भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · श्लोक 5-49

5-49.1--

तदनन्तरम्.तस्मिन्न्.एव.वायावाप्य्.एभ्यः.परमाणुभ्यस्.तेनैव.क्रमेण.महान्.सलिलनिधिर्.उत्पन्नः.पोप्लूयमानस्.तिष्ठति.तदनन्तरम्.तस्मिन्न्.एव.{5.तस्मिन्न्.एव.जलनिधो.}.पार्थिवेभ्यः.परमाणुभ्यो.{?.द्व्याणुकादिप्रक्रमेणोत्पन्न.}.महापृथिवी.{5.अद्द्स्.समुत्पन्ना}.संहतावतिष्ठते.।

5-49.5--

तदनन्तरम्.तस्मिन्न्.एव.महोदधौ.तैजसेभ्यो.ऽणुभ्यो.द्व्यणुकादिप्रक्रमेणोत्पन्नो.महांस्.तेजोराशिः.केनचिद्.अनभिभूतत्वाद्.देदीप्यमानस्.तिष्ठति.।

5-49.7--

एवम्.समुत्पन्नेन्षु.चतुर्षु.महाभूतेषु.महेश्वरस्याभिध्यानमात्रात्.तैजसेभ्यो.ऽणुभ्यः.{1.तैजसाणुभ्यः}.पार्थिवपरमाणुसहितेभ्यो.{1.पार्थिवादिपरमाणुसहितेभ्यो}.महदण्डम्.आरभ्यते.{5.उत्पद्यते}.तस्मिंश्.चतुर्वदनकमलम्.सर्वलोकपितामहम्.ब्रह्माणम्.सकलभुवनसहितम्.उत्पाद्य.प्रजासर्गे.विनियुङ्क्ते.।

5-49.11--

स.च.महेश्वरेण.विनियुक्तो.ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसम्पन्नः.प्राणिनाम्.कर्मविपाकम्.विदित्वा.कर्मानुरूपज्ञानभोगायुषः.{6.ज्ञानवैराग्यभोगायुषः}.सुतान्.प्रजापतीन्.मानसान्.मौदेवर्षिपितृगणान्.मुखबाहूरुपादतश्.चतुरो.वर्णानन्यानि.चोच्चावचानि.भूतानि.च.सृष्ट्वाशयाणुरूपैर्.धर्मज्ञानवैराग्यैश्वर्यैः.सम्योजयतीति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc