेशे.प्रयत्नः.संजायते.तम्.प्रयत्नम्.गुरुत्वा.चोपेक्षमाणाद्.आत्महस्तसम्योगाद्.धस्ते.कर्म.भवति.हस्तवत्.सर्वशरीरावयवेषु.पादादिषु.शरीरे.चेति.।
तत्.सम्बद्धेष्व्.अपि.कथम्.यदा.हस्तेन.मुसलम्.गृहीत्वेच्छाम्.करोति.उत्क्षिपामि.हस्तेन.मुसलम्.इति.तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमणाद्.आत्महस्तसम्योगाद्.यस्मिन्न्.एव.काले.हस्ते.उत्क्षेपणकर्मोत्पद्यते.तस्मिन्न्.एव.काले.तम्.एव.प्रयत्नम्.अपेक्षमाणाद्.धस्तमुसलसम्योगात्.मुसलए.ऽपि.कर्मेति.।
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0