भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · अध्याय 2

2.1-6-

द्रव्यगुणकर्मसामान्यविशेषसमवायानाम्.षण्णाम्.पदार्थानाम्.साधर्म्यवैधर्म्यतत्त्वज्ञानम्.{5.-वैधर्म्याभ्याम्.तत्त्व-}.निह्श्रेयसहेतुः.॥

2.1-7-

तच्.चेश्वरचोदनाभिव्यक्ताद्.धर्माद्.एव.॥

2.2-8-

अथ.के.द्रव्यादयः.पदार्थाः.किम्.च.तेषाम्.साधर्म्यम्.वैधर्म्यम्.चेति.॥

2.2-8-

तत्र.द्रव्याणि.पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि.सामान्यविशेषसंज्ञयोक्तानि.{5.संज्ञोक्तानि}.नवैवेति.{5.नवैव}.।.तद्व्यतिरेकेणान्यस्य.संज्ञान्.अभिधानात्.{5.तद्व्यतिरेकेण.संज्ञान्तरान्.अभिधानात्}.॥

2.2-10-

गुणाश्.च.{5.गुणाः}.रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नाश्.चेति.कण्ठोक्ताः.सप्तदश.।.चशब्दसमुच्चिताश्.च.गुरुत्वद्रवत्वस्नेहसंस्काराद्.ऊष्टशब्दाः.सप्तैवेत्य्.एवम्.चतुर्विंशतिर्.गुणाः.{5.चतुर्विंशतिगुणाः}.॥

2.2-11-

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि.पञ्चैव.कर्माणि.।.गमनग्रहणाद्.भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पवननमनोन्नमनादयो.गमनविशेषा.न.जात्यन्तराणि.॥.

2.2-11-

सामान्यम्.द्विविधम्.परम्.अपरम्.चानुवृत्तिप्रत्ययकारणम्.।.तत्र.परम्.सत्ता,.महाविषयत्वात्.सा.चानुवृत्तेर्.एव.हेतुत्वात्.सामान्यम्.एव.।.द्रव्यत्वाद्यपरम्,.अल्पविषयत्वात्.।.तच्.च.व्यावृत्तेर्.अपि.हेतुत्वात्.सामान्यम्.सद्विशेषाख्याम्.अपि.लभते.॥.

2.2-13-

नित्यद्रव्यवृत्तयो.ऽन्त्या.विशेषाः.।.ते.खल्व्.अत्यन्तव्यावृत्तिहेतुत्वाद्.विशेषा.एव.॥

2.2-14-

अयुतसिद्धानाम्.आधार्याधारभूतानाम्.यः.सम्बन्धः.`इहऽ-प्रत्ययहेतुः.स.समवायः.॥.

2.2-15-

एवम्.धर्मैर्.विना.धर्मिणाम्.उद्देशः.कृतः.॥.

2.3-16-

षण्णाम्.अपि.पदार्थानाम्.अस्तित्वाभिधेयत्वज्ञेयत्वानि.॥.

2.3-16-

आश्रितत्वम्.चान्यत्र.नित्यद्रव्येभ्यः.॥

2.3-16-

द्रव्यादीनाम्.पञ्चानाम्.समवायित्वम्.अनेकत्वम्.च.॥.

2.3-16-

गुणादीनाम्.पञ्चानाम्.अपि.निर्गुणत्वनिष्क्रियत्वे.॥.

2.3-17-

द्रव्यादीनाम्.त्रयाणाम्.अपि.सत्तासम्बन्धह्,.सामान्यविशेषवत्त्वम्,.स्वसमयार्थशब्दाभिधेयत्वम्,.धर्माधर्मकर्तृत्वम्.च.॥

2.3-17-

कार्यत्वानित्यत्वे.कारणवताम्.एव.॥

2.3-18-

कारणत्वम्.चान्यत्र.पारिमाण्डल्यादिभ्यः.॥

2.3-18-

द्रव्याश्रितत्वम्.चान्यत्र.नित्यद्रव्येभ्यः.॥

2.3-19-

सामान्यादीनाम्.त्रयाणाम्.स्वात्मसत्त्वम्,.बुद्धिलक्षणत्वम्,.अकार्यत्वम्,.अकारणत्वम्,.असामान्यविशेषवत्त्वम्,.नित्यत्वम्,.अर्थशब्दानभिधेयत्वम्.चेति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc