पादार्थधर्मसंग्रह · श्लोक 8.21-266
संस्कारस्.त्रिविधो.वेगो.भावना.स्थितिस्थापकश्.च.।
तत्र.वेगो.मूर्तिमत्सु.पञ्वसु.द्रव्येषु.निमित्तविशेषापेक्षात्.कर्मणो.जायते.नियतदिक्क्रियाप्रबन्धहेतुः.स्पर्शवद्.द्रव्यसम्योगविशेषविरोधी.क्वचित्.कारणगुणपूर्वक्रमेणोत्पद्यते.।
भावनासंज्ञकस्.त्व्.आत्मगुणो.दृष्टश्रुतानुभूतेष्व्.अर्थेषु.स्मृतिप्रत्यभिज्ञानहेतुर्.भवति.ज्ञानमद्.अदुह्खादिविरोधी.।
पट्वभ्यासादरप्रत्ययजः.पटुप्रत्ययापेक्षाद्.आत्ममनसोः.सम्योगाद्.आश्चर्ये.ऽर्थे.पटुः.संस्कारातिशयो.जायते.।
यथा.दाक्षिणात्य्.अस्योष्ट्रदर्शनाद्.इति.।
विद्याशिल्पव्यायामादिष्व्.अभ्यस्यमानेषु.तस्मिन्न्.एवार्थे.पूर्वपूर्वसंस्कारम्.अपेक्षमाणाद्.उत्तरोत्तरस्मात्.प्रत्ययाद्.आत्ममनसोः.सम्योगात्.संस्कारातिशयो.जायते.।
प्रयत्नेन.मनश्.चक्षुषि.स्थापयित्वा.ऽपूर्वम्.अर्थम्.दिदूक्षमाणस्य.विद्युत्.सम्पातदर्शनवद्.आदरप्रत्ययः.तम्.अपेक्षमाणाद्.आत्ममनसोः.सम्योगात्.संस्कारातिशयो.जायते.।
यथा.देवह्रदेराजतसौवर्णपद्मदर्शनाद्.इति.।
स्थितिस्थापकस्.तु.स्पर्शवद्.द्रव्येषु.वर्तमानो.घनावयवसन्निवेशविशिष्टेषु.कालान्तरावस्थायिषु.स्वाश्रयम्.अन्यथाकृतम्.यथावस्थितम्.स्थापयति.।
स्थावरजङ्गमविकारेषु.धनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषु.भुग्नसंवर्तितेषु.स्थितिस्थापकस्य.कार्यम्.संलक्ष्यते.।
नित्यानित्यत्वनिष्पत्तयोस्यापि.गुरुत्ववत्.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0