न्यायबिन्दुप्रकरणकारिका · भाग 16
धर्मकीर्ति: न्यायबिन्दु प्रकरणकारिका
सूत्रपाठः
1 प्रथमः प्रत्यक्षपरिच्छेदः
1।1 सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्वयुत्पादयते ।
1।2 द्विविधं सम्यग्ज्ञानम् ।
1।3 प्रत्यक्षम्, अनुमानं चेति ।
1।4 तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् ।
1।5 अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना
1।6 तया रहितं तिमिराशुभ्रमणनौयानसम्भ्रमाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ।
1।7 तच्चतुर्विधम् ।
1।8 इन्द्रियज्ञानम् । (1)
1।9 स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् । (2)
1।10 सर्वचित्तचैत्तानामात्मसंवेदनम् । (3)
1।11 भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । (4)
1।12 तस्य विषयः स्वलक्षणम् ।
1।13 यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् ।
1।14 तदेव परमार्थसत् ।
1।15 अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः ।
1।16 अन्यत् सामान्यलक्षणम्
1।17 सो ऽनुमानस्य विषयः ।
1।18 अत्देव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ।
1।19 अर्थप्रतीतिरूपत्वात् ।
1।20 अर्थसारूप्यमस्य प्रमाणम् ।
1।21 तद्वशादर्थप्रतीतिसिद्धरेति ।
इति प्रथमः प्रत्यक्षपरिच्छेदः ॥
द्वितीयः स्वार्थानुमानपरिच्छेदः
2।1 अनुमानं द्विधा ।
2।2 स्वार्थ परार्थ च ।
2।3 तत्र स्वार्थ त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् ।
2।4 प्रमाणलक्षणव्यवस्थात्रापि पूर्ववत् ।
2।5 त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् ।
2।6 अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी ।
2।7 साध्यधर्मसामान्येन समानो ऽर्थः सपक्ष ।
2।8 न सपक्षो ऽसपक्षः ।
2।9 ततो ऽन्यस्तद्विरुद्धस्तदभावश्चेति
2।10 त्रिरूपाणि च त्रीण्येव लिङ्गानि ।
2।11 अनुपलब्धिः स्वभावः कार्य चेति ।
2।12 तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति ।
2।13 उपलब्धिलक्षणप्राप्तिरूपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ।
2।14 यः स्वभावः सत्स्वन्येषूषलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति, स स्वभावविशेषः ।
2।15 स्वभावः स्वसत्तामात्रप्रभाविनि साध्यधर्मे हेतुः ।
2।16 यथा- वृक्षो ऽयं शिशपात्वादिति ।
2।17 कार्य यथा- बह्निरत्र धूमादिति ।
2।18 अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः ।
2।19 स्वभावप्रतिबन्धे हि सत्यर्थो ऽर्थ गमयेत् ।
2।20 तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ।
2।21 स च प्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य ।
2।22 वस्तुतस्तादात्म्यात् तदुत्पत्तेश्च ।
2।23 अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् ।
2।24 ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ।
2।25 प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ।
2।26 सति वस्तुनि तस्या असम्भवात् ।
2।27 अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभवनिश्चयाभावात् ।
2।28 अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारप्रसाधनी ।
2।29 तस्या एवाभावनिश्चयात् ।
2।30 सा च प्रयोगभेदादेकादशप्रकारा ।
2।31 स्वभावानुपलब्धिर्यथा- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । (1)
2।32 कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति । (2)
2।33 व्यापकानुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति । (3)
2।34 स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शो वह्नेरिति । (4)
2।35 विरुद्धकार्योपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति । (5)
2।36 विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति । (6)
2।37 कार्यविरुद्धोपलब्धिर्यथा- नेहाप्रतिल्बद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति । (7)
