पादार्थधर्मसंग्रह · श्लोक 8.22-273
विद्याव्रतस्नातकस्य.कृतदारस्य.गृहस्थस्य.शालीनयायावरवृत्त्युपार्जितैर्.अर्थैर्.भूतमनुष्यदेवपितृब्रह्माख्यानाम्.पञ्वानाम्.महायज्ञानम्.सायम्प्रातरनुष्ठानम्.एकाग्निविधानेन.पाकयज्ञसंस्थानाम्.च.नित्यानाम्.शक्तौ.विद्यमानायाम्.अग्न्याधेयादीनाम्.च.हविर्यज्ञसंस्थानाम्.अग्निष्टोमादीनाम्.सोमयज्ञसंस्थानाम्.च.।
ऋत्वन्तरेषु.ब्रह्मचर्यम्.अपत्योत्पादनम्.च.।
ब्रह्मचारिणो.गृहस्थस्य.वा.ग्रामान्.निर्गतस्य.वनवासो.वल्ककाजिनकेशश्मश्रुनखरोमधारणम्.च.।
वन्यहुतातिथिशेषभोजनानि.वानप्रस्थस्य.।
त्रयाणाम्.अन्यतमस्य.श्रद्धावतः.सर्वभूतेभ्यो.नित्यम्.अभयम्.दत्त्वा.सम्न्यस्य.स्वानि.कर्माणि.यमनियमेष्व्.अप्रमत्तस्य.षट्पदार्थप्रसंख्यानाद्.योगप्रसाधनम्.प्रव्रजितस्येति.।
दृष्टम्.प्रयोजनम्.अनुद्दिश्यैतानि.साधनानि.भावप्रसादम्.चापेक्ष्यात्ममनसोः.सम्योगाद्.धर्मोत्पत्तिर्.इति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0