पादार्थधर्मसंग्रह · श्लोक 8.22-272
धर्मः.पुरुषगुणः.।
कर्तुः.प्रियहितमोक्षहेतुः.अतीन्दिर्यो.ऽन्त्यसुखसंविज्ञानविरोधी.पुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजः.वर्णाश्रमिणाम्.प्रतिनियतसाधननिमित्तः.।
तस्य.तु.साधनानि.श्रुतिस्मृतिविहितानि.वर्णाश्रमिणाम्.सामान्यविशेषभावेनावस्थितानि.द्रव्यगुणकर्माणि.।
तत्र.सामान्यानि.धर्मे.श्रद्धा.अहिंसा.भूतहितत्वम्.सत्यवचनम्.अस्तेयम्.ब्रहमचर्यम्.अनुपधा.क्रोधवर्जनम्.अभिषेचनम्.शिचिद्रव्यसेवनम्.विशिष्टदेवताभक्तिर्.उपवासो.ऽप्रमादश्.च.।
ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानि.ब्राह्मणस्य.विशिष्टानि.प्रतिग्रहाध्यापनयाजनानि.स्ववर्णविहिताश्.च.संस्काराः.।
क्षत्रियस्य.सम्यक्.प्रजापालनम्.असाधुनिग्रहो.युद्धेष्व्.अनिवर्तनम्.स्वकीयाश्.च.संस्काराः.।
वैश्यस्य.क्रियविक्रयकृषिपशुपालनानि.स्वकीयाश्.च.संस्काराः.।
शूद्रस्य.पूर्ववर्णपारतन्त्र्यम्.अमन्त्रिकाश्.च.क्रियाः.।
आश्रमिणाम्.तु.ब्रह्मचारिणो.गुरुकुलनिवासिनः.स्वशास्त्रविहितानि.गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि.मधुमांसदिवास्वप्नांजनाभ्यञजनादिवर्जनम्.च.।
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0