2।38 व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पशो वह्नेरिति । (8)
2।39 कारणानुपलब्धिर्यथा- नात्र धूमो वह्न्यभावादिति । (9)
2।40 कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति । (10)
2।41 कारणविरुद्धकायपिलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषावानयं प्रदेशः, धूमादिति । (11)
2।42 इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति ।
2।43 पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि ।
2।44 प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवति स्वार्थे ऽप्यनुमाने ऽस्याः प्रयोगनिर्देशः ।
2।45 सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धदीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेविपलब्धिश्च वेदितव्या ।
2।46 अन्येषां विरोधकार्यकारणभावासिद्धेः ।
2।47 विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ।
2।48 प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ।
इति द्वितीयः स्वार्थानुमानपरिच्छेदः ॥
तृतीयः परार्थानुमानपरिच्छेदः
3।1 त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् ।
3।2 कारणे कार्योपचारात् ।
3।3 तद् द्विविधम् ।
3।4 प्रयोगभेदात् ।
3।5 साधम्यवद्वैधम्यवच्च ।
3।6 नानायोरर्थतः कश्चिद् भेदः ।
3।7 अन्यत्र प्रयोगभेदात् ।
3।8 तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो ऽसद् व्यवहारविषयः सिद्धः । यथा- अन्यो दृष्टः कश्चिद् शशविषाणादिः । नोपलभ्यते च क्वचित् प्रदेशविशेषे उपलब्धिलक्षणप्रापो घट इत्यनुपलब्धिप्रयोगः ।
3।9 तथा स्वभावहेतोः प्रयोगः- यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ।
3।10 यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ।
3।11 यत् कृतकं तदनित्यमित्युपाधिभेदेन ।
3।12 अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।
3।13 एवं प्रयत्नान्तरीयक- प्रत्ययभेदभेदित्वादयो ऽपि द्रष्टव्याः ।
3।14 सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ।
3।15 सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्याः ।
3।16 तस्यैव तत्स्वभावत्वात् ।
3।17 स्वभावस्य च हेतुत्वात् ।
3।18 वस्तुतस्तयोस्तादात्म्यम् ।
3।19 तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ।
3।20 व्यभिचारसम्भवाच्च ।
3।21 कार्यहेतोः प्रयोगः - यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति चेह धूम इति ।
3।22 इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ।
3।23 वैधर्म्यवतः प्रयोगः- यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ।
3।24 असत्यनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ।
3।25 असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः ।
3।26 साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिरिति ।
3।27 असति तस्मिन् साध्येन हेतोरन्वयाभावात् ।
3।28 तथा वैधर्म्येणाप्यन्वयगतिः ।
3।29 असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ।
3।30 नहि स्वभावप्रतिबन्धे ऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः ।
3।31 स च द्विप्रकारः- सर्वस्य तादात्म्यलक्षणस्तदुत्पतिलक्षणश्चेत्युक्तम् ।
3।32 तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावशयं वाक्यद्वयप्रयोगः ।
3।33 अनुपलब्धावपि - यत् सद् उपलब्धिलक्षणप्राप्तंतदुपलभ्यत एवेत्युक्ते, अनुपलभ्यमानं तादृशमसदिति प्रतीरेरन्वयसिद्धिः ।
3।34 द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः ।
3।35 यस्मात् साधर्म्यवत्प्रयोगे ऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सो ऽसद्वयवहारविषयः । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति ।
3।36 तथा वैधर्म्यवत्प्रयोगे ऽपि- यः सद् व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते- इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति ।
3।37 कीदृशः पुनः पक्ष इति निर्देश्यः?
3।38 स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः पक्ष इति ।
3।39 स्वरूपेणेति साध्यत्वेनेष्टः ।
3।40 स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि ।
3।41 यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे ऽसिद्धत्वात् साध्यं भवतीति न पुनस्तदिह साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् ।
3।42 स्वयमिति वादिना ।
3।43 यस्तदा साधनमाह ।
3।44 एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमे ऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु मिष्टः स एव साध्यो नेतर इत्युक्तं भवति ।
3।45 इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सो ऽनुक्तो ऽपि वचनेन साध्यो भवति ।
3।46 तदधिकरणत्वाद् विवादस्य ।
3।47 यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतैव साध्या । तेन नोक्तमात्रमेव साध्यम्- इत्युक्तं भवति ।
3।48 अनिराकृत इति- एतल्लक्षणयोगे ऽपि यः साधयितुमिष्टो ऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् ।
3।49 तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति । (1)
3।50 अनुमाननिराकृतो यथा- नित्यः शब्द इति । (2)
3।51 प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति । (3)
3।52 स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति । (4)
3।53 इति चत्वारः पक्षाभास निराकृता भवन्ति ।
3।54 एवं सिद्धस्य असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्येण साध्य इति । तेनैव स्वरूपेणाभिमतो वादिन इष्टो ऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति ।
3।55 त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तो साधनाभासः ।
3।56 उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयो ।
3।57 एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धो सन्देहे वासिद्धो हेत्वाभासः ।
3।58 यथा - ऽअनित्यः शब्दःऽ इति साध्ये चाक्षुषत्वमुभयासिद्धम् ।
3।59 ऽचेतनास्तरवःऽ इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् ।
3।60 ऽअचेतनाः सुखादयऽ इति साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं व सांख्यस्य स्वयं वादिनो ऽसिद्धम् ।
3।61 तथा स्वयं तदाश्रयणस्य वा सन्देहे ऽसिद्धिः ।
3।62 यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातो ऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः ।
3।63 यथेह निकुञ्जे मयूरः केकायितादिति ।
3।64 तदापातदेशभ्रमे ।
3।65 धर्म्यसिद्धावप्यसिद्धः- यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् ।
3।66 तथैकस्य रूपस्यासपक्षे ऽसत्त्वस्यसिद्धावनैकान्तिको हेत्वाभासः ।
3।67 यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः ।
3।68 तथा- अस्यैव रूपस्य सन्देहे ऽप्यनैकान्तिक एव ।
3।69 यथासर्वज्ञः कश्चिद्विवक्षितः पुरुषो राजादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः ।
3।70 ऽसर्वज्ञो वक्ता नोपलभ्यतेऽ इत्येवम्प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततो ऽसर्वज्ञविपर्याद् वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ।
3।71 वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शने ऽपि व्यतिरेको न सिध्यन्ति, सन्देहात् ।
3।72 द्विविधो हि पदार्थानां विरोध ।
3।73 अविकलकारणस्य भवतो ऽन्यभावे ऽभावाद् विरोधगतिः
3।74 शीतोष्णस्पर्शवत् ।
3।75 परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ।
3।76 स च द्विविधो ऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ।
3।77 न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ।
3।78 रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ।
3।79 अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ।
3।80 इति सन्दिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ।
3।81 द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः ।
3।82 कयोर्द्वयोः?
3।83 सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । यथा कृतत्वं प्रयत्नानन्तरीय कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ।
3।84 अनयोः सपक्षे ऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः ।
3।85 एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ ।
3।86 ननु च तृतीयो ऽपीष्टविघातकृद् विरुद्धः ।
3।87 यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्चयनासनाद्यङ्गवदिति ।
3।88 तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः ।
3।89 स इह कस्मान्नोक्तः?
3।90 अनयोरेवान्तर्भावात् ।
3।91 नह्ययमाभ्यां साध्याविपर्ययसाधनत्वेन भिद्यते ।
3।92 नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ।
3।93 द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहे ऽनैकान्तिक ।
3।94 यथा वीतरागः कश्चित् सर्वज्ञो वा, वक्तृत्वादिति । व्यतिरेको ऽत्रासिद्धः । सन्दिग्धो ऽन्वयः ।
3।95 सर्वज्ञवीतरागयोर्विप्रकर्षाद् वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम्
3।96 अनयोरेव द्वयो रूपयोः सन्देहे ऽनैकान्तिकः ।
3।97 यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।
3।98 न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत ।
3।99 आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् ।
3।100 नाप्यनयोरेकत्र वृत्तिनिश्चयः ।
3।101 सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः ।
3।102 तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् व्यावृत्तत्वेनासिद्धेस्ताभ्यां न व्यतिरिच्यते ।
3।103 न तत्रान्वेति ।
3।104 एकात्मन्यप्यसिद्धेः ।
3।105 नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ।
3।106 एकाभावनिश्चयस्यापरभावनिश्चयनान्तरीयकत्वात् ।
3।107 अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ।
3।108 साध्येतरयोरतो निश्चयाभावात् ।
3।109 एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ।
3।110 विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः?
3।111 अनुमानविषये ऽसम्भवात् ।
3।112 न हि सम्भवो ऽस्ति कार्यस्वस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः ।
3।113 न चान्यो ऽव्यभिचारी ।
3।114 तस्मादवस्तुदर्शनबलप्रवृत्तमागमश्रयमनुमानमाश्रित्व तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।
3।115 शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् ।
3।116 न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु ।
3।117 तत्रोदाहरणम्- यत् सर्वदेशस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत् सर्वगतम् । यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत् सामान्यमिति ।
3।118 तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ।
3।119 न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः ।
3।120 द्वितीयो ऽपि प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् तत्रास्ति । तद्यथा- क्वचिदविद्यमाना घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः ।
3।121 त्रिरूपो हेतुरुक्तः । तावता नार्थप्रतीतिरिति नपृथग्दृष्टान्तो नाम साधनावयव कश्चित् । तेन नास्य लक्षणं पृथगुच्यतेः गतार्थत्वात् ।
3।122 हेतोः सपक्षः एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रनुबन्धो दशनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमा यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावे कृतकत्वासम्भवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयाः सदसत्त्वे यथोक्तप्रकारे शक्ये दशयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः । अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्ता भवतिः, एतावन्मात्ररूपत्वान् तस्येति ।
3।123 एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ।
3।124 यथा नित्यः शब्दो ऽमूर्तत्वात्, कर्मवत् परमाणुवद् घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयाविकलाः ।
3।125 तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद् रथ्यापुरुषवत् । मरणधर्मायं पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत् । असर्वज्ञो ऽयं(पुरुषो) रागादिमत्त्वाद् रथ्यापुरुषवदिति ।
3।126 तथानन्वयो ऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमान्, इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।
3।127 तथा विपरीतान्वयः- यदनित्यं तत् कृतकमिति ।
3।128 साधर्म्येण दृष्टान्तदोषाः ।
3।129 वैधर्म्येणापि- परमाणुवत् कर्मवद् आकाशवदिति साध्याद्यव्यतिरेकिणः ।
3।130 तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा- असर्वज्ञाः कपिलादयो ऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभुतप्रमाणातिशयशासनत्वादिति । अत्र वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमु पदिष्टवान् । यथा- ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः ।
3।131 सन्दिग्धसाधनवतिरेको यथा- न त्रयिविदा ब्राह्मणे ग्राह्यवचन कश्चिद् विविक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वेधर्म्योदाहरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा ।
3।132 सन्दिग्धोभयव्यतिरेको यथा- अवितरागाः कपिलादयः, परिग्रहाग्रहयोगादिति । अत्र वैधर्म्यणोदाहरनम्- यो वीतरागो न तस्य परिग्रहाग्रह, यथर्षभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरैकः ।
3।133 अव्यतिरेको यथा- अवीतरागो ऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम् - यत्रावीतरागत्वं नास्ति, न स वक्ता । यथा - उपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्त तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरैकासिद्धेरव्यतिरकः ।
3।134 अप्रदर्शितव्यतिरेको यथा- अनित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण ।
3।135 विपरीतव्यतिरेको यथा- यदकृतक तन्नित्यं भवतीति
3।136 न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षो च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः ।
3।137 दूषणा न्यूनताद्युक्तिः ।
3।138 ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन परेष्टार्थसिद्धिप्रतिबन्धात् ।
3।139 दूषणाभासास्तु जातयः ।
3।140 अभूतदोषोद्भावनानि जात्युत्तरणीति ।
इति तृतीयः परार्थानुमानपरिच्छेदः ॥
न्यायबिन्दुप्रकरणं समाप्तम्
मूल पाठ: Nyāyabinduprakaraṇakārikā · Edition: Svami Dwarikadas Shastri, Nyayabindu Prakaranam-karika. Bauddha bharati, 1994, pp. 42-50. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0