भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · अध्याय 8.12.2.2.B

8.12.2.2.B.1-234-

अविरोधिग्रहणात्.प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो.निरस्ता.भवन्ति.।

8.12.2.2.B.1-234-

यथा.ऽनुष्णो.ऽग्निर्.इति.प्रत्यक्षविरोधी.घनम्.अम्बरम्.इत्य्.अनुमानविरोधी.ब्राह्मणेन.सुरा.पेयेत्य्.आगमविरोधी.वैशेषिकस्य.सत्कार्यम्.इतिब्रुवतः.स्वशास्त्रविरोधी.न.शब्दो.ऽर्थप्रत्यायक.इति.स्ववचनविरोधी.॥

8.12.2.2.B.2-237-

यथा.क्रियावत्त्वाद्.गुणवत्त्वाच्.च.तथा.च.तदनुमेये.ऽस्ति.तत्समानजातीये.च.सर्वस्मिन्.गुणवत्त्वम्.असार्वस्मिन्.क्रियावत्त्वम्.।

8.12.2.2.B.2-237-

उभयम्.अप्य्.एतद्.अद्रव्ये.नास्त्य्.एव.तस्मात्.तस्य.वचनम्.अपदेश.इति.सिद्धम्.॥

8.12.2.2.B.2-238-

तत्रोभयासिद्धः.उभयोर्.वादिप्रतिवादिनोर्.असिद्धः.यथा.ऽनित्यः.शब्दः.सावयवत्वाद्.इति.।

8.12.2.2.B.2-238-

अन्यतरासिद्धः.यथा.ऽनित्यः.शब्दः.कार्यत्वाद्.इति.।.तद्भावासिद्धो.यथा.धूमभावेनाग्न्यधिगतौ.कर्तव्यायाम्.उपन्यस्यमानो.वाष्पे.धूमभावेनासिद्ध.इति.।

8.12.2.2.B.2-238-

अनुमेयासिद्धो.यथा.पार्थिवम्.द्रव्यम्.तमः.कृष्णरूपवत्त्वाद्.इति.।.यो.ह्य्.अनुमेये.ऽविद्यमानो.ऽपि.तत्समानजातीये.सर्वस्मिन्.नास्ति.तद्विपरीते.चास्ति.स.विपरीतसाधनाद्.विरुद्धः.यथा.यस्माद्.विषाणी.तस्माद्.अश्व.इति.।

8.12.2.2.B.2-238-

यस्.तु.सन्न्.अनुमेये.तत्समानासमानजातीययोः.साधारणः.सन्न्.एव.स.सन्देहजनकत्वात्.सन्दिग्धः.यथा.यस्माद्.विषाणी.तस्माद्.गौर्.इति.।.एकस्मिंश्.च.द्वयोर्.हेत्वोर्.यथोक्तलक्षणयोर्.विरुद्धयोः.सन्निपाते.सति.संशयदर्शनाद्.अयम्.अन्यः.सन्दिग्ध.इति.केचित्.।

8.12.2.2.B.2-239-

यथा.मूर्तत्वामूर्तत्वम्.प्रति.मनसः.क्रियावत्त्वास्पर्शवत्त्वयोर्.इति.।

8.12.2.2.B.2-239-

नन्व्.अयम्.असाधारण.एवाचाक्षुषत्वप्रत्यक्षत्ववत्.संहतयोर्.अन्यतरपक्षासम्भवात्.ततश्.चानध्यवसित.इत्.वक्ष्यामः.।

8.12.2.2.B.2-239-

ननु.शास्त्रे.तत्रतत्रोभयथा.दर्शनम्.संशयकारणम्.अपदिश्यत.इति.न.संशयो.विषयद्वैतदर्शनात्.।

8.12.2.2.B.2-239-

संशयोत्पत्तौ.विषयद्वैतदर्शनम्.कारणम्.तुल्यबलत्वे.च.तयोः.परस्परविरोधान्.निर्णयानुत्पादकत्वम्.स्यान्.न.तु.संशयहेतुत्वम्.न.च.तयोस्.तुल्यबलवत्त्वम्.अस्ति.अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद्.अयम्.तु.विरुद्धभेद.एव.।

8.12.2.2.B.2-239-

यश्.चानुमेये.विद्यमानस्.तत्समानासमानजातीययोर्.असन्न्.एव.सो.ऽन्यतरासिद्धो.ऽनध्यवसायहेतुत्वाद्.अनध्यवसितः.यथा.सत्कार्यम्.उत्पत्तेर्.इति.।

8.12.2.2.B.2-239-

अयम्.अप्रसिद्धो.ऽनपदेश.इति.वचनाद्.अवरुद्धः.।

8.12.2.2.B.2-239-

ननु.चायम्.विशेषः.संशयहेतुर्.अभिहितः.शास्त्रे.तुल्यजातीयेष्व्.अर्थान्तरभूतेषु.विशेषस्योभयथा.दृष्टत्वाद्.इति.नान्यार्थत्वाच्.छब्दे.विशेषदर्शनात्.।

