पादार्थधर्मसंग्रह · श्लोक 9.3-296
अथ.गमनत्वम्.किम्.कर्मत्वपर्यायः.आहोस्विद्.अपरम्.सामान्यम्.इति.।
कुतस्.ते.संशयः.।
समस्.तेषूत्क्षेपणादिषु.कर्मप्रत्ययवद्.गमनप्रत्ययाविशेषात्.कर्मत्वपर्याय.इति.गम्यते.।
यतस्.तूत्क्षेपणादिवद्.विशेषसंज्ञयाभिहितम्.तस्माद्.अपरम्.सामान्यम्.स्याद्.इति.।
न.।
कर्मत्वपर्यायत्वात्.।
आत्मत्वपुरुषत्ववत्.कर्मत्वपर्याय.एव.गमनत्वम्.इति.।
अथ.विशेषसंज्ञया.किम्.अर्थम्.गमनग्रहणम्.कृतम्.इति.न.भ्रमणाद्यवरोधार्थत्वात्.।
उत्क्षेपणादिशब्दैर्.अनवरुद्धानाम्.भ्रमणपतनस्पन्दनादीनाम्.अवरोधार्थम्.गमनग्रहणम्.कृतम्.इति.।
अन्यथा.हि.यान्य्.एव.चत्वारि.विशेषसंज्ञयोक्तानि.तान्य्.एव.सामान्यविशेषसंज्ञाविषयाणि.प्रसज्येरन्न्.इति.।
अथवा.अस्त्व्.अपरम्.सामान्यम्.गमनत्वम्.अनियतदिग्देशसम्योगविभागकारणेषु.भ्रमणादिष्व्.एव.वर्तते.गमनशब्दश्.चोत्क्षेपणादिषु.भाक्तो.द्रष्टव्यः.स्वाश्रयसम्योगविभागकर्तृत्वसामान्याद्.इति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0