8.12.2.2.B.2-239-

संशयानुत्पत्तिर्.इत्य्.उक्ते.नायम्.द्रव्यादीनाम्.अन्यतमस्य.विशेषः.स्याच्.छ्रावणत्वम्.किम्.तु.सामान्यम्.एव.सम्पद्यते.कस्मात्.तुल्यजातीयेष्व्.अर्थान्तरभूतेषु.द्रव्यादिभेदानाम्.एकैकशो.विशेषस्योभयथा.दृष्टत्वाद्.इत्य्.उक्तम्.न.संशयकारणम्.अन्यथा.षट्स्व्.अपि.पदार्थेषु.संशयप्रसङ्गात्.तस्मात्.सामान्यप्रत्ययाद्.एव.संशय.इति.॥

8.12.2.2.B.3-246-

तद्यथा.यत्.क्रियावत्.तद्.द्रव्यम्.दृष्टम्.यथा.शर.इति.।.अनुमेयविपर्यये.च.लिङ्गस्याभावदर्शनम्.वैधर्म्यनिदर्शनम्.।.तद्यथा.यद्.अद्रव्यम्.तत्.क्रियावन्.न.भवति.यथा.सत्तेति.॥

8.12.2.2.B.3-247-

तद्यथा.नित्यः.शब्दो.ऽमूरत्वात्.यद्.अमूर्तम्.दृष्टम्.तन्.नित्यम्.यथा.परमाणुर्.यथा.कर्म.यथा.स्थाली.यथा.तमः.अम्बरवद्.इति.यद्.द्रव्यम्.तत्.क्रियावद्.दृष्टम्.इति.च.लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः.साधर्म्यनिदर्शनाभासाः.।

8.12.2.2.B.3-247-

यद्.अनित्यम्.तन्.मूरतम्.दृष्टम्.यथा.कर्म.यथा.परमाणुर्.यथाकाशम्.यथा.तमः.घटवत्.यन्.निष्क्रियम्.तद्.अद्रव्यञ्.चेति.लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता.वैधर्म्यनिदर्शनाभासा.इति.॥

8.12.2.2.B.4-249-

अनुमेयधर्मात्रत्वेनाभितम्.लिङ्गसामान्यम्.अनुपलब्धशक्तिकम्.निदर्शने.साध्यधर्मसामान्येन.सह.दृष्टम्.अनुमेये.येन.वचनेनानुसन्धीयते.तदनुसन्धानम्.।.तथा.च.वायुः.क्रियावान्.इति.।

8.12.2.2.B.4-249-

अनुमेयाभावे.च.तस्यासत्त्वम्.उपलभ्य.न.च.तथा.वायुर्.निष्क्रिय.इति.॥

8.12.2.2.B.5-251-

न.ह्य्.एतस्मिन्.न.सति.परेषाम्.अवयवानाम्.समस्तानाम्.व्यस्तानाम्.वा.तदर्थवाचकत्वम्.अस्ति.गम्यमानार्थत्वाद्.इति.चेन्.न.अतिप्रसङ्गात्.।

8.12.2.2.B.5-251-

तथाहि.प्रतिज्ञानन्तरम्.हेतुमात्राभिधानम्.कर्तव्यम्.विदुषामन्वयव्यतिरेकस्मरणात्.तदर्थावगतिर्.भविष्यतीति.तस्माद्.अत्रैवार्थपरिसमाप्तिः.।

8.12.2.2.B.5-251-

कथम्.अनित्यः.शब्द.इत्य्.अनेनानिश्चितानित्यत्वमात्रविशिष्टः.शब्दः.कथ्यते.प्रयत्नानन्तरीयकत्वाद्.इत्य्.अनेनानित्यत्वसाधनधर्ममात्रम्.अभिधीयते.।

8.12.2.2.B.5-251-

इह.यत्.प्रयत्नानन्तरीयकम्.तदनित्यम्.दृष्टम्.यथा.घट.इत्य्.अनेन.साध्यसामान्येन.साधनसामान्यस्यानुगाममात्रम्.उच्यते.।

8.12.2.2.B.5-251-

नित्यम्.अप्रयत्नानन्तरीयकम्.दृष्टम्.यथाकाशम्.इत्य्.अनेन.साध्याभावेन.साधनस्यासत्त्वम्.प्रदर्श्यते.।

8.12.2.2.B.5-251-

तथा.च.प्रयत्नानन्तरीयकः.शब्दो.दृष्टो.न.च.तथाकाशवद्.अप्रयत्नानन्तरीयकः.शब्द.इत्य्.अन्वयव्यतिरेकाभ्याम्.दृष्टसामर्थ्यस्य.साधनसामान्यस्य.शब्दे.ऽनुसन्धानम्.गम्यते.तस्माद्.अनित्यः.शब्द.त्य्.अनेनानित्य.एव.शब्द.इति.प्रतिपिपादयिषितार्थपरिसमाप्तिर्.गम्यते.तस्मात्.पञ्चावयवेनैव.वाक्येन.परेषाम्.स्वनिश्चितार्थप्र्तिपादनम्.क्रियते.इत्य्.एतत्.परार्थानुमानम्.सिद्धम्.इति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc