निश्वासकारिका · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च् 4.0
चतलोग् नुम्बेर्: म्00280
उनिfओर्म् तित्ले: निस्वासकारिका
मनुस्च्रिप्त् : इfप् त्रन्स्च्रिप्त् त्0017अ
देस्च्रिप्तिओन्:
इfप् त्रन्स्च्रिप्त् त्0017अ wहिछ् इस् थे fइर्स्त् पर्त् ओf थे निस्वासकारिका . थे रेमैन्देर् इस् ओन् त्रन्स्च्रिप्त् त्0017ब् wहिछ् wइल्ल् बे अद्देद् इन् थे fउतुरे.
नोतेस्:
रेविसिओन् 0: देचेम्बेर् 16, 2013
इन्तेर्नेत् पुब्लिस्हेर् : मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
पुब्लिचतिओन् येअर् :
पुब्लिचतिओन् चित्य् :
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
॥ श्रीः ॥
॥ ओम् ॥
इति निश्वासकारिकायामेकादशः पटलः ।
यथा ते संस्थिता देवास्तद्बुधा तत्परायणाः ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्शिव एव च
तस्यापि परमं यच्च तत्परं परमन्त * ।
* * * * * * * परात्परतरं परम्
अकारश्च उकारश्च मकारो बिन्दुरेव च ।
शिवस्तु परतः तस्मात् परतस्तु परात्परः
प्. २)
अकारस्तु स्मृतो ब्रह्मा उकारो विष्णुरेव च ।
मकारो रुद्र इत्याहुः बीजमीश्वर एव च
नादश्शिवो यतो ज्ञेयः सर्वव्यापी परात्परः ।
शैषाश्चैव हि ये तत्वा परात्परतराः स्थिताः
बोद्धव्याः तत्वतो देवी बिन्दुनादाधिकाश्च ये ।
देव्युवाच
अक्षराश्चैव ये * * * * * * * * * ताः
कथमेकत्वमास्थाय गच्छन्ते परमं पदम् ।
ईश्वर उवाच
ओंकारं बिन्दुसंयुक्तं यत्तद्वेदमुखं स्मृतम्
प्. ३)
अकारस्तस्य देवस्य शिवस्य परमात्मनः ।
अकारोकारयोगेन ओंकारं परिकीर्तितम्
ओष्ठाभ्यां संप्रयुक्तस्तु मकारस्संप्रवर्तते ।
इन्दुश्च परतस्तस्य मकारोपरि संस्थितः
चतुष्कलं विजानीयात् चतुर्विद्याविभूषितम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च
एताः कलाः समाख्याताः बिन्दुदेवसुधीमतः ।
ओंकारेण मकारस्तु स्पृष्टो वै नदते यदा
तदा बिन्दु स्पृशत्याशु मकारस्य च मूर्धनि ।
ककारादिमकारान्ताः चतुर्विंशत्कलास्मृताः
प्. ४)
ज्ञातव्या नित्यमेवाहुः त्रिस्थानस्था व्यवस्थिताः ।
सिद्धार्थ का * * कारं बिन्दुदेवस्य लक्षणम्
सामान्यं सर्वतन्त्रेषु तव देवि उदाहृतम् ।
म् कारसदृशाकारं ओंकारस्य तु मूर्धनि
अर्धचन्द्रनिभश्चैव बिन्दोः परतरस्थितः ।
तस्याऽपि परमं यच्च नादरूपी सदाशिवः
परात्परपरातीतो नादस्तं व्याप्यसंस्थितः ।
अतः परतरन्नास्ति शिवात्परतश्च यत्
परिज्ञानस्य देवस्य सर्वकृन्मुच्यते नरः ।
आदिमध्यायतञ्चैव त्रिपञ्च सविसर्गकम्
प्. ५)
पितामहे शरीरस्था आत्मतत्वे व्यवस्थिताः ।
चतुर्थादपरश्चैव गृहीतात्परसप्तमम्
तस्याऽपि परमं यच्च केशवस्य विनिर्दिशेत् ।
आदिमादन्तिमं यच्च अधस्त्वैकादशश्च यत्
आदिमान् पञ्चवैशेषान् * * रुद्रांशमादिशेत् ।
* * * * चत्वारः कलास्थास्ता विजानतः
यस्य यस्य हि यद्भावं तेन तेन हि यन्मया ।
यकारादि क्षकारान्ताश्शिवतत्वे व्यवस्थिताः
मातृका कथिता देवी ओंकारान्तर्व्यवस्थिताः ।
* * * * * * * * * *
सर्वदैवतम्
प्. ६)
मुच्यते सर्वपाशैस्तु शिवं याति निरामयम् ।
देव्युवाच
यदेतत्कथितं देव ओंकारं सर्वदैवतम्
तत्कथं कथितं देव ध्यायते देव योगिभिस्तत्वचिन्तकैः ।
ईश्वर उवाच
चित्तञ्चेतो तथा चिन्ता चिन्त्योऽन्य चिन्तकस्तथा
एतद्धि पञ्चकं ज्ञात्वा ततो योगं समभ्यसेत् ।
देव्युवाअच
कीदृशन्तु भवेच्चित्तञ्चेता चैव कीदृशम्
चिन्ता च कीदृशी प्रोक्ता चिन्त्यस्तु चिन्तकं कथम् ।
प्. ७)
एतत्सर्वं पुनः ब्रूहि तत्वतः परमेश्वर
संशयो मे महादेव प्रासादिभवशूलधृक् ।
ईश्वरः
अवधानं स्मृतिश्चित्तं चेता बोध प्रकारकम्
* * * * * * * * * *
पुरुषस्मृतः ।
एवं पञ्च प्रकारेण विज्ञाय परमेश्वरी
ततो योगं प्रयुञ्जीत अन्यथा न कदाचन ।
देव्युवाच
अद्यापि संशयो देव योगस्य परमेश्वर
कीदृशन्तु भवेद्योगं तत्वतः कथयस्व मे ।
प्. ८)
ईश्वरः
एवमेतत्समाख्यातं योगिनां योगमुत्तमम्
लक्षभूतमलक्ष्यञ्च द्विप्रकारं प्रकीर्तितम् ।
लक्षं दृष्ट्वा तु वै सम्यक् वेत्ता तत्स्थं नियोजयेत्
तद्गतस्तन्मयो भूत्वा युञ्जनाद्योगमुच्यते ।
सुखदुःखेन संवेत्ति करणैश्च विवर्जितः
निश्चलस्थिरभूतस्तु अलक्षं समुदाहृतम् ।
एष ते योग आख्यातः परञ्च परमञ्च यत्
यः कश्चित्तन्मयी भूतो योगं तस्य समादिशेत् ।
ओं बुद्धीमनोहंकारश्चैता जीवश्च पञ्चमः
प्. ९)
तुर्यस्थाने समाश्रित्य प्रणवस्संव्यवस्थितः ।
प्रणवो बिन्दुबन्धो हि सुषुम्नानादगोचरे
षोडशान्तविसर्गस्थः परतो मुक्तिरिष्यते ।
स एष वाङ्मयो देव मन्त्रपञ्चांशदव्ययः
गीयते सर्वसिद्धान्तैरक्षरस्थानमुत्तमम् ।
स्वभावस्संस्थितस्तत्र ब्रह्मानाम्ना स विश्रुतः
सुखमुच्चार्यमाणस्तु ब्रह्मा तत्राधि दैवतम् ।
उपांशूच्चार्यमाणस्तु विष्णुस्तत्राधि दैवतम्
मनसा स्मरेन्नोच्चार्य शिवस्तत्राधि दैवतम् ।
आत्मा ध्याता मनो ध्यानं ध्येयश्शुद्धो महेश्वरः
प्. १०)
यत्तत्परममैश्वर्यं सर्वव्यापि महेश्वरम् ।
तस्मिन् स्वदेहे देवेशि आत्मा ध्यानेन योजयेत्
निष्कलं प्रणवं कृत्वा अमात्रस्वरवर्जितम् ।
तस्यान्ते तु शिवं कृत्वा समेता मोक्षदं पदम्
यस्यैवं भेदमुत्पन्नं इदं परमदुर्लभम् ।
स गच्छेत् परमं स्थानं कुलकोटिशतैर्युतः
सर्वावस्थां गतोवाऽपि युक्तो वा सर्वपातकैः ।
अवश्यं मुच्यते देवि सर्वस्यानुग्रहे क्षमः
इदं तत्परमं देवि गोपनीयं प्रयत्नतः ।
मुच्यते पश्य देवेशि यन्त्रणारहितोपयः
प्. ११)
पुनरेव प्रवक्ष्यामि भेदं तस्य परापरम् ।
दर्शनास्पर्शनाच्चारे ज्ञेयं ध्यानेन योगिनाम्
प्राप्यते हि परं स्थानं केवलं स्मरणादपि ।
तं प्रवक्ष्याम्यहं देवि यत्सुरैरपि दुर्लभम्
अष्टत्त्रिंशत्कलैर्युक्तं शिवोमिति च यद्भवेत् ।
वेदरूपो हि सोऽवश्यं संसारार्णवतारकम्
देव्युवाच
शिवोंकारविधानोऽयं कीदृशः कथयस्व मे ।
पुन * संदिग्ध उत्पन्नः शिव ओमिति स्मृतः
ईश्वरः
प्. १२)
सर्वतत्वादि देवस्य द्वादशान्तोपरी यदा ।
त्रिकपञ्चान्वितश्चैव शिवोमिति विधीयते
देव्युवाच
अष्टत्रिंशत्कला चैव कस्मिंस्थाने व्यवस्थिताः ।
संज्ञाभिः स्थानभेदे तु कथयस्व * * * *
सिद्धि-ऋद्धिद्युतिर्लक्ष्मीर्मेधाकान्तिस्वधा स्थितिः ।
रजारक्षारतिः पाल्या कामा संयमिनी क्रिया
बुद्धिः कार्या च धात्री च ग्रामिणी मोहिनी भवा ।
तमो मोहाक्षुधा निद्रा मृत्युर्माया भया जरा
प्रवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव ।
प्. १३)
शशिनी अङ्गदा इष्टा मरीचिज्वालिनी तथा
* * * * * * * * ईश्वरः शिव एव ।
अर्धचन्द्रश्च शक्तिश्च कलाभिस्सह जानतः
निरोधीह्यर्धचन्द्रस्य नादस्यादूर्ध्वगामिनी ।
शक्तिस्था या मया प्रोक्ता व्यापिनीं तां विनिर्दिशेत्
प्रणवोच्चारणं तस्य * * * * * * * * ।
कत्वं यो न जानाति निरोधी रोधते यदा
द्वयमुत्पन्ननादस्य यच्छब्दं श्रूयते सदा ।
स एव ऊर्ध्वगामी तु नादस्यान्तर्बहिस्थिता
शक्त्यान्तु वीक्ष्यमाणायां यत्तेजः संप्रदृश्यते ।
प्. १४)
सा एव व्यापिनी चैव शक्तेश्चान्तर्बहिस्थिता
अष्टत्रिंशत्कला ख्याता प्रणवस्य समासतः ।
वेदनीयास्तु ता नित्यं शिवतन्त्रानुवर्तिभिः
योऽसौ सर्वगतो देवः सर्वेषां श्रूयते महान् ।
अनिर्देश्यमनाख्यञ्च समो * स्सर्वतस्थितः
अस्तीति भावना तस्य आद्यावस्था तु तस्य वै ।
देवैरपि न विज्ञातं किं तदस्तीति भावना
तस्यैव संज्ञा सञ्जाता शक्तिरित्यभिधीयते ।
प्रत्यक्षा सर्वलोकेषु दृश्यते सर्वतः स्थिता
फलभावन्तु यत्तस्य प्रत्यक्षस्सर्वतः स्थितः ।
प्. १५)
श्रूयते सततं देवि नादाख्येति च विश्रुतम्
अपरस्तस्य भावस्य निरोधीत्यभिधीयते ।
अर्धचन्द्रमिति प्रोक्तं व्यापी चान्ते बहिस्थितः
संयोगेन हि चान्यत्र यः कः * च्चोदितोक्षरः ।
रोधते सर्वयोगीनामर्धचन्द्रेति विश्रुतम्
ज्ञानं योगजपध्येयं शिवाचाग्नि विधि क्रिया ।
इन्द्रियादिषु सर्वेषु ज्ञेयः परतरः स्थितः
कन्दादिनालपद्मानां सर्वेषां सर्वतस्थितः ।
देवी
निष्कलं प्रणवं देव त्वया पूर्वमुदाहृतम्
प्. १६)
पुनश्च सकलङ्कानां किमर्थञ्च सुरेश्वर ।
ईश्वरः
अवगृह्णाति भूतानि मन्त्ररूपेण संस्थितः
मन्त्ररूपं पुरा गृह्य पश्चात् ज्ञानं प्रकाशते ।
पशुपाशं जगन्मूलं पशुपाशात्मकं स्मृतम्
तस्य चोन्मूलने हेतुं मन्त्रमूर्तिर्महेश्वरः ।
विद्यदर्कायुतप्रख्यः सर्वभूतानुकंपनः
मन्त्रमूर्तिगतो देवः कारुण्यात् सशिवोऽव्ययः ।
व्यापिनी व्योमरूपा चानन्तानाथानश्रुता(अनाश्रिता)
मूर्तिर्देवस्य विख्याता प्रणवो ब्रह्मभिर्युता ।
प्. १७)
ईशानपुरुषा घोरवामसद्यादिग्रहः
चराचर * * * स्ता अप्रमेयगुणोदयः ।
प्रणवः सकलो देवः सर्वविद्याधिपः प्रभुः
अविनाशी सुसंपूर्णः तेजो बिन्दुः परश्शिवः ।
प्रणवस्तनुरीशानं धृतं मन्त्रेश्वरेश्वरम्
ज्ञात्वा महे * * * * * * * * * *
प्रभुः ॥
प्रणवस्थस्वरावर्णा यावन्तदति सुव्रते ।
तावत्सुरगणास्सर्वे अभिव्यक्ता भवन्ति ते
प्रणवान्तस्थिताश्चैताः प्रणवे तत्वतः स्थिताः ।
प्रणवः सर्वधर्मात्मा प्रणवासक्तचेतसः
प्. १८)
सर्वाधारोऽप्यनाधारः प्रणवोऽनन्तमूर्तिमान् ।
प्रणवे च जगत्सर्वं शब्दाद्यं यच्च तत्परम्
* * मप्रकाशञ्च प्रग्रूढं प्रकटः प्रभुः ।
प्रणवः प्राणानां प्राणः प्रमाणपरिवर्जितम्
ब्रह्मादीनां प्रणेशानां प्रणवात्मा महेश्वरः ।
मन्त्ररूपसमूहस्तु तत्स्वरूपपरश्शिवः
प्रणवप्रभवं सर्वमा ब्रह्मभुवनं जगत् ।
तल्लयञ्च जगत्सर्वमवबुध्यस्व तत्वतः
आदौ तु यादृशं रूपं कलान्तेष्वपि तादृशम् ।
नित्यत्वादन्तरत्वाच्च प्रागुक्तात्प्रणवस्मृतः
प्. १९)
ब्रह्मा विष्णुश्च रुद्रश्च शिवश्शान्तश्च सुवृते ।
प्रणवं तस्य कुर्वन्ति तेनाऽसौ प्रणवस्मृतः
विशुद्धं सर्वगं नित्यं शिवः प्रणवसंस्थितः ।
विद्यादेहं परं शुद्धं आद्यं यत्पारमेश्वरम्
प्रणवस्यान्तर्गतं त यत्किञ्चित् भाससंस्थितः ।
साकायकारशुद्ध्यर्थं स च मोक्षस्य कारणम्
देवनामशेषाणां कृत्स्नस्य जगतस्थितः ।
सर्वव्यापी परो देवः प्रणवः सर्वकर्तृणाम्
प्रणवः सर्वधर्मात्मा प्राणिनां हृदि संस्थितः ।
तिस्रो मात्राऽर्धमात्रा च प्रणवोऽनादिसंभवम्
प्. २०)
प्रणवः सर्वभूतानां हृदिस्थो हि महेश्वरः ।
संवेद्यश्चैव याज्यश्च स ध्येयो जप्य एव च
विश्वात्मा विश्वभावी च बिन्दुसाधनमेव च ।
प्रत्येकसाधनञ्चैव मन्तव्यः प्रणवस्सदा
प्रभुत्वञ्च विभुत्वञ्च महत्वञ्च तथैव च ।
ध्यानमात्रेण देवेशि निस्संदिग्धं वरानने
ध्यातः सर्वेश्वरो देवः सर्वज्ञत्वं प्रयच्छति ।
हृदिस्था देवतास्सर्वा हृदि प्राणे व्यवस्थितिः
हृदि ज्योतीषि सर्वाणि प्रणवोऽयं हृदि स्थितः ।
एतैस्स्त्रिभिस्समायुक्तस्सर्वभूते व्यवस्थितः
प्. २१)
चित्तः चेतोऽधिको देवी आत्मानं वेत्ति तत्वतः ।
चित्तं शरीरमाख्यातं चेता शक्तिः प्रकीर्तिता
एतैर्विहीनं यदात्मानं विषसुप्ते च लक्ष्यते ।
तथा हि लक्ष्यते देवि एतैर्हीनस्तु चेतनः
रूपस्पर्शस्तथा शब्दः त्रिकलः सर्वतः कलः ।
प्रणवः परमः सूक्ष्मं प्रमाणं परिवर्जितम्
प्रसूतिः सर्वतत्वानां सात्वराजसतामसाः ।
एषु वै प्रणवो ज्ञेयः क्षेत्रज्ञस्य तु सारथी
सा की चेता शरीरेऽस्मिन् सर्वभूतगतः प्रभुः ।
स शब्दः प्रणवो ज्ञेयो सर्वमापूर्य तिष्ठति
प्. २२)
प्रकृतिः सा परा सूक्ष्मा सा करोति शिवात्मिकाम् ।
पञ्चाशत्प्रणवा देवि भेदेनैकेन कीर्तिता
ज्ञातव्या योगिभिर्नित्यं शिवज्ञानानुवर्तिभिः ।
वेदसांख्यपुराणेषु पाञ्चरात्रेतिहासयोः
स्मृतयश्च तथा चाऽन्ये ब्रुवन्ति विविधं क्रमात् ।
ओमित्येकाक्षरं ब्रह्म वदन्ते सर्वयोगिनः
वदन्ते नाऽभिजानन्त इति माया शिवात्मिका ।
देव्युवाच
पञ्चाशत्प्रणवा देव ज्ञातं मे त्वत्प्रसादतः
तस्मिन् वर्णा स्थिता देव बिन्दुनादं तथैव च ॥
प्. २३)
स * * * * * * * * * * * *
* *
* मेतं मया ज्ञातं भगवंस्त्वत्प्रसादतः ।
भूयोऽहं श्रोतुमिच्छामि संशयो मे महेश्वर
ईशानः पुरुषो घोरो वामस्सद्यस्तथैव च ।
विद्येशा लोकपालाश्च अस्त्राणि च यथाक्रमम्
एतेषामविशेषेण मन्त्रोद्धारं वदस्व मे ।
ईश्वरः
शृणु देवि परं गुह्यं मन्त्रसद्भावमुत्तमम्
प्रणवे सर्वमन्त्रास्तु प्रवक्ष्यामि वरानने
अकारस्तु भवेनन्तः प्रथमं यः प्रकीर्तितः
प्. २४)
धर्माद्यस्तु द्वितीयो वै च्छादनानि तथैव च ।
तृतीयं कल्पयेत्पद्मं सानुस्वारञ्च सद्भवेत्
चथ्र्थेन तु बीजेन विन्यसेन्नव शक्तयः ।
मकारः कर्णिकाऽख्यातं तस्य पद्मस्य नित्यशः
एतस्मिन्नंशकाः प्रोक्ता उकारादि समासतः ।
ओंकारान्तेन देवेशि पुष्करान्तेन कल्पयेत्
ऌकाराद्यास्तु ये प्रोक्ता एकारान्ते प्रतिष्ठिताः ।
केसरास्ते तु विज्ञेयाः तस्य पद्मस्य शोभने
एवं विन्यस्य यत्नेन मूर्तिं विन्यस्य पूर्ववत् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च
प्. २५)
शान्त्यतीतश्च देवेशि पञ्च ब्रह्मा प्रकीर्तिताः ।
वायव्यमादितः कृत्वा शकारान्तात्प्रतिष्ठिताः
शिवाङ्गानि तु विज्ञेयाः कथितास्तु समासतः ।
षकारस्तु भवेन्नेत्रं सा गायत्री प्रकीर्तिता
क्षस्सावित्री सदा ज्ञेया अस्मिन् तन्त्रे वरानने ।
संपूज्य देवदेवेशि हंसाख्यं च सदाशिवम्
परमाक्षरः परो देवः सर्वतन्त्रसमन्वितः ।
तेन संचिन्त्य देवेशं पूजयेत यथाक्रमम्
प्रथमे विन्यसेद्गर्भं द्वितीये चक्रवर्तिनाम् ।
तृतीये लोकपालांश्च चतुर्थेऽस्त्राणि विन्यसेत्
प्. २६)
ककारादि जकारान्ता अष्टौ वै चक्रवर्तिनः ।
झकारादि तकारान्ता लोकपालाः प्रकीर्तिताः
थकारादि भकारान्ता अस्त्राणि तु यथाक्रमम् ।
अकारेण समायुक्ता विद्येशाः परिकीर्तिताः
बिन्दुना लोकपालास्तु विसर्गेऽस्त्राणि योजयेत् ।
प्रणवेन तु सर्वेषां गन्धधूपविधिक्रमात्
कर्तव्यं सर्वथा देवि आनुपूर्वेण यत्नतः ।
प्रणवेन तु कार्याणि सर्वाण्युक्तानि यानि वै
कर्तव्यं सर्वकार्याणि अविकल्पेन भाविनी ।
पृथिव्यादि शिवान्तञ्च ये तत्वाः परिकीर्तिताः
प्. २७)
प्रणवेन तु सर्वेषां पूजा होमविधिक्रिया ।
कर्तव्यं सर्वकार्याणि जपध्यानादिरेव च
शतत्तृंशच्च होतव्यं पूर्णाहुत्या क्रमेण च ।
एष ते मातृका यागो दुर्लभः त्रिदशैरपि
एष ते मातृकायागो कृतार्थश्च्छिन्नसंशयः ।
व्रजते शिवसायुज्यं निर्मलो विगतज्वरः
आदितः कथितो देवि परमाक्षरसंज्ञितः ।
तस्याऽपि चेदृशं प्रोक्तं यागं देवेन शोभने
एष मन्त्रविभागस्तु प्रणवस्य उदाहृतः ।
पश्चात् * * * * * * * * * *
जयात्मकम्
प्. २८)
अचिरेणैव कालेन कालमृत्युं जयिष्यति ।
मासे वर्षशतं प्रोक्तं मासे द्व * * * * *
* तेनात्र सन्देहः सत्यं देवि वदाम्यहम् ।
जपार्चनविधानेन अब्देनैकेन सिद्ध्यति
अतः परं प्रवक्ष्यामि न्यासचक्रे यथाक्रमम् ।
(पूर्व) विन्यसेद्देवदेवेशि यावत्सर्वं समाप्यते
एवं वर्गक्रमेणैव विन्यसेत्सुसमाहितः ।
क्षकारैकेन कर्तव्यं सप्तधा * * * * *
* * * ष्टपत्रेषु कर्णिके च तथैव हि ।
रुद्रबीजसमायुक्ता षडङ्गेन समन्विता
प्. २९)
जुंकारमादितः कृत्वा सकारान्तेन शोभने ।
एके मृत्युञ्जयं तेषु चतुष्षष्ट्या समासतः
उच्चारेण जपं कुर्यात् आनुपूर्वेण योगवित् ।
ध्यानञ्च सततं कुर्यात् मार्गविच्चक्रसंस्थितः
शुद्धस्फटिकसंकाशो ज्ञेयो मन्त्रगणस्तु वै ।
ध्यानेन मनसा * * * * * * न संशयः
कालक्षेत्रं यदा गच्छेत् योगी मृत्युञ्जयेषिणः ।
संपुटं चिन्तयेच्चमुपरिष्ठाद्द्वितीयकम्
एवं कृत्वा तु देवेशि अध्वानन्तु व्रजेत् सदा ।
लक्षैकं जपते * * * * * * * * * *
प्. ३०)
विषयस्य हनेन्मृत्युप्रतिरोधीवशेन तु ।
एष ते कथितो देवि चक्रमृत्युञ्जयं प्रति
मुच्यते सर्वरोगैस्तु अमृतीशसमो भवेत् ।
पुनरेव प्रवक्ष्यामि दीक्षाञ्चक्रे वरानने
जन * * * * * * * * क्षेपविवर्जिताम् ।
संहृत्य सर्वसंहारं विधिं कुर्यात्समासतः
परमाक्षरेण देवेशि प्रोक्षणाभिरक्षणं स्मृतम् ।
पूज्यसंस्कारशुध्यर्थं पशूनां लंभनं तथा
सर्वमनेन कर्तव्यं * * * * * * * * ।
क्रममनसालोक्य ध्यायेच्चैव यथाक्रमम्
प्. ३१)
अग्ने चैव तु देवेशि पशुदेहे विशेषतः ।
ध्यात्वा चक्रं यथावस्थं कर्मकुर्याद्यथाक्रमम्
पूर्वपत्रात्तु आरभ्य यावत्सर्वं समाप्यते ।
* * * * * * * * * * *
त्यविचक्षणः
हृच्चक्रे योजयित्वा तु होमं तत्र समारभेत् ।
शतं शतञ्च होतव्यं पूर्णाहुत्या क्रमेण तु
नाडिमार्गेण संयोज्य यस्ते तु * विशेद्धनः ।
तत्र पूर्णाहुतिर्देया पुनरन्येषु योजयेत्
पूरकेणैवमाकृष्य हृदि चक्रे प्रवेशयेत्
* * वकेनैव देवेशि * * * लस्मृतः
प्. ३२)
एवन्नाडीषु संयोज्यमानुपूर्वेण सुव्रते ।
एष यागविधानन्तु न दद्याद्यस्य कस्यचित्
एक * * * * कञ्च * * * * * * *
।
* * * ज्वरत्यक्तो स्वशरीरेण सुव्रते
देवैश्च समतां याति मत्समीपे न संशयः ।
एतद्गुह्यान्तरं सर्वमाप्रेमातुल * * *
* * * * * * * * * देवी अतः परम् ।
अष्टपत्रं लिखेत्पद्मं मन्त्रं विन्यस्य यत्नतः
हृच्चक्रे सर्वमेतत्तु पूर्वोक्तविधिमाचरेत् ।
यदिष्टं तं यजेन्मन्त्री सिध्यतो नात्र संशयः
प्. ३३)
अविकल्पेन देवेशि स सिद्धिफलभाक् भवेत् ।
हृच्चक्रे देवता न्यासं कृत्वा पूर्वं वरानने
मण्डलानान्तु विन्यासं पूर्ववत्कारयेत्प्रिये ।
एतद्गुह्यतमं देवि न देयं परिकीर्तितम्
परीक्ष्य च दातव्यं न नास्तिकनिन्दके ।
तर्कानुमानबुध्या तु निगृह्यार्थीव शासनम्
गृहीतं नैव सिध्येत तस्मात्तं परिवर्जयेत् ।
त्रिगुणस्सगुणोवाऽपि सर्वावस्थोऽपि देशिकः
पूजनीयस्सदा * * शिवतत्वविदैस्सदा ।
न्यासं पूर्वं मया प्रोक्तं सूत्र उत्तरसंज्ञिते
प्. ३४)
तदेव तस्मिन् विज्ञेयं मुद्रास्ता एवं कीर्तिताः ।
न कुर्यादन्यथा देवि आज्ञैषा पारमेश्वरी
अविदित्वा तु यो मोहाद्विधिमेतदनुत्तमम् ।
मृत्युनाशनहेत्वर्थं स स्निग्धफलभाक् भवेत्
आप्यायनविधिज्ञश्च न्यासयोगविधानवित् ।
नाडिसञ्चारतत्वज्ञः स मृत्युं विजयिष्यति
दाहशोषपरिक्षीणः अर्धानेनापकामतः ।
धू * * वरानेन ह सुषिम्नाभिन्नमस्तकम्
एवमादि विभागेन यः कश्चित्तत्त्ववेदिकः ।
स मुक्त इति विज्ञेयश्शेषाद्यात्मविडंबकाः
प्. ३५)
तत्वानि यो विजानाति तत्त्वानां व्याप्तिरुत्तमम् ।
धर्माधर्मान्न लिप्येत स सर्वानुगृहे क्षमः
ब्राह्मणक्षत्रियो वेश्यः शूद्रो वा तत्वविद्यदा ।
विभक्तिं नैव विद्येत यथाग्नावग्निरेव हि
क्षीरे क्षीरं यथा न्यस्तो तोये तोयमिवार्पितम् ।
विभागो नैव विद्येत तत्वमिश्वर भावितम्
यथा हि सरितस्सर्वास्सागराश्रयसंस्थिताः ।
विवेकन्तु न शक्यन्ते रसभावं पृथक् पृथक्
तद्वद्वर्णाश्रमा देवि दीक्षितो यदि व पशुः ।
शिवभाव समायुक्तो तुल्यमेतन्नसंशयः
प्. ३६)
शिवतन्त्रं समाश्रित्य विभक्तिं यः करिष्यति ।
स पच्येन्नरो घोरेषु द्वात्रिंशन्नरकेषु च
ब्रह्मणस्तु दिनाः पञ्च दिनाः पञ्च च केशवे ।
दिनत्रयन्तु रुद्रस्य प्रायश्चित्तीयते नरः
तस्मात्सर्वप्रयत्नेनेत्यविवेकी सदा भवेत् ।
विवेकी गच्छतेऽधस्तात् अविवेकी * * * जेत्
एतत्ते कथितं देवि तत्वानां व्याप्तिरुत्तमा ।
त्वया गुप्ततरं कार्यं न दद्या परदीक्षिते
दशद्वादशभिष्षड्भिः त्रिभिर्वर्णामनुत्तरात् ।
अथवा सत्य एव स्यात् विदिताराधि तोर्यदा
प्. ३७)
* * * * * * * शिववत्वं विनिर्दिशेत् ।
न लिखेत्पुण्यपापेभ्यो सत्यं देवि उदाहृतम्
चिच्छक्त्यागमेचोक्तं विधिनानेन सुवृते ।
सर्वे ते प्रणवा ज्ञेयाः काममुक्तिफलप्रदाः
एष ते मातृकायागः कथितस्तव शोभने ।
येन इष्टो इष्टं वा अ * * * * * * * *
इति निश्वासकारिकायां ज्ञानकाण्डप्रकरणे द्वादशः पटलः ।
ईश्वरः
हृत्पद्मं संप्रवक्ष्यामि दशग्रन्थिष्ववस्थितम् ।
यथा सा साधना तत्र मातृका * * * * * *
प्. ३८)
* * * मसद्भावं सर्वव्यापीति विश्रुतम् ।
स एवं संस्थितो नित्यं देही देहत्वमागतः
आपादतलमूर्धान्तं स्वेच्छया यः प्रवर्तते ।
स एव नालमित्युक्तं आधारं सर्वदेहिनाम्
अष्टपत्रं भवेत्पद्मं षोडशच्छदमेव वा ।
अभयोरेव जानीयात् संपुटं परमं महत्
पूर्वपत्रात्समारभ्य आदिवर्गन्तु विन्यसेत् ।
एकैकमक्षरं विद्यात् पत्रे पत्रे यथाक्रमम्
ककारादिभकारान्तान् केसरान्तान् विनिर्दिशेत् ।
मकारं कर्णिका ज्ञेया तस्य पद्मस्य मध्यतः
प्. ३९)
यकारादि क्षकारान्तान् पुष्करान्तान् विनिर्दिशेत् ।
एष पद्मविधिप्रोक्तो हृत्पद्मस्य विशेषतः
अङ्गुष्ठाद्यावन्मूर्धान्तमेवमेव विधिस्मृतः ।
विधिमेव सकृत् ज्ञात्वा न भूयो जन्मतां व्रजेत्
षट्पदास्वादलोभेन यथा पुष्पाणि जिघ्रति ।
एवं सर्वेषु पद्मेषु हृदिस्थो याति नित्यशः
यदेतद्धृतिपद्मन्तु अधोमुखमवस्थितम् ।
तस्य मध्ये तु चात्मानमधश्चोर्ध्वमवस्थितम्
अहर्निशास्तु देवेशि मध्यस्य क्रीडते प्रभुः ।
भुङ्क्ते तु विविधान् भोगान् धर्माधर्मेष्ववस्थितः
प्. ४०)
घटीयन्त्री यथा कश्चित् एकत्स्थः पूरयेद्बहून् ।
तद्वद्देहस्थितो देही पूरके रेचकेऽपि च
योऽसौ ज्ञेयमिति प्रोक्तं सर्वेषां श्रूयते महत् ।
स एव चेतनाऽत्मस्थः चेष्टा ह्येतानि कारयेत्
स जीव इति विज्ञेयस्सर्वेषाञ्च व्यवस्थितः ।
प्रेरकः सर्वभूतेषु इन्द्रियैश्च विशेषतः
शुभाशुभेषु सर्वत्र उभयोरपि धावति ।
धर्मिष्ठानान्तु धर्मिष्ठः पापिष्ठानान्तु पापकृत्
अविज्ञातः पशुस्सोहि विज्ञातः पति रेव सः ।
एवं पशुपतिश्चायं सर्वप्राणिषु संस्थितः
प्. ४१)
शुद्धस्फटिकसंकाशं तारकेण तु लक्षयेत् ।
खद्योतमिव नाभाति प्रमाणमिच्छया स्मृतम्
स जीवः स पशुश्चैव स शिवो ज्ञेयमेव च ।
मनश्च चेतनश्चैव स एव परिगीयते
देव्युवाच
जीवं कथय देवेश पशुञ्च शिवमेव च ।
ज्ञेयं मनश्च चेता च कथयस्व विभागतः
ईश्वर उवाच
शुभाशुभेषु सर्वेषु जीवः संयुज्यते यदा ।
जीवन्ते सर्वभूतानि जीवस्तेनेह कीर्तितः
प्. ४२)
तमादि कालरुद्रान्तं पाशानैकस्तु पाशितम् ।
भ्रमते भ्रममाणस्तु पशुस्तेनैव कीर्तितः
अविज्ञातः पशुस्सोहि विज्ञातश्शिव एव हि ।
ध्यायते पूज्यते यस्मात् तस्माच्छिव इति स्मृतः
अगृह्यस्सर्वभूतेषु नामभिश्च विवर्जितः ।
अस्तीति भावना यस्मात् तस्मात् ज्ञेयमिति स्मृतम्
शुभाशुभेषु कर्मेषु सङ्कल्पं कुरुते सदा ।
मानयोन्द्रे यान्यस्ता * * * * * * * * *
* * * इति स * * * भावे व्यवस्थिता ।
प्रेरकस्तेषु सर्वेषु मनस्थः परमेश्वरः ॥ इति
प्. ४३)
चितिस्वरूपपिण्डेषु चेतना भावमानतिः ।
स्पर्शितं वेदते यस्मात्तस्माच्चेता इति स्मृतः
देव्युवाच
अधोमुखन्तु यत्पद्मं कथमूर्ध्वमुखं भवेत् ।
अङ्गुष्ठाद्यावमूर्धान्तं नीत्वा शिवपदं व्रजेत्
तदहं श्रोतुमिच्छामि यथावत्त्वत्प्रसादतः ।
ईश्वरः
अष्टमेन हि तत्वेन जातवेदो द्वयेन च
अधोर्ध्वगतसंयुक्तमायतेन शिवं व्रजेत् ।
अधोमुखन्तु यत्पद्मं वर्तते नित्यमेव हि
प्. ४४)
अभेद्यं सर्वयोगीनां गुरुवाक्य बहिष्कृतम् ।
यथा च भेदमायान्ति अधः पद्मो वरानने
तदहं संप्रवक्ष्यामि भेदामृतमनुत्तमम् ।
दशग्रन्थि विभेदन्तु क्षुरिकातो यदा भवेत्
अथ ते कथयिष्यामि भेदं तस्य परापरम् ।
भास्करप्रभवे मार्गे ध्यातव्यं ज्योतिमण्डलम्
तदेव संमुखो मन्त्री मरणं परिकीर्तितम् ।
तत्तेजोऽन्तर्हितं कृत्वा स्वमार्गं पूरकेण तु
मुखनासापुटे कर्णौ चतुष्टौ तु निमित्तकौ ।
शिखापञ्चसमोपेतं ध्यातव्यं योगिभिस्सदा
प्. ४५)
स्रवन्तममृतं दिव्यं शिखामध्ये विचिन्तयेत् ।
निर्धूमाग्नौ पतत्येव शिष्यते च मुहुर्मुहुः
एवं ते शोषमायान्ति अधः पद्मसमन्ततः ।
आपूर्य कुंभकेनैव चित्राकारं विचिन्तयेत्
सुषिरं दृश्यते तत्र बीजं दीपस्य बोधिता ।
ततस्तेनैव मार्गेण शनैरेचक सुव्रते
ततस्तु प्रथमां ग्रन्थिच्छेदयेच्छेदकेन तु ।
एवं क्रमेण देवेशि यावन्मूर्ध्नि समाहतम्
ततो हुंकारं कुर्वीत ऊर्ध्वं वायुं सुरेचयेत् ।
वेगेनाक्षिपतस्तत्र मूर्छा कंपश्च जायते
प्. ४६)
पतते मोहमापन्नो लब्धचेताश्च योगवित् ।
पुनराप्यायनं कुर्यात् मूर्छाकंपं विनाशयेत्
अमृतस्यन्दिनी बिन्दुरीढायाः प्रवहेन तु ।
चिन्तयेत्प्लावयत्येवं तत आप्यायतेद्ध्रुवम्
अधोमुखेन पद्मेन परिवृत्या च दीपिकाः ।
सिध्यते येन यो भिन्नं मार्गविद्विजचिन्तकः
अधोमुखेन तत्वेन सकलेन वरानने ।
एवमभ्यासतो देवि द्विमार्गं प्रवहेन तु
एवमभ्यसतः शोष एवमाप्यायकेन तु ।
यदा निर्वेदमापन्नो दृष्ट्वा चञ्चलमात्मनः
प्. ४७)
अनेकेन प्रकारेण आयामान्ते तु च्छेदयेत् ।
तदा निर्वाणमभ्येति छिन्नपाशनिबन्धनः
इदं देवि न दातव्यं प्रयोगामृतमुत्तमम् ।
सप्ताहात्तु क्रमेद्वश्यं नात्रकार्या विचारणा
निश्चितेन तु देवेशि शतायुरपि मुत्क्रमेत् ।
हृच्छिकारसमायुक्त उत्क्रमन्नात्रसंशयः
कर्णान्निष्पीड्य हिक्कायां जिह्वा च परिवर्तयेत् ।
एष अन्ते प्रकुर्वीत अन्यथा न कदाचन
अभ्यासं पूर्ववत्कृत्वा ज्ञात्वा उपरमेत्ततः ।
मृत्युलिङ्गं यदा ज्ञातं तदा एतत्प्रयोजयेत्
प्. ४८)
क्रुद्धलब्धावमानेन कुर्या * * * * * * ।
विद्याभावाऽथ गच्छेताः स * * * * वर्तयेत्
पद्मसूत्राणि सूक्ष्मन्तु नालं तस्य विचिन्तयेत् ।
अङ्गुष्ठाद्यावन्मूर्धान्तं तावत्पदमनामयम्
ईश्वरेण सहायेन गन्तव्यं शङ्कितेन तु ।
मूर्तिध्यानं समाश्रित्य त्वा * * * * * * *
प्र * * * यदा प्राप्तं सखायं परमं महत् ।
जीवन्तमयतां स्थाप्य गच्छेत्पदमनामयम्
सूत्रेणेव मणिर्यद्वत् वेधयेत्कश्चिन्मानवः ।
तद्वत्तदात्मको योगी बिन्दुर्मणिरिव ग्रथेत्
प्. ४९)
यत्तद्धित्रामितं सूक्ष्मं हृत्पद्मन्तु अधोमुखम् ।
पूरितं कुंभकेनैव तदा चोर्ध्वमुखं भवेत्
ऊर्ध्ववत्वं भावयेद्योगी शिखातालुप्रभेदिनी ।
सूर्यमण्डलमध्यस्था सोमश्चाग्नेश्च मध्यगाः
स्थूलास्सूक्ष्मास्सुसूक्ष्माश्चान्तः करणवर्जिताः ।
स्थूलञ्चाक्षररूपेण सूक्ष्मं बिन्दुसमाश्रितम्
सुसूक्ष्मं नादमित्युक्तं स नादोऽयं त्रिधा स्थितः ।
नादान्तर्निहिता शक्तिः शक्त्यतीतस्तु निष्कलः
क्षरतेऽक्षरभोगेन बीजसृष्टिरनेकधा ।
अक्षरप्रकृतिज्ञेया तदतीतस्तु निष्कलः
प्. ५०)
या सा कुण्डलिनी प्रोक्ता मया पूर्वमुदाहृता ।
निपतन्ति त्रिधाभूता प्रकृतिः सा परा परा
साणुमात्रा हृदिस्थाने कर्णस्था द्विरणुस्मृता ।
जिह्वाग्रे त्रिरणं विद्धि निसृतां मातृकां विदुः
चतुर्विधा या देवेशि लिख्यते याऽग्रकुण्डली ।
लिख्यते पठ्यते नैव अणुर्नादेन वेष्टितः
स्वरार्द्धस्पर्शार्धञ्च शक्तिनाथोऽथ बिन्दुकम् ।
शिवतत्वन्तु बोद्धव्यं वर्णे वर्णे व्यवस्थितम्
चारणात्स्पर्शनाच्चैव स्वस्वरं समनादितम् ।
शक्तिश्च शान्तता चैव बोद्धव्यमनुपूर्वशः
प्. ५१)
उच्चारे कथितो ब्रह्मा अक्षरक्षरसंभवः ।
आत्मतत्त्वागतो येन आकरस्तेन चोच्यते
स्पर्शे विष्णुस्समाख्यातो विद्यातत्वसमाश्रितः ।
मायया मोहयत्येष मकारस्तेन चोच्यते
सकलस्तु भवेद्रुद्रो वर्णरूपीह्यधस्थितः ।
प्राणो भूत्वा हरत्यूर्ध्वं हकारस्तेन चोच्यते
मदलोर्लेपहीनस्तु झर्झरत्वं प्रपद्यते ।
बिन्दुहीनास्तथा वर्णा सुस्वरन्न प्रकाशयेत्
हृत्कर्णतालुमूर्धान्तं नादस्थानं प्रकीर्तितम् ।
तत्रस्थं चिन्तयेद्योगी शिखां तालुप्रभेदिनीम्
प्. ५२)
बिन्दुमध्यगतो नादः स तु नादः परापरः ।
शिवतेजोद्भवा शक्तिः वर्णे वर्णे व्यवस्थिता
तेन दीप्तप्रभावञ्च वर्णा सिद्धिस्तु कामिकी ।
तत्वेन विततास्सर्वे तन्तुभिस्तु यथा परः
क्षीरभूते भवेद्वर्णा बिन्दुर्घृतमिव स्थितम् ।
घृतमध्यसमो नादः शक्तिर्वीर्यमिव स्थितः
तेजो भूतं परं तत्वं सर्वदोषविवर्जितम् ।
व्यापकस्सर्व * *? नां गुरुवक्त्रात्तु लभ्यते
देवी स्वरार्धं स्पर्शार्धं सुस्वरं समनादितम् ।
अनया देवि विज्ञातं परेण सह संयुतम्
प्. ५३)
देवतानान्तु यत्स्थानं वर्णे वर्णे व्यवस्थितम् ।
तदहं श्रोतुमिच्छामि तत्वतो ज्ञातुमर्हसि
ईश्वर उवाच
स्वरार्धे कथितो ब्रह्मा स्पर्शार्धेन तु केशवः ।
सुस्वरे च समाख्यातः तत्र रुद्रो व्यवस्थितः
समशब्दे स्थितो गीशः स तु बिन्दुरुदाहृतः ।
आयते देवदेवेशि नादाख्यः स सदाशिवः
शक्तिः परतरस्तस्य परेण सह संयुता ।
भागमेकं शिवस्थाने अङ्गेष्वेव द्वितीयकम्
तृतीयं निष्ठमं तस्य येन वर्णास्फुटो भवेत् ।
प्. ५४)
चतुर्थन्तु ततो बाह्ये पञ्च षष्ठं तथैव च
वर्णा देहं समाख्यातं यत्र सर्वे प्रतिष्ठिताः ।
अधुना देहगं देवि कथयामि यथा स्थिता
स्वरोऽहं हृदयो देवि स्पर्शः कण्ठे समाश्रितः ।
तालुमध्ये समाख्यातं सुस्वराख्यं वरानने
समत्वं यन्मया ख्यातं ललाटान्ते महेश्वरी ।
तस्योपरि शिखा व्योम नादाख्यस्स सदाशिवः
स्वशक्तिकिरणैर्देवः परस्सर्वत्र संस्थितः ।
स्वदेहे देवि ज्ञातव्या देवता भवनाशना
अर्धार्धेन विभागेन ज्ञात्वा मुह्यति बन्धनात् ।
प्. ५५)
एवं षट् त्रिविधं ज्ञात्वा पञ्च व्योमा परा स्थिता
परस्तु परतो देव शक्तिभावं प्रकाशकम् ।
तस्य स्थानं न वक्तव्यं स सर्वत्र व्यवस्थितः
त्यक्त्वा सर्वमिदं भावं संस्थितो गुरुवर्त्मनि ।
पञ्चव्योमपदातीतं यदा प्राप्यति तत्पदम्
तदा व्याप्ता च भोक्ता च तेषां देवि भविष्यति ।
यदा गुरुमुखाद्देवि विज्ञातं पारमेश्वरम्
तदा वर्णाश्च देवाश्च न किञ्चिदपि चिन्तयेत् ।
चिन्ताहीनश्च यो देवि स सर्वत्र व्यवस्थितः
तेन युक्ताश्च देवाश्च नानासिद्धिफलप्रदा ।
प्. ५६)
तेन हीना न सिध्यन्ति न च यान्ति परं पदम्
तस्मात्तन्तु वरारोहे वेदितव्यं प्रयत्नतः ।
न च तेन विना सिद्धिः पूजयाध्वरकर्मणि
एवं सिद्धिप्रदो देवः स एव मुक्तिदस्सदा ।
पञ्च व्योमात्मके देहे शक्तिरूपेण भाव्यते
देवी
पञ्चव्योमेति देवेश न मया यच्च धारितम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
ईश्वरः
बीजयोनिसमायोगात् वर्ण इत्यभिशब्द्यते ।
प्. ५७)
योनिः पृथक् पृथक् बीजं व्योम इत्यभिधीयते
पृथक् पृथक् स्वरूपेण व्याप्य स्वस्थानमात्मनि ।
स्थितास्ते व्योमवद्देवि तेन व्योमेति कीर्तिताः
सर्वेषां व्याप्य देवेशि बहिरन्तश्च संस्थिताः ।
तेन सा देवि आख्याता व्योमव्यापी परश्शिवः
एवं ते ज्ञानिनः सर्वे परेण सह संयुताः ।
(एवं ते ज्ञानिनस्सर्वे परेण सह संयुताः ॥)
तादृशं वर्णरूपेण देवदेवमुपास्यते
तेन ते देवतास्सर्वे काममुक्तिफलप्रदाः ।
वर्णयोगं यदा ख्यातं तत्स्थानालय भोगभुक्
प्. ५८)
सदेवावययुक्तस्तु विलयं दैवतैस्सह ॥ ९७ १।२ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे हृत्पद्मप्रकरणे त्रयोदशः पटलः ॥
देव्युवाच
भगवन् श्रोतुमिच्छामि मन्त्रस्यानित्यनित्यताम् ।
संयोगात्मैकमन्त्रेण कथं मोक्षो विधीयते
ईश्वरः
संयोगात्मस्य मन्त्रस्य विदित्वा मोक्षमाप्नुयात् ।
पशुमाकृष्यमात्मस्थः प्रयाति परमं पदम्
प्. ५९)
देव्युवाच
जिह्वोष्ठपुटसंयोगात् मन्त्रस्योच्चारमिष्यते ।
तेनानित्या महादेवः कथं नित्यत्वता भवेत्
कथं वाऽनित्यता तेषां भगवन् वक्तुमर्हसि ।
न संयोगाद्बहिर्मन्त्रो जिह्वोष्ठपुटवर्जितः
स्वयं नित्यस्थितौ चात्र तेन नित्यत्वतां नयेत् ।
इच्छाशक्तिर्महेशस्य मन्त्रात्मावस्थितस्य च
उत्तमाधममध्येषु त्रिस्थानावस्थ भोगभुक् ।
उत्तमेष्वुत्तमं भुङ्क्ते मध्यमे मध्यमं तथा
हीने हीनं ह्यसौ देवो मन्त्रात्मा क्रीडयत्यसौ ।
प्. ६०)
देशिकत्वे समास्थाय पशुं गृह्य वरानने
भोगान् भुक्त्वा तु तत्त्वेषु स्थूलात्मा शान्ततां व्रजेत् ।
अधमो योगिभोगादिं भुञ्जते परमेश्वरः
तिर्यक् पञ्चविधञ्चैवमन्त्यभागांस्तथैव च ।
मध्यमे तात्विकं भोगं भुक्तन्तु परमेश्वरः
प्रकृतिञ्चादितः कृत्वा यावद्विश्वेश्वरं पदम् ।
तृतीयं उत्तरं भोगमिति वारितसर्वभुक्
स सर्वज्ञः परो देवः त्रिस्थानेष्वपि क्रीडति ।
क्रीडते मन्त्ररूपी सो वृश्चिके पन्नगेषु च
यस्य यस्य हि यद्वीर्यं मन्त्राणां परिगीयते ।
प्. ६१)
तेन तेन हि भावेन क्रीडन्ते परमेश्वरः
देव्युवाच
भगवन् श्रोतुमिच्छामि मन्त्रशब्दस्तु यादृशः ।
संशयो मे महादेव प्रसादी भव शूलधृक्
ईश्वर उवाच
मन्त्रशब्दन्तु सामान्यं बहवो मन्त्रजातयः ।
मातृकासंभवास्सर्वे नास्ति मन्त्रमतः परम्
पञ्चधा मन्त्रमुद्दिष्टा नवधा दशधा पुनः ।
वेदनीयास्तु ते सर्वे शिवतत्वानुवर्तिभिः
अपरश्च परश्चैव परेभ्योऽन्यपरस्तथा ।
प्. ६२)
परतो यन्मया प्रोक्तस्सर्वेषां व्यापकस्मृतः
सर्वव्यापी परो ज्ञेयः कारणः सर्वशक्तिमान् ।
एकाक्षरस्मृतो मन्त्रो द्व्यक्षरास्त्र्यक्षराः पराः
पञ्च षट् सप्तमाष्टौ च अन्ये ब्रह्माक्षरास्मृताः ।
बह्वक्षरा ये देवेशि मन्त्रास्ते संप्रकीर्तिताः
ह्रस्वा दीर्घा प्लुताश्चैव स्वरयुक्तिविसर्गजाः ।
संयोगेन विहीनास्तु न ते मन्त्राः प्रकीर्तिताः
यत्तत्पूर्वं मया ख्यातं देहं परमकारणे ।
तदेवादौ नमश्चान्ते संयोगं समुदाहृतम्
कूटस्थाश्चैव मन्त्राश्च मया पूर्वमुदाहृताः ।
प्. ६३)
संयोगेन विहीनास्तु मन्त्रशब्दबहिष्कृताः
प्रकृतिस्थं ह्रस्वमेवाहुः दीर्घं दीर्घेण भेदितम् ।
व्यापकेन समायुक्तं संपतन्तं विनिर्दिशेत्
अतीता बिन्दुनादेन परप्रकृतिसंस्थिता ।
स्वरमन्त्रं विजानीयाद्विसर्गेण विसर्गजाः
एवन्तु पञ्चधा मन्त्राः परमेशमुखोद्गताः ।
पञ्चधा संस्थितान् ज्ञात्वा ततः कर्म समारभेत्
हकारो मन्त्र उद्दिष्टस्सर्वेषां प्रभुरीश्वरः ।
प्रेरकस्सर्वमन्त्रेषु स्वशक्तिबलवर्धनः
समन्त्रीमन्त्रनमस्थो मन्त्रात्मा प्रभुरव्ययः ।
प्. ६४)
इति निश्वासकारिकायां ज्ञानकाण्डे मन्त्रोद्धारमन्त्रनित्यत्वविवक्षा
प्रकरणे चतुर्दशः पटलः
देव्युवाच
बिन्दुदेवं परं तत्वं सर्वतत्वसमुद्भवम् ।
श्रोतुमिच्छामि देवेश परं कौतूहलं हि मे
कथं कस्मिंस्थिता स्तत्वा देवाश्चैव महेश्वर ।
तत्वं पदं परञ्चैव विदुस्तत्वे यथा स्थितम्
तदहं श्रोतुमिच्छामि त्वत्प्रसादान् महेश्वर ।
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छितम्
प्. ६५)
तदहं संप्रवक्ष्यामि बिन्दुदेवस्य निर्णयम् ।
अनक्षरमनुच्चार्यमव्ययं वृत्तलक्षणम्
ध्येयमप्रतिमञ्चैव बिन्दुतत्वमुदाहृतम् ।
बिन्दुभूतस्थितो यस्मात् शिवस्य परमात्मनः
दूरस्थः संस्थितो यस्मात् तस्माद्बिन्दुरिति स्मृतः ।
विद्यातत्वोपरि श्रीमान् संक्रान्तिर्द्वादशैर्युतम्
भुवः पतिस्स वै सूर्यः कालरूपी परश्शिवः ।
कालसंख्यार्थं देवेशि दीप्यते भुविचांबरे
अकालश्चैव सूर्यश्च स बिन्दुः स परश्शिवः ।
स देहस्तन्तु बोद्धव्य स्वगतं दृढगोचरम्
प्. ६६)
सोऽग्निस्तु वर्तुली भूत्वा प्राणिनां हृदि संस्थितः ।
सर्वभूतं हृदिस्थोऽसौ ज्वलत्पावकवर्चसम्
अन्तरात्मा स विज्ञेयो जगच्चक्षुर्न संशयः ।
हृस्वस्तु दहते ध्यानदीर्घस्तु मोक्षदो भवेत्
प्लुतमूर्तिधरो बिन्दुस्सर्वलोकप्रकाशकः ।
विशतात् बिन्दुरूपाच्च विशेषानलविग्रहः
विश्वरूपमलत्वाच्च विलयाद्बिन्दुरुच्यते ।
विदन्ते येन तत्त्वांश्च देहमध्ये व्यवस्थितान्
वेदनाच्चैव तत्त्वानां देहे सर्वत्र संस्थिताः ।
लयं गमयते यस्मात् तस्माद्बिन्दुरिति स्मृतः
प्. ६७)
बिन्दुमध्यगतं सर्वं त्रैलोक्यं स चराचरम् ।
सृजन् संहरते विश्वं सदाशिव नियोगतः
योऽसौ ध्वस्ततमो बिन्दुः सर्वव्यापी महेश्वरः ।
क्षोभकस्सर्वभूतानां तारका इव चन्द्रमाः
चन्द्रमण्डलसंकाशं विद्युत्पुञ्जघनोपम् ।
तारकाचलिताकारं बिन्दुदेवस्य रूपकम्
ओषधीनां रसो यद्वत् दीप्तिर्यद्वद्धुताशने ।
सोमेव सौम्यता यद्वत् कर्णिकायां समासतः
संभवस्स तु बीजस्य यो यन्नेत्रेषु दृश्यते ।
नेत्रमध्ये भवेदात्मा छायाजीवस्य दृश्यते
प्. ६८)
आत्मनो दृश्यते छाया चक्षुभ्यां ज्योतिमाश्रितः ।
क्षेत्रज्ञः स च वै विष्णुः पुरुषः पञ्चविंशकः
एकाक्षरं चतुर्भेदं चतुर्मात्रैरलङ्कृतम् ।
चतुष्कसृङ्कलातीतं बिन्दुं ज्ञात्वा शिवं व्रजेत्
यस्ततो दृश्यते शुक्लान्नेत्रयोः प्रान्तसंस्थिताः ।
आकारो ब्रह्मणो रूपं सात्विकं परिचक्षते
रक्तकृष्णा च या तत्र दृश्यते नयनस्थिता ।
ऊकारं वैष्णवं रूपं राजसं तत्प्रचक्षते
यस्तत्र दृश्यते कृष्णमण्डलं नयने स्थितम् ।
मकारं रुद्ररूपन्तु तामसं परिकीर्तितम्
प्. ६९)
कृष्णस्वच्छञ्च यस्तत्र नेत्रमध्ये व्यवस्थितम् ।
स बिन्दुरिति विज्ञेयो यत्रात्मा दृश्यते स्थितः
बिन्दुमध्यगतं सूक्ष्मं सुषिरं ज्योतिरूपिणी ।
दृष्ट्वाऽन्तं सर्वभूतात्मा स शान्तपददीपकम्
* * * * मत * * * * मृतलक्षकृत् ।
अथ * * * * * * देवा विन्यस्य सुवृते
ध्यातव्यं सततं देवि यमिच्छेत्तत्त्रिधा भवेत् ।
आकारः शुक्लवर्णस्तु ब्रह्मा सत्वगुणे स्थितः
रक्तकृष्णं भवेद्विष्णुराजसं तत्प्रचक्षते ।
कृष्णन्तु रुद्रविषयं तामसं तत्प्रचक्षते
प्. ७०)
कृष्णमच्छन्तु यत्तत्र मण्डलं नयनान्तगम् ।
स बिन्दुरिति मन्तव्यो यत्रात्मा दृश्यते स्थितः
स्वच्छमध्यन्तु यत्तत्र नेत्रान्तपदसंस्थितम् ।
स निष्कलो पराध्यात्मं परं ब्रह्ममिदं स्मृतम्
नेत्रा श्रुता तु याच्छाया भ्रुवोर्मध्ये विनिर्गता ।
बिन्दुदेवस्य तत्स्थानं परात्परतरं महत्
यस्मात्प्रवर्तते सृष्टिः स्वरवर्णकलात्मिका ।
यस्मिंश्च लीयते भूयः तद्बिन्दुरिति संज्ञितम्
यस्येच्छया विमुच्यन्ते पशवः पाशबन्धनात् ।
मन्त्राजलाज्यसंयोगात् तद्बिन्दुरिति संज्ञितम्
प्. ७१)
निवृत्तिस्थो ह्युदासीनो विद्यास्थः शब्दकारकः ।
प्रतिष्ठा सृष्टिरभवत् शान्तिस्थः सकलेरणः
बिन्दुमध्यगतो नादो नादमध्यगतो ध्वनिः ।
ध्वनिमध्यगतस्तारः तारमध्यगतश्शिवः
तत्र जातमशेषं हि तस्मिन्नेव लयं गतम् ।
नित्यास्ते निर्विकारिण्यो निवृत्तिस्तेन चोच्यते
यतश्चराचरमिदं जगदत्रैव संस्थितम् ।
तिष्ठत्यलक्षितगुणा प्रतिष्ठा तूच्यते ततः
पशूनामप्रबुद्धानां ईश्वरादि कलान्तकाः ।
यस्माद्वेदयते तस्माद्विद्येति विहिता कला
प्. ७२)
क्षित्यानिलाग्नि वायवाद्यै रेखा भावो व्यवस्थितः ।
न लिप्यते सुसूक्ष्मत्वात् तस्माच्छान्तिरिहोच्यते
यत्तत्सदास्ते विमलश्शिवशान्तविलक्षणः ।
सदाशिवाख्यमित्यस्मिन् नामानि परिगीयते
एतैः कलैः कलायाढ्यो उद्भवक्षयकृच्छिवः ।
यत्तच्छिवाख्यमाख्यातं तत्त्वमप्रतिमौजसम्
धूम्राग्रपटलाकारं विस्तीर्णं सर्वतो मुखम् ।
दृश्यते नश्यते चैव स्थूलं बिन्दुरिति स्मृतम्
दीप्रताम्रनिभञ्चैव खद्योतसदृशद्युतिः ।
हरिकुङ्कुमसङ्काशो मध्यमो बिन्दुरुच्यते
प्. ७३)
नेत्रमध्ये स्थिता दीप्तिः पूर्यते स्वेन तेजसा ।
शुद्धस्फटिकसङ्काशो बिन्दुः ज्ञेयः परापरः
दशदेवमयो बिन्दुः दश कर्मफलप्रदः ।
दशरूपञ्च बोद्धव्य सूक्ष्मात्सूक्ष्मतरं परम्
सितं रक्तं तथा कृष्णं नीलमेघसमप्रभम् ।
पीतं रक्तञ्च पीतञ्च कपिलो धूम्रमेव च
दशमं स्फटिकाभञ्च फलमेषां पृथक् पृथक् ।
* * * * * * रणे इवे * * * *
*
पिशाचनाशने कृष्णं शिवेनोत्तममात्मना ।
सर्वग्रहविनाशाय नीलं वै परिकीर्तितम्
प्. ७४)
मेघो व्याधिविनाशाय पीतरक्तञ्च मारणे ।
* * * * * * * चैव * * * *
*
सर्वकर्मकरो धूम्रस्फटिकाभस्तु मोक्षदः ।
श्वेतादीनान्तु सर्वेषां देवताः संप्रचक्षते
अनन्तेशादितः कृत्वा शिखण्ड्यन्ताः प्रकीर्तिताः ।
कालाग्निरुद्रो नवमो दशमस्तु सदाशिवः
इदं मुख्यं शिवाख्यस्य बिन्दुदेवस्य लक्षणम् ।
बोद्धव्यं साधकैः प्राज्ञैः मुनिभिः मोक्षकाङ्क्षिभिः
शून्याख्यप्रथमो बिन्दुः परशून्यो द्वितीयकः ।
अतस्तृतीयमेवाहुः तत्वार्थं गहनं पदम्
प्. ७५)
अक्षोभ्यंः परमो बिन्दुः षष्ठो निरतिसंशयः ।
सप्तमं शून्यतरं स्यात् शून्याभासन्तथाष्टमम्
निराभासस्तु नवमो दशमस्तु रभासकः ।
सुकान्तैकादशः प्रोक्तो द्वादशस्सुशिवः स्मृतः
त्रयोदश सुनादस्तु ताराख्यश्च चतुर्दश ।
दशपञ्च वराभास ध्रुवो बिन्दुश्च षोडश
दश सप्ताव्ययः प्रोक्तो विद्यातत्त्वव्यवस्थितः ।
अव्ययस्तु शिवो यस्तु एवमष्टादश क्रमात्
वेदितव्यः प्रयत्नेन बिन्दुदेवः परापरा ।
निश्रेण्यात्त्वेकमूलेन आरोहेत्परमं पदम्
प्. ७६)
देव्युवाच
कथं बिन्दोरनुच्चार उच्चारो वा कथं भवेत् ।
शून्याच्छून्यतरं शून्यमुक्तमष्टादश क्रमात्
एवं नामविभागेन के तत्वाः परिकीर्तिताः ।
नेत्राश्रिता तु याच्छाया भ्रुवोर्मध्ये विनिर्गता
कथं तस्य भवेल्लक्ष्म भगवन् वक्तुमर्हसि ।
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम्
तदहं संप्रवक्ष्यामि लक्ष्मामृतमनुत्तमम् ।
एक एव यदा देवि बिन्दुरित्यभिशब्दितम्
प्. ७७)
अनुच्चारशिवो ज्ञेयं तदव्यक्तमिति स्मृतम् ।
वर्णहीनं न किञ्चित्स्यात् कूटस्थस्तेन चोच्यते
वर्णसंयुक्तदेहस्तु ब्रह्मादिस्तंवगोचरः ।
प्रकृत्या जालगहनं सर्वमुत्पाद्य गच्छति
एतदुच्चारमित्युक्तं बिन्दुदेवस्य सुन्दरि ।
तस्मादन्यैस्तु संयुक्तमुच्चरेत्सर्वकर्मसु
दीक्षाकाले जपे होमे वर्णयागे तथैव च ।
बिन्दुयुक्तेन कर्तव्यं सर्वकर्मप्रसिद्धये
शून्यशब्देन चाह्वानां यन्मया कथितं तव ।
पृथिव्यादि विभागेन ज्ञातव्यन्तु वरानने
प्. ७८)
तस्य प्रसूतिमेकेन शोभने * * * * * ।
शतं शतञ्च होतव्यं तत्वं तत्वेन सन्धयेत्
षष्ठस्वरविनिर्मुक्तस्सप्ततत्वादिमस्तु यः ।
एकबीजेन होतव्यं सर्वाध्वानमशेषतः
पूर्णाहुत्यतु दातव्याः प्रतिहोमं शते शते ।
सप्लुतोच्चारयोद्वर्णं बिन्दुयुक्तञ्च कारयेत्
बिन्दुयुक्ते तदा नादं कर्तव्यं देशिकेन तु ।
तस्यान्ते तु पुनर्देवी पूर्णाहुत्यस्तु पातयेत्
एवं सायुज्यमाप्नोति तत्वे तत्वेन संशयः ।
नेत्राश्रिता तु याच्छाया तस्या लक्षं वदाम्यहम्
प्. ७९)
येन विज्ञातमात्रेण मुच्यते जन्मबन्धनात् ।
अन्यशास्त्रे तु यत्प्रोक्तं तत्सर्वं परिकीर्तितम्
वार्ता तु कथ्यते देवि प्रत्यक्षञ्चाप्ययञ्चनम् ।
बिन्दु बिन्द्विति देवेशि वदन्ते सर्वयोगिनः
ईदृशं नाभिजानन्ते प्रत्यक्षस्य तु दर्शनम् ।
खड्गस्याभिमुखेनैव विमार्गप्रवहेन तु
दिव्यदृष्ट्या प्र * * तेजोमण्डलमुत्तमम् ।
मुखमावृत्य तिष्ठेत लाक्षावर्णसमोपमः
आदित्योदयसंकाशः कौसुंभरससंभवः ।
निर्धूमाङ्गारसदृशं पिण्डीकृतमिव स्थितम्
प्. ८०)
अहन्यहनि यो देवि अभ्यसेल्लक्षमुत्तमम् ।
द्वादशार्धेन मासेन व्याधिभिश्च न पीड्यते
अनग्निज्वलनञ्चैव ब्रह्महत्या विशोधनम् ।
कुरुते नात्र सन्देहः शिवतेजोपवृंहितः
सतताभ्यासयोगेन षड्भिर्मासैस्तु सुवृते ।
जायते सर्वकामित्वं उद्देश्यं त्रिदशैरपि
संवत्सरेण युक्तात्मा योगीन्द्रश्शिवभावितः ।
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते
लीलये तेजमध्ये तु देहेनानेन सुवृते ।
सृजन् संहरते विश्वं शिववत्स्वेच्छतां व्रजेत्
प्. ८१)
तस्याऽपि तेजसो मध्ये यथा लक्षो भविष्यति ।
तथा ते कथयिष्यामि अधुना शृणु चान्यथा
तत्तेजस्येव मध्ये तु शक्तिलक्षं यथ भवेत् ।
ज्ञातव्यं विदितं तैश्च शक्तिलक्षं सुशोभने
एकं विज्ञप्तिमात्रन्तु द्वितीयं सिद्धिमिच्छताम् ।
लक्षाशीतमहालक्षं द्रुतलोहथकालवित्
प्रत्यक्षेण यथा दृष्टं दिव्यदृष्ट्या तथैव च ।
प्रत्यक्षस्य प्रवक्ष्यामि योगसद्भावमुत्तमम्
स्तनं निपीड्य वामेन अर्धहस्तं प्रसारयेत् ।
प्रसृता सर्वमङ्गुल्य एकां तत्र समुत्सृजेत्
प्. ८२)
मध्यममञ्चैव देवेशि तत्र लक्षं समादधत् ।
तस्मिन्नग्रे तु संस्थाप्य अभ्यासादपकर्षयेत्
एकदृष्ट्या तु ध्यातव्यञ्चलिते चलितेद्ध्रुवम् ।
शनैश्शनैस्तु तल्लक्षमाकर्षेन्मुखसंमुखम्
शुक्लगोक्षीरसंकाशं प्रविशन्तं विचिन्तयेत् ।
सुशीतलमुखस्पर्शं अनौपम्यमनुत्तमम्
लब्धमात्ररसन्देवि सिध्यते नात्र संशयः ।
मेधाकान्तिसमायुक्तो मासमात्रं न संशयः
देहमस्य विशेषेण उत्पतेन्नात्र संशयः ।
शक्तिवत्सर्वगामित्वं भवते साधकेश्वरे
प्. ८३)
अप्रविष्टेऽपि लक्षे तु सुभगः प्रियदर्शनः ।
सार्वशास्त्रस्य वेत्ताऽसौ वागीशेव न संशयः
प्रत्यक्षस्येव लक्षस्य कथितं तव शोभने ।
दिव्यदृष्ट्या तु या सिद्धिरस्य संक्षेपतः शृणु
निश्चलं दृश्यते देवि मानो ह्लादकरं नृणाम् ।
लक्षयीत महालक्षं सर्वसिद्धिप्रदायकम्
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ।
अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
अग्निवत् ज्वलते सर्वं दुस्पर्शं त्रिदशैरपि
प्. ८४)
भक्ष्याभक्ष्यैर्न लिप्येत शुपचानपि दीक्षयेत् ।
ब्रह्महत्यादिभिः पापैः नैवलिप्येत योगवित्
त्रिस्थानावस्थितं बृन्दं शेषं मालेव लक्षयेत् ।
प्रत्यक्षे शुक्लपीतानि नीलकृष्णसितानि च
एवमादीनि वर्णानि शुक्लमध्ये तु लक्षयेत् ।
सुत्रेणैव मणिर्यद्वद्वेधितः भ्राजते शुभे
एवं भ्राजति सा माला नादतन्तुस्युतानि तु ।
एष ते तत्त्वसद्भावं तव देवि उदाहृतम्
अधुना कथयिष्यामि बिन्दुलक्षणमुत्तमम् ।
तस्य मण्डलमध्ये तु ललाटस्योपरि स्थितः
प्. ८५)
जलबुद्बुदसंकाशं स्वच्छस्फटिकनिर्मलम् ।
धूम्रवर्णन्तु देवेशि अनेककिरणोज्वलम्
अहन्यहनि वर्धेत लक्षमेतद्वरानने ।
मासमात्रेण योगीन्द्रो यां दिशामवलोकयेत्
विद्युच्च शिवसंकाशं पश्यते नात्र संशयः ।
स्रवन्तञ्चिन्तयेद्बिन्दुं तुर्यचारेण योगिनः
घण्टिकातालुमार्गेण हृत्पद्मे वितते शुभे ।
एतन्मृत्युञ्जयार्थाय ध्यातव्यं योगिभिस्सदा
इडायाः प्रवहेनैव सर्वमाप्यायते ध्रुवम् ।
विविधेन वरारोहे सर्वसिद्धिकरः स्मृतः
प्. ८६)
एतल्लक्षपरं दिव्यं सर्वसिद्धिकरं भवेत् ।
दूरश्रवणविज्ञानं मननञ्चावलोकनम्
जायते नात्र सन्देहो देहेनानेन सुवृते ।
पूर्वोक्ता यानि रूपाणि सर्वाण्यस्मिन् प्रतिष्ठिता
दृष्टलक्षेण देवेशि सर्वसिद्धिकरः स्मृतः ।
सिद्धयः सन्ति सर्वत्र तत्त्वालोकेषु सुवृते
इदं देवि न दातव्यं ज्ञानसद्भावमुत्तमम् ।
दुर्विदग्धे शठे क्रूरे अन्यायपथवर्तिने
देयन्दान्ताय शान्ताय शिवभक्तिरताय च ।
शिववर्त्मन्यते यस्तु आचार्यं तत्वपारगम्
प्. ८७)
शिवाद्गुरुतरी भक्तिः यस्य नित्यं गुरोस्सदा ।
तस्य देयमिदं ज्ञानं अन्यथा न कदाचन
देव्युवाच
चतुष्कं यं महादेव जगत्सर्वं चराचरम् ।
कथयस्व यथा न्यायं कलाध्वानं मम प्रभो
ईश्वरः
कलाध्वानं प्रवक्ष्यामि तत्समासेन मच्छृणु ।
निवृत्या च यथा सृष्टिः प्रतिष्ठाया यथा भवेत्
विद्या * संप्रवक्ष्यामि शान्त्याश्चैव समासतः ।
शान्त्यतीतञ्च देवेशि कथयामि समासतः
प्. ८८)
निवृत्यायास्तु होतव्यं पृथिव्यादिरनुक्रमात् ।
प्रकृत्यन्ते तु देवेशि तस्य सृष्टिरुदाहृता
पौरुषं त्वादितः कृत्वा माया तत्वमपश्चिमम् ।
प्रतिष्ठायास्तु होतव्यं दीक्षाकाले महेश्वरी
विद्यान्तु आदितः कृत्वा यावत्तत्वं सदाशिवम् ।
विद्याया होमयेन्मन्त्री दीक्षाकाले शिवाध्वरे
शान्त्यायाश्चैव होतव्यं शिवतत्वं यथाक्रमम् ।
शान्त्यतीतेन देवेशि दद्यात्पूर्णाहुतिं क्रमात्
ओंकाराद्दीपनं कृत्वा नमस्कारमलन्तथा ।
ह्रस्वहंसो निवृत्तिः स्यात् प्रतिष्ठा दीर्घभेदिता
प्. ८९)
विद्याबिन्दुसमायुक्ता कर्तव्या देशिकेन तु ।
विसर्गेण समायुक्ता शान्ति वै परिकीर्तिता
हंसोकारसंमायुक्तवौषडन्तसमन्वितम् ।
अर्धेन्दुनादसंयुक्तमूकारेण समन्वितम्
एतद्देवि समाख्यातं शान्त्यतीतस्य कारणम् ।
तेन पूर्णाहुतिं दद्यात् शिवसायुज्यमिच्छताम्
निवृत्याष्टत्रितत्वानि होतव्यानी तु देशिकैः ।
प्रतिष्ठायान्तु सप्तैव होतव्यानि समाहितैः
विद्यायां त्रीणि तत्त्वानि विद्यापूर्वाणि होमयेत् ।
उपरिष्ठाच्छिवं तत्वं शान्त्यायां समुदाहृतम्
प्. ९०)
एतद्देवि कलाध्वानं सृष्टिव्याप्तिरुदाहृता ।
एवं ज्ञात्वा तु मुच्येत मोचयेच्च न संशयः
देव्युवाच
अक्षराश्चैव देवाश्च सर्वे बिन्दुसमाश्रिताः ।
बिन्दुभिः द्युतिनादेन स नादः केन भिद्यते
ईश्वर उवाच
तस्य पुष्करमध्ये तु बीजजीवमुदाहृतम् ।
मृणालतन्तुसूत्राभं नादशून्येन भिद्यते
देव्युवाच
निष्कलः कथितो देव बिन्दुदेवो महेश्वरः ।
तस्याहं श्रोतुमिच्छामि कथं सकल निष्कलम्
प्. ९१)
पुनश्च संशयो देव बिन्दुदेवो महेश्वरः ।
कथयस्व मेहशान भेदं तस्य परापरम्
ईश्वरः
शृणु देवि परं गुह्यं यथा सकलनिष्कलम् ।
तदहं संप्रवक्ष्यामि बिन्दुदेवस्य शोभने
पञ्चाशत्तत्वसंभूतिः बन्धमोक्षप्रबन्धकृत् ।
स्थितः संहारतत्वेऽस्मिन् व्यक्तरूपं स्वयं भुवः
योगपीठस्थितो देवः सकलः परिकीर्तितः ।
तदतीतं पुनर्देवि निष्कलं कथितं तव
देव्युवाच
प्. ९२)
तस्य देहः किमात्माऽसौ किं बीजैर्विदितोच्यते ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
ईश्वरः
ईशानादिवशोक्ते तु मन्त्रशब्दे तथा परे ।
इज्यते गुणमाहात्म्यात् सर्वतत्वादितो महान्
चतुर्दश स्वरातीतं कलातीतमतीन्द्रियम् ।
नपुंसकैः सह ज्ञेय अक्षरन्तु त्रिपञ्चकम्
त्रिपञ्चकपरोऽन्यस्तु बिन्दुत्वे मुक्तषोडशी ।
स शिवः सकलो ज्ञेयः स शिवः सृजते कलाम्
बिन्दुरन्तेन संरुद्धश्शब्दकूटविनिस्रुतम् ।
प्. ९३)
बिन्दु विजृम्भते ग्रन्थ्या ततः शब्दसमुद्भवः
पञ्च सङ्घातनिष्यन्दं बीजयोनिसुवासितम् ।
शक्त्यंबुनाऽभिषिक्तस्तु बिन्दुतेजोङ्कुरो महान्
देव्युवाच
बिन्दुतेजेति किन्नाम कोऽसौ बिन्दुरिहोच्यते ।
ईश्वरः
तदहं संप्रवक्ष्यामि त्वत्प्रसादान्महेश्वरि
एष ते भगवान् बिन्दुस्सर्वलोकस्य गामिकः ।
नादमध्यावसानोऽसौ नोत्पत्तिप्रलयात्मकः
नक्षत्रं न च वा बीजं कर्ता तस्य न विद्यते ।
प्. ९४)
न क्षीयते न चाल्पोऽपि न निन्द्यो वर्धते क्वचित्
अव्यक्ताव्यक्तसंस्थान सु सूक्ष्मो न च सूक्ष्मवान् ।
वायुवद्भ्रमते नित्यं मूर्तिभिर्दशभिस्तथा
अष्टलोकजगत्पालः पङ्कजेक्षमंबुना ।
स एष भगवान् बिन्दुस्सर्वलोकजगद्गुरुः
कल्पक्षयकरश्चण्डस्सप्तद्वीपादिपूर्णकः ।
सप्तार्णवावशेषोक द्वादशार्कनिपातनः
रसातलास्वालकं * भुजङ्गाङ्गविमर्दनम् ।
इहैकाण्डं जगत्कृत्स्नं मृत्पिण्डमिव संस्थितम्
सूक्ष्मेण योगतुलया चराचरमिदं जगत् ।
प्. ९५)
चिबुकार्धार्धकक्षेव मणिवत्तुलयेच्छिवः
संसारघटिवद्यन्त्रं भ्रामयन्मायया जगत् ।
स कालस्स च वै मृत्युस्स इन्द्रो वरुणश्शशी
सोऽनलो नील आदित्य आकाशश्च क्रमेण तु ।
स ब्रह्मा स च वै विष्णु रुद्र ईश्वर एव च
ह्री श्री स्मृतिधृतिश्चैव मेधाकान्तिस्सरस्वती ।
प्रकृतिः पुरुषश्चैव नियतिः काल एव च
माया विद्या च ईशोऽयं बिन्दोस्सर्वमिदं जगत् ।
वेदं सांख्यञ्च योगञ्च बौद्धमार्हतं तथा
यानि कानि च शास्त्राणि सर्वे बिन्दोर्विनिसृताः ।
प्. ९६)
सर्वं बिन्दुमयं ज्ञेयं चित्तं चैतन्यमाकृतिः
सर्वामरमयं श्रेष्ठं सर्वशास्त्रधुरन्धरम् ।
अप्रमेयश्च सूक्ष्मश्च अव्यक्तश्च सनातनः
चलते स्पन्दते शेते भुञ्जते जाग्रतेऽपि च ।
शिवभावितधर्माणां बिन्दुदेवस्सदात्मकः
अर्धनारी विभक्ताङ्गो तदा ते सकलस्मृतः ।
लीनांशनात्मयोगेन तदा सा निष्कलस्मृतः
इति निश्वासकारियां पञ्चदशः पटलः
देव्युवाच
भगवन् श्रोतुमिच्छामि नादशब्दस्य निर्णयम् ।
स्थूलसूक्ष्मविभागेन द्विप्रकारं प्रकीर्तितम्
कथं स्थूलं भवेन्नादस्सूक्ष्मं वाऽपि महेश्वर ।
कथं शरीरे ज्ञातव्यं तत्वतः कथयस्व मे
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं ते प्रवक्ष्यामि नादज्ञानमनुत्तमम्
योऽसौ घोषस्सुसंपूर्णः श्रूयते देहमध्यतः ।
प्रकृतिस्तत्र संभूता महाजालपरिच्छदा
तस्य घोषस्य मध्ये तु स्थितं तत्र निवेदयेत् ।
प्. ९८)
पुरुषस्तत्र सञ्जातो गुणातीतो निरञ्जनः
तृतीयन्तु महच्छब्दं स्थितं घण्टानिनादवत् ।
तस्मिन् रुद्रस्समुत्पन्नः प्रभुस्त्रैलोक्यनायकः
योऽसौ शान्तस्समाख्यातश्शब्दः परमकारणम् ।
कोपिप्रदण्डप्रतीकाशा ज्योत्स्नाकरमिव स्थितः
तस्मिन्नीशस्समुद्भूतस्तेजो राशिर्महात्मनः ।
योऽसौ सिद्धः शिवस्सूक्ष्मः सुशान्तस्सर्वतोमुखः
अप्रमेयोह्यनुच्चार्यो नादात्मा स तु कीर्तितः ।
लयस्थानन्तु तत्त्वज्ञैः स एव परिकीर्तितः
लयातीतं परो देवो निरूपाख्यो निरामयः ।
प्. ९९)
ज्ञात्वैवं मुच्यते ज्ञानी भुञ्जानो विषयानपि
एतत् ज्ञानं परं गुह्यं नाख्यातं यस्य कस्यचित् ।
देव्युवाच
कोऽसौ नादः किं प्रमाणः किं रूपः क्षरितः कुतः
किमर्थं केन चैवाऽयं ईरितः संप्रवर्तते ।
ईश्वर उवाच
ममैषा परमा मूर्तिः नादसंज्ञा वरानने
चिन्त्यते योगिभिर्नित्यं अपुनर्भवकाङ्क्षिभिः ।
नास्य प्रमाणं व्यापित्वान्मुक्तेः समुपलभ्यते
अनादित्वात्संभवश्च नित्यत्वान्नियतिर्न च ।
प्. १००)
यथा संवेत्यनुच्चार्य शब्दाक्षरविवर्जितम्
संप्राप्यते सुखेनैव तदुपायं ब्रवीमि ते ।
अङ्गुष्ठाभ्यां छादयित्वा साधकश्रवणावुभौ
ततश्शृणोति तन्नादमंबुदप्रतिमस्वनम् ।
अस्य संश्रवणाद्देवि नादस्यायतलोचने
परमभ्येति निर्वाणं छिन्न पाशनिबन्धनः ।
ममात्मीयमिदं सूक्ष्मं शरीरं नादसंज्ञितम्
पशोः पाशोपनोदाय प्रकाशीकृतमद्भुतम् ।
ततः परतरध्येयं योऽन्यः प्रत्युपदिश्यते
न चैतदप्रसन्ने तु मयि देव्युपलभ्यते ।
प्. १०१)
परमेतस्य वीर्यं यत् अनुच्चार्यमनामयम्
सम्यक् यस्संविजानाति तन्मयत्वं स गच्छति ।
एष ते कथितः सम्यक् नादः परमदुर्लभः
सांप्रतं शृणु यत्रायं लयमायात्यनिन्दितम् ।
पदमेतदतिक्रम्य चतुर्थं तुर्यसंज्ञितम्
पञ्चमं पदमाकाशं लक्षयेत्समवस्थितम् ।
तच्चाचलमनिर्देश्यमनन्तमजमव्ययम्
अनादिमध्यनिधनमेकमप्रतिवृत्तिमत् ।
निष्प्रपञ्चमनस्वान्तमतीन्द्रियमनामयम्
विस्तीर्णमव्यवच्छिन्नमध्यान्तं सर्वतोमुखम् ।
प्. १०२)
निष्तूयं विमलं वृत्तमुत्तुङ्गव्यापिनद्ध्रुवम्
सदाशिवाख्यमाकाशमीदृग्गुणमुदाहृतम् ।
जगद्बीजमिदं सूक्ष्मं परमाकाशमव्ययम्
नादोऽत्र लयमायाति निवृत्तं कार्यसंक्षये ।
पदमेतीच्छान्तिलयं गतोह्यत्रापि संख्ययः
तदिच्छया भवन्त्येते पुनश्शब्दशरीरिणः ।
ततस्ते शब्दतनवोश्चक्रवर्ति पदे स्थिताः
लोकानुग्रहकर्तृत्वं प्रकुर्वन्ति पतीच्छया ।
तेऽधिकारं ततः कृत्वा कालस्यास्य परिव्ययात्
अप्राप्यमात्मकं भावं यान्ति शून्यमदं पुनः ।
प्. १०३)
इति निश्वासकारिकायां षोडशः पटलः ॥
शक्तिलक्षणम्
देवी
शक्तिं शिव महादेव कथयस्व विशेषतः ।
किमन्या कारणे शक्तिः अनन्या वा प्रकीर्तिता
अन्यानन्यतया वाऽथ एतत्पृच्छामि संशयम् ।
यदि नान्या भवेच्छक्तिः तयोर्ब्रूहि यदन्तरम्
अथवाऽन्या भवेच्छक्तिः शिवस्तस्मादकारणः ।
अनन्यान्यत्वभावेन अस्तिनास्तीति संशयः
प्. १०४)
प्रत्ययान्तानि शास्त्राणि संशयात्मा विनश्यति ।
तस्मान्निस्संशयो ब्रूहि अगोप्यं परमेश्वर
ईश्वरः
अनन्या कारणे शक्तिः अधिष्ठातृत्वलक्षणा ।
सर्वज्ञा चेतना शुद्धा सर्वतत्वप्रकाशिका
सर्वतत्वेषु तत्रस्था तांस्तान् भावान् प्रकाशयेत् ।
गुणतो दोषतश्चैव शुद्धाशुद्धेषु प्राणिषु
तथा सर्वेषु भूतेषु तत्त्वभावेन्द्रियेषु च ।
सर्वेष्वनुगता शक्तिः नित्यं सर्वेषु तिष्ठति
दाहकत्वं यथाह्यग्नौ शैत्यभावश्च वारिषु ।
प्. १०५)
अ * * नात्वे षट् वर्तन्तेऽथ चेश्वरशक्तयः
पृथिव्यो धारणं यद्वत् सूर्ये यद्वद्गभस्तयः ।
आकाशे चावकाशित्वं तत्त्वदीश्वरशक्तयः
पृथिव्यान्तु यथा गन्धो रूपं तेजो जले रसम् ।
स्पर्शोऽनिलेंवरे शब्दस्तद्वदीश्वरशक्तयः
किरणा इव सूर्यस्य मणीनामिव रश्मयः ।
शक्तिशक्तिमतोस्तद्वदनादित्वमिहेष्यते
रत्नाग्निद्युतिसोमाद्या अविभक्ता रवेर्यथा ।
तेजो लोका स्वदेहस्थास्तथा शक्ति परे शिवे
अविभक्तं विभक्तञ्च धर्माधर्मित्वलक्षणम् ।
प्. १०६)
धर्मिणः स्वेच्छया धर्मं प्रवृत्तिमधितिष्ठति
अभावे धर्मिणी धर्म प्रसिद्धिमुपगच्छति ।
धृते धर्मिणि धर्मोऽसौ सत्कारणमिहोच्यते
इति निश्वासकारिकायां सप्तदशः पटलः ।
देव्युवाच
अद्याऽपि संशयो देव ज्ञानं ज्ञेयं महेश्वर ।
कथयस्व अशेषन्तु तत्वभेदं परापरम्
कथं शरीरे चेष्टानि तत्त्वाः कुर्वन्ति देहिनाम् ।
कथञ्च शयने तत्वा विदन्ते स्वप्नवारिणः
प्. १०७)
तिष्ठतो गच्छतो वाऽपि ब्रुवतो हसतोऽपि वा ।
श्वसने कस्थितास्तत्वा दीर्घप्राणे चरे स्थिताः
तस्य मध्यावसाने च के तत्वाः परिकीर्तिताः ।
नृत्यतो गायतश्चैव मन्युदः करुणोत्सुके
अनिमित्ते च के तत्वा निरीक्षे चैव के स्थिताः ।
एष कर्मसु सक्तानां प्राणत्यागेषु का गतिः
केन वा प्रेरितास्तत्वाश्चेष्टां कुर्वन्ति तद्वद ।
विज्ञायन्ते कथं तत्वा अष्टधा नवधा स्थिताः
कथं वर्गान्तवर्गेषु समन्तत्वं समं रसः ।
अन्तःकरणहीनाश्च यथा देहे प्रतिष्ठिताः
प्. १०८)
एतद्गुह्यं महादेव कथयस्व प्रसादतः ।
ईश्वर उवाच
शृणु देवि परं गुह्यं देहे तत्वा यथा स्थिताः
यथा चेष्टाञ्च कुर्वन्ते परेणाधिष्ठितास्तु ते ।
श्रूयतां ज्ञानसद्भावं तत्वभेदं परापरम्
उदात्तं व्याकुलं चित्ता रविसंविक्रमस्तथा ।
हर्षोन्मादश्च संमोहः कथितं सुरसुन्दरी
सकले सरसं प्रोक्तं ज्ञातव्यं तत्त्वचिन्तकैः ।
ऊर्ध्वेधरोनुभावश्च वामदक्षिणतस्तथा
आकर्णान्निश्चलश्शान्तः कथितं निष्कलं परम् ।
प्. १०९)
वाग्वक्त्राधरनिक्षिप्तमनिमित्तनिरीक्षणम्
प्रहसन् हृद्गतो भावं परभासे कथितेष्टधा ।
एवं वै अष्टधा ज्ञात्वा एतद्वै शून्यलक्षणम्
हृयतास्वादतस्तालुः कासो श्वासः प्रलंबिका ।
हुंकारमनसंयुक्तिः कलाढ्यः कथितोऽष्टधा
मधुरं हलाहलं भासं भीतं सन्त्रासकंपितम् ।
मन्युकारुण्यसंयुक्तं मुखसंस्थमुपलक्षयेत्
बलनं भङ्गुरं देवि व्यावृत्तञ्च सुरेचितम् ।
अनलानिलविक्षिप्तं गेयं झङ्कारसंयुतम्
क्षपणन्नाममुद्दिष्टं कथितं ज्ञानमुत्तमम् ।
प्. ११०)
आघूर्मितं विघूर्मितं सुषुप्तं सुप्तलक्षयेत्
स्वप्नाभिघातसन्तानं विबोधस्तु सु शोभने ।
क्षयान्तस्य गुणाह्येते ज्ञातव्यास्तत्वचिन्तकैः
सौम्यस्थिरगतिश्शीघ्रं वल्लनञ्चालनं तथा ।
हुंकारं जर्झरवाक्यञ्च कण्ठोष्ठये निगमाष्टकम्
व्यापित्वं कथितं देवि स्वरसञ्च निबोधमे ।
उदाने सकलो देवो व्याकुले निष्कलं परम्
चिन्ताशून्ये विजानीयात् हृद्भेदः कथितो मया ।
रहस्ये तु कलासारं विक्रमेव मलं स्मृतम्
हर्षे क्षेपणमित्युक्तं ज्ञातव्यं ज्ञानवेदिना ।
प्. १११)
क्षयमन्तं वरारोहे उन्मादे चावधारय
कण्ठोष्ठ्यन्तु ततो मोहे एतद्वै प्रथमाष्टकम् ।
ऊर्ध्वं सकलसंयोगं निष्कलं धारकंपितम्
निराभं शून्यमित्युक्तं प्रेक्षितव्यं प्रयत्नतः ।
वामे कलेश्वरं तत्वं दक्षिणे भुजमालिनम्
आकर्णे क्षपणो देवि ज्ञातव्यं हृत्प्रयोगतः ।
क्षयमन्तं वरारोहे निष्कलो देहलक्षितः
शान्ततत्वे मम प्रोक्तं द्वितीयं भेदलक्षणम् ।
सकलं वक्त्रमार्गे तु वाममार्गे तु निष्कलम्
शून्यमाधारविक्षेपे स्वभावाभावकल्पितः ।
प्. ११२)
अनिमित्ते कलाढ्यस्तु निरीक्षे खमलस्मृतः
क्षपणं हसिते ज्ञेयं मनसे वेव लक्षयेत् ।
हृद्गतक्षयमन्तस्थ उद्भासे कथयामि ते
कण्ठोष्ठ्यप्रभुरीशानस्संस्थितो नास्ति विक्रमः ।
त्रिविधेन तु विज्ञेयं ज्ञानभेदे मलाष्टकम्
कथितं तु वरारोहे तृतीयं भेदमुत्तमम् ।
हृद्याता सकलो देवो निष्कलस्यादलक्षितः
तालुशून्यं विजानीयात् स्वभावे भावलक्षयेत् ।
कलाढ्यो भासिते विद्यात् खमले श्वासकंपिते
प्रलंबे क्षपणं देवि ज्ञातव्यं स्वरितीरितः ।
प्. ११३)
क्षपितन्तु वरारोहे हुंकृतेन तु लक्षयेत्
नमयुक्तस्तथा देवि कण्ठोष्ठ्यः परिकीर्तितः ।
चतुर्थं भेदमेतत्तु कथितं सुरसुन्दरी
मधुरे तु वरारोहे सकले शाश्वता गतिम् ।
गलानन्तपदं विद्यात् हास्ये शून्यार्थ लक्षितम्
भीते कालेश्वरं ज्ञेयं त्रासिते खमलं स्मृतम् ।
कंपिते क्षपणं प्रोक्तं कथितन्त्वनुपूर्वशः
क्षयमन्यो स्थितं तत्वं कारुण्यममृताष्टकम् ।
पञ्चमं भेदमेतद्धि कथितं त्वनुपूर्वशः
चलने त्रिपदाधारं भङ्गुरे निष्कलं परम् ।
प्. ११५)
व्यापिते शून्यमित्याहुः एष ते भुजमालिनम्
खमलानिलविक्षेपे क्षपणेनन्तरे स्थितम् ।
पृथक् भावस्सदा ह्येते बोद्धव्यास्त्वपराजिते
क्षयमन्तं वरारोहे गेहे तन्तुविधारय ।
झङ्कारस्वरसंयुक्तं कण्ठोष्ठ्यं सुरसुन्दरी
कथितान्यनुपूर्वेण षड्भेदास्संप्रयोगतः ।
अघूर्मिते कलाधारं विघूर्मे निष्कलात्मकम्
सुषुप्ते शून्यमित्याहुः स्थगितमुपलक्षयेत् ।
स्वप्ने तु कलनात्कालं स्वप्नान्ते खमलं स्मृतम्
विघाते क्षपणा देवि सन्ताने क्षयमन्तकम् ।
प्. ११६)
कण्ठोष्ठ्यन्तु विबोधे तु सुभेदः सप्तमः क्रमात्
सौम्ये सौम्यगतिं प्राहुः स्थिरे वै निष्कलं परम् ।
शीघ्रं शून्यं विजानीयात् स्वगतमुपलक्षयेत्
वल्गने कालतत्वाख्यं चालने खमलं स्मृतम् ।
हुंकारे क्षपणो देवः सर्वमेतद्विपारयेत्
क्षयान्ते झर्झरं प्रोक्तं शुभाख्ये उपलक्षयेत् ।
वाक्ये स्थूलपदे शुभ्रे कण्ठोष्ठ्यः सर्वतस्थितः
एतद्भेदाष्टकन्देवि तत्वभेदामलं परम् ।
तत्वं विज्ञायते सम्यक् विधिपूर्वेण निष्कलम्
एवं विज्ञानभेदज्ञो मोक्षन्तस्य न संशयः ।
प्. ११७)
हंसाख्ये बिन्दुनादञ्च अर्धचन्द्रे निरोधिका
व्यापिनीत्यूर्ध्वगामी च शक्तिश्शान्तपदं महत् ।
अक्षरे चाक्षरं सर्वं बोद्धव्यमनुपूर्वशः
एवं यो वेत्ति तत्त्वेन स भवेत्तत्परा गतिः ।
एवं वै ह्यष्टधा भेदं व्याख्यातं तव शोभने
नवधा तु पुनः पश्चात् कथयिष्ये यथा भवेत् ।
इति निश्वासकारिकायामष्टादशः पटलः ।
ईश्वर उवाच
अतः परं प्रवक्ष्यामि शब्दज्ञानमनुत्तमम् ।
वाक्यस्थं हृदयस्थन्तु ददाने वैव संस्थितम्
प्. ११८)
त्रिस्थाने सकलो देवः पाशबन्धक्षयंकरः ।
शिवञ्चानुगतं विद्या विद्याराज्ञान्तु विक्रमः
श्वसनेऽनुगतं देवि निष्कलन्तु विनिर्दिशेत् ।
अपाकप्रभवं दिव्यं नाभिकर्णान्तवर्जितम्
शून्यमध्यगतं नित्यं सर्वान्तः पाशमोक्षकम् ।
कर्णनाभ्यन्तरे तालुं पद्मनालानुकुञ्चितम्
कलाढ्यन्नाममुद्दिष्टं सर्वाकारकारकम् ।
उभौ तौ तत्क्षिपत्तत्वं शान्तत्त्वं सकलैस्सह
मनो लयैस्सदा चिन्त्यमखिलं खपदैस्सह ।
ऊर्ध्ववाहमनौ गारं प्रस्फुरन्तं समासतः
प्. ११९)
सुप्रयुक्तं सुशान्तञ्च क्षपणोपाशबन्धहृत् ।
हृत्पद्मेनाभिदेशन्तु कर्णतालुकमध्ययोः
अन्ते ह्येतेषु स्थानेषु क्षयः पाशान्तकः शुभः ।
उदाने निश्चलस्थाने सर्वस्थाने सुलोचने
सर्वशब्देन भोक्तव्यं कूटस्थं शब्दमष्टमम् ।
एतच्छब्दाष्टकं देवि हिताय समुदाहृतम्
निश्रेयन्न च दातव्यं ज्ञानन्नास्ति अतः परम् ।
अनादिनिधनाभावदुर्लक्षं शून्यभावना
तस्मात्सर्वप्रयत्नेन भावाभावेन लक्षयेत् ।
तेनेदं ज्ञातं सुश्रोणिर्यस्य भावेन मत्स्थितिः
प्. १२०)
अभावरक्षणार्थाय भावजल्पे मया कृतः ।
अभावस्य परित्यागी भावोपगतचेतसः
तावद्भ्रमति संसारे यदा भावन्न विन्दति ।
श्रुतिस्मृत्यर्थ वाक्यैश्च काव्यालङ्कारशोभनैः
चिन्तया शब्दशास्त्राणां संमूढो यात्यथोगतिम् ।
अभावश्शून्यतां याति शून्यञ्चाभाव उच्यते
अभावो मोक्ष इत्युक्तो बन्धनं भावकल्पना ।
अभावेन सदा शून्ये मनो निश्चलतां गतम्
ततो निर्वाणगो देही निलयं यात्यनामये ॥ १५ १।२ ॥
प्. १२१)
अपदपदमगम्यं शुद्धनिर्वाणशून्य-
मुपरिविततव्योमं व्यापिनञ्चिन्तयामि ।
येनाभ्यस्तसशून्यन्न पुनरिह नरो जायते गर्भवा *?
सञ्च्छिन्नं पाशजालं प्रकृति विरमते सृष्टिभावे निवृत्तः ॥ १६ १।२ ॥
एकान्तं शून्यभूतं पशुकलरहितं पश्य निर्वाणशून्य-
न्निर्मुक्ताशेषबन्धैः कथितमिहपदं पश्य निर्वाणबन्धैः ।
इदं शून्यमिदं शून्यं शून्याच्छून्यं परापरम् ।
शून्यादपि च यच्छून्यन्तच्छून्यन्तु निरामयम् ॥ १७ १।२ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे एकोनविंशति पटलः ।
देव्युवाच
वेदसांख्यपुराणज्ञा पाञ्चरात्रेतिहासयोः ।
योगिनश्च तथा चान्ये कुपथेष्वपि ये स्थिताः
कुचक्रेण मोहयित्वा तु स्वदेहं दर्शयन्ति ते ।
तेऽपि चात्र ब्रुवन्त्यैव गतिरत्र कुतोऽन्यतः
पक्षपातो भवेदेषो मोक्षः सर्वत्र वा भवेत् ।
एवं मे संशयो देव यत्सत्यं तद्ब्रवीहि मे
ईश्वर उवाच
अहं त्वञ्च विशालाक्षी मूलं सर्वजनस्य तु ।
मातृका शिवरूपेण बुद्धिसंभवपादपम्
प्. १२२ अ)
आब्रह्मस्तंवपर्यन्तं जगत्सर्वं चराचरम् ।
मम बीजोद्भवास्सर्वे तव योनिविनिर्गताः
वेदाद्याः पञ्च ये प्रोक्ताः महाज्ञानानि भूतले ।
संस्कृतं प्राकृतञ्चैव अपभ्रंशानुनासिकम्
दिव्यादिव्यञ्च यत्किञ्चित् वाङ्मयं त्वत्प्रसूतिजम् ।
त्वं सदा दर्पिणी देवी अहंकाररता सदा
विकारास्तव जायन्ते यतस्सर्वं प्रतिष्ठितम् ।
अविकारं ततो लोको मद्विकारमपासितम्
मूलज्ञानविमूढास्ते ते यान्ति न परां गतिम् ।
भुञ्जतां षड्रसाहारं म्रियन्ते सर्वजन्तवः
प्. १२३)
मृतसञ्जीवनी मूलं भक्षयित्वा न मृयन्ति ते ।
मृत्पिण्डेषु घटो यद्वत् तन्तुष्वेव पटो यथा
शक्तिरूपास्थिता वर्णा व्यक्तिं यान्ति शिवेच्छया ।
देव्युवाच
मूलज्ञानं जपित्वा तु युक्ता ध्यायन्ति योगिनः
सर्वकामसमृद्धास्तु शिवकामं विशन्ति ते ।
प्रवृज्य लभ्यते मोक्षश्चर्ययाथ महेश्वर
सन्तोषेण लभेन्मोक्षो यदज्ञानवृतैस्तथा ।
ज्ञानेन लभ्यते देव तत् ज्ञानस्य प्रकाशकः
उपासनञ्च देवेश ज्ञानं ज्ञेयो यथा भवेत् ।
प्. १२४)
तन्ममाचक्ष्व देवेश अत्र मे संशयो महान्
ईश्वरः
प्रवृज्यावृतचर्याभिस्सन्तोषं नियमेन च ।
क्षपणाच्चैव देहस्य मोक्षमिच्छन्त्यबुद्धयः
शीतवातप्रतापाग्नि दशकादशकानि च ।
क्षुत्पिपासी तथा वर्षी मोक्षार्थी सुबुधस्सहेत्
ब्रह्मचर्यं तपोदानं दयाक्षान्तिरहिंसितम् ।
नेतद्वै जननं वाक्यं जगद्व्याप्तिं न मुक्तये
दानेन न भवेन्मोक्षस्तपोभिर्वेदयज्ञतः ।
मोक्षो भवति ज्ञानेन देही निर्मुक्तकेवलम्
प्. १२५)
संयतेन्द्रियचित्तोऽपि किं कुर्याज्ज्ञान दुर्लभम् ।
विनीतरथमारूढरचक्षुरिव सारथिः
देव्युवाच
ये वेदवादिनो विप्रास्सांख्यज्ञा योगवेदिनः ।
पञ्चरात्रिविदो ये तु अन्यैः पापादुकैस्सह
ते ब्रुवन्ति महादेव तेषां ज्ञानं वदाम्यहम् ।
अग्निरग्नौ यथा क्षिप्तं तोये तोयमिवार्पितम्
मृत्पिण्डे दण्डपाषाणन्निस्सुखं निष्प्रचेतनम् ।
निर्वाणस्स तु विज्ञेयः सुखदुःखविवर्जितम्
एतत्ते देव आख्यातं मया तु विदितं यथा ।
प्. १२६)
ईश्वर उवाच
सर्वे क्लिष्टास्तथात्यन्तं मोक्षतत्वमजानतः
अहं ते कथयिष्यामि शृणु मोक्षस्तु यादृशम् ।
जीवनाशो भवेद्यत्र निस्सुखं निष्प्रचेतनम्
मृत्पिण्डपिण्डवन्मोक्षो न तु मोक्षस्स उच्यते ।
तेषां मायोदरो मोक्षस्स चैतन्यमवस्थया
शिवावर्ग इव्रातिष्ठेत् सुषुप्तद्वैतवर्जितः ।
अवमानेन मोक्षेण चेतनारहितेन तु
पर एवं स सारोऽपि विषयासक्तचेतसः ।
अस्मिन् शैवे महाज्ञाने विज्ञाननगरे शुभे !
प्. १२७)
प्रभुः सर्वज्ञचेता च व्यापी सूक्ष्मः शिवोऽव्ययः ।
पतिभावसमत्वं वै भवते ज्ञानिनः स तु
सर्वज्ञः परिपूर्णश्च सर्वगोप्यव्ययो भवेत् ।
दुःखानामागमो नास्ति सुखं तत्र निरन्तरम्
सर्वालयश्च शान्तश्च मोक्ष इत्यभिधीयते ।
चेतनाभावयोर्मुक्तिः न तु संमोहमोचिताः
चेतनो व्याप्यसंमूढो मोक्ष इत्यभिधीयते ।
शिवो निरञ्जनो भूत्वा तिष्ठते रागवर्जितः
स्वाधीनवृत्तिः यः प्राज्ञः सुखासीनः सुखप्रदः ।
अशरीरी शरीरी वा स्वेच्छया च भवत्यसौ
प्. १२८)
स्थूलात्स्थूलतरो भूत्वा सूक्ष्मात्सूक्ष्मतरस्तथा ।
ऐश्वर्यं सर्वलोकेषु भुञ्जते च यथा सुखम्
अप्रतीघातकास्ते वै रागलोभविवर्जिताः ।
शिवज्ञानं परं प्राप्य निर्गुणं सर्वकामिकम्
असमे माहात्मको भूत्वा सृजत्यात्मानमात्मनि ।
सर्वं व्याप्य प्रतिष्ठन्ते सर्वभूतेष्ववस्थिताः
न चास्या विदितं किञ्चित् न चादृष्टं न चाश्रितम् ।
अप्राप्य सर्वलोकेषु ना गतिश्च कदाचन
पतिभावेन तत्वानां विषयान् गृह्णते सदा ।
प्रकृतेर्ये विकारास्तु निर्गुणं गुणमेव च
प्. १२९)
कारणाद्विधृतं भूत्वा गृह्णते विषयान् स्वकान् ।
ये चैश्वर्यगुणास्सर्वे शिवे तिष्ठन्ति शाश्वते
दीक्षितेष्वपि ते चैव तत्सर्वं तत्त्ववेदिषु ।
अप्रमेयबलोपेतस्सर्वज्ञः खलु सर्वदः
सर्वकृत् सर्वयोगेशः शिवतुल्यस्तु संस्मृतः ।
दूराच्छ्रवणविज्ञानमननञ्चावलोकनम्
मनोबुद्धिरहंकारकारणाकारवर्जितः ।
स्वाधीनस्सर्वकार्येषु प्रवृत्ते बलिसूदनः
धारकः प्रेरकश्चैव अधिष्ठाता कले रणः ।
दमनः सर्वभूतानां मनश्चोन्मन एव च
प्. १३०)
सर्वेश्वरश्च सर्वात्मा सर्वेशश्च महागतिः ।
अजरश्चामरश्चैव अक्षयः क्षोभकारकः
गर्भजन्मजरादुःखं ये केचिद्वन्द्वजा गुणाः ।
अज्ञानसंभवाह्येते सुखञ्चैकञ्च केवलम्
काष्ठमध्ये स्थितो यद्वत् मथितो निर्मलोऽनलः ।
स शान्तसमये प्राप्ते न भूयो विशतेऽरणिम्
घृतभावं समापन्नं न भवेद्दधिता पुनः ।
सम्यक् ज्ञानं विदित्वा तु पशुत्वं न भवेत्पुनः
इति निश्वासकारिकायां ज्ञानकाण्डे विंशति पटलः ।
देव्युवाच
अप्राप्य परमां सिद्धिं दीक्षितो ज्ञानसंयुतः ।
विदित्वा शास्त्रसद्भावं मृत्युदुःखैश्च पीड्यते
प्रत्ययं किं भवेत्तस्य क्रियमाणेषु जन्तुषु ।
अप्रत्यक्षा गतिर्देव ब्रूहि मे परमेश्वर
ईश्वरः
द्व्यङ्गुलोर्ध्वन्तु तत्स्थानं यत्रासौ वन्दने भवेत् ।
स शूलो वायुवेगेन दक्षिणस्तनकोपरि
जनो नामेन चात्मेन सप्तरात्रे च शृण्वति ।
ह्रस्वदीर्घप्लुतञ्चैव साधारितसकौशकम्
प्. १३२)
स्पन्दनादिकलेत्कालं यावन्मासं स्वपक्षकम् ।
अष्टाभेनैव संयुक्ततन्त्रिणी अमृतं स्मृतम्
नन्दा भद्रा जया रिक्ता पूर्णाचेति त्रिरावरा ।
लौकिकास्तेषु विज्ञेया शिवतीर्थ्यानु मे शृणु
अमृता तु तिथिः पूर्वं प्रकृत्या च द्वितीयकम् ।
अभिजिच्चैव नक्षत्रं तस्योपरि जयन्तिका
ब्रह्मविष्णुमयौ ऋक्षौ मुहूर्तः पिङ्गलस्मृतः ।
ध्रुवतारागणज्योत्स्ना चक्रवत्परिलेलिहेत्
लेलिहेत शिवाभाति उदितामितजां रविः ।
तदा मृत्युवशं याति पूर्णाब्दे तु न संशयः
प्. १३३)
एवं ज्ञात्वा तु मेधावी अमृतेऽहनि कारयेत् ।
दानं जपं ततो ध्यानं तत्सर्वं मोक्षदं भवेत्
अभिजित्संज्ञनक्षत्रे जयत्यां रुद्रवैष्णवे ।
यत्किञ्चित्कुरुते कर्म तत्सर्वं मोक्षसिद्धिदम्
मुहूर्ते पिङ्गले चैव यत्कर्म कुरुते नरः ।
ज्ञात्वा वारं तिथिञ्चैव तत्सर्वं सिद्धिमोक्षदम्
सत्यासत्यमयौ वारौ ध्रुवञ्चैव तृतीयकम् ।
अमृतेन तु संयुक्तं आभ्यांत्वेकेन मोक्षदम्
जपेन ध्यानयोगेन सिद्धिरेकाह्निका भवेत् ।
एवं वै यो विजानाति रहस्यमिदमुत्तमम्
प्. १३४)
स भवेच्छिवतुल्यस्तु शिवेन सह मोदते ।
मृतं कायं न शीर्येत एतत्प्रत्ययमुत्तमम्
इति निश्वासकारिकायां ज्ञानकाण्डे एकविंशतितमः पटलः ।
देव्युवाच
त्वया सृष्टाः पुरा देव विधानेषु वियोजिताः ।
यजन्ति विप्रा यज्ञैस्तु मूर्त्यष्टकसंयुताः
कर्तृभिर्विविधैश्चैव दक्षिणाभिश्च भूरिशः ।
तेऽपि कस्मान्न मुच्यन्ति मन्त्रैस्तैरेव दीक्षिताः
वर्णान्नयन्ति सायुज्यं यदि सत्यं प्रभाषसे ।
प्. १३५)
वर्णैरेवचिता वेदास्तेऽपि कस्मान्न मुक्तिदाः
ईश्वरः
आहुः प्रणवमित्येके मकारमपरे विदुः ।
शतार्धाक्षरविन्यासं पुरुषं बिन्दुविग्रहम्
कला षोडशकं कश्चित् चन्द्रमाश्चामृतद्युति ।
वृक्षगुल्मलतानान्तु ओषधीनां स संभवः
अमृतामृतवच्छ्रीमान् सर्वभूतभृतां वरः ।
यकाराक्षरमित्येके प्राणाद्या विश्वतोमुखम्
सर्वेषु सर्ववित्कर्ता यत्र वा संप्रवर्तते ।
रकारमनलञ्चात्र प्रपदन्ति विपश्चितः
प्. १३६)
संहारः सर्वतत्त्वानां कालाग्निरिव विश्रुतम् ।
अन्नपानेन्धनो भोक्ता स जीवात्मेति चोच्यते
इन्दुमन्ये प्रशस्यन्ति सुरासुरनमस्कृतम् ।
विभूरिति इमं प्राहुः तच्छक्रमवपूजितम्
नमः पूर्वन्ति ते सर्वे लकारं परमं पदम् ।
अमृतस्यन्दकुन्दाभं चन्द्रांशुसमशीतलम्
प्राणदं प्राणिनान्नित्यवारुणं बीजमुत्तमम् ।
अथाहुरपरे केचिद्व्योमबीजमनुत्तमम्
आश्रयस्सर्वभूतानामाकाशमवकाशदम् ।
केचिदाहुरयं श्रेष्ठ शतार्धार्धं व्यवस्थितम्
प्. १३७)
मकारं परं तत्त्वमूर्ध्वबाहुरयं स्थितः ।
त्रैविद्य वृद्धास्तद्वन्ति पुरुषं द्वादशाक्षरम्
सोऽग्निर्यज्ञपतिर्यज्ञो वषट्कारस्वधा च सः ।
सकलोन्तकमादित्यं यत्पुरस्तात्प्रकाशते
अकारपरञ्जाग्रत् सर्ववर्णप्रवर्तकम् ।
ऋग्वेदाहवनीयोऽग्निः सात्विको गुण उच्यते
अकारस्सर्वभूतानां पार्थिवं ब्रह्म कीर्त्यते ।
उकारो विष्णुदेवत्यं राजसं द्रवलक्षणम्
यजुर्वेदमयोह्येष दक्षिणाग्निरिति स्मृतः ।
स्वप्नोन्तरात्मा इत्येवं वदन्ति परमं पदम्
प्. १३८)
मकारं रुद्रदेवत्यं तामसं परिकीर्तितम् ।
साम वै गार्हपत्याग्निस्तामसं गुणलक्षणम्
सुषुप्तं पदमित्याहुः तमेव परमं पदम् ।
हकारममात्रो वै तुर्यं तत्परमं पदम्
अथर्ववेदमन्त्रात्मा सञ्जीवः सर्वदेहिनाम् ।
गुणातीतः परं शान्तिं यज्ज्ञात्वाऽमृतमश्नुते
आकाशममलं दिव्यं सर्वगं प्रभुरव्ययमिति ।
तुर्यातीतं परं ब्रह्म पदं * * सदात्मकम्
इदं साक्षाच्छिवं केचित् दशात्मा बीजसंपुटम् ।
आलयं सर्वविद्यानां विद्यालयमिति स्मृतम्
प्. १३९)
तत्राप्यन्ये प्रभाषन्ते त्रितत्वाक्षरभाषितम् ।
दश लक्षेश्वरं केचित् तारकं ज्ञानमाश्रिताः
षण्णवादीश्वरं केषापाशहानं तथैव च ।
शतार्धबीजसंहारं कारणं परमं मतम्
कारणं सर्वभूतानां नादमाहुः सदाशिवम् ।
स एव पञ्चधावस्थः शिवः सकलनिष्कलः
तथान्ये कल्पयन्त्यस्मिन् शिवज्ञानविदो जनाः ।
भुजङ्गकुटिलाकारं अनुच्चार्यमनामयम्
प्रथमं सर्वशास्त्राणां लिख्यते न च पठ्यते ।
इत्यञ्जलिनमस्कार जपध्यानविवर्जितम्
प्. १४०)
गन्धरूपरसस्पर्श शब्दादि करणोज्झितम् ।
नियुक्तमनसङ्कल्प स एष परमं पदम्
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्शिव एव च ।
पञ्चधा पञ्च दैवत्यं प्रणवं परिकीर्तितम्
एकमात्रो द्विमात्रश्च त्रिमात्रोभ्यधिकस्तथा ।
अर्धमात्रार्धसंस्थञ्च पञ्चधा विग्रही शिवः
एवमादिषु संमूढा वेदज्ञाः सांख्यवादिनः ।
ज्ञानपादेन संमूढाः निश्चयं नाधिगच्छतः
परतत्वविहीनास्ते आद्योत्पत्तिविवर्जिताः ।
ऋच एव मन्त्रव्यापित्वं नविजानन्ति मोहिताः
प्. १४९)
पुराणवेदगर्वेण स्मृतिना च तथैव च ।
स्थूलभावसुवृष्टात्मा पशुज्ञानरता नराः
दूषयन्ति शिवज्ञानं शैवं सर्वा शिवापहम् ।
दुष्यन्ति परपक्षाणि स्वपक्षपरिनिष्ठिताः
वर्णव्याप्तिमजानन्तः तत्वव्याप्तिं तथैव च ।
परतत्त्वमजानन्तः स्थूलज्ञानफलेप्सवः
एतस्मात्कारणाद्देवि तस्मिन् वर्णा न मुक्तिदाः ।
अनिश्चितमतास्सर्वे विवदन्ति परस्परम्
दूषयन्ति तथाऽन्योन्यं वादजल्पवितण्डकै ।
इति निश्वासकारिकायां ज्ञानकाण्डे ज्ञानविभ्रमप्रकारो नाम
द्वाविंशतितमः पटलः ॥
देव्युवाच
प्रधानात्मेशतत्वानां कर्मैकं सहजं स्मृतम् ।
किमर्थं सृष्टिमीशानः कुरुते सा प्रधानजम्
कृतकृत्यः पशुश्चायं कथं भवति शङ्कर ।
प्राधानिकं शरीरं वा किं विधं पारमार्थिकम्
लक्षणं बुध्यमावस्य प्रबुद्धाबुद्धयोः कथम् ।
प्रधानपुरुषेशानां कर्तृत्वं कस्य कीदृशम्
संप्राप्य कललावस्था मास्ते वा पुरुषः कथम् ।
प्. १४३)
किमर्थं बन्धनं वाऽपि को वा बन्धः सुरेश्वर
किं स्वरूपो भवेद्बन्धो को वा बन्धेन बध्यते ।
किं प्रकृत्या सह पशुः युज्यते स वियुज्यते
तत्वानाञ्च कथं सृष्टिः क्रियाभेदश्च कीदृशः ।
स गुणन्निर्गुणञ्चैव योगभेदञ्च तत्वतः
सर्वमेतत्पुनर्देव ममाचक्ष्व यथाक्रमम् ।
ईश्वरः
देव्यनादिभवा पङ्क्ते सन्निमग्नाश्शरीरिणः
नौरिवोत्तरणायेदं त्रितत्वमुपदिश्यते ।
कथितं तव देवेशि प्रधानगुणमुत्तमम्
प्. १४४)
निर्गुणास्त्वणवो मूर्तास्सर्वगोप्यवशोऽव्ययः ।
अधोवृत्तिरतृप्तात्मा गुणभुक् पाशगोचरः
अनीशः पशुकर्ता च साञ्जनोज्ञः परस्तथा ।
असर्वविदसंपूर्ण उदासीनः पुमान् स्मृतः
ईदृशं लक्षणं वस्तु स भवेदप्रबुद्धता ।
निर्गुणस्सर्ववित्कर्ता स्वतन्त्रस्सर्वगोचरतः
परिपूर्णोऽक्षरः शान्तः सूक्ष्मोजः परमो तनुः ।
बुध्यमानः समाख्यातं लक्षणं परमेश्वरी
नित्यप्रबुद्धशुद्धात्मा कारणोमतिविग्रहः ।
अनन्तो निश्चलश्चैव नित्यतृप्तो निराश्रयः
प्. १४५)
कूटस्थः पशवो नाथः सर्वनाथो मितद्युतिः ।
अनादिरेको निष्कंपः चेतनो सर्वभृच्छिवः
प्रबुद्ध एव विख्यात स्मृतयस्तु? सुलोचने ।
प्रधानमेक सर्वत्र क्षेत्रसंज्ञमचेतनम्
सर्वेषाञ्च पुमानेकः क्षेत्रभुक् चेतनः स्मृतः ।
अचेतनत्वादव्यक्तो न स्वयं संप्रवर्तते
चेतनोप्यस्वतन्त्रत्वात् संयोगमुभयोरपि ।
अनयोर्भावयोर्योगं संमोहकरणं महत्
प्रलयोत्पत्तिरूपेण स्थितोऽनादिरलक्षितौ ।
चेतनाचेतनत्वञ्च द्वावप्येतावनीश्वरौ
प्. १४६)
बहुधा भेदमायान्ति विभिन्नाक्षरणेच्छया ।
ईश्वरस्तदधिष्ठाय प्रधानपुरुषद्वयम्
भावानुत्पाटयामास तत्वानामनुपूर्वशः ।
नामार्थमीक्ष्य कुरुते सृष्टिमीशः प्रधानजाः
पशुपाशविमोक्षार्थ बारांभोयमुदीर्यते ।
सहजैरञ्जितः पाशैः केवलोप्यवशः पशुः
नाशाव्यक्त तत्वानाञ्चेत्र भावमबोधित ।
सदस्मादप्रबुद्धत्वात् अव्यक्तगुणसंश्रयात्
प्राप्य तद्भूतमश्नाति सुखदुःखफलोदयम् ।
शक्तोप्यनुग्रहं कर्तुं केवलस्येश्वरः पशोः
प्. १४७)
न करोत्येव सहसा कृतनाशाय वै प्रभुः ।
यस्मात्कारणहीनत्वान्नवेत्ति पुरुषात्मनि
तस्मात्कारणसंयोगं करोत्यस्य महेश्वरः ।
अव्यक्तमाहुः करणं कार्यञ्च दश लक्षणम्
तत्करोत्यन्यवशगः पुरुषार्थमनेकधा ।
तत्र विज्ञानमात्रन्तु पुरुषार्थः प्रकीर्तितः
पुरुषस्सकलाद्युक्ततत्वसंज्ञो विधीयते ।
तत्वज्ञानाद्धि निश्शेषं क्षयमायाति बन्धनम्
बन्धक्षयाच्च न पुनः संसारं प्रतिपद्यते ।
संसारविनिवृत्तस्य पुरुषस्यापि न च्युतिः
प्. १४८)
भवत्येकान्तिकसुखः स्वतन्त्रश्चैव जायते ॥ २८ १।२ ॥
इति निश्वासकारिकायां त्रयोविंशतितमः पटलः ।
ईश्वरः
अथ संक्षेपतः सम्यक् त्रितत्वपरिनिर्णयम् ।
प्राणिनामनुकंपार्थमद्भुतं संप्रकाश्यते
यत्तदव्यक्तमित्युक्तमुच्यते व्यक्तमिन्द्रियम् ।
स्वसंवेद्यमसंवेद्यमव्यक्तं गम्यतेऽर्थतः
तदात्मकानि भूतानि पञ्चभूतात्मकञ्च तत् ।
भूतप्रसूति नानात्वमेकत्वञ्च निगद्यते
प्. १४८ अ)
यस्सदाशिवपर्यन्तः पार्थिवाद्यश्च संग्रहः ।
तत्सर्वं प्राकृतं प्रोक्तं तत्वविद्भिरनेकशः
प्राकृतान्यवितत्वानि दिव्यादिव्यविशेषणम् ।
शुद्धाशुद्धं न गीयन्ते नात्मरूप स्वभावतः
शुद्धिमायान्ति तत्वानि विज्ञानप्राकृतान्यपि ।
शुद्धानि च निबध्नन्ति अज्ञानिषु शरीरिषु
अज्ञानिनस्तु सत्कार्ये सन्निविष्टास्तु सत्क्रियाः ।
तत्वानि शुभरूपाणि निबध्नन्ति शरीरिणाम्
यद्विकारमयं किञ्चित् तत्वमित्युपदिश्यते ।
तत्प्राकृतमसंदिग्धं अर्थविद्भिरुदाहृतम्
प्. १४९)
व्यापित्वात्सूक्ष्मव्यक्तत्वात् अनुत्पाद्यगुणादपि ।
शून्यमिच्छन्ति बहवः परमात्मानमव्ययम्
प्राणमन्योग्निरपरे तथेन्दुरपरे जनाः ।
प्रपदन्ति परं ब्रह्म बोधयन्ति परस्परम्
कार्यमुद्दिश्य भूतानां स्वभावगुणगौरवात् ।
न सम्यगुपचारार्थमुक्तन्न परमार्थतः
एकद्वित्रिचतुःपञ्च गुणाः प्रागनुपूर्वशः ।
शून्यादीनां विशेषाणां ऋषिभिः परिकल्पिताः
एकमेवामितगुणं शून्यमुक्तमिहाव्ययम् ।
तत्परापरभेदेन गीयते द्विविधः पुनः
प्. १५०)
यतः प्रवर्तते शब्दं तत्परं शून्यमुच्यते ।
शब्दतन्मात्रमुद्भूतं तदादिपरमं पदम्
एकतत्वनयोद्भेदं व्योमयोः कृतमन्तरम् ।
मायानिगूढपरमं परमायाविवर्जितम्
न च शुद्धं नचाशुद्धं शुद्धाशुद्धविवर्जितम् ।
सहजैरञ्जितैः पाशैः शून्यमव्यक्तरूपिणम्
स्थूलास्थूलतरैर्भावैः भावाभावविग्रहः ।
यदेतमभिसंख्यातमाकाशमजमव्ययम्
क्षीरभावात्मकमिदं शब्दरूपं प्रवर्तते ।
शब्दाच्चकायसंसिद्धिः हेतुराकाशलक्षणम्
प्. १५१)
विद्याविद्यास्वरूपेण द्विविधः संप्रवर्तते ।
विद्या देहं करोतीति पुरुषाव्यक्तवेदनम्
विपरीतञ्च संमोह भावभावहते नृणाम् ।
ज्ञानरूपोऽपि वर्गार्थं विपरीत * माश्रयम्
शब्दप्रकाशयत्येष विहितं प्राणिनां द्विधा ।
यतश्शब्दगुणं शून्यं बोधयत्येष मोहिनाम्
करोत्यन्यस्य शुद्धित्वमशुद्धित्वञ्च गीयते ।
मन्त्रात्मकं जगदिदं मन्त्रशब्दमयं स्मृतम्
शब्दशून्यात्मकं प्रोक्तं शून्यञ्चाव्यक्तसंज्ञितम् ।
तस्मादुत्पन्नमात्रस्तु मन्त्रानिलसमीरिताः
प्. १५२)
श्रोत्रयोव्यक्तिमायाति तस्मात्तत्स्थूलकं स्मृतम् ।
शून्याद्यच्छन्दरूपन्तु उद्दिष्टममितौजसम्
एतत्सगुणमित्युक्तमशुद्धं वा परं शिवम् ।
एवमन्योन्यवितथा भूतानि स्वगुणैस्सह
क्रमात्संभावमायान्ति भावान् सन्दर्शयन्ति च ।
स्थूलभावेन महता सूक्ष्मेण च समन्ततः
व्याप्यव्यापकरूपेण स्थितान्येकान्यनेकधा ।
सर्वतत्त्वमयोह्येष समभावमयस्तथा
पञ्चभूतात्मकं पिण्डं प्राकृतं समुदाहृतम् ।
स्थितो यस्सर्वजं ज्ञानमेष पिण्डः प्रतापवान्
प्. १५३)
भूतात्मकं समुद्दिष्टं सुभोगरति हेतुकम् ।
पञ्चभूतात्मकं पिण्डमिदमव्यक्तसंज्ञिकम्
सर्वभावोद्भवं मत्वा बन्धनात्प्रविमुच्यते ॥ २९ १।२ ॥
इति निश्वासकारिकायां चतुर्विंशतिः पटलः ।
देव्युवाच
भगवञ्च्छ्रोतुमिच्छामि प्रबुद्धाबुद्धबुद्धयोः ।
सप्तकोटिमहातन्त्र नोक्तं पूर्वं हि मे वद
कथन्त्वप्रबुद्धो ज्ञेयः प्रबुद्धश्च कथं भवेत् ।
बुध्यमानस्य वेदस्य यथातथ्ये वा मे वद
प्. १५४)
शृणु देवि परं शुद्धं अशुद्धं गुणसंवृतम् ।
पौरुषं गीयते तत्वमभवं भवगोचरम्
अमूर्तमप्रबुद्धत्वात् भोगैर्मायात्मकैरिदम् ।
क्रीडतेऽव्यक्तसंयोगात् बालक्रीडनकैरिव
अचेतनञ्चेतनेन निर्गुणेन गुणात्मकम् ।
व्यक्तमव्यमेतेन तेनाप्येतत्समावृतम्
न क्षीयते क्षीयमाणे जायमानेन जायते ।
पौरुषे व्यक्तजैर्भावैस्सहात्मीयैरिवा व्ययः
अजातमक्षीणमिदं पुरुषं पुरुषा भुवि ।
वदन्ति जातमित्येवं कृतञ्चाकृतबुद्धयः
प्. १५५)
अन्य एव क्षयं याति प्राप्नोत्यन्यस्तु वेदनाम् ।
अन्योऽत्र दुःखनिर्मुक्तः प्रभुस्तिष्ठत्यलक्षितः
अप्रबुद्धः प्रबुद्धश्च बुध्यमानस्तथैव च ।
त्रिधा रूपः पशुरयं भवत्येकोप्यनिन्दिते
आत्मानं प्रकृतिञ्चैव न हि वेदयतेऽन्तरम् ।
अप्रबुद्धस्तदा प्रोक्तः तत्वविद्भिरयं पशुः
पुरुषोऽव्यक्तविज्ञातः बुध्यमानोऽभिधीयते ।
नित्यबुद्धः प्रधानेश पुरुषाधीश्वरः स्मृतः
प्राकृतैरप्रबुद्धत्वात् गुणैर्बध्नाति चात्मनः ।
ततः प्रवर्तते रागस्तत्संगादशुभं पशोः
प्. १५६)
रागानुरञ्जितः पश्चाद्विषयाननु सेवते ।
तत्प्रसक्तस्सतान्येव विचरन्त्यत्र चिन्तया
ध्यायतस्तस्य विषयान् अहन्यहनि केवलम् ।
अभिभूय बलं कार्श्न्यं अनिवार्यः प्रवर्तते
ततः कामाभिभूतस्य क्रोधो भवति दारुणम् ।
प्रवर्तते विमूढस्य बुद्धिनाशस्तु देहिनः
प्रवर्तते बुद्धिनाशादक्षानादि चतुष्टयम् ।
अज्ञानसंगात्पुरुषोः प्रयात्यव्यक्तसंश्रयम्
अव्यक्तसंश्रयाज्जन्म पुनः कर्म च दारुणम् ।
प्रवर्तते मोहसंगात् निर्गुणस्यापि देहिनः
प्. १५७)
प्रगुणैर्गुणसंभूतैर्भाविभिर्भूतविग्रहः ।
प्रयात्यूर्ध्वमधश्चैव घटयन्त्रवदच्युतः
कोऽहं किमात्मकश्चैव कर्ता कार्यमथापि वा ।
बलवान् गीयते पापैः कोऽत्र दुःखानि कस्यचित्
देव्युवाच
किं हेतुकं सुखं दुःखं अकस्मादुपयुज्यते ।
बालयौवनवृद्धादिरूपाण्येतानि कस्य वा
जायते म्रियते कोऽत्र जायते वाऽपि वर्तते ।
को वा गृहं समुत्सृज्य शरीराण्यपगच्छति
एतत्कार्यमशेषेण भगवन् वक्तुमर्हसि ।
प्. १५८)
ईश्वरः
एतानि कथयिष्यामि माययापहृतः पुमान्
मोहयत्यज्ञानसंसर्गात् पश्यन्नपि न पश्यति ।
व्याधिजन्मजरामृत्यु दुःखाया सपरिच्छदः
जानन्नपि स मूढात्मा नोद्वेगमुपगच्छति ।
एवमव्यक्तजैर्भावैः गुणैरप्यनुरञ्जितः
बलाद्विकोशमन्योऽपि हीयते मायया बलात् ।
जायते वर्धते चैव दुःखाया स परिच्छदः
रज्वा च विरूपत्वं स्थूलात्मा स विनश्यति ।
एतदप्रतिबन्धस्य पुरुषस्य गुणान्तरम्
प्. १५९)
सांप्रतं शृणु वक्ष्यामि बुध्यमानगुणोदयम् ।
अज्ञत्वमस्य सहजं ईशानुग्रहचोदनात्
विबुध्यमानभावोऽयं देहिनस्संप्रवर्तते ।
तत्प्रसङ्गादयं धीमान् महानिद्रागतव्यथः
पशुरालोकयत्यग्रे संसारार्णवमव्ययम् ।
उष्णोदकसुसंपूर्णमाशापाशोर्मिसंकुलम्
महामोहतरं गाढ्यं रागबुद्बुदसंवृतम् ।
इच्छाद्वेषादिकलुषं समनोऽयशीतलम्
कामोग्रस्वादुविरसं क्रोधनिर्घोषभीषणम् ।
योन्यावर्तसमाकीर्णं मायानिविडकर्दमम्
प्. १६०)
व्याधिजन्मजरामृत्यु भृमनकनिषेवितम् ? ।
सुखदुःखभयं काले वेलापरिच्छदम्
पशुहंसकुलैर्व्याप्तं प्रकूजद्भिरितस्ततः ।
रक्तमांसकफाश्शुक्लं क्रमादन्नात्प्रवर्तते
शुक्लाद्भवन्ति भूतानि तस्मादन्नमयं जगत् ।
तदन्नं पिण्डकबलैः ग्रासैरक्तन्तु देहिभिः
अन्तस्थूलाशये पूर्णप्राणस्थापयते क्रमात् ।
भुक्तपीततदाहारं अतस्तत्कुरुते द्विधा
संप्रविश्यान्नमध्ये तु पृथगन्नं पृथग्जलम् ।
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नञ्च जलोपरि
प्. १६१)
ज्वलनोर्ध्वं स्वयं प्राणः स्थित्वाऽग्निं धमते शनैः ।
वायुना धाम्यमानोऽग्निरत्युष्णं कुरुते जलम्
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः ।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसम्
कर्णाक्षिनासिकाजिह्वादन्तशिश्नागुदानखाः ।
मलाश्रयाः कफस्वेदविण्मूत्रा द्वादश स्मृताः
हृत्पद्मप्रतिबद्धास्तु सर्वनाड्यस्समन्ततः ।
तासां मुखे पुनस्सूक्ष्मं प्राणस्थापयते रसम्
रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।
प्रतर्पयति संपूर्णास्तास्वदेहं समन्ततः
प्. १६२)
ततस्तन्नाडिमध्यस्थं शरीरोष्णेन तादृशम् ।
पच्यते पच्यमानञ्च भवेत्पाकद्वयं पुनः
त्वङ्मज्जास्थिसमन्ताच्च स्नायुश्चैव प्रजायते ।
रक्तलोमानि मांसञ्च केशमेदस्तथैव च
नाड्यो वसाऽथपूयश्च मज्जापि च कफस्तथा ।
एतदन्नात्समुद्भूतं शुक्लञ्च प्रसवात्मकम्
इति निश्वासकारिकायां पञ्चविंशतिः पटलः ।
ईश्वरः
शुक्लञ्च रससंयुक्तं यस्माद्देहस्य संभवम् ।
प्. १६३)
ऋतुकाले यदा शुक्लं निर्दोषं योनिसंस्थितम्
तदा तद्वायुना घृष्टं स्त्रीरक्तेनैकतां वृजेत् ।
विसर्गकाले शुक्लस्य जीवःकारणसंयुतः
यस्य यस्याशयात्पाकात् भोक्तुर्भोगाय सर्पते ।
स तत्रैव रतिं याति प्राक् तनेनोपरञ्जितः
प्रविचारक्षमो वाऽपि नोद्वहेत्तं विचारितम् ।
तच्चित्तः तन्मयो भूत्वा भुङ्क्ते भोगान् बुभुक्षितः
अतीत्य जीवं भावानां उच्छ्राय पतनं तथा ।
संसृतः प्रविशेद्योनौ कर्मभिन्नैर्नियामतः
तच्छुक्लं रक्तमेकस्थं एकाहात्कललं भवेत् ।
प्. १६४)
पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत्
बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्तदा ।
द्विसप्ताहाद्भवेत्पेश्याद्रक्तमांसं तदा दृढम्
बीजस्येवाङ्कुराः पेश्याः पञ्चविंशति रात्रिभिः ।
पुनश्च मासमात्रेण पञ्चधा जायते तु सः
ग्रीवा शिरश्च स्कन्धौ च पृष्ठवंशस्तथोदरम् ।
मासद्वयेन सर्वाणि तमसस्संभवन्ति हि
त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गव्यक्तसन्धयः ।
मासैश्चतुर्भिरङ्गुल्य प्रजायन्ते यथाक्रमम्
मुखं नासा च कर्णौ च मासैर्जायन्ति पञ्चभिः ।
प्. १६५)
दन्तपङ्क्तिस्तथा जिह्वा जायन्ते तु नखादयः
ओष्ठौ कपोलौ जायन्ते षण्मासाभ्यन्तरेण तु ।
वायुर्मेढ्रमुपस्थञ्च नाभिश्चैव प्रजायते
सन्धयश्चैव सर्वाणि मासैर्जायन्ति सप्तभिः ।
अङ्गप्रत्यङ्गसंपूर्णं शिरः केशसमन्वितम्
विभक्तावयवस्सर्वं पुनर्मासाष्टकेन तु ।
पञ्च पञ्चार्थसंयुक्तः परिपक्वस्स तिष्ठति
मातुराहारवीर्येण षड्विधेन रसेन तु ।
नाभिमूलनिबन्धेन वर्धते स दिने दिने
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिन् शरीरके ।
प्. १६६)
सुखदुःखं विजानाति निद्रास्वप्नं पुराकृतम्
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनि सहस्राणि मया दृष्टानि जायता
अधुना जातमात्रोहं प्राप्तसंस्कार एव च ।
तत्र श्रेयः करिष्यामि येन गर्भो न संभवेत्
गर्भस्थः चिन्तयन्नैव मयं गर्भाद्विनिर्गतः ।
अध्येष्यामि शिवज्ञानं संसारविनिवर्तकम्
एवं स गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायमचिन्तयन्
यथा गिरिवराकान्तः कश्चिद्दुःखेन तिष्ठति ।
प्. १६७)
तथा जरायुषा देही दुःखी तिष्ठति वेष्टितः
पतितः सागरे यद्वा तद्दुःखं भवति दारुणम् ।
गर्भोदकेन सिक्ताङ्गः तथान्ते व्याकुलः पुमान्
लोहकुंभे यथा न्यस्तः पच्यते क्वचिदग्निना ।
गर्भकुंभे तथा क्षिप्तः पच्यते जाठराग्निना
सूचीभिरग्निवर्णाभिर्भिन्नस्य च निरन्तरम् ।
यद्दुःखमुपजायेत गर्भेह्येष गुणं भवेत्
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् ।
देहेन दुःखबहुलं सुघोरमिति संकुलम्
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् ।
प्. १६८)
चरस्कराणां सत्यानां गर्भे दुःखं महत्स्मृतम्
गर्भात्कोटिगुणं दुःखं योनियन्त्रप्रपीडनात् ।
मूर्छा च जायते तीव्रा जायमानस्य देहिनः
त्रिभिश्च कोटिभिश्चाण्डेश्च्छन्नस्तन्निद्राद्यकूपकैः ।
शरीरं स्थूलसूक्ष्माणि दृश्यादृश्याभिरन्वितम्
तावतीभिश्च नाडीभिः कोटिभिस्तत्समन्वितम् ।
प्रस्वेदमशुचिर्याति रन्तस्थं स्रवते बहिः
इति देहगृहञ्जातं नित्यस्यानित्यमात्मनः ।
अविशुद्धं विशुद्धस्य कर्मभिस्तस्य निर्मितम्
गर्भमासे महद्दुःखं योनियन्त्रप्रपीडनात् ।
प्. १६९)
बाल्ये च दुःखमज्ञानात् कौमारे गुरुशासनात्
यौवने कामरोगात्तु दुःखमीर्ष्या यथा पुनः ।
कृषिवाणिज्यसेवादि गोरक्षाद्यैश्च कर्मभिः
वृद्धभावे च जरया व्याधिभिश्च प्रपीडितः ।
मरणे च महद्दुःखं प्रार्थनायां ततोऽधिकम्
राजाग्निजलदायाद्यैः चोरशतृभयं महत् ।
अर्थस्यार्जनरक्षा वा दुःखन्नाशे व्यये पुनः
कार्पण्यं मत्सरं दभ्रस्तृणव्याधिभयं महत् ।
अकार्ये संप्रवृत्तिश्च दुःखं वैतीन्धने सदा
अन्योन्यातिशयं दुःखमन्योन्याभिभवे पुनः ।
प्. १७०)
अन्तर्बहिः प्रकोपश्च दुःखं राज्ये महीभृताम्
अनित्यता प्रभावानां उच्छ्रायाः पतनं तथा ।
अन्योन्यमहिमा चैवान्योन्यस्यापि भक्षणम्
अन्योन्यातिशयैः पातैः संभवा भोगसंप्लवाः ।
छिन्नभिन्नोपि शस्त्रैश्च व्याधिभिश्च प्रपीडिताः
दुःखेन त्यजते देहं न विरागी कथञ्चन ।
गात्रं स्वं भिन्नमप्यस्त्रैर्विकलञ्चेन्द्रियैरपि
नोत्सहेत परित्यक्तुं तद्भावगुणरञ्जितः ।
रागञ्च रञ्जकं कस्य विषयानन्दलक्षणम्
येन युक्तं क्षयं यान्ति तिर्यङ्मानुषदेवताः ।
प्. १७१)
नौषधीर्न धनादानं न माता न च बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालप्रपीडितम् ।
(साधयान्तं तपो जप्यं योगसिद्धिर्महात्मभिः
कालमृत्युवशं प्राप्य जीर्यते सालसैर्नरैः ।
सुसाधन तपोजप्यैः योगसिद्धैर्महात्मभिः
कालमृत्युरपि प्राज्ञैः जीर्यते नालसैर्नरैः ।
हातातमातहा कान्ते क्रन्दत्येवं सुदुःखितैः
मण्डूक इव सर्पेण पीड्यते मृत्युना जनः ।
बान्धवैस्तु परिष्वक्तः प्रियैश्च परिवारितः
निश्वसन् दीर्घमुष्णञ्च मुखेन परिशुष्यता ।
प्. १७२)
चतुरन्ते च खड्वायां परिवृत्य मुहुर्मुहुः
समूढः क्षिप्यतेभ्यंगानूहस्तापादावितस्ततः ।
खट्वात्तु वाञ्छिते भूमिं भूमेः खट्वां पुनर्महीम्
विवस्तृस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकम्
चिन्त्यमानस्तु वित्तानि कस्यैतानि मृते मयि ।
पञ्चाङ्गैः खिन्नमानश्च कालपाशेन कर्पितः
मृयते पश्यतामेव गले घुरघुरायते ।
जीवस्तृणजदूकेव देहाद्देहां विशेत्क्रमात्
योहमस्मिन् मलाकीर्णे रमामि क्षणभङ्गुरे ।
प्. १७३)
नानाव्याधिसमाकीर्णे विषयोरगभूषिते
मदोन्मादैः विमुच्यन्ते विनयाचारतस्करैः ।
कामक्रोधभवैस्तापैः मुहुर्मुहुरतापितः
अत्यन्ते केशबहुले जराव्याधि भयाकुले ।
चिन्ताशोकसुसंपूर्णे अहो देवि सुदुःखितः
चर्मापिनद्धे दुर्गन्धवसाशोणितकर्दमे ।
विण्मूत्ररेतस्संपूर्णे कथमत्र रमाम्यहम्
दर्पणेषु यथाच्छाया चित्रे रूपं यथा स्थितम् ।
अनर्थानि मनोज्ञानि तद्वदेतच्छरीरकम्
महामायोर्मिसन्ताने त्रैगुण्यावर्त सङ्कुले ।
प्. १७४)
तत्वग्राहसमाकीर्णे प्लवोदज्ञानसागरे
एतमर्णवमालोक्य भयाद्विह्वलतां गतः ।
सुचिरं दीर्घनिश्वासमुत्सृज्य परिवेद्य च
अहो जगत्यज्ञत्वं सन्निमग्नमनागमम् ।
पुत्रागारादिकैश्वर्य व्याकुलीकृतमानसः
त्वमाता त्वपिता चैव त्व दाराणि सुताः त्व वै ।
त्वचार्थाः त्व च मित्राणि बान्धवाः त्व गृहाणि वै
मोहोऽयमस्य जगतः केनापि विहितः पुरा ।
पुत्रदारकुटुंबार्थाः शतृवत्प्रतिभान्ति मे
यदात्मना तु तं कर्म वाङ्मनः कायसंभवम् ।
प्. १७५)
तस्यानुसदृशं भुङ्क्ते फलमेकोऽन्यजन्मनि
इतश्चेतश्च वित्तानि कर्मणा येन केनचित् ।
एषामाश्रित्य भोगाय कल्पितास्तेन दुःखिताः
ये बान्धवाः प्रियास्तस्य धर्मराजनिकेतनम् ।
सहाया न भवन्त्येते नानुगच्छन्ति गच्छताम्
जन्तुरेकस्तु म्रियते जायते चैक एव हि ।
एकः सुकृतमश्नाति तथा दुष्कृतमेव च
विदित्वैवमसंमूढः कालोदरगतं जगत् ।
वैराग्यमपरमास्थाय मृगयत्यात्मनो गतिम्
केनोपायेन संस्कारमिदमत्युग्ररूपिणम् ।
प्. १७६)
सन्तरिष्ये सुखेनाहमचिरादशुभार्णवम्
दानयज्ञतपोन्यासवैराग्यज्ञानवृत्तयः ।
नौरिवोत्तारणायेदं संसारांभोनिधे स्मृतः
यत्फलं दानयज्ञादि कर्मणा समुपार्जितम् ।
तदस्याप्युपभोगेन क्षयमायात्यशेषतः
(तदस्याप्युपभोगेन क्षयमायात्यशेषतः ॥)
यज्ञात्स्वर्गफलावाप्तिः तत्क्षयात्पुरा गतिः ॥
कर्मतः स्वर्गतो यस्मात् तस्मादावर्तनं पुनः
एवमादि गुणोपेता दानज्ञानादिकर्मणा ।
संप्रदृष्टा गतिरियं सर्वे ते क्षयधर्मिणः
प्. १७७)
तपः सम्यक् सुतप्तस्य स्वर्गमेव परं फलम् ।
* * * * बहवः क्षयमत्र विशारदाः
क्षयमायाति विज्ञानं कर्मसन्यासमव्ययम् ।
सन्यस्तमप्यविज्ञानादुप * * * * * *
* * * मवाप्नोति न्यासकर्मरतस्सदा ।
वैराग्यवृत्तिरपरा ज्ञानवृत्तिस्तथा परा
महदन्तरमर्थज्ञैः अमरैरप्युदाहृतम् ।
* * * * * * * * * *
गुणलक्षणाः
प्रधानाश्रयमापन्नः पुनरायात्यधोगतिम् ।
ज्ञानादपुनरावृत्तिः भवेत्तदपि कारिणी
प्. १७८)
दानादि वैराग्यान्ताच्च कर्मणे * * * * * ।
* * * * * सर्वाः निष्फलश्चाप्यशेषतः
क्रियाश्च वेदविहिता णीयन्ते चतुरः क्रमात् ।
स कामा कामितफला न्यासयोगादिलक्षणाः
यत् * * * * * * * * * * * *
* * ।
* * * * * * * * * * * *
स्मृताः
दानयज्ञव्रतादीनि देवताया यदाग्रतः ।
कर्माणि विनिवेद्यन्ते सा तु सन्यासिकी क्रिया
योगमारुह्य यत्कर्म * * * * * * * * ।
यास्समुद्दिष्टाश्चतस्रस्त्रिगुणात्मिकाः
प्. १७९)
फलमासां प्रवक्ष्यामि पुनरप्यनुपूर्वशः ।
यत्किञ्चिदार्जितं पुण्यं हिंसा पू * * * * *
* * * * * फले संभोगात् क्षयमागते ।
शेषवृत्ती गुणमयी तिष्ठत्येकाप्यविप्लुता
शेषवृत्तिवशात्सर्वे ततस्ते फलभो * * ।
* * * * * * * * * * सर्वजन्तवः
शरीरेणोपभुञ्जन्ति तादृशेनैव कर्मणा ।
स्वर्गे वा नरके वाऽपि यत्र यत्र यथा तथा
कृतानां कर्मणां * * * * * * * * *
।
* * क्त क्रियारंभास्सक्ताः कर्मफलेषिणम्
प्. १८०)
येऽप्यसङ्कल्पितफला विधिकर्म सवैदिकम् ।
सन्यासं ये प्रकुर्वन्ति कृताना * * * * *
* * * * * * * महिंसायां प्रलीयते ।
अव्यक्ते वा परिक्षीणे गुणे नाशेन विद्यते
गुणैश्चैवा परिक्षीणे कथमेमाक्षे * * * ।
* * * * * * * योगभेदं समासतः
द्विविधस्तु भवेद्योगः सगुणो निर्गुणस्तथा ।
स्थूलसूक्ष्मविभागेन शिवेन परमात्मना
सप * * * * * * * * * * * *
* ।
निर्गुणं योगं प्राप्य सगुणेन मुमुक्षवः
प्. १८१)
प्राप्नुवन्त्येव साम्राज्यं गुणैः शातिशयैः पुनः ।
भुक्त्वा शातिशयान् भोगान् अन्ते तत्र गुणात्मिकान्
व्रजन्त्यनिच्छमानाश्च पुनरप्यधमां गतिम् ।
विद्यायोगेन सिद्धानां दुःखं सातिशयात्मकम्
यदधः पातो भवति अतः कष्टतरं नु किम् ।
तस्मात् सातिशयं योगं स विद्याकल्पनायुतम्
गुणं पाशात्मकं योगमिष्यते न विमुक्तये ।
अधुना कथयिष्यामि विद्यायोगस्य निर्णयम्
निरालंबेऽपि देवेशि शृणुष्व कथयामि ते ।
त्रिसरेणुभ्रमो वायुरेणुकः परिकीर्तितः
प्. १८२)
चतुर्भिरणुकैर्मात्रैः अर्धमात्रा अणुद्वयम् ।
मनोवस्थमणुं विद्यात् वाक् स्थाने च अणुद्वयम्
जिह्वाग्रे त्र्यणुकं विद्धि निसृतां मातृकां विदुः ।
ह्रस्वदीर्घपॢताख्यस्तु मात्रात्रयमुदाहृतम्
प्लुतातीता पुनर्देवी चतुर्थांशः प्रकीर्तितः ।
एकमात्रं वदेच्चाषो द्विमात्रं वायसो वदेत्
त्रिमात्रस्तु मयूरो वै एषा मात्रा विकल्पना ।
घण्टानादान्तसंस्थन्तु विरामो यः प्रकीर्तितः
तद्विनादन्नदेन्नाद्वं हृदिस्थं कण्ठसंपुटे ।
हृद्गतेनैव भावेन अनादी नादमव्ययम्
प्. १८३)
यदा विभाव्यतेऽव्यक्तमर्धमात्रं ततस्मृतः ।
मनसा चिन्तयेद्यावद्धृदिस्थन्नाभि भाषते
अर्धमात्रार्धमित्युक्तमिति शास्त्रस्य निश्चयम् ।
यदेतदक्षरन्नाम अर्धमात्रार्धसंस्थितम्
विद्यायोगस्स विज्ञेयो मुक्तियोगस्ततोऽन्यथा ।
स विद्यस्य तु योगस्य निर्णयं समुदाहृतम्
मोक्षे हेतुरिति ज्ञानमेतदभ्युपगम्यते ।
एतत्प्रधानिकं सर्वं सांख्यज्ञानार्थदर्शनम्
एवं ज्ञात्वा तु देवेशि आचार्यमिदमब्रवीत् ।
भगवंस्तीव्रसंसारादज्ञानावर्तसंकुलात्
प्. १८४)
त्रायस्व मामनुगतं शरण्यं शरणागतम् ।
त्वत्प्रसादादहं सर्वं विज्ञानामृतमुत्तमम्
ज्ञातुमिच्छाम्यशेषेण यथावद्भवनाशनम् ।
पुरुषाव्यक्तयोरेवं अन्तरं ज्ञानचक्षुषा
ज्ञात्वा कैवल्यगुणभुक् कथयस्व प्रसादतः ।
इति निश्वासकारिकायां ज्ञानकाण्डे षड्विंशतिः पटलः ।
ईश्वरः
वक्ष्ये नित्यप्रबुद्धस्य गुणोदयमतः परम् ।
यथा तस्य मतिर्देवि जायते परमे पदे
प्. १८५)
विचार्य निपुणो भूत्वा तत्वत्रयमहामतिः ।
तत्वातीतं यदान्वेषी गुरुशुश्रूषणे रतः
मोक्षमिच्छति योगेन लिङ्गं संगृह्यते पुनः ।
लिङ्गहीनेत्वगमनं तस्माद्देवि न सिध्यति
इन्द्रियार्थे यथा चित्तं नित्यं गच्छति देहिनाम् ।
तया चैवेन्द्रियातीते तस्य नैकाकृते पदे
मनो न गोपमाज्ञेयं रूपं गृह्णाति सर्वतः ।
नीयते च यदा रूपं गच्छते * * * तदा
नानाभावं भवेत्क्षीणे स्वभावे केवले स्थिते ।
तदा निवर्तते देवि अन्यथा न निवर्तते
प्. १८६)
मनो निवर्तते रूपान्न वक्तुं शक्यते क्वचित् ।
न तत्र कथयेत्किञ्चित् को वा पृच्छति सुन्दरि
मन्तव्यं तत्परं ब्रह्म सङ्कल्परहितं यदा ।
सङ्कल्पञ्चैव वाचा च तस्मात्प्राज्ञः परित्यजेत्
शिष्याचार्यस्य संबन्धात् ज्ञात्वा तन्न निवर्तते ।
तत्रैव तु रतिं नित्यं बुद्धिः प्रज्ञा स्मृतिर्मतिः
अनुच्चार्यमसंदिग्धं स्वरवर्णविवर्जितम् ।
शिवं शान्तं परं सूक्ष्मं यो वै वेत्ति स शैववित्
अक्षरादिषु सर्वेषु क्षरेष्वक्षरतः क्रमात् ।
ये वदन्ति ततो मूढाः न ते शैवस्य पारगाः
प्. १८७)
पञ्चाशाक्षरनिर्मुक्तं क्षराक्षरविवर्जितम् ।
बिन्दुनादं परित्यज्य मन्त्रग्राममशेषतः
दन्तोष्ठतालुजिह्वाया स्पन्दनं यत्र दृश्यते ।
अक्षरत्वं कुतस्तस्य क्षरत्वे वर्तते सदा
यावदुद्गिरते वाचा यावख्यो प्रवर्तते ।
तावत्तत्सकलो ज्ञेयो निष्कलस्तु ततोऽन्यथा
यत्किञ्चित् चक्षुषा ग्राह्यं श्रवणाच्छ्रूयतेऽपि वा ।
सर्वमेतदनित्यन्तु स देवासुरमानुषम्
अक्षरेषु कुतो मोक्ष आकाशे कुसुमं कुतः ।
सिकतासु कुतस्तैलं शशशृङ्गे धनुः कुतः
प्. १८८)
इति देवि समाख्यातं प्रबुद्धस्य तु लक्षणम् ॥ १६ १।२ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे सप्तविंशतितमः पटलः ॥
देव्युवाच
सकलो निष्कलश्चैव तथा सकलनिष्कलः ।
सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयोऽथ पञ्चधा
कीदृशस्सकलो देवो निष्कलश्चैव तत्र तु ।
तृतीयं भेदमाख्या हि यथा सकलनिष्कलम्
सूक्ष्मो भिन्नकलश्चैव भेदानि कथयस्व मे ।
ईश्वरः
प्. १८९)
एतत्ते कथयिष्यामि पञ्च भेदात्मकं शिवम्
येन विज्ञातमात्रेण न पुनर्जन्मतां व्रजेत् ।
व्योमव्यापी परो देवः पञ्चमन्त्रो महेश्वरः
अष्टत्त्रिंशत्कलाविद्धो अ आमज्योतिरूपवान् ।
सकलश्चेति यः प्रोक्त स्वयं देवो ह्युमापतिः
सकलप्रकृतिस्थो हि प्रेरके च सदा पुमान् ।
व्यापयेद्भुवनं सर्वं व्यापयेत्सर्वदेहिषु
अवस्थितश्च सर्वत्र तेनासौ सकलस्मृतः ।
अविकल्पसमो भावो यत्र मन्त्रेण युज्यते
मन्त्राक्षरपदैः सर्वैः सकलस्तेन शब्द्यते ।
प्. १९०)
स्थूलसूक्ष्मेषु भूतेषु स्थितस्सर्वशरीरिणाम्
प्रधानपुरुषव्यापी तेनाऽसौ सकलस्मृतः ।
व्यापित्वात्सकलो देवाः कलातत्वं प्रकीर्तितम्
कलानां निलयो यस्मात् तेनाऽसौ सकलस्मृतः ।
सकलः कुरुते सृष्टिं मन्त्रसिद्धिं प्रयच्छति
नाशयेत्सर्वविघ्नानि मुक्तिमन्ते करोति सः ।
अप्रमेयोह्यनिर्देश्यो नौपम्यो रूपवर्जितः
सर्वतत्वपरः सूक्ष्मो निष्कलस्तत्र उच्यते ।
देहतत्वपरिच्छिन्ने निनादः सर्वदेहिनाम्
नादकलयाऽतीतस्सर्वों निष्कल उच्यते ।
प्. १९१)
सकलेन विनिर्मुक्तो बिन्दुनादविवर्जितः
व्योमस्थं निष्कलं तत्वं वाच्यावाच्यविवर्जितम् ।
विद्याविद्याविनिर्मुक्तं निष्कलं परमं पदम्
व्योम्नि स्फटिकसंकाशं जरामृत्युविनाशनम् ।
मनसा मोक्षसिध्यर्थन्निष्कले तु लयं कुरु
बिन्दुनादात्मकञ्चैव दृक् श्रोत्रेन्द्रियगोचरम् ।
दृश्यऽत्रार्धविमलं ज्ञेयं सकलनिष्कलम्
निष्कलं तद्विजानीयात् रूपं सकलनिष्कलम् ।
ओंकारशब्दतन्मात्रं श्रूयते कथ्यते न च
न च दृश्यति रूपेण ज्ञेयं सकलनिष्कलम् ।
प्. १९२)
सकलं योजयित्वा तु निष्कलं योज्यते यदा
तदा विचक्षणैर्ज्ञेयं शिवं सकलनिष्कलम् ।
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः
क्रियायोगादि गम्योऽसौ ज्ञेयः सकलनिष्कलः ।
चतुर्थमाकाशमयं नादातीतमतीन्द्रियम्
सदाशिवाख्यममलं रूपं सूक्ष्ममिहोच्यते ।
परमाणुसुसूक्ष्मत्वात् भावितव्यं निरामयम्
अत्यन्तगहनं सूक्ष्मप्राणातीतमलक्षणम् ।
परमाणुसुसूक्ष्मोऽसौ हृदि मध्ये व्यवस्थितः
प्रेरते च जगत्सर्वं स वै सूक्ष्मः प्रकीर्तितः ।
प्. १९३)
मन्त्राक्षरपदैरग्रैर्वियस्थं पश्यते सदा
ज्ञानयोगप्रकाशार्थं तज्ज्ञेयं सूक्ष्मदर्शनम् ।
पापक्षयाच्च योगाच्च ध्यानस्योपचयात्तथा
हृज्ज्योतिर्मध्यसंलीनं शिवं सूक्ष्मं स पश्यति ।
सर्वान्तस्थस्समाधिस्थ अन्तःकरणगोचरः
नेत्रैः न दृश्यते सूक्ष्मं योगिभिस्तदुपास्यते ।
भूजलाग्न्यनिलाकाश राज्ये(आत्मे)न्दुरविरूपवान्
स शिवः सर्वधर्मात्मा स तु भिन्नकलो भवेत् ।
अकारादि क्षकारान्तं रूपं मन्त्रकलात्मकम्
विद्यते यस्तु बहुधा सकलो भिन्न उच्यते ।
प्. १९४)
मन्त्राक्षरपदैः यस्मात् पदार्थैः संस्थिता मतिः
भिन्नार्थवाचकैश्शब्दैः विद्याभिन्नकलश्शिवः ।
एवन्तु दशधा ज्ञेयं पुनर्ज्ञेयन्तु पञ्चधा
सप्तधा च चतुर्थाष्टौ चतुर्भिः पुनरेव च ।
शिवस्साङ्गोऽथ गायत्री सद्याद्याः पञ्च चापरे
विद्येशा लोकपालास्ताभिन्नैकं सकलं शिवम् ।
भिन्नावस्थमिदं ज्ञात्वा योजयेत्सुसमाहितः
भिनत्तिपाशसंघातं तेन भिन्नकलस्मृतः ।
एष ते कथितो देवि पञ्चवस्थः परश्शिवः
ज्ञात्वैवं मुच्यते पाशैश्शिवं याति स चाव्ययम् ।
प्. १९५)
इति निश्वासकारिकायां अष्टाविंशति पटलः
देव्युवाच
सार्वज्ञादिगुणादेव गीयन्ते सर्वतश्शिवे ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
ईश्वरः
पशुं पाशान् तथा तत्वान् उद्भवं प्रलयं तथा ।
सर्वज्ञानादिदेवेशि सर्वज्ञस्तेन सोच्यते
सर्वैश्वर्यसुसंपूर्णास्सर्वाश्रयनिराश्रयः ।
सर्वगः परिपूर्णश्च परितृप्तस्स उच्यते
अनादित्वात्स्वभावश्च सर्वात्मा दृढगोचरः ।
प्. १९६)
स्वशक्त्या बोधयेद्यस्मात् तस्माद्बोधः प्रकीर्तितः
उत्पादयेज्जगत्कृत्स्नं त्रैलोक्यं स चराचरम् ।
स्थितिनाशश्च देवेशस्वतन्त्रस्तेन सोच्यते
नित्यत्वादजरत्वाच्च सर्वज्ञत्वाच्च शङ्करः ।
योगैरव्याहतत्वाच्च अलुप्तस्तेन सोच्यते
अनादिमध्यनिधनं परं वेत्ति कश्चनम् ।
शक्तेरव्याहतत्त्वाच्च अनन्तस्तेन सोच्यते
एतेह्यङ्गा महेशस्य वेदितव्याः प्रयत्नतः ।
मुच्यते सर्वपापेभ्यः शिवं याति अनामयम्
इति निश्वासकारिकायां ज्ञानकाण्डे एकोनत्रिंशत्पटलः ।
देव्युवाच
षड्वणूरहितेत्येवं यत्त्वयोक्तं महेश्वर ।
तन्ममाचक्ष्व देवेश वर्णे हीनं यदा भवेत्
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छितम् ।
तदहं ते प्रवक्ष्यामि यत्सुरैरपि दुर्लभम्
पञ्चधा देवदेवेशि वेदितव्यं प्रयत्नतः ।
वर्णभेदस्तु ज्ञातव्यं तत्त्वभेदञ्च तत्वतः
वायुभेदं पुनस्तस्य देवदेवस्य कीर्तितम् ।
देवतावस्थाभेदञ्च पञ्च भेदास्समासतः
प्. १९८)
एभिभेदैर्यदा हीनो देवदेवे जगद्गुरुः ।
तदा तु कथितो देवि षड्वर्णरहितश्शिवः
देव्युवाच
वर्णभेदः कथं देव तत्वभेदश्च शङ्कर ।
वायुभेदं पुनस्तस्य देवतावर्णभेदनम्
एभिर्हीनं यदा देव सद्भावं तस्य कीदृशम् ।
तन्ममाचक्ष्व देवेश अत्र मे संशयो महान्
ईश्वरः
एतानि कथयिष्यामि यद्यथा तु वरानने ।
तद्गतस्तन्मयो भूत्वा शृणु एकाग्रमानसा
प्. १९९)
वर्णभेदं मया ख्यातं तच्छृणुष्व वरानने ।
वर्णैर्गुप्तं विलुप्तञ्च तद्यथा कथयामि ते
अकारेण विलुप्तेन ओंकारश्शिववर्जितः ।
तेन देवि विलुप्तेन पञ्चमेन समन्वितः
पञ्चमेन यदा हीनष्षष्ठस्तत्र प्रकीर्तितः ।
षष्ठहीनं यदा देवि मकारस्तत्र दृश्यते
तेन हीनं यदा देवि कथं चन्द्रनिभो भवेत् ।
यदा तेन विहीनस्तु षड्वर्णरहितश्शिवः
सकलस्य तु तत्वस्य वर्णैर्हीनस्तु निष्कलः ।
न लोपेन वरारोहे यस्मिन्वक्रहलाकृतिः
प्. २००)
तत्वे हीनं यदा देवि तस्यैव कथयामि ते ।
सप्ततत्वादि देहेऽस्मिन् मया पूर्णमुदाहृता
षड्भिस्तत्वैः विहीनस्तु कर्तव्यः परमेश्वरः ।
पञ्च तत्वा स्थिता ह्यूर्ध्वमयश्चैव व्यवस्थितः
तैर्विहीनं यदा देवि षड्वर्णरहितो भवेत् ।
वायुभेदं पुनस्तस्य कथ्यमानमिदं शृणु
यस्मिन् यस्मिन् स्थितास्ते वै श्रूयतान्तु यथाक्रमम् ।
उदानस्संस्थितो ह्यूर्ध्वे अपानोऽधो व्यवस्थितः
प्राणो मध्यगतस्तत्र व्यानस्सन्धानगोचरे ।
समानस्सर्वगस्तत्र व्यापी तेषां धनञ्जयः
प्. २१)
एभिस्सर्वे यदा हीनो देवदेवो जगद्गुरुः ।
तदा तु कथितो देवि षड्वर्णरहितश्शिवः
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्शिव एव च ।
शक्तिनादेन तु यदा हीनं तैर्विहीनस्तु निष्कलः
सितरक्तपीतकृष्णं स्फटिकाभं मनोरमम् ।
एभिर्वर्णैर्यदा हीनं षड्वर्णरहितो भवेत्
एभिर्वर्णैर्यदा हीनो बिन्दुरेको व्यवस्थितः ।
तदान्तौ परमं शान्तं वर्णरूपविवर्जितम्
न स्वरव्यञ्जनं तत्र न रूपं नैव भावना ।
न मनो विद्यते तत्र चिन्ता तत्र न विद्यते
प्. २०२)
न तत्र विद्यते किञ्चित् यजनो नात्र गम्यते ।
देव्युवाच
अद्याहं देव जानामि जीवितञ्च सुजीवितम्
किञ्चिद्दोदूयते चित्तं तन्ममाचक्ष्व शङ्कर ।
व्यञ्जनस्वरनिर्मुक्तं वर्णरूपविवर्जितम्
त्वया देव समाख्यातं कथं विज्ञायते प्रभो ।
ईश्वरः
गुरुपारं पराद्देवि संप्रदायमिवोदितम्
न चाद्म कथयिष्यामि गुरुवक्त्रकलामृते ।
यथा येन च भावेन भावज्ञः कथयेद्गुरुः
प्. २०३)
तत्तथा तु न चान्योस्ति श्रद्धातव्यं हि शोभने ।
यथा च भावमाभावे भावं भावति शोभने
तथा ते कथयिष्यामि निवृत्तिं येन यास्यसि ।
इति निश्वासकारिकायां तृंशत्पटलः ॥
देव्युवाच
बहुचित्तमिदं ज्ञानं निश्चयो नोपपद्यते ।
तदेकं वचनञ्चिन्त्यं येन श्रेयोऽहमाप्नुयाम्
ईश्वरः
ज्ञानन्तु बहुधा व्यस्तं लोके समुपदिश्यते ।
प्. २०४)
ज्ञेयन्तद्व्यतिरिक्तान्य ज्ञाने ज्ञेयं विधीयते
शिवश्च केवलश्शुद्ध अशुद्धश्चाक्षरैः सह ।
शुद्धा स्वाभाविकी मूर्तिः अयत्नादेव जायते
न हि गोशब्दमात्रेण पयसः प्राप्तिरिष्यते ।
विशेषस्तु मधुक्षीरो जलानि अमृतादिभिः
उक्तैरपि न संस्पर्शादोष्ठाभ्यां जायते फलम् ।
ईश्वरः
मुक्त्यर्थन्तु प्रशंसन्ति ज्ञेयं धर्मप्रवेदिनः
विज्ञानात्तु गुणावाप्तिः संस्पर्शादिव धातवः ।
रसेन्द्रेणैव लोहानां कालिका स्पर्शवेधिना
प्. २०५)
हारिताग्निसंयोगाद्धेमत्वं प्रतिपादितम् ।
स्पर्शवत् ज्ञानमुद्दिष्टं अग्निवज्ज्ञेयमिष्यते
हारितं परमेशान पशूनां पाशकालिका ।
स्वकारणगुणावेशात् तन्मयत्वं प्रपद्यते
लभन्ते योगिनस्सर्वे विज्ञानात्तुल्यतां तथा ।
स्वेषु स्वेषु तदैश्वर्य कारणं तुल्यधर्मताम्
अवाप्नुवन्ति सर्वत्र विज्ञानात्परमार्थतः ।
विज्ञानात्तु विशीर्येत त्रिविधं बन्धनञ्च यत्
विशीर्णबन्धनो जन्तुरिच्छाशक्तित्वमाप्नुयात् ।
इच्छाशक्तिगुणा व्याप्त्या न जन्तुर्दुःखभाक् भवेत्
प्. २०६)
सर्वकारणधर्मत्वं लभते नात्र संशयः ।
देव्युवाच
शिवस्य परिपूर्णस्य अध्वानन्तु कथं भवेत्
कीदृशन्तु शिवाध्वानं तत्त्वतः कथयस्व मे ।
आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित्
एवं सर्वगतो देवो अध्वानन्नैव विद्यते ।
पशुभावापदातीत्य पतिभावेन तिष्ठति
तत्तस्य गमनं नाम सर्वगे गमनं कुतः ।
उन्नमत्वं शिवत्वञ्च प्रयातीत्युपचर्यते
संबोधो गमनन्नाम सर्वगे गमनं कुतः ।
प्. २०७)
देव्युवाच
सर्वव्यापीति देवस्तु कथ्यते मम शङ्कर
पक्ष एव विरुद्ध्ऽयं कथं निस्संशयो भवेत् ।
पत्रे पुष्पे फले तोये यदि सर्वत्र विद्यते
स्वगाङ्गकृन्तनं दुःखं कथं पूजा विधीयते ।
स्थावरे जङ्गमे चैव बीजाद्येषु च सर्वतः
स्वकाङ्गो दहनं दुःखं कथं होमेषु युज्यते ।
पत्रपुष्पफलादीनां यदि तत्र न विद्यते
अव्यापित्वं तदा तस्य सर्वव्यापी कथं भवेत् ।
अव्यक्ते व्यक्तता नास्ति रूपवर्णत्ववेदिनाम्
प्. २०८)
व्याहृतं यदि गृह्णाति दत्तं भोजम?वाञ्च्छया ।
व्यक्तरूपं शरीरन्तु व्यक्तं वै कृतकात्मकम्
कालेनैव विनश्यन्ते ये ये विग्रहरूपिणः ।
सर्वव्यापी भवेद्देवः पूजा देहः प्रशस्यते
लिङ्गपूजाविधिर्देव न चेष्टा मम रोचते ।
प्रतिघाते विलक्षन्तु आकाशं सर्वतोमुखम्
शिलास्तंभजलैः कुड्यैः पर्वतैश्च निवार्यते ।
यदेतत्प्राक् समुद्दिष्टमाकाशमजमव्ययम्
तद्वदीश्वरमव्यक्तमस्वतन्त्रमचेतनम् ।
पराधीनमकर्तारमज्ञं प्रसवधर्मिणम्
प्. २०९)
व्याप्यमव्यापकं क्षोभ्यं ग्राह्यं सगुणमुच्यते ।
विकारिणं सातिशयं व्यक्तमव्यक्तलक्षणम्
असर्वज्ञत्वमेतस्य योनिभूतमुदाहृतम् ।
एष धर्मः समुद्दिष्टः शून्यस्यानीश्वरत्वता
ईश्वरः
विदित्वा तु पुनर्देवी न मोहमुपयास्यसि ।
न तथा तु परं तत्वं व्यापयन्तं निवार्यते
जलदर्पणमध्ये तु छायारूपं यथा विशेत् ।
नोत्सरेन्न च भिद्येत तद्वद्देवो विरोचते
व्यापिनश्चाविरोधी च नावरुध्यति केनचित् ।
प्. २१०)
सोन्तर्बहिस्थितो यो वै न च कुत्रचिदाश्रितः ।
अनुमानन्नचोपम्यं न च तस्यास्ति यन्मम
स्वभावनिर्मलश्शुद्ध अनुत्पन्नमलाञ्जनः ।
न शक्यं किञ्चित्तस्याथ प्रवक्तुं गुणलक्षणम्
ततस्तोये यथा चन्द्रो दृश्यत्याकाशसंस्थितम् ।
तद्वत्सर्वगतो देवस्सूक्ष्मत्वान्नोपलभ्यते
स च योगेन दृश्येत प्रत्यक्षं जलचन्द्रवत् ।
क्षीयते वर्धते चन्द्र अस्थिरो विषमश्चलः
विकारित्वमुपायाति उत्पन्नश्शशलाञ्छनः ।
अमायी निर्विकारी च बहिरन्ते च संस्थितः
प्. २११)
समायी बिंबसंक्रान्तो खे स्थितो न तु तज्जले ।
मलिनेऽपि स्वदेहे तु दृश्यते परमेश्वरः
उपदेशेन देवेशि प्रत्यक्षं जलचन्द्रवत् ।
यथा शरीरमध्येऽपि प्रत्यक्षः परमेश्वरः ।
विद्यमानो न दृश्येत तथा पत्रफलादिषु
स्वभावेन हि तत्रस्था खे तु दृश्यति चन्द्रमाः ।
उपदेशेन देवेशि प्रत्यक्षं सर्वतस्थितः
पत्रपुष्पफलादीनां मलत्वान्न च दृश्यते ।
यथा त्वं देवि संमूढा असंग्राह्ये व्यवस्थिताः
मणौ तोये यथादर्शे दृश्यन्ते रश्मिमालयः ।
प्. २१२)
एवं पत्रेषु पुष्पेषु दृश्यते परमेश्वरः
पत्रपुष्पफलादीनां बीजाद्येषु च सर्वतः ।
सूक्ष्मत्वात्संस्थितस्तत्र दृष्ट्वा तन्नविकल्पना
पत्रपुष्पफलादीनां बीजाद्येषु च सर्वतः ।
विद्यमानोऽपि तेष्वेव सूक्ष्मत्वान्न तु विद्यते
दह्यमानेषु बीजेषु सूक्ष्मत्वान्न तु दह्यते ।
तेजोग्नि मणिकांसानां आकाशे दर्शने तथा
आपशस्त्रानिपाकेन न हि वेदोऽत्र दृश्यते ।
एषं पत्रफलादीनां बीजाद्ये प्रसवेषु च
सूक्ष्मत्वाद्देवदेवस्य च्छेददाहो न दृश्यते ।
प्. २१३)
सर्वतः पाणिचरणं सर्वतोऽक्षिशिरोमुखम्
सर्वव्यापि स्वरूपेण तत्वं सर्वगतं यतः ।
तस्मात्तन्न विकल्पेत अविचारेण शोभते
प्रत्यक्षे दृश्यमाने तु हेतुस्तत्र न कारणम् ।
सर्वाभासन्निराभासमरूपसर्वरूपकम्
नैकदेशस्थितत्वाच्च तस्य आवाहनं कुतः ।
सर्वव्यापि शरीरे स्वे पठ्यते वर्णसंहरौ
योगपीठस्य शब्देन तथा पूर्वस्थितेन तु ।
यतस्वदेहे पठितो निरोधोऽस्य कुतस्मृतः
सर्वसान्निध्य शब्देन स्वतनौ पठितो यतः ।
प्. २१४)
सान्निध्यकारणञ्चैव विरोधञ्च न विद्यते
एवमेतानि रूपाणि तथान्यानि शिवस्य तु ।
विधिसामग्र्यहेतौ तु कीर्तिता हीनशासने
आवाहनञ्च देवेशि क्रियात्मकविसर्जनम् ।
नचैतदर्थवादस्तु विधिवादः प्रकीर्तितः
विधिवादं समासाद्य देवा ब्रह्मपुरोगमाः ।
ऐश्वर्यमतुलं लाभममरत्वञ्च शाश्वतम्
भुक्तिमुक्तिपदं शास्त्रं शैवं नाम महात्मने ।
नहि दोषो विशोधो वा उभयार्थप्रसिद्धिदः
देव्युवाच
प्. २१५)
रथ्यापुरुषवद्दोषो भवतीति शिवेन्यथा ।
प्रदेशिनीति वृत्तिः स्यान्न तु सर्वगता विभोः
ईश्वरः
लक्षालक्षमयो देवः शिवः परमकारणः ।
अर्चायां लक्षणोपेतं जपयोगे तथैव च
मनोबुद्धिरहंकारमन्तःकरणसंज्ञितम् ।
तदेव स्थानमित्युक्तं मनोबुद्ध्यादि कल्पितम्
सङ्कल्पबुद्धिरहितमहंकारविवर्जितम् ।
स्तुत्यादिविधि निर्मुक्तं परापस्थमिदं स्मृतम्
स तु सर्वगतो देवी लक्षालक्षविवर्णितः ।
प्. २१६)
देव्युवाच
यदि सर्वगतो देवस्सर्वावस्थोष्ववस्थितः
तस्मात् स्थानविकल्पस्तु न तत्कुर्यान्महेश्वर ।
उभयार्थप्रसिध्यर्थं शैवं ज्ञानमुदाहृतम्
सर्वव्यापी महेशानो मुक्तौ को दोषमावहेत् ।
ईश्वरः
सर्वङ्गतेषु भगवान् न हि देहेषु पूज्यते
लिङ्गेऽथवान्यत्र शुभे संपूज्यो भगवान् शिवः ।
आवाहनमनुध्यानं मनो भुक्ति निरोधनम्
शिवेन सह संयोगं चिन्तयेन्मनसा धिया ।
प्. २१७)
अर्चयेत् सकलं देवं जपेत्सकलनिष्कलम्
ध्यायेज्ज्योतिर्मयं सूक्ष्मं कलाभिन्नं तु तर्पयेत् ।
व्योम्नि स्फटिकशुद्धाभं जरामृत्युविनाशनम्
मनसा मोक्षसिध्यर्थं निष्कलन्तु लयं कुरु ।
स्नाने तु निर्मलो मन्त्री जपात्सिद्धिर्न संशयः
पूजायां सन्निधावेव होमेनैव फलप्रदः ।
ध्यानेन सर्वगं देवं योगयोगित्वमाप्नुयात्
व्रतेन कायशुद्धिः स्यात् दीक्षायां मुक्तिरिष्यते ।
आवाहनं स्थापनञ्च सान्निध्यं सन्निरोधनम्
विधौ स्थितानि नामानि कर्मणां कथितानि तु ।
प्. २१८)
न चैवावाप्यते कश्चिन्न च कश्चिन्निवेश्यते
निरुध्यते न देवेशि सान्निध्यं क्रियते न च ।
व्यापी मन्त्रस्वरूपेण चिन्तयन्ति परं शिवम्
तदा वाहनमित्युक्तं क्षमस्वेति विसर्जनम् ।
इति निश्वासकारिकायां एकत्रिंशत्पटलः ।
देव्युवाच
मनो हि चलते नित्यं प्रवह्वञ्चलते बलात् ।
समाधिस्थोऽपि देवेश कथं तिष्ठति निश्चलः
ईश्वरः
प्. २१९)
कर्मसन्यासयोगञ्च मतियोगं महत्तथा ।
योगः पञ्चविधः प्रोक्तः पुनरावृत्तिलक्षणः
पुनरावृत्तियोगेन ये सत्ता वरवर्णिनी ।
तेषां हि चलते नित्यं कर्मासक्तमनस्सदा
देव्युवाच
कर्मयोगञ्च संयासं मतियोगं महत्तथा ।
एतेषां श्रोतुमिच्छामि भगवन् वक्तुमर्हति
ईश्वरः
अभिमानात्मकं योग कर्मशब्दाभिशब्दितम् ।
तदेवं कृतकृत्यः सन् न्यस्ते सन्यास उच्यते
प्. २२०)
सह तैश्चैव वैराग्यं संयोगः प्रकृतेर्जयः ।
अतीत्य प्रकृतौह्यष्टौ वर्तन्ते पुरुषेश्वरा
चत्वारः कथिता योगा महद्योगं यथा भवेत् ।
उपर्युपरि वर्तन्ते योगिनो योगवर्धनौ
तथैव च प्रलीयन्ते योगधर्मास्वकर्मसु ।
द्वैतभावार्थसंसिद्धा पुनः सृष्टिं व्रजन्ति ते
अणिमादिगुणा लक्षाद्रूपादिग्रहणात्मिकाः ।
निरोधाद्योगसंसिद्धिः मोक्षस्तेषां न विद्यते
अणिमादिगुणान् प्राप्य अङ्गविङ्कान् महेश्वरान् ।
नासौ सायुज्यमाप्नोति न भवेद्यावदेकता
प्. २२१)
ओंकारतत्पराधे तु रेचके पूरके स्थिताः ।
न तेषां तु परं स्थानं आत्मेन्द्रियनिषूदनात्
प्रणवो वायुरधो नाडी उदानोर्ध्वं व्यवस्थितम् ।
एतत्संशययोगीनां गतानां पुनरागमः
गमागमनसंयुक्त निरुद्धाग्रन्थिपञ्जरे ।
विद्या योगात्मिका देवि विद्याभावाधिगच्छतः
भवान्तरयुगापेक्षि सविद्यस्योपजायते ।
अवश्यावेश्ययोगित्वात्ते तु व्याप्यमुदाहृतम्
ये केचित्कारणाभावान्न ते मुक्तास्तदात्मकाः ।
न योगी युञ्जकः कश्चिन्न च चक्षुर्निमीलितम्
प्. २२२)
नासाग्रवीक्षणञ्चैव न तु योगं प्रशस्यते ।
देव्युवाच
सावलंबेह्यनित्यत्वं निरालंबेपि शून्यता
पक्षद्वयेऽपि दोषोऽस्ति किं तद्ध्यायन्ति योगिनः ।
ईश्वरः
यथा शिशुरकिञ्चिज्ज्ञो मूढोप्युक्ता न शायितः
परतत्त्वमजानन्तः पुरुषा बालकोपमाः ।
अज्ञायमाने तज्ज्ञानं ज्ञाते सत् ज्ञेयमिष्यते
ज्ञेयोद्भवञ्च विज्ञानं विज्ञानं तत्तदात्मकम् ।
देवी
प्. २२३)
यथा तज्ज्ञेययोगेन मनस्थास्यति निश्चलम्
एतन्मे निश्चितं ब्रूहि अत्र मे संशयो महान् ।
ईश्वरः
मनस्तु कथयिष्यामि चतुर्भेदसमायुतम्
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते ।
सात्विकं राजसञ्चैव तामसञ्च विशेषतः
कथयामि समासेन योगभेदक्रमेण तु ।
चतुर्थन्तु महद्योगं अनौपम्यमनामयम्
तानि प्रवक्ष्यामि मनसं मनसे चेष्टितानि तु ।
येन विज्ञातमात्रेण उन्मनत्वं स गच्छति
प्. २२४)
संशिष्टश्च स्वलीनश्च विक्षिप्तो गतिरागतिः ।
मनश्चतुर्विधं प्रोक्तं भेदं तस्य इमं शृणु
न मनो नापि मन्तव्यो नमन्ता च न विभाव्यते ।
स्वलीनो विषयैर्मुक्ता एकीभूतस्सुषुप्तवत्
विषयान् गृह्णमानोऽपि ज्ञेयत्वमधिगच्छति ।
न च तैर्युज्यते ज्ञातस्सं शिष्टस्स तु उच्यते
अज्ञानात् गच्छते ज्ञानं ज्ञानादज्ञानमेव च ।
चलते यस्य दौर्बल्यात् तस्याऽसौ गतिरागतिः
ज्ञानेन शिष्यते यस्मात् इन्द्रियार्थ परायणः ।
त्रिकालमातलो नित्यं स तु विक्षिप्त उच्यते
प्. २२५)
स्वलीनश्चोत्तमस्तत्र गुणातीतो निरामयः ।
मध्यमस्स तु विज्ञेयो संशिष्टस्सात्विकः स्मृतः
अधमश्च फलक्षुद्रो राजसो गतिरागतिः ।
तामसः स तु विक्षिप्तः चतुर्थोह्यधमो मतः
गुणात्मकः समुद्दिष्टो मनः प्रायश्च देहिनाम् ।
निर्गुणत्वेऽधिकत्वेन यत्र लीनो भविष्यति
एकीभावगतश्शान्ते स्वकालेनैव गृह्यते ।
सुषुप्तादधिकत्वेन चेति नात्र विशेषणम्
न शक्यन्ते तदाख्यातुं न च तस्य तु धारणा ।
न चान्यो ज्ञापकस्तत्र यावन्नस्वतस्वयम्
प्. २२६)
मनसश्च सुलीनश्च यत्सुखं ह्यात्मसाक्षिकम् ।
योगावस्था परा ह्येषा प्राहुर्योगविदो जनाः
यदा मनः परे तत्वे लब्धलक्षो निलीयते ।
तदाह्यशेषविज्ञानं विनाशमुपगच्छति
यस्य सर्वगतो भावः स बाह्याभ्यन्तरे स्थितः ।
चलितोऽपि मनस्तस्य चलित्वा यास्यते कुतः
ज्ञानं तत्वार्थसंबोध आत्मध्यानप्रकाशता ।
ज्ञेयं सर्वसमत्वञ्च ध्यानान्निर्विषयं मनः
निराधारो निर्विकल्पः सर्वालयविवर्जितः ।
निर्गुणो लक्ष्य रहितः शिवयोगः प्रकीर्तितः
प्. २२७)
मतः कोष्ठिणतो यस्य अन्तस्थः सुसमाहितः ।
यथा वायुः सुशीघ्रोऽपि मुक्त्वाऽकाशं न गच्छति
ज्ञेयं विक्षिप्तचित्तस्य विषस्थोऽपि निश्चलः ।
भुङ्क्ते तु विषयान् सर्वान् नासौ लेह्यलेपकः
यस्य सर्वगतो भावो ज्ञेयावस्थो निरन्तरः ।
कायानुबन्धिचलिते नाऽसौ चलति निश्चलः
यस्या ज्ञेयमिदं सर्वं मनस्त्वभ्यस्य निश्चलः ।
एवं योनिजितो धीरैस्स गत्वा किं करिष्यति
क्षीरक्षये यथा वत्सः स्तनान्मातुर्निवर्तते ।
रागक्षये तदा पुंसां मनश्शीघ्रं निवर्तते
प्. २२८)
चलाचलशरीरार्थं चित्तवृत्तिरपेक्ष्यते ।
स च त्यागी शरीरस्य सुरुद्धो न भविष्यति
इच्छाद्वेषौ सुखं दुःखं विरागो ज्ञानमेव च ।
त्रयोदश विधस्तेन करणं निश्चलीकृतम्
स्वभावाच्चलमन्यत्तु चलं वा केन चाल्यते ।
निश्चलं न कदाचित् स्यात् अयुतस्य युतस्य वा
देव्युवाच
प्राणाद्या वायवः पञ्च (देहस्था) मनः पञ्च च देवताः ।
पुर्यष्टकं च तन्मात्रं बुध्यहंकारमेव च
एभिस्तु व्याकुली भूत्वा वायवो मनसा युताः ।
प्. २२९)
चलते तु सदा देवि सुखदुःखेन मोहिताः
सुखदुःखमयो मोह अनेन चलते मनः ।
यस्य तुल्यसुखं दुःखं मनस्तस्य सुनिश्चलम्
देव्युवाच
अक्ष्णान्निमीलनञ्चैव नासाग्रस्य तु वीक्षणम् ।
न योगी युञ्जकश्चैवार्थतस्तु त्वया विभो
सावलंबं निरालंबं न योगमुभयात्मकम् ।
कथं योगं महादेव ज्ञेयस्य कथयस्व मे
ईश्वरः
न योगकरणञ्चात्र आधारालंबनं न च ।
प्. २३०)
हृच्चातिनासिकाग्रस्य वीक्षणान्न निमीलनम्
किञ्चिदाभासमात्रन्तु ज्ञात्वा तु परमां तनुम् ।
प्रतिपूरितवद्वायुः सूक्ष्मेण सुषिरेण तु
गता न ज्ञायते यद्वत् ज्ञेययोगं तथैव हि ।
देव्युवाच
वायुपूर्णशरीरन्तु दृतिवल्लक्ष्यते प्रभो
कृतकेन तु कर्तव्यं किं बाह्यकृतकात्मकम् ।
कृतकस्य तु अध्वानं ज्ञातव्यं सर्वथा विभो
ज्ञेयस्य कृतकं नास्ति अध्वानं न च कल्पना ।
एतन्मे संशयं देव यत्त्सत्यं तद्ब्रवीहि मे
प्. २३१)
ईश्वरः
अनाख्ये यस्य तत्त्वस्य निर्गुणस्य यशस्विनी ।
गुणवद्ग्रहणं कृत्वा कथयेत्परमेश्वरम्
किञ्चिदाभासमात्रन्तु क्रतू कथयेच्छिवम् ।
प्रक्रमाध्वानमार्गन्तु उच्चारकरणानि च
स्थातव्यन्तु वरारोहे परित्याज्यमशेषतः ।
एवं स निर्जितो तिष्ठेत् मनो दुर्जयचञ्चलम्
चलते न कदाचित् स्यात् ज्ञेयावस्थो भवेत्सदा ।
अनिर्जितो यथा मल्लो दर्पणीकुरुते बहून्
निजितं तिष्ठते धीरः तथा ज्ञेयविदां मनः ।
प्. २३२)
न हि गन्ता भवेत्कश्चित् गन्तव्यञ्च न विद्यते
गमागमननिर्मुक्तो घटाकाशेव तिष्ठति ।
घटसंवृतमाकाशं नीयमानमितस्ततः
घटो निर्याति नाकाशं शिवोह्येवं नभोपमः ।
कदलीसारवद्देहं वृतं तत्वदलैस्स्थितम्
तस्मात्तत्वदलत्यागी व्ययवद्भवते तदा ।
निराकारात्मविज्ञाने भावनागतचेतसः
मोक्षोल्पीयस्य नोत्कण्ठः स मोक्षमधिगच्छति ।
मोक्षो नाम स विख्यातो स शरीरो निराकृतिः
अचिन्त्यो निर्गुणो मोक्षो न तु मोक्षो लयान्वितः ।
प्. २३३)
न मोक्षस्य भवेत्तस्मात् न चाध्वानं कदाचन
सर्वत्र विगता दृष्टिः स मोक्षो मोक्षवादिनाम् ।
बाहुशो यस्तु वैराग्यं आत्मा निर्व्यापितस्तु यैः
तेषामन्योऽपि नास्त्यत्र गत्वा निरुपपत्तिकम् ।
एवमन्येऽपि ये केचित् निर्वाप्यन्ते विरागिताम्
तथा तेऽपि गमिष्यन्ते निर्वाणं प्रथमं यथा ।
यथा शिलाश्रितं तोयं क्षपितं सूर्यरश्मिभिः
तथा निर्वापितोह्यात्मा गतो निरुपपत्तिकम् ।
न तत्तोयगतं भूम्या न च तत्रैव तिष्ठति
न च तत् केनचित् पीतं गतो निरुपपत्तिकम् ।
प्. २३४)
एवं ग्राह्यात्मवैराग्यं यदुक्तं गुरुणा हितम्
गताध्वानमयं भावं तदेकन्तु सनातनम् ।
का ह्याशा मोक्षवादीनां यत्र सर्वे क्षयं गताः
एतदत्यन्तवैराग्यमपि सत्वसुखावहम् ।
यन्नास्ति तत्र सन्तोषं प्रायः कश्चित्करिष्यति
स मुक्तो निर्विकल्पस्तु स विकल्पस्तु बध्यते ।
नदीनां सागरं प्राप्य नामरूपं निवर्तते
ते तत्र न विजानन्ति परस्परविशेषणम् ।
न चान्यो जायते तत्र उदकस्य विशेषणम्
तत्र क्षयं गता नद्यस्सदप्येको महोदधिः ।
प्. २३५)
एवं नद्युपमो देही निर्वाणं सागरोपमम्
निर्ममास्ते तु तिष्ठन्ति सागराश्रित सिन्धवः ।
तिष्ठते निश्चलत्वं हि तृप्तिस्थं तस्य जायते
सुखदुःखं न संवेत्ति गृह्णाति शिवजान् गुणान् ।
अभावे भावमालंब्य भावं कृत्वा निराश्रयम्
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ।
अभावे भावमाश्रित्य भावलीनोप्यशङ्कितः
विभुरिति समन्तव्यो नात्र कार्या विचारणा ।
अभावस्य कुतो भावः निष्कलस्य महात्मनः
अमने अव्यवस्थानं निर्वाणं तस्य तत्पदम् ।
प्. २३६)
यस्य जाग्रे प्रलीयन्ते सर्वे भावास्सुषुप्तवत्
पर्याप्तं तस्य विज्ञानं त्रिपदं ते न लङ्घितम् ।
पूर्वकोह्यक्षरो ज्ञेयः सुरेचितमनक्षरम्
कुंभकेन तदा ज्ञेयं क्षराक्षरपरश्शिवः ।
सर्वं त्यक्त्वा समाधिस्थ अन्तःकरणगोचरम्
ततस्तु पश्यते नित्यं योगिभिस्तदुपास्यते ।
गुरूपदेशनिर्दिष्टं संप्रदायं यथा स्थितम्
स बाह्याभ्यन्तरे सूक्ष्म अनादि शिव अव्ययः ।
देव्युवाच
पितृयानपथं देव देवयानं तथैव च
प्. २३७)
निश्चयं श्रोतुमिच्छामि पथद्वय विशेषणम् ।
ईश्वरः
पितृयानेन गच्छन्ते इष्टापूर्तरता दिवि
ते तत्र अनुभुंजन्ते यदत्र सुकृतं कृतम् ।
कृतक्षये निवर्तन्ते पुनर्जायन्ति भूतले
पानरोधक्षये पत्रं यथा गत्वा निवर्तते ।
पथं चान्द्रमसं सर्वं मिडा तस्य तु सारथिः
पितृयानेति विज्ञेयं स पथे यज्ञयाजिनाम् ।
क्षीयते वर्धते चन्द्र अस्थिरो विषमश्चलः
पितृयानप्रपन्नस्य गतिस्तस्यापि ईदृशी ।
प्. २३८)
देवयानपथे सूर्यः सुषुम्ना तस्य सारथिः
तं भित्वा गच्छते योगी दक्षिणेनाऽनिवर्तकः ।
सर्वभूतात्मभूतानां साधूनां तत्वदर्शिनाम्
सर्वकामान्निवृत्तानां स पथोभ्यासयोगिनाम् ।
न ते भूयो निवर्तन्ते देवयानेन योगिनः
तस्मात्सर्वं परित्यज्य दक्षिणेन प्रपद्यथा ।
एवं पथं विदुर्देवि पितृयानं समासतः
देवयानात्पथो नास्ति श्रूयतां येन हेतुना ।
पथेन गम्यते यत्र यत्किञ्चित्परिकल्पितः
अत्र धातामनिर्देश्यं पथो भवति कीदृशः ।
प्. २३९)
यथाऽध्वानञ्च योगञ्च सर्वतन्त्रं न विद्यते
शिष्यप्रबोधनार्थाय एवं शास्त्रेषु चोदितम् ।
तन्मानार्थमिदं वाक्यं देवयाने यथा तथा
सर्वव्यापित्वगमनं पथ्या भवति कीदृशः ।
यत्र गम्यति तन्नास्ति न च तत्र पथा क्वचित्
नास्ति योगगतिस्तत्र सर्वलक्षात्परं पदम् ।
गतिर्नावर्तते वश्यं सुदूरेष्वपि योगतः
देवयाने पथे नास्ति तेनाऽसौ न निवर्तते ।
यः कश्चित्पितृयानेन पथेन तु गतो नरः
निवर्तते सुदूरोऽपि यत्र यानं समाश्रितः ।
प्. २४०)
देवयानेन सो गत्वा सर्वपापैर्विवर्जितः
भोक्तव्यञ्चैवमैश्वर्यमाशापाशविवर्जितम् ।
करणञ्चैव संज्ञा च अहङ्कारं तथैव च
निवर्तते यतस्सर्वं कथं तत्र विभज्यते ।
ऐश्वर्यं चोदितं शास्त्रे अल्पसत्वमनौपमम्
निराभासे तथैश्वर्यं न कदाचिद्भविष्यति ।
यस्येश्वरोऽपि नैराश्यं निराशं संप्रशस्यते
त्यक्तं येन जगत्सर्वं आत्मा भोक्तव्य एव च ।
आत्मार्थे सर्वकार्याणि आशाभूतः प्रवर्तते
आत्मत्यागः कृतो येन तस्याशा कस्य कारणे ।
प्. २४१)
तावद्बध्यति संसारे यावदाशा न मुञ्चति
आशाच्छेदः कृतो येन स मुक्तः सर्वबन्धनैः ।
अतीतानागतञ्चैव वर्तमानं तथैव च
अथात्मा स्थावरान्तत्वसर्वज्ञानादि कृत्रिमम् ।
जातं नास्ति तथाऽवश्यं अजातञ्च विशेषतः
एवं नैराश्यभावेन महामोहं त्यजिष्यति ।
अजातत्वादजो नास्ति जातं नास्त्यविनाशकम्
चतुर्विधञ्च यज्ज्ञानं तदेव कृतकं स्मृतम् ।
काममूलो महावृक्षः संसारस्तीक्ष्णकण्टकः
सिच्यते रागतोयेन फलग्राहेण वर्धते ।
प्. २४२)
कामरागन्न * * * * स जिष्यति पण्डितः
वृक्षोपमन्तु संसारं सर्वमुन्मूलयिष्यति ।
प्रागुक्ताङ्गबलं सर्वं विद्युद्दर्शनसन्निभम्
योह्यज्ञः पर्युपासीत स मृत्युः पर्युपास्यते ।
तस्माच्छिद्रं पवित्रञ्च क्षेममङ्गुलमेव च
स्वस्ति शान्ति शिवं तस्य हृदयं यस्य निष्प्रभम् ।
पातालस्सप्तलोकान्तः सर्वमेतद्विभीषिका
भगनाशा शून्यमंत्रेण ते स्मृता मन्त्रवादिनः ।
न हुतं न च वा दत्तन्न परत्र नचैहिकम्
नचात्र बध्यते कश्चित् न च कश्चिद्विमुच्यते ।
प्. २४३)
बन्धव्यो बन्धनञ्चैव तथा चैवान्यबन्धकः
दाता प्रतिगृहीता च तथा दातव्यमेव च ।
अग्निदर्भाश्च मन्त्राश्च होता होतव्यमेव च
यत्र शून्यन्निराभासं कुतस्तत्र इमे स्मृताः ।
अग्निहोत्रादयो यज्ञा वेदाश्च ऋषयस्तथा
असुराः पितरो देवाः सर्वेह्यपरमार्थिकाः ।
सर्वे मन्त्रात्मका देवा देवो मन्त्रगणस्मृतः
दैवं पैत्रञ्च यज्ञाश्च सर्वे तिष्ठन्ति मन्त्रतः ।
तत्र मन्त्राणि वर्तन्ते तत्र ज्ञेयं सुनिष्कलम्
तस्मात् मन्त्रोदितं सर्वं विद्यादपरमार्थिकम् ।
प्. २४४)
सर्वे धर्मा विरुध्यन्ते परमार्थस्य निश्चयात्
नैतद्बाह्यं गृहस्थानां ज्ञानमेतत्तु नैष्ठिकम् ।
न च नास्ति क्रिया यज्ञा अस्तित्वे च फलप्रदाः
फलञ्चात्मा प्रियैस्त्यक्तः तेषां तेनास्ति सुन्दरी ।
ना पृष्ठः कस्यचिद्ब्रूयात् न चान्यायेन पृच्छितः
अन्यायैः पृच्छिते यस्तु न ब्रूयात्तस्य पृच्छतः ।
विदितो योगसद्भावे तदाक्षमपुनर्गृही
अपुनर्गृह्नवासेति येनोक्तं तस्य भाषयेत् ।
विरागे निश्चयो यस्य ज्ञेयस्य प्राङ् निवेदयेत्
पुत्रदारकुटुंबेषु सक्तं सर्वमिदं जगत् ।
प्. २४५)
तस्य त्यागः कृतो येन तद्विरागस्य लक्षणम्
अनैष्ठिकेन वक्तव्यं गोष्ठिकामे कुटुंबिने ।
सस्पृहे चावरक्ते च दुष्टचित्तेऽजितेन्द्रिये
तव देवि मम ख्यातं मम भक्तेति सुन्दरि ।
तस्मात्सन्यासिनं मुक्त्वा नाख्येयं कस्यचित्त्वया
देयुवाच
मत्सरीत्वं महादेव समत्वं यन्न पश्यति ।
सिद्धान्ते ब्रूहि को दोषो गृहस्थानां प्रकाशते
श्रुतिस्मृत्युदितो मार्गो धर्मकामार्थसंयुतः ।
सिद्धान्ते केवलं ज्ञानं धर्मकामार्थवर्जितम्
प्. २४६)
धर्माद्यास्तत्र हीयन्ते तेषाञ्चैव प्रकाशते ।
न सिध्यते च तत्कार्यं तस्यारंभो निरर्थकः
दद्याद्यो विमलं वेद्या अदत्त्वामलशोधनम् ।
ओषधीन्नैव सिध्येत मतिग्रस्तस्य देहिनः
तद्वद्दोषो भवेद्देवि गृहस्थानां प्रकाशते ।
न दोषोयमियद्ब्रूहि श्रूयतां केन हेतुना
ऐहिकामुष्मिकान् भोगान् यो भुङ्क्ते तु वरानने ।
कदाचिद्यजते यज्ञं तेन यज्ञो विदूषितः
अभोज्यं भोक्तुकामस्य अनर्थकमिदं भवेत् ।
विधियज्ञ प्रमाणस्तु सस्पृहस्य न युज्यते
प्. २४७)
त्यागात्संसिध्यते ज्ञेयः सस्पृहस्तु न सिध्यति ।
गृहस्थस्य परित्यागो न कदाचिद्भविष्यति
ऐहिकामुष्मिकान् तृष्णान् त्यक्त्वा त्यागी भविष्यति ।
गृहस्थोऽपि परित्यक्तुं ऐहिकं नैव शक्यते
वित्तहीने गृहस्थत्वं न कदाचित्प्रसिध्यति ।
उपादानन्तु वित्तस्य सर्वोपायेन कारणम्
तृष्णाञ्चाशेषतः त्यक्त्वा वैराग्येन यदा स्थितः ।
पञ्चसु नादृतैर्दोषैः गृहीणां गृह्यते तदा
गृहस्थत्वं भयं घोरं लोभा * * * जेष्यति ।
न स त्यजति संसारलोभमोहतमो व्रतः
प्. २४८)
यथा सर्वं परित्यज्य तथेदं श्रुतिरब्रवीत् ।
ईशावास्यमिदं सर्वं यत्किञ्च जगतां जगत्
तेन त्यक्तेन भुञ्जीथा माहृथाः कस्यविद्धनम् ।
तद्गृहस्थस्य किं बाह्यमस्मिन् लोकेप्यवस्थितम्
यत्रासक्तो दयां त्यक्त्वा भूतग्रामं जिघांसति ।
तस्मात्सुन्दरि तस्यापि गृहे मुक्तिर्न दृश्यते
न च संयासयोगेन इच्छाद्वेषस्य वर्जनात् ।
न माया मत्सराद्युक्तो गृहस्थोऽपि न सिध्यति
त्यागहीना न सिध्यन्ति पक्षद्वयविडंबकाः ।
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म कीर्तितम्
प्. २४९)
अन्तःकरणहीनस्य न किञ्चिदपि सिध्यति ।
लोकस्य सर्वतो मौनी समश्शान्तः समाहितः
सर्वमात्मवशं पश्येत् भूतग्रामे चतुर्विधे ।
देव्युवाच
नोपकाराय यत्किञ्चित् न चान्यो जायते गुणः
मौनभावेन देवेश तस्मान्मौनं निरर्थकम् ।
ईश्वरः
उपकारकृतस्तेन परेषां हितकाम्यया
येन निर्वापितो ह्यात्मा वैराग्यं गृह्यते यतः ।
अनेन हेतुना दुःखं शरीराद्विनिवर्तते
येन निर्वापितो ह्यात्मा वैराग्यं गृह्यते यतः ।
अनेन हेतुना दुःखं शरीराद्विनिवर्तते
प्. २५०)
परेभ्यः कुरुते दुःखं यं यं वाचा समीहते ।
देव्युवाच
अस्य वैराग्ययोगस्य किं भवेत्सिद्धि वा न वा
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ।
ईश्वरः
शृणु देवि परं गुह्यं तस्यसिद्धिमनौपमाम्
न रूपं न च वर्णञ्च न च तस्यैव भावना ।
सकलं निष्कलञ्चैव करणाधारवर्जितम्
न चोच्चारविभक्तिश्च वर्णरूपविवर्जितः ।
अमनस्थ महायोगं सर्वसिद्धिप्रदायकः
प्. २५१)
गुरुप्रसादमात्रन्तु पारंपर्यं वरानने ।
तं लब्ध्वा लब्धमात्रस्तु यथा सिद्धिं लभेन्नरः
समुदायमिदं ज्ञानं न पृथक्त्वं कदाचन ।
स्वरवर्णविहीनस्तु सर्वसिद्धिप्रदं शुभम्
तेन ज्ञेयमिति प्रोक्तं यस्माद्भ्रान्तिर्न जायते ।
भ्रान्ति निर्नाशनं ह्येतत् सर्वज्ञानार्थ साधकम्
सर्वज्ञानमिति ज्ञेयं सर्ववर्णप्रसाधकम् ।
एतद्देवि महाज्ञानं विज्ञानं शून्यमव्ययम्
बिन्दुमात्रा विनिर्मुक्तस्वरवर्णविवर्जितम् ।
ज्ञेयमेतत्समाख्यातं जरामृत्युविनाशनम्
प्. २५२)
सर्वव्याधिहरञ्चैव सर्वपापान्तकं तथा ।
अचिन्त्यं सूक्ष्ममाकाशमशेषव्यापकं परम्
ईषत्प्रसार्य वक्त्रन्तु जिह्वाकाशे नियोजयेत् ।
तस्मिंस्थाने तु यत्किञ्चित् स्पर्शमीषद्विभावयेत्
भवितव्यन्तु योगीभिः सिध्यर्थमिदमुत्तमम् ।
अस्यैव कथयेद्देवि योगस्य विधिमुत्तमम्
विज्ञप्तेन तु कुर्वीत सत्यं देवि वदाम्यहम् ।
न देवा नासुरा यक्षा न नागा न च राक्षसाः
किन्नराप्सरसश्चैव पिशाचा न च भूतले ।
न वसुः न च विद्या च विद्याधरगणेन च
प्. २५३)
लोकपालान नक्षत्रा चन्दसूर्यौ न चैव हि ।
न वायुस्सलिलञ्चैव न वृक्षा न च पर्वताः
न मेरुर्गिरिराजानो न चैव विषयस्तथा ।
न ब्रह्मा न च वै विष्णुः नाहं देवि त्वया सह
अनन्तं सर्वमेतत्तु स किञ्चिदपि चिन्तयेत् ।
एवं यो भावयेद्योगी विततं शून्यमव्ययम्
न यमो मयतो वाऽपि न कार्यं तस्य वर्तते ।
दष्टो यदि महानागैरनन्तगुलिकादिभिः
न विषं क्रमते तस्य यस्तु शून्यं विचिन्तयेत् ।
अपरञ्च परञ्चैव सर्वमस्मिन् प्रतिष्ठितम्
प्. २५४)
शून्यध्यानमिदं देवि मयोक्तं विधिवत्त्वया ।
धर्माधर्मक्षयं कर्म जन्मव्याधि विनाशनम्
ईदृशज्ञानसद्भावं न दद्याद्यस्य कस्यचित् ।
दीक्षयित्वा महादेवि दातव्यं सुपरीक्षिते
इदञ्चारमिदञ्चारमिह देहस्यगोचरे ।
इदं तत्वमिदं तत्वमिदं ज्ञानमिदं सर्वज्ञमेव च
इदन्नाडीसुसञ्चारमेवं ज्ञात्वा विमुच्यते ।
एवं वदन्ति बहव अन्योन्यज्ञानगर्विताः
एवञ्च निश्चितं ज्ञात्वा न तु तत्वं प्रकाशयेत् ।
ब्रह्मचारीति वक्तव्यमहो शान्तेति वा पुनः
प्. २५५)
एवं वा तोषयित्वा तु तूष्णीं भूतस्समाचरेत् ।
शृणु देवि परं गुह्यं स मुद्राभिनयमुत्तमम्
एतद्विज्ञानमात्रेण अभावं पदमाप्नुयात् ।
सव्यहस्तेन कर्तव्यं मुद्राबन्धमनुत्तमम्
सर्वेषां ज्ञानिनामेतत् सर्वदर्पापहं महत् ।
यदि स्यात् ज्ञानिनः कश्चित् ज्ञानिनो गृहमागतः
दर्शयेभिनयं देवि येन विज्ञायते श्रमम् ।
एवं ज्ञानी यदा ज्ञानं पृष्टव्यं पुनरेव हि
कथयेद्यस्य मुद्राया देवतामनुपूर्वशः ।
तदा तस्य पुनर्देवि पृष्टव्याः गुरवः क्रमात्
प्. २५६)
गुरू शास्त्रक्रमञ्चैव ज्ञात्वा तद्वद्विशारदः ।
तदा तत्पूजयेद्देवि शिववच्छिवसंमतः
तस्य लक्षणतो ब्रूहि मुद्राया वरवर्णिनी ।
येन विज्ञातमात्रेण न पुनर्जन्म चाप्नुयात्
कनिष्ठायां स्थितो ब्रह्मा अनामायाञ्च केशवः ।
मध्यमायां स्थितो रुद्रः तर्जन्यामजमीश्वरः
सदाशिवस्थितोङ्गुष्ठे कथितन्तु समासतः ।
तर्जन्यङ्गुष्ठकौ लग्नौ नीतोर्ध्वं विसृजेत्पुनः
संमुखेन तु देवेशि सकृतत्वप्रकीर्तितः ।
मध्यमानामिका चैव कनिष्ठाया समन्वितः
प्. २५७)
प्रसृतादि सदा देवि मुद्रयाभिनयं शुभम् ।
ज्ञातेनाऽनेन मुद्राया मुच्यते पाशबन्धनात्
कुलकोटिशतं साग्रं नरकात्तार इष्यति ।
इति निश्वासकारिकायां द्वात्रिंशत्पटलः ॥
देव्युवाच
ज्ञात्वा ज्ञानं परं दिव्यं योगसद्भावमुत्तमम् ।
कृताञ्जलि पुटाभूत्वा देवी वचनमब्रवीत्
देव्युवाच
तत्वविज्ञानयोगञ्च शक्तिनादन्तथैव च ।
बिन्दुदेवस्य विज्ञानमष्टभेदस्य शङ्कर
प्. २५८)
योगसद्भावविज्ञानं ज्ञातं मे त्वत्प्रसादतः ।
न यत्र सूत्रे देवेश पतिसद्भावमुत्तमम्
एकस्मिन् कथितास्सर्वे विदितास्त्वत्प्रसादतः ।
पुनश्च श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
प्रकृतिमादितः कृत्वा नाडीं वायु समन्विताम् ।
कथयस्व महेशान प्रश्नं गुह्यतरं प्रभो
ईश्वर उवाच
शृणु देवि परं गुह्यं योगसद्भावमुत्तमम् ।
सर्वसंहितसामान्यं कथयामि महाफलम्
प्रत्याहुस्तथा ध्यानं प्राणायामोऽथ धारणा ।
प्. २५९)
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते
चित्तं चेता तथा चिन्ता पञ्चधा कथितं मया ।
योगस्य करणान्येते कथितानि मया तव
एवमुत्पद्यते योगो धारणा सुकृतश्रमः ।
देव्युवाच
ध्यानधारणचिन्ताभिः योगारंभक्रियादिभिः
कालेन यदि सिध्येत भगवन् किं कृतं त्वया ।
यदात्मपीडारहितं विना क्लेशैरवाप्यते
ज्ञानं कथय देवेश सद्यः फलविभूतिदम् ।
पुराणे सांख्ययोगे च यादृशं कथितं प्रभो
प्. २६०)
अत्रापि तादृशं प्रोक्तं किं विशेषमुदाहृतम् ।
योगधारणसंयुक्ता वेदाद्याः परमेश्वर
महाज्ञानं विनैव किंमत्र भवता कृतम् ।
अनाख्येयमनिर्देश्यं भगवन् कथितन्तु यत्
तन्मया विदितं देव गृहीतजीवितं दृढम् ।
प्रकृतिं पुरुषञ्चैव नियतिं कालमेव च
मायाविद्येशमीशञ्च सद्योगं कथयस्व मे ।
विना तु करणैर्देवो ध्यानधारणवर्जितः
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
ईश्वरः
प्. २६१)
अहं ते कथयिष्यामि योगसद्भावमुत्तमम्
यत् ज्ञात्वा तत्क्षणादेव कृतार्थो जायते नरः ।
येतदत्यन्तसुखदमशेषफलभूषितम्
देवतानामृषीणाञ्च ज्ञानञ्चैतत्प्रकाशितम् ।
यदेतदमृतं ब्रह्म जनस्सर्वोऽधिगच्छति
तदा विमुच्यते लोके शून्या च पृथिवी भवेत् ।
सर्वे धर्माः प्रलीयन्ते वेदयज्ञतपः क्रियाः
नश्यन्ति चाग्निहोत्राणि मर्यादाश्च पृथग्विधाः ।
यान्ति देवा अदेवत्वमध्या तप विवर्जिताः
एतस्मात्कारणाद्देवि गोपितं कथितं मया ।
प्. २६२)
योगधर्मार्थ शास्त्राणि विस्तीर्णगहनानि च
दृष्टान्योन्यविरोधीनि तेषु निष्ठा न विद्यते ।
विदेहचक्रमारूढमेवं भ्राम्यति वै जगत्
परस्परविरोधेन वर्तन्ते सर्वयोगिनः ।
त्वया दुर्ललितेनाहं पृष्टो भक्त्या प्रचोदितः
ग्राहेणैव गृहीतोऽस्मि अवश्यं कथयामि ते ।
न ब्रह्मा न च वै विष्णुः उतान्ये सुरसत्तमाः
वक्तुमेवं विधं प्रश्नं त्वद्दृते तु वरानने ।
तस्माच्छृणुष्व सद्भावं निस्संदिग्धमविस्तरम्
दि लक्षणगुणावाप्तिं क्षणादायासवर्जिताः ।
प्. २६३)
सिद्धिदा मोक्षदा चैव तुष्टिदा पुष्टिवर्धना
ज्ञानदा प्रीतिदा चैव आयुरारोग्यदा तथा ।
घोषिणी पिङ्गला चैव वैद्युती बिन्दुमालिनी
चान्द्री मनोनुगा चैव सुकृता च तथा परा ।
सौम्या निरञ्जना चैव निरालंबा च कथ्यते
नाड्यस्त्वेता विनिर्दिष्टा मरुतादितृलंकृता ।
पूर्वमात्मा तु मेधावी शिवेन परमेण तु
कृत्वा पूर्वमशेषन्तु पश्चाद्ध्यानं समारभेत् ।
एकाग्रमनसो भूत्वा जितक्रोधा जितेन्द्रियाः
चतुर्विंशति मे तत्वे मात्रा नाम्ना तु घोषिणी ।
प्. २६४)
द्वितीया पिङ्गला नाम्ना सा तत्वे पञ्चविंशके
षड्विंशके समाश्रित्य संस्थिता वैद्युती सदा ।
सप्तविंशति मे तत्वे विज्ञेया बिन्दुमालिनी
अष्टाविंशति मे तत्वे मात्रा तिष्ठति चन्द्रिणी ।
एकोनत्रिंशतितमे मात्रा तिष्ठेन्मनोनुगा
ततस्त्रिंशति मे तत्वे तामाहुः सुकृतेति च ।
एकविंशत् समाश्रित्य सौम्या मात्रा व्यवस्थिताः
द्वित्रिंशके समाश्रित्य स्थिता मात्रा निरञ्जना ।
त्रयस्त्रिंशे निरालंबा तस्या लक्षं न विद्यते
त्रयस्त्रिंशतिकः पुरुषे नवमात्रावलंबकः ।
प्. २६५)
तेषु लक्षणदिन्यानि लक्षितव्या विपश्चितैः
देव्युवाच
यान्येतानि च तत्वानि नवमात्राश्रयाणि तु ।
तेषामवाप्तिं गमयन् कथं सद्योपलभ्यते
सामान्ययोगशास्त्रेषु अनेकाकारवागुरैः ।
सीदन्त्यायासबहुलैः मृगाः कूटेव संस्थिताः
वायुरोधं विना देव ध्यानधारणवर्जितम् ।
सद्योपलब्धिसुखदं तन्मे ब्रूहि महेश्वर
ईश्वरः
शृणुष्वावहिता देवि अश्राव्यमकृतात्मनाम् ।
प्. २६६)
यं प्राप्य सद्यश्शिवतां लभन्त्यायासवर्जिताः
यत्र तत्राश्रमरताः यत्र तत्र निवासिनः ।
लीयन्ते तु यथा लक्षे निमेषाध्ये तु ?
स्रोत्रराद्धौ तथाङ्गुष्ठौ घ्राणमङ्गुलिभिस्तथा ।
ततोऽस्य सर्वतो व्यापी ध्वनिरूर्ध्वं विजृम्भते
भुक्तं भुक्तं पचत्यग्निः शरीरेषु शरीरिणाम् ।
तस्य तेन प्रयोगेन शब्दमाहुरकृत्रिमम्
चतुर्विंशति तत्वस्य स्रुत्वा पापैः प्रमुच्यते ।
तस्मात् षड्जादयस्सप्त स्वयंभुरसृजत्पुरा
यैरिदं सततं सर्वं सदेवासुरमानुषम् ।
प्. २६७)
सप्त स्वरास्तु संभूता ध्वनिमभ्यसतस्सदा
ततोऽस्य मासमात्रेण * क पिण्डीकृतो नलः ।
रजस्तमं ततो भित्वा ज्योतिरन्ते प्रकाशते
बाह्यतोऽपि यथा दृष्टं पश्यत्यन्ते तथैव सः ।
त्रिभिर्मासै स्वतन्त्रश्च शिवत्वं तस्य जायते
एषा ते प्रथमा मात्रा कथिता देवि घोषिणी ।
लक्षेस्मिन् मनसा ज्ञानं नावज्ञां कर्तुमर्हसि
एवं वै यो विजानाति स पापेन न लिप्यते ।
श्वपचेष्वपि भुञ्जानाः पद्मपत्रमिवांभसि
इति ते कथिता देवि प्रथमा त्रातु घोषिणी ।
प्. २६८)
अतः परं प्रवक्ष्यामि लयमायासवर्जितम्
स्वदेहादुत्थितां सद्य शृणुमात्रान्तु पिङ्गलाम् ।
सूर्यातपे बहिस्थित्वा किञ्चित् भक्तिसमाश्रितः
लक्षयेदात्मनो धूमं तालुं भित्वा विनिर्गतम् ।
यथा यथा तु चैतस्मिन् मनो लक्षे समादधे
तथा तथाऽस्य महती वर्त्ति धूमस्य वर्द्धते ।
एवं मासप्रयोगेन मूध्निचारमपावृतम्
तुर्यान्ते पिङ्गला मात्रं लयं तस्योपलक्षयेत् ।
देवयानपथं दृष्ट्वा पश्यतात्मानमात्मनि
लोकालोकांश्च सकलान् सहाह्याभ्यन्तरे स्थितान् ।
प्. २६९)
धूमानुमार्गाञ्ज्योतींषि तां दृष्ट्वा न भृतं पदम्
विमुक्तस्सर्वपापेभ्यो निर्द्वन्द्वं पदमाप्नुयात् ।
एवं ते पिङ्गलालक्षं मनसा परिलक्षितम्
आत्मानं पश्यते तत्र शिवञ्चैव परापरम् ।
अनेन विधिना देव तेजसा परिसंवृतः
सतताऽभ्यासयोगेन षण्मासेनैव सिध्यति ।
चिन्तितं मनसा सर्वं संपादयति लीलया
देहपाते व्रजत्याशु शिवस्य परमं पदम् ।
पञ्चविंशति मे तत्वे लक्षमेतत्प्रकीर्तितम्
कथितन्तु रहस्यन्तु मोक्षमार्गविशोधनम् ।
प्. २७०)
पञ्चविंशतिमं लक्षं कथितं तव शोभने
अथ षड्विंशके तत्वे वैद्युतीं शृणु सुवृते ।
योगारंभं विनायामं लीलामार्गोपशोभितम्
रात्रौ शयनकाले तु प्रविश्याभ्यन्तरं विना ।
विना दीपान्धकारे तु उद्वत्य नयने स तु
ततस्तान् नेत्रजान् दीप्तिं तटद्वलयसन्निभाम् ।
सौदामिनीव चपलां दृष्ट्वा द्रष्टृ प्रणश्यति
प्रयोगमेतत् सततं कृत्वा कृत्वा तु विश्रमेत् ।
स्थित्वा कालान्तरं किञ्चित् तान्येवाभ्यसतः पुनः
यथा यथा तु चाभ्यासं कुरुते साधको निशि ।
प्. २७१)
तथा वर्धति तत्तेजस्तैलबिन्दुरिवांभसि
पश्यतेऽन्यावृतं व्योम स्फुलिङ्गा इव काञ्चने ।
तानेव तु गृहान् विद्वान् पश्यते च न संशयः
दशार्धमासयोगेन ज्योतिरन्ते प्रकाशते ।
दृष्ट्वा ज्वलनं सर्वत्र दिव्यं चक्षुःप्रवर्तते
तत स्वतन्त्रतामेति विशते च परे शिवे ।
एतत्ते कथितं लक्षं सुषुम्नायां व्यवस्थितम्
कथितं ते यथा न्यायं गूदं सङ्गोपितं मया ।
ततस्वच्छन्दतामेति शिवतत्वेन संशयः
सप्तविंशति मे तत्वे या स्थिता बिन्दुमालिनी ।
प्. २७२)
तस्योपलब्धिं तस्यापि लक्षन्तु कथयामि ते
शुचिर्भूत्वा बहिर्ग्रामात् तरुच्छायां समाश्रितः ।
किञ्चिदुन्नम्य वक्त्रन्तु शुद्धमालोक्येन्नभः
तस्मिन् स लाय चैतन्यं पश्यत्याकाशसातपम् ।
ज्योतिस्फटिकसंकाशा निपतन्त्युत्पतन्ति च
इडयास्तद्भवेद्रूपं देवानान्ते च विद्युषा ।
यथा यथा हि योगेन तस्मिन् लक्षं स सन्दधे
तथा तथा दिशस्सर्वा बहिः पूर्णैरिवा वृताः ।
अनेकाकारवश्ये तु स बाह्याभ्यन्तरे स्थिताः
दृष्ट्वाऽत्मना तदा योगी पुण्यपापैर्न लिप्यते ।
प्. २७३)
त्रैलोक्ये सर्वभूतानां सुभगः प्रियदर्शनः
जायते नात्र सन्देहः ततो नामाधि गच्छति ।
एष ते कथिता मात्रा सौम्याख्या बिन्दुमालिनी
मुच्यते सर्वरोगैश्च देहपाते शिवं व्रजेत् ।
सप्तविंशति मे तत्वे लक्षमायासवर्जितम्
अष्टाविंशति मे तत्वे मात्रा नाम्ना तु चान्द्रिणी ।
योगारंभं विनायासं मन्त्रोच्चारविवर्जितम्
यत्र यत्र स्थितो देशे यत्र तत्राश्रमे रतः ।
पूर्वमध्या परा हेतुः अभ्यसेल्लक्षमुत्तमम्
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।
प्. २७४)
वर्चसं स्फटिकाभन्तु लक्षयेत्परमाणवम्
किञ्चिदुन्नम्य वक्त्रन्तु निर्मले तु नभस्थले ।
एकैकाभ्यासयोगेन सिध्यते साधकेश्वरः
वायव्याः कृष्णवर्णास्तु आद्ये शेषविनाशने ।
उच्चाटने यथोन्मत्ते योजयेद्योगवित्सदा
एवमादीनि चान्यैस्तु ताडनं स्तंभनादि च ।
आप्यायनञ्च पुष्टिश्च शान्तिकादि क्रमेण च
कुरुते योगविच्छ्रीमान् एकैकाभ्यासयोगतः ।
प्रतिमासप्रयोगेन एभिः कर्माणि कारयेत्
षण्मासा ध्यानयोगेन त्रैलोक्यं यत्प्रवर्तते ।
प्. २७५)
प्रत्यक्षं जायते तस्य सिध्यन्ते च शिवो भवेत्
पञ्चमः सर्वकर्माणि कुरुते परमाणवः ।
पञ्चरूपधरं ह्येतत् पञ्चमं यत्प्रकीर्तितम्
ध्यात्वात्मैवं विधं योगी सर्वकर्माणि कारयेत् ।
तेषां मध्ये पुनर्योगी पश्यते ऊर्मिसङ्कुलाम्
वीचीतरङ्गकुटिलां विद्युद्रेखासमप्रभम् ।
सभोग भोगिसङ्काशामिन्द्रायुधसमप्रभाम्
यथा यथा तु चैतन्यस्तस्मिन् लक्षे समादधे ।
तथा तथा तु संपश्य ऊर्मिरेवतिरन्तरम्
एतां दृष्ट्वा तु योगीन्द्र पुण्यपापक्षयो भवेत् ।
प्. २७६)
सतताभ्यासयोगेन सिध्यते नात्र संशयः
द्वादशार्धार्धमासेन क्षुत्तृष्णा परिवर्जितः ।
दिव्यदृष्टितनुर्दिव्या जायते नात्र संशयः
संवत्सरेण युक्तात्मा योगीन्द्रः सुसमाहितः ।
दूराच्छ्रवणविज्ञानं मनश्चावलोकनम्
प्रत्यक्षं जायते तस्य त्रैलोक्यं यत्प्रवर्तते ।
अन्तर्धानो तथा कर्षो पादचारे तथैव च
वायव्येन च कर्तव्यं के च वैहायसादयः ।
आग्नेयैः शोषणं कुर्यात् ताडनं मारणानि च
स्तंभनं मूकताञ्चैव पार्थिवेन तु कारयेत् ।
प्. २७७)
आप्यायनादितः कृत्वा वारुणेन तु कारयेत्
पञ्चमं सर्वकार्येषु प्रयोज्यं योगिना सदा ।
अष्टाविंशति मात्रस्य लक्षह्येताः प्रकीर्तिताः
एकोनत्रिंशके तत्वे मात्रा तत्र मनोनुगा ।
लक्षितव्या प्रयत्नेन यदिच्छेत्सिद्धिमात्मनः
एकान्ते विजने गत्वा दिव्ये चाक्ष्णौ निमीलयेत् ।
आत्मा तु काञ्चनच्छाया अक्ष्णी आवृत्य तिष्ठति
तस्मिन् सन्धाय चैतन्यं निनादस्संप्रविश्यति ।
सितरक्तपीतकृष्णमिन्द्रायुधसमप्रभम्
अन्योन्यवेधिनां वर्णा दृष्ट्वा दृष्ट्वा पुनः पुनः ।
प्. २७८)
लक्षयीत पुनस्तान्तु राजिकापरिवर्त्तुलाम्
छायामध्ये तु लक्ष्यन्ते चित्रास्सर्वगताश्शुभाः ।
सर्वदेवमयो देवि देवानाञ्च पृथक् पृथक्
तानि रूपाणि पश्यन्ते बिन्दुरूपाणि सुन्दरी ।
तयोर्योगी दिवारात्रौ नान्यं पश्यति चक्षुषा
मासेनाल्पपुरीषत्यं क्षुत्तृष्णापरिवर्जितः ।
सुगन्धास्य तनुर्दिव्या जायते तृप्तिरेव च
मासद्वयानुबन्धेन दिव्यचक्षुः प्रजायते ।
नश्यन्ति पुण्यपापानि तमः सूर्योदये यथा
सतताभ्यासयोगेन त्रिभिः मासैर्न संशयः ।
प्. २७९)
एकोनत्रिंशके तत्वे तुल्यमेतद्वरानने
नाडी वै सुकृता नानामा महापातकनाशिनी ।
तस्य लक्षमिदं देवि शृणु एकमना मम
अप्रयोगमनायास मात्रा बिन्दुविनाकृतिः ।
कण्ठताल्वोष्ठरहितं मन्त्रोच्चारविवर्जितम्
सुनिष्णातो नरस्तस्मिन् अमृतत्वाय कल्पते ।
अप्रयोगमनारंभमनायासोपलक्षितम्
येन सर्वमिदं पूर्णमाकाशं सर्वगेन तु ।
तस्य यत्नात् शृणु देवि आकाशे मनसं दधेत्
यत्र तत्र स्थितो वाऽपि शुचिवाप्यथवाऽशुचिः ।
प्. २८०)
चित्तं श्रोत्र समाधाय बाह्यशब्दविवर्जितम्
निवाते स्वल्पवाते वा घण्टानामिव ताडिता ।
यवनिकाऽकर्णयेद्देवि पुण्यपापक्षयङ्करीम्
कांसस्य सुविशुद्धस्य सुप्रभारहितस्य च ।
सदृशं शब्द आकर्ण्य अमृतत्त्वाय कल्पते
तेन सर्वमिदं पूर्णं आकाशं सर्वगेन तु ।
तस्याभ्यासेन सततं चिद्रा पश्यति मेदिनीम्
मासार्धं येन योगीन्द्रो व्याधिभिश्च न पीड्यते ।
प्राप्नोति सुभगत्वञ्च देहपाते शिवं व्रजेत्
आदितस्त्र्यक्षरो योऽसौ त्रिविधो यः प्रकीर्तितः ।
प्. २८१)
शिवस्य वै स विज्ञेयः सामान्यत्वात्प्रकाशकः
द्वितीयः प्रणवो देवि हंसाकारसमन्वितः ।
बिन्दुना सहितेनैव रुद्राकारः प्रकीर्तितः
अकामाद्याः प्रवर्तन्ते व्यापकत्वोपलक्षिताः ।
स्वच्छन्दवृत्तिः सूक्ष्मोऽयं निधानोङ्कार उच्यते
हकारा उकारसंयुक्तमोंकारेण समन्वितः ।
बिन्दुना सहितो देवि तृतीयः परिकीर्तितम्
आब्रह्मपथमोंकारस्स तु सूतिः प्रकीर्तितः ।
श्रीकण्ठादिमनन्तान्तं रुद्रोङ्कारस्स उच्यते
तस्योपरिष्ठाद्विज्ञेयं तृतीयं प्रणवस्मृतम् ॥
प्. २८२)
शान्तिविद्याधिका सिद्धिः निधने निधनान्तिका
शब्दाकाशे व्यतीता तु गतिस्तस्यैरनुत्तमा ।
त्रिभिन्नमेतत्सकलमध्वानं परिकीर्तितम्
सकलः पञ्चतत्त्वस्तु त्रयस्सकलनिष्कलः ।
उच्चारेण यदा हीनो बिन्दुं निष्कलतां गतः
शिवेच्छयाऽनुगृह्णाति साधको मुक्तिमिच्छति ।
सौम्यनाडीति विख्याता महापातकनाशिनी
किं स स्वरादतिक्रम्य घण्टाशब्दादिलक्षणः ।
यश्शब्दः श्रूयते देवि रुद्रोंकारस्स उच्यते
सर्वकर्मकरं दिव्यं अणिमादिफलप्रदम् ।
प्. २८३)
एकत्त्रिंशद्विजानीयात् शिवोङ्कारस्तु तत्परः
द्वात्त्रिंशत् तत्समाख्यातं तन्मात्रगुणवर्जितम् ।
व्यापकेन समायुक्ता नाडी प्रोक्ता नरञ्जना
शिवोङ्कारा परं दिव्यं ओङ्कारममलं विदुः ।
सतताऽभ्यासयोगेन साधकानां प्रयच्छति
मासार्ध दशभिश्चैव अणिमादि गुणाष्टकम् ।
दूरश्रवणविज्ञानं सर्वलोकेषु भाषितम्
पश्यते च महातेजः सर्वत्र समवस्थितम् ।
व्याप्तोऽति कामरूपित्वं सर्वज्ञत्वं तथैव हि
देहपातो व्रजन्त्याशु शिवस्य परमं पदम् ।
प्. २८४)
घण्टानादविरामान्ते शिवोङ्कारं निगद्यते
शिखा सा लक्षणेनोक्ता विमला परिकीर्तिता ।
कालतत्वः स एवोक्तो नाडीप्रोक्ता निरञ्जना
विमलाख्या वरारोहे परमाक्षरसंयुता ।
निरालंबं प्रवक्ष्यामि नवतत्वफलप्रदम्
पराक्षरपरोच्चार्यं बिन्दुतत्वमनुस्मरेत् ।
पश्चात्तु परमेतत्तु न किञ्चिदपि चिन्तयेत्
त्रयस्त्रिंशत् स्मृतं तत्वं विमलन्तु वरानने ।
द्वात्त्रिंशकस्समाख्यातो निरालंबे परे स्थितः
त्रयस्त्रिंशत् परो यस्तु निर्देश्यो नाम वर्जितः ।
प्. २८५)
तं ज्ञात्वा देवि सिद्ध्यन्ते लक्षैतत्परिकीर्तितम्
एवं बहुविधं प्रोक्तं तत्वमेकं शिवेन तु ।
सिद्धिदं मोक्षदञ्चैव दिष्टन्तत्तु विचिन्तयेत्
ज्ञात्वैवं ज्ञानसर्वस्वं विचरस्व यथा सुखम् ।
एतन्न कस्यचिद्देयं ज्ञानामृतमिदं शुभम्
एतत्सर्वं समाख्यातं तत्वध्यानं सुनिर्मलम् ।
परं तावदिदं देवि तत्त्वानां परिकीर्तितम्
एतेषां यदपरो निरूपाख्यो निरामयः ।
सर्वेषान्धारकस्सोहि स वै चाऽधार वर्जितः
न च तस्येदृशं ध्यानं तव देवि प्रकीर्तितम् ।
प्. २८६)
इति निश्वासकारिकायां त्रयस्त्रिंशत्पटलः ।
देवि
आचार्यः शिवतन्त्रन्तु शिवज्ञानं शिवस्य च ।
वेत्तिसर्वमशेषेण लोकहेतु विवर्जितः
विरक्तो लौकिके शास्त्रे शिवज्ञानैक रागवान् ।
तेषाञ्च उत्तरं वाच्यं येनोपायेन ईश्वरम्
तदहं श्रोतुमिच्छामि त्वत्प्रसादान्महेश्वर ।
ईश्वर उवाच
यो ब्रूयात् कश्चित् कश्शब्दो विनाशित्वेन पठ्यते
प्. २८७)
इतस्तस्य पुनर्ब्रूयात् तच्छृणुष्व वरानने ।
त्रिगुणः पुद्गलो वायुराकाशस्याथ वा गुणः
वर्णादन्योऽथ नादन्ते बिन्दुरूपेशवाचकः ।
पदवाक्यात्मकस्फोटः प्रणम्य विनिवर्तते
पदानां संहिता पूर्वमित्याचार्यः प्रभाषते ।
वाक्यं पदाश्रयं सर्वं पदं वर्णाश्रयं स्मृतम्
वर्णावागाश्रयास्सर्वे वाक् च प्राणसमाश्रया ।
प्राणो हि भगवान् वायुराकाशाश्रय उच्यते
शब्दतन्मात्रमाश्रित्य संस्थितो भूतयोनिषु ।
भूतादिस्तु महाश्चैव स चैवापरमाश्रितः
प्. २८८)
अन्तर्यागादितो देवि * * तस्मात्सदात्मकः ।
तस्मादपि परो देवः सर्वकारणकारणः
परतस्तस्य यो देव निस्संदिग्धः परश्शिवः ।
तदाधारमिदं सर्वं परोऽयं परमो मतः
न वाक् प्रवर्तते चैव न मनो याति तत्वतः ।
यत्राऽसौ परमो देवः सर्वकारणकारणः
आराध्यस्साध्यते येन स शब्दस्तु समासतः ।
शब्देन साध्यते देवो शब्दो नास्ति तु देवता
अव्यक्ताच्छब्दस्योत्पत्तिः शब्दस्तस्य प्रकाशकः ।
त्रिविधोऽथ विनिर्मुक्तस्सूक्ष्मश्शब्दस्स उच्यते
प्. २८९)
अनैष्ठिकेन शब्देन बुद्धिर्मनविवर्जिते ।
तेन दिव्येन शब्देन नित्यं दृश्यमनामयम्
शब्दमात्रन्तु यत्सूक्ष्मं देहे देहव्यवस्थितम् ।
सर्वशब्दविशिष्टोऽसौ अनौपम्यमनामयम्
सूक्ष्मात्सूक्ष्मतरो देवो दिव्यश्शिव इति स्मृतः ।
श्रुतिमात्ररसाद्येषां प्रधानपुरुषेश्वरान्
न शब्देनात्र गृह्यन्ते न करेण न चक्षुषा ।
विना शब्देन यश्शब्द हुतभुङ्माषसन्निभः
हृदये सर्वदेहीनां वा विशुद्धः परश्शिवः ।
घोषोरावस्वनश्शब्दो स्फोटाख्यो ध्वनिरेव च
प्. २९०)
झङ्कारो हुङ्कृतिश्चैव शब्दमेवाष्टमंबरम् ।
श्रवणाङ्गुष्ठसंयोगाद्यश्शब्दस्संप्रजायते
दीप्तवह्निशिखातुल्ये घोष इत्यभिधीयते ।
घोष्यते तु यश्शब्दः ईषन्मन्दो विभाव्यते
भिन्नकांसरवो रूक्षो रवेति परिकीर्तितः ।
ततो वंशध्वनिस्सूक्ष्मो निवातवर्षोपमम्
सस्वनः परमस्सूक्ष्मो यत्तत्पदमनामयम् ।
चतुर्थन्तु महश्शब्दः सर्वशब्दभचारिणीम्
स्वशब्दस्साधयेत्सर्वं योगिनस्तु न संशयः ।
पञ्चमन्तु महश्शब्दं सर्वयोगिहितावहम्
प्. २९१)
मनोह्लास्सादकरं नॄणां स्फोट एवौषधस्मृतः ।
शब्दतत्वपरे लीनं शब्दान्तर्गतमानसः
परां सिद्धिमवाप्नोति स्फोटस्सर्वार्थसिद्धिदः ।
वंशध्वनिविनिर्मुक्तो यश्शब्दस्संप्रवर्तते
शाश्वतोऽनादिरव्यक्तस्सशब्दो ध्वनिलक्षणः ।
मृदुवीणास्वनश्शब्दः शान्तघण्टनिनादितः
कुसुमामोदमत्तानां षट्पदानामिव ध्वनिः ।
झङ्कारस्तु स्मृतः शब्दः समस्त परमेश्वरी
विद्युत्पुञ्जमिवाभातं घनं गभीरनिस्वनम् ।
सकलाकलसंघातं वज्रपातसुभैरवम्
प्. २९२)
ध्वंकृतेषु स्मृतश्शब्दः शब्दान्तलयमालयम् ।
स शिवश्शिवतत्वस्थो ध्वंकृतः प्रणवस्मृतः
अष्टौ शब्दाः परा देवि समाख्याता समासतः ।
सेवितव्याः प्रयत्नेन यदिच्छेत् सिद्धिमात्मनः
देवी
शब्दोऽर्थं बोधयेद्देव श्रोतुमिच्छामि तत्वतः ।
अनानात्त्वेन वर्तन्ते नानात्वेन महेश्वर
ईश्वरः
शब्दार्थयोश्च संबन्धं कार्यकारणरूपकः ।
वाच्यवाचकरूपो वा ना संबन्धः प्रयुज्यते
प्. २९३)
अन्यथा तु प्रयत्नोऽसौ सर्वस्यैव तु संशयः ।
स्वभावस्याविनाभावी नान्या नान्यतया मतः
कार्यकारणभावश्च वस्तुनो यदि हेतुतः ।
अन्यार्थवाचकस्सो वै सर्वेषाञ्च तदा भवेत्
अथ शब्दः प्रदीपः पूर्वशब्दस्ततश्च ? ।
विज्ञानमिवज्ञानं शब्दप्रकृष्टन्तुकन्तत्
* प्रतिपत्तौ शब्दो विज्ञानं जायते क्वचित् ।
शब्दस्तु पाशयेद्धर्मो शमकामार्थसाधकः
पशुशब्दात्परं ज्ञानं पतिरूपं विधीयते ।
शब्देन साध्यते ह्यर्थो ह्यर्थ एव तु शब्दतः
प्. २९५)
शब्दार्थविस्मृतं ज्ञानं अज्ञानन्तु निरर्थकम् ।
वाचा शब्दनिबन्धास्तु प्रभुः प्रभवतामिह
अर्थग्रहणनिष्पतीः शब्दमाहुः स्वयंभुवः ।
यो यस्यार्थस्य निष्पतीः भूतग्रामे चतुर्विधे
स एव शब्दो विज्ञेयः कार्यार्थो येन सिध्यति ।
यदर्थहीनं लोकेऽस्मिन् वचनं संप्रवर्तते
अपशब्दस्तु तज्ज्ञेयं सर्वतः प्राकृतोऽपि वा ।
गमकाश्चैव शब्दास्तु ऋषिदैवतभाषिताः
आगमाद्यपशब्दानि वर्णयन्ति विदुर्बुधाः ।
संस्कृतेनापि किं तेन मृदुना ललितेन च
प्. २९६)
अविद्यारागवाक्येन संसारक्लेशहेतुना ।
यच्छृत्वा जायते पुण्यं पापादीनां परिक्षयः
विनष्टमपि तद्वाक्यं विज्ञेयमति शोभनम् ।
पुत्रदारादि संसारः पुंसां संमूढचेतसाम्
विदुषां शास्त्रसंसारः स योगाभ्यास विघ्नकृत् ।
देहे देहे यदा कत्वं विज्ञातत्वं चरेन्मुखात्
तदा विमुच्यते जन्तुः अन्यथा न कदाचन ।
केचिद्वदन्ति पुरुषास्तदिदं सुमिथ्या
देहे स्थितस्तु भगवान् परमात्मनेति ।
त्वं मांसकीटकफशोणितमूत्रमध्ये
प्. २९७)
यद्दुर्लभं सुरमुनेऽपि कथं शरीरे ।
यद्दृश्यते गृहगृहेऽपि जगत्समस्ता
ऽनादिकाभिमुदितो जगदेकभानुः ।
एवं परेण परमस्थितसूक्ष्मशक्त्या
संग्रन्थितं जगति जन्तुषु मोहजालम् ।
देव्युवाच
अष्टौ शब्दाः पराः सूक्ष्माः के तत्वा वर्णकाश्च ये
देवता तत्र देवेश कथयस्व प्रसादतः ।
ईश्वरः
एतानि कथयिष्यामि सर्वतत्वेषु देवताः
प्. २९८)
येन विज्ञातमात्रेण साधकस्सिद्धिमाप्नुयात् ।
न पाप्मनो वरारोहे ते वर्णास्ते च देवताः
ते शब्दास्तानि तत्त्वानि बोद्धव्यानि वरानने ।
देवैस्तत्त्वैः समायुक्तो मे क्षरेण च सुन्दरि
तदा सिद्धिमवाप्नोति देहपा देवि मुच्यते ।
शब्दे च देवतास्सर्वे ब्रह्माद्याश्च वरानने
तस्मिन् लयङ्गता देवाः श्रीकण्ठाद्याश्च शोभने ।
देवाश्शब्दपरन्धाम शब्दात् वर्णा समुद्भवाः
वर्णाद्यैः मन्त्रसंभूति तस्मात् सर्वं प्रवर्तते ।
शब्दात् सर्वमिदं जातं त्रैलोक्यं स चराचरम्
प्. २९९)
तस्माच्छब्दपरं देवि सेवितव्यं हि ते विधिः ।
शब्दध्यानपरो भूत्वा योऽभ्यसेत्सुसमाहितः
तस्य ते कथिता सिद्धिः अशब्देनैव सिद्धया ।
प्रथमं यत् स्पृशेच्छब्दं प्राकृतं सिद्धिदायकम्
तृतीयं यत्परं शब्दं पौरुषं सिद्धिदायकम् ।
तृतीयं यत्परं शब्दं नियतं सिद्धिदायकम्
चतुर्थं शब्दतत्त्वन्तु कलातत्वं समासतः ।
तेन ध्यानेन देवेशे सर्वेषां फलभाक् भवेत्
पञ्चमं यत्स्मृतं शब्दं माया दुर्धरा परा ।
षष्ठं यच्छब्दतत्त्वन्तु विद्या नाम्ना तु सा स्मृता
प्. ३००)
सा तु वागीश्वरी देवी तत्र जातो न जायते ।
सप्तमं यत्परं तत्वं ईश्वरं तं प्रवक्ष्यते
तत्र शब्दे यदालीनमीश्वरेण समो भवेत् ।
अष्टमं यत्परं शब्दमनौपम्यमनामयम्
तत्र लीनो यदा योगी सादाख्यपदवाचकम् ।
नवमं यत्परं देवि सर्वशब्दमयं स्मृतम्
तस्माच्छब्दाद्विनिष्क्रान्ता अधश्चोर्ध्वे च सुवृते ।
तेन ध्यानेन देवेशि सर्वेषां फलभाक् भवेत्
सर्वे शब्दस्थितास्तस्मिन् बिन्दुदेवे महेश्वरी ।
तेन ते कथितो बिन्दुश्शब्दराशिमयस्ततः
प्. ३०१)
दश पश्चात्परं देवि शब्दज्ञानविवर्जितम् ।
विज्ञप्तिमात्रं तत्रैव पारंपर्येण संस्थितम्
इति निश्वासकारिकायां चतुस्त्रिंशत्पटलः ॥ ६७ १।२ ॥
देव्युवाच
शब्दात् सर्वमिदं जातं यत्त्वयोक्तं महेश्वरी ।
वर्णतत्वसमूहन्तु ज्ञातं मे त्वत्प्रसादतः
शब्दे शब्दे समुत्पत्तिः देवान्यानां महेश्वर ।
योगं ध्यानञ्च देवेश विद्येशानां तथैव च
अणिमाद्यष्टकानाञ्च कथयाद्य प्रसादतः ।
प्. ३०२)
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम्
तदहं संप्रवक्ष्यामि साधकानां हितावहम् ।
न मया कस्यचित् ख्यातं इदं यो वरं महत्
ऋषिभिर्दैवतैर्देवि नैव पृष्टं कथञ्चन ।
शब्दमात्रेण ते तुष्टा नाहं पृष्टस्तु शोभने
शब्दे शब्दे यथा सृष्टिः यो नियोगादि संभवः ।
विद्येशानां प्रवक्ष्यामि अणिमात्तारमं भवोः
घोषशब्दस्तु यः प्रोक्तो वर्णोच्चारविवर्जितः ।
करणेन तु संप्राप्तिः तस्य सृष्टिं वदाम्यहम्
प्. ३०३)
तस्मात्प्रकृतिरुत्पन्ना सा माया कथिता तव ।
वाचकस्तत्र मन्त्रोऽयं ऊकारः परिकीर्तितः
विद्येशप्रथमोऽनन्तः तस्मिस्तत्वे प्रकीर्तितः ।
योगिनामकृतञ्चैव पैशाचं योनिषु स्मृतम्
करणेन तु संप्राप्तं * * * * * * * * ।
अणिमा तु तथैश्वर्यं तथा तुष्टिः प्रकीर्तिता
तारज्ञानं समाख्यातं शिशब्दः परमस्मृतः ।
प्रथमे शब्दतत्त्वे तु सृष्टिरेषा प्रकीर्तिता
रावश्शब्दस्समाख्यातं तत्त्वया विदितं पुरा ।
तस्मिन् पुरुषजातो हि तन्मया कथितं तव
प्. ३०४)
वाचकस्तत्र मन्त्रोऽयं यकारः परिकीर्तितः ।
सूक्ष्मो विद्येश्वरः प्रोक्तो योगिनान्तु कृतस्मृतः
योनिनां राक्षसः प्रोक्तः ऐश्वर्यंलयमा स्मृता ।
सलिलसृष्टिरित्युक्ता सुता राज्ञा न कीर्तिता
द्वितीये शब्दतत्त्वे तु सृष्टिरेषा प्रकीर्तिता ।
तृतीये संप्रवक्ष्यामि शृणुष्वैकमना मम
स्वनान्नियतिरुत्पन्ना माया पूर्वमुदाहृता ।
वाचकस्तु वरारोहे विद्येशानां शिवोत्तमः
योगिनां वैभवं प्रोक्तं यक्षाः योनिः प्रकीर्तिता ।
ऐश्वर्यं महिमा तेषां मोघा तुष्टिस्तथैव च
प्. ३०५)
तारायां तत्स्मृतं ज्ञानं तृतीयं कथितं तव ।
चतुर्थं संप्रवक्ष्यामि तन्मे निगदतः शृणु
शब्दः पूर्वं मया ख्यातः पृच्छितस्ते शुभानने ।
तस्मात्कालः समुत्पन्नो दुर्जयः सर्वयोगिनाम्
लकारे वाचकस्तेऽस्य शब्दतत्त्वस्य कीर्तितः ।
विद्येश एकनेत्रस्तु तस्मिंस्तु कथितस्तव
योगिनां ब्रह्मा इत्युक्तो योनौ गन्धर्व उच्यते ।
प्राप्तिरैश्वर्य देवेशि चतुर्थे कथितं तव
तुष्टिवृष्टिः समाख्याता मयां चैव वरानने ।
प्रमोदो ज्ञानमाख्यातं चतुर्थे कथितं तव
प्. ३०६)
पञ्चमं संप्रवक्ष्यामि शृणुष्वायतलोचने ।
स्फोटश्शब्दपरश्रेष्ठो मायातत्वस्य संभवः
स्वशब्दो मोहयत्येषां वादजल्पवितण्डकैः ।
परं भावमजानन्तो शब्दवादेन मोहिताः
मकारो वाचकस्तस्य शब्दतत्त्वस्य कीर्तितः ।
* * * * * * * कथितं तव शोभने
विद्येश एकदृष्टिस्तु तव देवि उदाहृतः ।
योगिनां वैष्णवं तत्र पञ्चमं परिकीर्तितम्
ऐन्द्रं योनिस्समुद्दिष्टा ऐश्वर्यं शृणु सांप्रतम् ।
प्राकाम्य इति विख्यातः सुतरा तुष्टिरुच्यते
प्. ३०७)
ज्ञानं प्रमुदितः प्रोक्तश्शिवेन परमात्मना ।
पञ्चमं ते समाख्यातमनुपूर्वं यथाक्रमम्
षष्ठं ते संप्रवक्ष्यामि कथ्यमानं मया शृणु ।
ध्वनिः पूर्वं मया ख्यातो यस्मिन् विद्यासमुद्भवः
क्षकारो वाचकस्तस्य शब्दतत्त्वस्य कीर्तितः ।
विद्येशानां त्रिमूर्तिस्तु कथितश्चानु पूर्वशः
कौमारं योगिनां प्रोक्तं योनौ सौम्यं प्रकीर्तितम् ।
ईशित्वञ्च समाख्यातं गुणानां सुरसुन्दरि
सुतारा तुष्टिरित्युक्ता मोदो ज्ञानं प्रकीर्तितम् ।
एतत्ते कथितं देवि षष्टं शब्दमनुत्तमम्
प्. ३०८)
सप्तमं संप्रवक्ष्यामि शब्दं परमदुर्लभम् ।
झङ्कारेति समाख्यातः त्वस्मिन्नीश समुद्भवः
वाचकस्तस्य तत्त्वस्य रकारं मन्त्रमुत्तमम् ।
विद्येशात्तु श्रीकण्ठो योगिनामौमकीर्तितम्
योन्याञ्चैव प्रजेशस्तु कथितस्तव शोभने ।
ऐश्वर्यञ्च पुनस्तस्मिन् शिवत्वं तत्प्रकीर्तितम्
सुनेत्रात्तुष्टिराख्याता ज्ञानं रम्यकमुच्यते ।
एतत्ते तु समाख्यातं सप्तमं शब्दमुत्तमम्
अष्टमं संप्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
ध्वंकृतन्ते समाख्यातं यस्मात्तत्वं सदाशिवम्
प्. ३०९)
वाचकस्तस्य तत्त्वस्य हकारः परिकीर्तितः ।
विद्येशानां शिखण्डीशो योगी श्रीकण्ठ उच्यते
योनिब्रह्मा समुद्दिष्टो अष्टमः परिकीर्तितः ।
ऐश्वर्यं तत्र देवेशि सर्वकामावसाधिता
सुमारी तुष्टिरित्येवं तस्मिन् तत्वे न संशयः ।
ज्ञानं तत्र समाख्यातं सदा प्रमुदितं मया
अष्टमं ते मया ख्यातं शब्दः परमकारणम् ।
ज्ञानेन मुच्यते जन्तुः अशेषपशुबन्धनात्
नवमीया भवेत्तुष्टिः बिन्दुदेव उदाहृतः ।
बिन्दुश्चतुष्कलश्चैव शान्त्यतीतश्च सुव्रते
प्. ३१०)
शक्तिः चतुष्कलश्चैव नवधा तु यथा भवेत् ।
तथा ते कथयिष्यामि गुह्याद्गुह्यतरं महत्
अष्टाष्टौ ये मया प्रोक्ता भेदास्तु तव सुवृते ।
तेषान्तु यजनं वक्ष्ये यथावत्तन्निबोध मे
पूर्वोक्तभूप्रदेशे तु केशकीटास्थिवर्जिते ।
तत्र पद्मं समालिख्य अष्टपत्रं सकर्णिकम्
कर्णिकायां यजेद्देवं शिवं परमकारणम् ।
अनन्तः पूर्वमेवोक्तः पद्मशक्तिं तथा पुरा
धर्माद्यान् गात्रकांश्चैव विन्यसेत्तु यथाक्रमम् ।
हृत्पद्मे तु यथा प्रोक्तं न्यासं मन्त्रञ्च तादृशम्
प्. ३११)
प्रकृतिं पूर्वपत्रे तु आग्ने येनं तमेव च ।
अकृतं दक्षिणे चैव पैशाचं नैर्-ऋतेन तु
अणिमां पश्चिमेनैव वायव्यामंभसि न्यसेत् ।
उत्तरेण तु विन्यस्य ताराज्ञानं समाहितः
बिन्दुदेवं महादेवि ईशान्यां परिकल्पयेत् ।
मध्ये घोषन्तु विन्यस्य इदं कुर्यात्ततः पुनः
ह्रस्वदीर्घप्लुतेनैव उकारेण तु शोभने ।
त्रितत्त्वं कारयेत्तत्र घोषमार्गं यथाक्रमम्
ह्रस्वञ्चैवात्मतत्त्वन्तु दीर्घं विद्या प्रकीर्तितम् ।
प्लुतेन तु सदा कुर्यात् शिवतत्त्वन्तु सर्वतः
प्. ३१२)
एवं त्रितत्त्वविन्यासं स्वशब्दे अक्षरत्रये ।
कर्तव्यं देवदेवेशि सर्वेषामनुपूर्वशः
ईकारादिसमारभ्य आकारान्ते च ये स्थिताः ।
ये वर्णा देवता प्रोक्ताः पूर्वादारभ्य सुन्दरि
सर्वेषां वाचकस्ते वै यावत्सर्वं समाप्यते ।
सकलं भौमकर्मेषु सर्वेषां परिकल्पयेत्
पञ्चाशच्चैवमप्युक्तां पूर्वादारभ्य होमयेत् ।
शब्दे शतन्तु होतव्यं त्रितत्वे त्रिशतं हुनेत्
पूर्णाहुतिस्तु दातव्या घोषमाकर्ण्य सुवृते ।
ध्यायेच्छब्दमयं देवं सिद्धिमोक्षार्थकाङ्क्षितः
प्. ३१३)
पञ्चब्रह्मैर्विना देवि शिवाङ्गैश्च तथैव च ।
लोकपालैश्च विद्यैशैः अस्त्रेणैव तु सुवृते
द्विविधेन तु यष्टव्यं योगमेतत्समासतः ।
सद्द्रव्ये द्रव्ययागन्तु निर्धने ध्यानमेव च
मोचयेद्विविधेनापि आचार्यच्छिन्नसंशयः ।
द्वितीये निष्कलं तत्त्वं रावश्शब्दः प्रकीर्तितः
तृतीये शून्यतत्त्वन्तु स्वनश्शब्दः प्रकीर्तितः ।
एवमादिक्रमेणैव शब्दे तत्वं यथाक्रमम्
न कुर्यादन्यथा देवि अस्तिनास्तीति कल्पना ।
आज्ञासिद्धि च देवेशि न किञ्चिदपि चिन्तयेत्
प्. ३१४)
नयसूत्रे यथा प्रोक्ता रेखासिद्धिः शिवेन तु ।
प्रतिमासप्रयोगेन शब्दसिद्धिर्न संशयः
नाऽनेन सदृशो योगः सर्वतन्त्रेषु सुवृते ।
नानेन सदृशी सिद्धिः त्रिषु लोकेषु विद्यते
प्रत्ययो न परो देवि एभिस्तु सदृशो भवेत् ।
ज्ञातव्यं परमं किञ्चित् शब्दज्ञानं परं भवेत्
अविकल्पञ्चतुर्थञ्च प्रत्यक्षं सर्वतः स्थितम् ।
बिन्दुःकला चतुष्कोणकलाशक्तिचतुष्टयम्
एतद्यागपरं प्रोक्तं नादं कर्णिकया न्यसेत् ।
उत्क्षणी उकारस्तु शक्तिस्तु प्रथमा कला
प्. ३१५)
एकारस्तु द्वितीया वै सूक्ष्मा संपरिकीर्तिता ।
अमृता तु तृतीया वै इकारः परिकीर्तितः
अमृतामृता चतुर्थन्तु ईकारः कथितस्तव ।
बिन्दुदेवकला या तु मया पूर्वमुदाहृता
नादस्यापि मयाप्युक्तं बिन्दुयागे वरानने ।
प्रथमं बिन्दुदेवस्य कलां पूर्वेण विन्यसेत्
द्वितीयं दक्षिणेनैव तृतीयं पश्चिमेन तु ।
चतुर्थीं उत्तरे चैव कला बिन्दोः प्रकीर्तिता
उत्कर्षणी तु आग्नेययां सुसूक्ष्मान्नैर्-ऋतेन तु ।
अमृता नाम कला या तु वायव्येन तु विन्यसेत्
प्. ३१६)
अमृता मृता तु ईशान्ये न्यसेच्छक्तिचतुष्टयम् ।
नादशाक्तसमायुक्तं कर्णिकायान्तु विन्यसेत्
सोच्चामात्मतत्त्वन्तु कथितं तव सुवृते ।
ब्रह्माविष्णुस्तथा रुद्रः त्रयो वै वर्णतस्थिताः
ईश्वरो नादशक्तिश्च ऊर्ध्वभागे व्यवस्थितः ।
तत्त्वेन विततास्सर्वे सर्वे तत्वा न संशयः
द्विविधेन भवेद्दीक्षा ध्यानद्रव्ये न शोभने ।
शतं शतञ्च होमेन दीक्षा निर्वाणगामिनी
पृथिव्यादीनि तत्वानि कथितानि मया पुरा ।
आनुपूर्वेण बोद्धव्यं शक्तिनादे स बिन्दुके
प्. ३१७)
एष यागवरो देवि दुर्लभो ह्यकृतात्मनाम् ।
देवा अप्यस्य यागस्य ईहन्ते सुरसुन्दरि
ना प्रसन्ने मयि देवि प्राप्यते विधिरीदृशी ।
ना शिष्याय प्रदातव्यं नाभक्ताय कदाचन
गुरुप्रियाय दान्ताय अभिषिक्ता यदा भवेत् ।
सर्वाध्वानविधिज्ञस्य दातव्या विधिरीदृशी
कुलशीलगुणोपेते शिष्याय प्रियवादिने ।
अन्यथा तु न दातव्यं आज्ञैषा पारमेश्वरी
इति निश्वासकारिकायां पञ्चतृंशत् पटलः ।
देव्युवाच
चक्षुषा वाचया स्पर्शां मनसा उदकेन वा ।
धारणा ध्यानयोगेन करोत्यनुग्रहेच्छया
एतद्देव महद्गुह्यं कथितन्तु त्वया विभो ।
एतेषां तु अविभागोऽयं यत्त्वया हृदि गोपितम्
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
ईश्वरः
एतेषां कथयिष्यामि एकैकस्य विभागशः
ज्ञातव्यं देशिकेनैव दीक्षाकाले समासतः ।
पद्मानि च यथा लोके आदित्यः संप्रबोधयेत्
प्. २१९)
एवं संस्कार्य पद्मानि प्रसन्नो बोधयेच्छिवः ।
दूरस्थोऽपि समीपस्थः पिण्डस्थः पिण्डवर्जितः
मलिनो निर्मलश्चैव तिष्ठत्येको ह्यनेकशः ।
सूक्ष्मात्सूक्ष्मतरो नित्यं दूराद्दूरतरो विभुः
सन्निकृष्टे तमो देहो व्यापी न प्रभुरव्ययः ।
तत्त्वानि देवताश्चैव विभागेन यथा स्थिताः
ऐश्वर्यं ज्ञानतुष्टिञ्च धर्मान्या दैवतैस्सह ।
तेषां स्थानविभागञ्च स्वशरीरे यथाक्रमम्
ज्ञात्वा सर्वं विशेषेण सर्वपाशक्षयो भवेत् ।
देहपद्मं प्रवक्ष्यामि व्योमपद्मं विशेषतः
प्. ३२०)
वासवाष्टदलोपेतं रुद्रैकादश केसरम् ।
आदित्याः कर्णिका ज्ञेयाः पुष्करे द्वादश स्मृताः
भव हे भावना यस्य सर्वदेवमये पुरे ।
तस्याहं भावितो देवि शेषा ये भ्रामिता जनाः
कदलीपुष्पसंकाशं हृदयं सर्वदेहिनाम् ।
तस्य मध्ये स्थितं पद्ममष्टपत्रं सकर्णिकम्
वितस्तिमात्रहृदयं कमलं चतुरङ्गुलम् ।
अष्टाङ्गुलप्रमाणन्तु नाभेरूर्ध्वं व्यवस्थितम्
पद्मनालं नवद्वारं समन्तात्कामनान्वितम् ।
अङ्गुष्ठपर्वतुल्यन्तु कर्णिका वै स केसरा
प्. ३२१)
कर्णिकायां भवेत्सूर्यः तस्य मध्ये तु चन्द्रमाः ।
चन्द्रमध्ये भवेद्वह्निः वह्निमध्ये महेश्वरः
सदाशिवो महेशस्य तस्यापि परतश्शिवः ।
सर्वेषां संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम्
किञ्चिदूनतरं सूर्यं कुर्यात्सोमं तथैव च ।
सोमादूनं विजानीयात् वह्निमण्डलमुत्तमम्
विधूमनिर्मलं दिव्यमादित्योदसन्निभम् ।
भूता सुमात्रमीशानं ज्वलत्कटकसन्निभम्
दशार्धास्य परं दिव्यं शुद्धस्फटिकनिर्मलम् ।
सदाशिवं महात्मानं तस्याप्यूर्ध्वं परापरम्
प्. ३२२)
सितं सुनिर्मलं दिव्यमग्राह्यं परमं शिवम् ।
देहनालं समाख्यातं ब्रह्मपत्रमयं विदुः
कर्णिकायां स्थितो विष्णुः ग्रन्थिर्माया प्रकीर्तिता ।
अव्यक्तदक्षिणे पत्रे बुद्धिञ्चैव तु नैर्-ऋते
पश्चिमेन अहङ्कारं शब्दतन्मात्रं वायवे ।
उत्तरे तन्मात्रमीशान्यां रसनं तथा
रूपग्राही तु पूर्वेण घ्राणमग्निदले स्थितम् ।
पत्रान्तेषु महाभूताः केसराणि तु इन्द्रियाः
तन्मात्र इन्द्रियाणाञ्च मनस्सर्वत्र तिष्ठति ।
योऽसौ हृद्युपरोधी तु तामसो निद्ररूपिणः
प्. ३२३)
अधस्तात् कर्णिकाया तु तस्य देहो प्रतिष्ठितः ।
अन्ते तु कर्णिका चेता भावैश्च सह संयुताः
स शिवः सर्वदेहेषु कर्णिकोपरि संस्थितः ।
पद्मनाले स्थिता देवाः कण्टकेष्वधस्थिताः
गणाश्च विविधाः पत्रे दैत्याश्चैवाऽथ रोमसु ।
ग्रहनक्षत्रताराश्च यक्षराक्षसपन्नगाः
भगिन्यो मातरश्चैव नालमूले व्यवस्थिताः ।
सर्वदेवमयं पद्मं यो भित्वा ज्ञानसूचिभिः
पश्यते विमलात्मानं प्रत्यक्षं देहमध्यतः ।
जाग्रतश्चास्य सर्वस्य आचार्यः प्रभुरुच्यते
प्. ३२४)
तेन तुष्टेन तुष्टास्तु अशेषभुवनाधिपाः ।
दीक्षकस्तु गुरुश्रेष्ठश्शिवतत्वस्य पारगः
अन्यथा न गुरुर्ज्ञेयः न च दीक्षा न मुक्तिदा ।
मन्त्रमूर्तिस्मृताचार्यो मन्त्रमूर्तिपरश्शिवः
मन्त्रास्तदात्मका ज्ञेयाः शिवो ज्ञेयस्तदात्मकः ।
तस्मात्सर्वेषु भूतेषु अनुग्रहं संप्रवर्तते
इच्छा भगवतश्चैषा तान्यथा तु विचिन्तयेत् ।
शिवो देशिकदेहस्थः प्राण्यनुग्राहकारकः
ददाति विविधां सिद्धिं मोक्षञ्च नयते पशुम् ।
यत्तच्छान्तं परं तत्त्वं कारणं कारणाधिपम्
प्. ३२५)
शिवविद्यात्मतत्त्वानि तत्स्थो भूत्वा प्रकाशयेत् ।
अणिमादिगुणां सिद्धिं शिवं परमकारणम्
प्रकाशयति तत्रस्थो यथा भूतं यथा स्थितम् ।
देव्युवाच
त्रितत्त्वस्य तु यद्भूतं अक्षराद्विदितं यथा
कथं लोकेह्यविज्ञानं सर्वसत्वे तथा वद ।
यो यथाऽवस्थितोह्यर्थो गुणदोषस्वभावतः
यावत्फलञ्च पुण्यञ्च तत्सर्वं विदितं प्रभो ।
कथं लोके ह्यविज्ञातं सर्वज्ञत्वे तथा वद
ईश्वरः
प्. ३२६)
मध्यस्थन्तु यदा ज्ञातं तत्त्वज्ञानं सुनिर्मलम् ।
सर्वज्ञत्वं तदा तस्य सर्वोपायो विभावितम्
क्रोधाभिधानमात्सर्यकाममोहार्थलुब्धता ।
पैशुन्यमनृतद्रौप्यं वयोऽतीतेष्वपि नृषु
दम्भक्रौर्यास्थिरत्वञ्च साध्यं कुटिलचिन्तिता ।
एभिरेवावृतो लोकस्तेन देवं न विन्दति
एतत्पदविधिं कृत्वा आचार्यस्सुसमाश्रितः ।
दीक्षयेत्सर्वजन्तूनि ध्यानेनानेन सुवृते
एतद्ध्यानविधिः ख्यातो मानसं प्रोच्यतेऽधुना ।
एकेन्द्रिये तु ते सर्वे विधिमेतन्नियोजयेत्
प्. ३२७)
एकेन्द्रियप्रमाणेन प्रवृत्तास्सर्वचेन्द्रियः ।
एकेन सर्वभूतास्तु तत्वाश्चैव वरानने
प्रवृत्तिस्सर्वकार्येषु अनादिश्च न संशयः ।
मनसा गृह्यते देवि युज्यते मनसा पशुः
एकेन्द्रियप्रमाणैस्तु मनस्सर्वेषु सुन्दरि ।
मनसा गृह्यते यस्मात् तस्मादेवान्मनात्मकः
तत्स्थानं मनसा सर्वं तन्मनो बुद्धिसंयुतम् ।
सर्वैः करणयोगैश्च उपलब्धुं महेश्वरे
आत्मविद्याशिवञ्चैव सृष्टिसंहारकल्पना ।
एवं तत्वानि विन्यस्य शिवाह्युपरि विन्यसेत्
प्. ३२८)
एवन्तु मनसा ध्यात्वा कर्तव्यानुगृहेच्छया ।
मानसं विधिमेकन्तु कथितन्तु समासतः
इति निश्वासकारिकायां ज्ञानकाण्डे संस्कारोपन्यासमानसानुग्रहविधिः
षट्त्रिंशत् पटलः ॥
ईश्वर उवाच
सृजते ईश्वरो भूत्वा संहरेच्च सदाशिवः ।
शिवन्तु स्थ्तिकर्तृत्वे शान्तेति परमं पदम्
आत्मतत्वं भवेच्छ्रष्टा पद्मपत्रं स उच्यते ।
विद्या वै केसरं तस्य संहारं कर्णिकाह्यधः
प्. ३२९)
कर्णिकायां शिवं तत्त्वं स्थितितत्वप्रकर्तृकः ।
एतत्त्रितत्वतत्त्वादिं कैलासकमलं विदुः
ओष्ठौ पद्मस्य पत्राणि दन्ताः केसरसंज्ञिताः ।
जिह्वा वै कर्णिका प्रोक्ता शरीरन्नालमुच्यते
मुखमध्ये यदाकाशं तत्र देवो जगद्गुरुः ।
सगिका तालुमध्ये तु जिह्वा कैलासपिण्डिका
स्वयमाचरते यस्मादाचारं दर्शयेति च ।
उच्चिनोति च शास्त्राणि आचार्यस्तेन पठ्यते
अशब्ददेहोऽपि स शब्दकारी कृतस्य कर्मस्य च अन्तकारी ।
त्रैलोक्यमायापुरसूत्रधारी यस्तन्तु पश्येत्सतु सर्वकारी
प्. ३३०)
एवं कृत्वा तु देवेशे देवतानां निवेशनम् ।
मुखमन्त्ये पि * न्त्येन करोत्यनुग्रहेच्छया
वाचयानुग्रहेद्देवि कथितन्तु वरानने ।
इति वाचनुग्रहः * * * * * * * * *
देव्युवाच
सूत्रन्नाम महादेव आलोकपदवाचकम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
ईश्वरः
सूचनात्सूत्रमित्याहुः सूत्रन्नाम महत्पदम् ।
तेन सर्वमिदं प्रोक्तं सूत्रे गणिगणा इव
प्. ३३१)
अखण्डितन्तु विज्ञेयं खं व्यापी अजरं पदम् ।
तदिद्वलयसंकाशं घटिकायां प्रकाशयेत्
हृत्पौण्डरीकमध्यस्थं सोमसूर्याग्निमध्यशम् ।
यः पश्येत्परमं सूक्ष्मं सुलेख्यं कर्तुमर्हसि
देव्युवाच
तत्त्वादेव गणाश्च सर्वे न्यासे व्यवस्थिताः ।
तेषां मन्त्रविवाहोऽयं कथयस्व प्रसादतः
ईश्वर उवाच
सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः ।
शिवात्मकेन मन्त्रेण शिवयागे तु पूजयेत्
प्. ३३२)
अप्राप्य शिवसद्भावंः पठन्तोऽपि हि संहिताम् ।
अज्ञात्वा कुरुते दीक्षां शिष्याचार्यौ व्रजत्यधः
तस्मान्न समानवसोः शिष्यत्वेनोपतिष्ठति ।
नचाभ्युभयोः पत्यनुग्रहोऽयं प्रवर्तते
विभुरेकः परः पश्येच्छिष्याचार्यौ प्रवर्तते ।
अविदित्वा स्वयं सम्यक् क्रियां यः कुरुते भिषक्
आतुरो दुःखमाप्नोति वैद्योऽपि न फलं भवेत् ।
ज्ञानविज्ञानकुशलः सर्वावस्थां गतोऽपि यः
स मोचयति पापेभ्यो ज्ञाननिर्धूतकिल्बिषः ।
सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरुच्यते
प्. ३३३)
दीक्षावित्तु विधानज्ञः पाशजालप्रदाहकः ।
शिवभक्तो महाभक्तिः भक्तिभावेन देशिकः
उभयोरन्तरं नास्ति देशिकस्य शिवस्य च ।
स चैवाङ्कारबिन्दुश्च स नादो लयनिष्कलः
तस्मिन् सर्वाणि विद्यन्ते स चैव च परश्शिवः ।
सर्वविद्यासुसंपूर्णः सर्वविद्यार्थकोविदः
आचार्यस्य च मन्त्रस्य शिवज्ञानशिवस्य च ।
नानात्वं नैव कुर्वन्ति अनन्तेशादयः शिवाः
इति निश्वासकारिकायां ज्ञानकाण्डे वाचानुग्रहवक्त्र पद्मप्रकरणे
सप्ततृंशत् पटलः ॥
देव्युवाच
अनन्तमासनं देव श्रोतुमिच्छामि तत्त्वतः ।
कीदृशन्तु भवेदन्तः आसनञ्च महेश्वरः
ईश्वरः
* * * तमादितः कृत्वा यो * * * * ते ।
भावार्णवविनिर्मुक्ताः शिवं यान्ति तनुक्षये
आसनं आश्रयन्नाम तत्वानां गगनस्य च ।
इच्छाशक्तिसमुद्भूतं अनन्ताख्यं तदासनम्
मयाचादि धरित्र्यन्तं तत्र ज्ञातमशेषतः ।
व्या * * * * * * * शिवस्य परमात्मनः
प्. ३३५)
मायाकर्ममपङ्काढ्यं संवत्सरमहोदधौ ।
सदाशिवशिवाधारं नित्याधारेति संज्ञितम्
मायया स च द्वात्रिंशज्जले तत्त्वा व्यवस्थिताः ।
त्रयस्त्रिंशतिमाविद्या * * * * * * * *
चतुस्त्रिंशतिमस्त्वीश अष्टधा दलसंस्थितम् ।
अनादिमूलपङ्काढ्यं ज्ञानतोयसमुद्भवम्
प्रक्रियानालविन्यासं भुवनाः कण्टके स्थिताः ।
दश कोट्यस्तु मन्त्राणां शिवपद्मे व्यवस्थिताः
महासारो हि मन्त्राणां सर्वदेवाश्रयः परः ।
एतदध्वनपद्मन्तु शिवाख्ये सर्वमाश्रितम्
प्. ३३६)
आसनात्परतो नास्ति अध्वानन्तु वरानने ।
पुरुषाणामनन्तत्वात् तत्वादीनामनन्तता
प्रकृतीनामनन्तत्वाच्छक्तीनाञ्चाप्यनन्तता ।
पशूनां भुवनानाञ्च परिसंख्या न विद्यते
तदनुग्रहशक्तीनां मन्त्राणाञ्चाप्यनन्तता ।
अनादिरेष संसारो यस्यान्तो न हि विद्यते
धारकत्वादनन्तत्वात् अनन्तस्तेन उच्यते ।
न पद्मस्य प्रमाणोऽस्ति अनन्तत्वाच्छिवस्य तु
अनन्तो अन्तहीनत्वात् अनन्तं तेन सोच्यते ।
अनन्तः खाप्यते तेन अनन्तेनत्वधिष्ठितः
प्. ३३७)
अनन्तस्तु शिवो ज्ञेयो अप्रमेयस्त्वनौपमः ।
अप्रमेयं पशुज्ञानैः स्वतन्त्रे गीयते कलैः
तदनन्तमनन्तन्तु योगपीठमहात्मने ।
कर्तृत्वमीश्वरत्वञ्च नित्यतृप्तः प्रशान्तता
शक्तेख्याहतत्त्वाच्च धर्मोऽयं शाङ्करस्मृतः ।
सकृत् सर्वत्र सत् ज्ञानं सर्वज्ञत्वञ्च सर्वदा
सर्वज्ञानाश्रयत्वाच्च ज्ञानमेतत्परं प्रभोः ।
विरक्तः प्राकृतैर्भावैः निस्पृहत्वञ्च सर्वदा
नैष्ठिकब्रह्मचर्यञ्च वैराग्यं तत्परं प्रभोः ।
अणिमादिगुणैस्सर्वैः या भूत्यस्त्वभिघातिनी
प्. ३३८)
नास्वादिता जगत्यन्यैः तदैश्वर्यं परे शिवे ।
न तद्भुवनमध्वानं न रूपं न च वाङ्मयम्
न शब्दं नापि चाकाशं विमलं सर्वतः स्थितम् ।
विरजन्निर्मलं व्योमं समन्तादनिवारितम्
निर्गुणं वाङ्मनातीतं ग्रहनक्षत्रवर्जितम् ।
तप्तचामीकराकारं क्वचित्प्रालेयसन्निभम्
क्वचिदिन्द्रायुधप्रख्यं क्वचित्तारकसमप्रभम् ।
चन्द्रचन्द्रकसंकाशं क्वचिन्मरतकप्रभम्
विमलं दोषरहितं तेजस्तेजो महद्युतिः ।
व्यापकं अप्रमेयञ्च पद्मं सार्वं महोज्वलम्
प्. ३३९)
व्योमनालं दिशापत्रं व्योमकण्टककेसरम् ।
व्यापिनीभिरनन्ताभिः व्रतं अमृतशक्तिभिः
वितीर्णमव्यवच्छिन्नं सूर्यकोटिसमप्रभम् ।
विश्वस्वच्छं महातेजः स्वरूपानन्तवर्चसम्
अद्भुताश्शक्तयः सूक्ष्माः शान्ताशान्ता अनौपमाः ।
प्रदिष्ठास्तु गुणोपेताः शिवस्यानन्तशक्तयः
एताभिः शक्तिभिरसौ भाति नित्यं विभूषितम् ।
शोभते निर्मलं तन्तु निर्मलाभिलङ्कृतम्
स तु तत्प्रभाकमलं दिव्यमद्भुतदर्शनम् ।
अत्यन्तविमलं शान्तभास्वरं कमलच्छदम्
प्. ३४०)
तटित् सहस्रसङ्घातं किरणानेकसङ्कुलम् ।
विशुद्धचन्द्रिकाकारं स्फुरन्निक च केसरम्
स्फुरत्किरणसङ्घातं शबलीकृतमुन्मुखम् ।
बहुवर्णमवर्णञ्च प्रचलच्चारुकेसरम्
सूर्यांशुकरविष्टब्धं व्रैतग्रसदृशद्युतिम् ।
अनेककिरणप्रख्यं विद्युत्कोटिसमप्रभम्
तप्तचामीकराकारं क्वचित्प्रलयसन्निभम् ।
क्वचिदिन्द्रायुधप्रख्यं क्वचित्तारसमप्रभम्
स्फटिकोपलसङ्काशं पद्मरागसमद्युतिम् ।
क्वचिद्रशिसुसङ्घातं वितानितनभस्थलम्
प्. ३४१)
क्वचित्प्रल्यसाटोपं युगान्तकिरणत्विषम् ।
क्वचिच्च वर्णसङ्घातं विनिर्मुक्तवपूंषि च
स्वशक्तिविभवद्योतं व्यापयन्तं समन्ततः ।
जलबुद्बुदसङ्काशं शरदिन्दुसमप्रभम्
प्रोत्फुल्लकिरणामोदं विद्येशमधुपाकुलम् ।
सुषुम्नानालसन्तानं कालानलशिवान्तकम्
तटिद्वलयसङ्काशं परिवृत्य समन्ततः ।
सहस्ररश्मिसङ्घातं दुर्निरीक्ष्यं समन्ततः
असमान क्रियाज्ञान प्रभाव * * * द्ध्रुवम् ।
स्वतो भावितधर्मान्तं तदिच्छाद्यवतिस्वते
प्. ३४२)
इच्छाशक्तिपरो धर्म शिवस्य परमात्मनः ।
तेन युक्तस्सुधर्मात्मा धर्मिसद्भिर्निगद्यते
द्ध्रुवे धर्मिणि धर्मोऽसौ सत्कारणमिहोच्यते ।
नाभावे धर्मिणा धमः प्रसिद्धिमुपगच्छति
इच्छा च प्रेरणी चैका कालनीकलिनी तथा ।
अभावभाविनी ज्ञानी क्रियाशक्तिः प्रकीर्तिता
मोहनी रञ्जिनी बोधा प्रभावा विभुनी रसौ ।
दमनी धामनी बोधा मननी उन्मनी शिवा
धात्री च जननी क्रोधा चालिनीह्यपरिग्रहा ।
विरजा विजया सौम्या मायाऽविद्या च रागिणी
प्. ३४३)
अलुप्ता च प्रतीघाता अजरा अपराजिता ।
अग्रजा च विलोमा च कलानापि विनिर्मिणी
बलदा बलदायी च दमनी धर्मदापि च ।
स्वरूपा वर्णरूपा च पाशजालावकुण्ठिनी
पाशिनी मोहिनी त्राणि निग्रहानुग्रहेति च ।
मही च हर्षिणी भावा सौम्या वै सौम्यधर्मिणी
भावा स्वभाविनी याति तीव्रा शान्ता च सिद्धिदा ।
अप्रमेया प्रमेया च प्रमाणा च विकल्पिनी
व्यापिनी सर्वगोप्ता च भया च भयहारिणी ।
सृष्टिसंहारिणी चेता तृप्तिर्निद्रा प्रभा क्षुधा
प्. ३४४)
दहनी श्रुतिर्मतिः प्रज्ञा भाविनी च विभाविनी ।
भाव्यनी च व सौम्या च ध्रुवा च ध्रुवहारिणी
अनन्ता चामृता चैव ईश्वरी अव्यया तथा ।
रतिः प्रीतिश्च विज्ञेया विषादजननीति च
स्थितिरुत्सादिनी चैव प्राणिनाञ्च विनिर्मिणी ।
आवेशिनी निरोधी च प्राणिनां कल्पिनी तथा
अमृताऽनन्तशक्तिश्च पराशक्तिस्तथैव च ।
इत्येताः शक्तयस्सर्वाः केसरे नित्यसंस्थिताः
शुद्धगोरोचनाभास्तु ज्ञेया शक्तिगणास्तु वै ।
कर्णिकापीठपर्यन्ता भासयन्ति दिशो दश
प्. ३४५)
कन्दं पटोलकाकारं शक्तिभिः परिवारितम् ।
कर्णिकास्थं प्रभुर्नित्यं शक्तिभिः परिवारितम्
आदित्यस्य यथा रश्मिः अविभक्ता व्यवस्थिताः ।
एवं शक्तिगणास्सर्वे रश्मयः परिकीर्तिताः
शक्त्या तु चेष्टते नित्यं हृत्पद्मे परमेश्वरी ।
तत्तेजो निर्वृतास्सर्वाः शक्तयः परिकीर्तिताः
एवं शक्त्यात्मकं ज्ञात्वा तदा मुच्यति मोचति ।
यथेन्द्रवद्बलं दीप्तं व्यापयन्ति चराचरम्
तच्चाचलमनिर्देश्यमनन्तमजकर्णिकम् ।
अनादिमध्यनिधनमेकं अप्रतिपत्तिमम्
प्. ३४६)
निष्प्रपञ्चं निरध्वानं अतीन्द्रियमनामयम् ।
निष्कलं विमलं वृत्तमुत्तुङ्गव्यापिनं परम्
हेमार्कसंप्रतीकाशं सर्वतत्वप्रकाशकम् ।
प्रकाशवृत्तिस्तज्ज्ञेयं विमलं व्योमकर्णिकम्
एवं व्याप्य परन्देवमनन्तादिद्शिवान्तकम् ।
इति निश्वासकारिकायां ज्ञानकाण्डे अनन्तशक्तिप्रकरणे अष्टत्तृंशत्पटलः
॥
देव्युवाच
ईदृशे आसने शुभे शक्तिभिः परिवारिते ।
मूर्तिं कथय देवेश आसने आसनाधिपम्
प्. ३४७)
ईश्वरः
मूर्तिः पूर्वं मयाख्यातं ब्रह्माद्यानां पुरा घियाम् ।
ऋषयश्च तथाऽन्ये च दुर्व्यासाद्यास्तथा परे
आत्मा मूर्तिस्तु विज्ञेयो निष्क्रियो अस्वतन्त्रकः ।
तस्य मन्त्रे समायोगः क्रियते सुरसुन्दरि
पञ्चधा तूच्यते मन्त्रो येनाऽसौ सकलो भवेत् ।
मन्त्रैर्युक्तः स मन्त्रात्मा वर्णैर्युक्तस्सदात्मकः
कलाभिस्तु यदा युक्तः तदा प्रोक्तः कलात्मकः ।
पदभेदात्मकश्चैव तत्त्वभेदात्मकस्तथा
पशुः पूर्वं मयाख्यातः सा मूर्तिः परिकीर्तिता ।
प्. ३४८)
करणं सदात्मकं यस्मात् तस्मात्प्रोक्तः सदाशिवः
सदा नित्योह्यचिन्त्यश्च तेन प्रोक्तऽस्सदाशिवः ।
सततं तत्पदं शान्तं तत्प्राप्य तत्पदानुगम्
आसंपूर्णं शिवं शान्तं गुरुं त्रिदश वन्दितम् ।
अशेषभुवनाधारं व्योमपीठान्तसंस्थितम्
शक्तिकेसरमध्यस्थं शक्त्यालङ्कारभूषितम् ।
सर्वशक्तिसुसंपूर्णं सर्वशक्तिप्रदीपकम्
नैशन्तमो यथा सूर्यः स्वप्रभालोक्य रश्मिभिः ।
निहत्य तिष्ठते व्योम्नि तथा मूर्तिः परे शिवे
कृत्स्नमाभासते भाभिः भाभिर्भिन्नमिवोदितम् ।
प्. ३४९)
निश्चलं प्रज्वलं भाति नित्यानित्यं निरञ्जनम्
प्रशान्तं विमलं शुद्धं व्यापी अत्यन्तनिर्मलम् ।
सूर्यकोटिद्युतिहरं सकृद्योदितसुप्रभम्
नास्य प्रमाणं व्यापित्वात् मूर्तिः समुपदिश्यते ।
अनादित्वादसंभावो नित्यत्वान्निधनं न च
निर्गुणस्सर्ववित्कर्ता स्वतन्त्रः सर्वतोमुखः ।
परिपूर्णोऽव्ययश्शान्तः सूक्ष्मोऽजः परमो तनुः
नित्यप्रबुद्धशुद्धात्मा कारणोऽमितविग्रहः ।
अनन्तो निधनश्चैव नित्यतृप्तो निराश्रयः
कूटस्थः प्रभवो नाथो अनाथोह्यमितद्युतिः ।
प्. ३५०)
अनादिरेको नियम्यश्चेतनस्सर्वहृत् शिवः
सर्वकृत् सर्वविच्छर्वस्सर्वशक्तिरजोऽव्ययः ।
सर्वैः कारयिताकर्ता तेन सर्वमिदं ततम्
सर्वान्तं सर्वपरमं सर्वदोषविवर्जितम् ।
सर्वतत्वपदातीतं अजमीशानमव्ययम्
सुशाश्वतं सुसंपूर्णं सुनिर्वाणं सुशोभनम् ।
सर्वावरणनिर्मुक्तमद्भुतैकं सनातनम्
सर्वव्यापी ससर्वज्ञः सर्वस्योपरि संस्थितः ।
सर्वगः सर्वगातीतः मूर्तीनां सकलो मलः
सोऽयं रुद्रो महादेवो मूर्तीनां मन्त्रविग्रही ।
प्. ३५१)
परापरविभागेन विश्वमूर्तिमिवाव्ययम्
अनन्तरूपोऽनन्तश्च अनन्तोऽनन्त एव च ।
अनन्तशक्तिरनन्तात्मानन्तेन्द्र्योनन्तवक्त्रकः
सर्वधामातिरिक्तोऽसौ इन्द्रियातीततत्पदम् ।
तदात्मकमिदं सर्वं ते वाचप्रणितं जगत्
तत्त्वतत्वन्तु तत्वेन तत्वतत्वन्तु भिस्तकम् ।
अचिन्त्यस्सर्वसूक्ष्मो मतो दृष्टिविवर्जितः
अनन्तो मूर्तिसंयोगः सकलोऽसौ प्रकीर्तितः ।
एष ते कथितोऽनन्तो यस्यान्तस्तु न विद्यते
अविदितत्वात्तु देवेशे अनन्तविधिमुत्तमम् ।
प्. ३५२)
शिवयागन्तु कुरुते नाऽसौ मोचयते पशुम्
चक्षुषा बिन्दुयोगेन कथितोऽनुग्रहो मया ।
शिवहस्तसमायोगात् स्पर्शास्सर्वत्र कीर्तिताः
उदकेन यथा कुर्यात् शृणु देवि वदाम्यहम् ।
सर्वसंहितसामान्यं विधिरेषा मुदाहृता
पञ्चब्रह्मशिवाङ्गाश्च शिवेन सह संयुताः ।
त्रि तत्र देवतान्यासमध्वानं यत्प्रकीर्तितम्
सर्वे सर्वत्र कर्तव्या उदके च विशेषतः ।
न यज्ञेन विधिज्ञेन अध्वन कुशलेन च
त्रितत्वदेवतत्त्वेन कर्तव्या विधिरुत्तमा ।
प्. ३५३)
ग्रहणे योजने तत्ज्ञ उत्क्षेपस्सन्नियोजने
सन्धाने चैव सर्वेषां लयं निर्वाणमेव च ।
सर्वज्ञानाति तत्त्वज्ञः स तु योग्यश्शिवाध्वरे
प्रकृतिं यो विजानाति विकारैस्सह संयुतम् ।
आधाराधेयवित् प्राज्ञः स तु योग्यः शिवाध्वरे
ससाधकस्सदाचार्यः ससंपूज्यो महामतिः ।
स गुरुः साधकेन्द्राणां शेषा यन्नामधारकाः
एवं विधिविधानज्ञः आचार्यस्तन्त्रपारगः ।
दीक्षकस्सर्वजन्तूनां स तु नेता परं पदम्
इति निश्वासकारिकायां ज्ञानकाण्डे मूर्तिविन्यासो नाम
एकोनचत्वारिंशत्पटलः ॥
देव्युवाच
सर्वज्ञस्यार्चनं ब्रूहि नियोगञ्च महेश्वर ।
कस्मिन् काले तु भगवान् अर्घ्यं दद्यात्परे शिवे
परेण सह चात्मानं यथा चैकत्र तां व्रजेत् ।
तथा त्वं देवदेवेश अर्चनं कथयस्व मे
ईश्वरः
शृणु देवि परं गुह्यं अर्चनं सार्वकामिकम् ।
येन यष्टेन यष्टास्तु अशेषभुवनाधिपाः
वामाङ्गे तु तथा देवि वामा शक्तिःप्रकीर्तिताः ।
प्. ३५५)
पितॄणामाधिपत्येन ज्ञातव्या ज्ञानचक्षुषा
दक्षिणाङ्गे पुनर्ज्येष्टा देवानामधिदेवता ।
मध्ये रौद्री सदा विद्यात् योगीनां योगदेवता
इडायां संस्थिता वामा वामाङ्गे सर्वदेहिनाम् ।
सुषम्नायां पुनर्ज्येष्ठा रौद्री तु पिङ्गलाश्रिता
एतास्तु शक्तयः प्रोक्ताः वर्णत्रयसमाश्रिताः ।
नाडीत्रयसमायुक्ता ब्रह्मविष्ण्वीशसंयुताः
पिङ्गलायां प्रभुः रौद्री सुषुम्नायान्तु ब्रह्मणः ।
इडायान्तु उपेन्द्रो वै सर्वकार्येषु संस्थिताः
वामस्थाने यदा देवः स्नानं तत्र समाचरेत् ।
प्. ३५६)
अग्निकार्यन्तु मन्त्रज्ञः जपये हेतुदक्षिणे
ध्यानमेकं सदा सेव्यं मध्यदेशं प्रतिष्ठितम् ।
निर्हत्य व्यापयित्वा सर्वावस्थो भवेत् क्षणात्
पुष्पपूर्णाञ्जलिः कृत्वा यत्र तत्र मुखे स्थितः ।
मानसैः प्राकृतैर्वापि अद्भिः संपूर्णमञ्जलिम्
स्वसंभवस्थमार्गेण यावच्छब्दमुदाहरेत् ।
शब्दान्ते लीयते यावत् पुण्यकालमिहोच्यते
निस्तत्वे निर्मलीभूतं निर्विकल्पं प्रकल्पयेत् ।
तत्र चैवावतिष्ठेत कृतकृत्यश्च जायते
एवं वै व्यापयित्वा तु पूरकेन पुनर्विशेत् ।
प्. ३५७)
अप्रबुद्धः प्रबुद्धात्मा तदा भवति नान्यथा
शिवं करोति सर्वत्र ऊर्ध्वञ्चैव प्रसाधयेत् ।
उपास्य सर्वकर्माणि शिवेना शिवहारिणा
देव्युवाच
सिद्धान्तज्ञानज्ञेयञ्च लक्षणञ्च महेश्वर ।
तदहं श्रोतुमिच्छामि प्रसादाद्वक्तुमर्हसि
ईश्वरः
तत् ज्ञानार्थं स्मृता वेदाः सिद्धान्ताश्च सहस्रशः ।
एतस्मात्कारणाद्देवि ज्ञेयमित्यभिधीयते
ज्ञेयज्ञानपदार्थौ च सिध्यर्थं विधिरूपकम् ।
प्. ३५८)
शास्रेण सिध्यते सिद्धिः सिद्धान्तस्तेन स स्मृतः
संज्ञालक्षणमित्युक्तं लक्ष्येऽर्थे लक्षणस्मृतम् ।
लक्ष्यं संयक् परिज्ञानाल्लक्षणं तेन संस्मृतम्
ध्यानधारणरहितं योगारंभे विवर्जितम् ।
तस्योपलब्धेर्विज्ञानं तत् ज्ञातुन्नैव शक्यते
तेनोक्ता कल्पना पूर्वन्निश्चयेनास्ति कल्पना ।
अस्तित्वे यो न संमूढस्सरज्ञस्स च पण्डितः
प्रयासा यस्य अस्ति स सर्वज्ञोऽयं व्यवस्थितः ।
अस्तिभावेन गृह्णन्ति देही मायाविमोहितः
यथा नास्ति ध्रुवं किञ्चित् तथा ते कथितं मया ।
प्. ३५९)
तदक्षयं तदमृतं तत्सत्यं तत्सनातनम्
तादृशे वर्त्तनासोऽपि यस्य योगं स सर्ववित् ।
बन्धने मायया मायी आशापाशेन वेष्टितः
आशापाशैर्विमुक्तोऽयं अमृतं पर्युपासते ।
इति निश्वासकारिकायां ज्ञानकाण्डे
सर्वज्ञार्चनसिद्धान्तज्ञानज्ञेयलक्षणन्नाम चत्वारिंशत्पटलः ।
देव्युवाच
पञ्चभूतात्मके पिण्डे कस्मिन् के देवता स्थिताः ।
पादौ च जानौ जङ्घायां ऊरुयुग्मे च के स्थिताः
प्. ३६०)
लिङ्गे च देवदेवेश स्फिजौ कटिके स्थिताः ।
नाभिःप्रदेशपार्श्वे च पृष्ठवंशे तथैव च
आन्त्रे मज्जे च देवेश रुधिरे कफपित्तयोः ।
रोमकूपे च के चोक्ता हस्तौ पादौ * * * *
* * * * * * * * * * * च के
स्थिताः ।
चुबुके चक्षुषोश्चैव ललाटे मस्तके चके
वाचां नाडी देवेश अहङ्कारे च के स्थिताः ।
इन्द्रियाणां च के देव विदिते यत्फलं भवेत्
एतन्मे देवदेवेश प्रसादाद्वक्तुमर्हसि ।
ईश्वर उवाच
प्. ३६१)
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम्
तदहं संप्रवक्ष्यामि त्वत्प्रियार्थं वरानने ।
सत्त्वञ्च आदितः कृत्वा प्रवक्ष्यामि निबोधत
सत्त्वं प्रधानमित्युक्तं स ब्रह्मा तु निगद्यते ।
रजो विष्णुस्तमो रुद्रो बुद्धिरष्टगुणाः शृणु
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च तथा परा ।
अधर्मश्चैव विज्ञेयं अज्ञानञ्च तथैव हि
अवैराग्यमनैश्वर्यं योगीशानां क्रमेण तु ।
ब्रह्मादि देवता बुद्धेर्धर्माद्याश्शक्रदेवताः
अहङ्कारे स्थितो रुद्रः शून्ये शब्दः प्रतिष्ठितः ।
प्. ३६२)
स्पर्शे वायुस्समाख्यातो रूपे वह्निः प्रकीर्तितः
तस्य तन्मात्रे वरुणो गन्धे तु पृथिवी स्थिता ।
प्रजापतिः पृथिव्यां वै द्रवे सोमः प्रतिष्ठितः
सूर्यस्तु संस्थितस्तेजे मारुतस्पर्शने स्थितः ।
शिवतत्वं परं गुह्यमाकाशे संप्रतिष्ठितम्
श्रोत्रेन्द्रिये महादेवि दिशः सर्वाः प्रतिष्ठिताः ।
त्वगिन्द्रिये तु मरुतः चक्षुर्भ्यां हुतभुक् स्थितः
जिह्वेन्द्रिये सदा देवि भुवशक्तिः सरस्वती ।
घ्राणेन्द्रिये तु वै ज्ञानं पादयोर्विष्णुरेव हि
क्रियाशक्तीति निर्दिष्टा मित्रो वायुश्च गृह्यते ।
प्. ३६३)
ज्येष्ठा प्रजापतिर्लिङ्गे वामा रौद्री च वचया
जलेन्दुर्मनसि ज्ञेया वाक् सवित्री हृदि स्थिता ।
गौरी वागीश्वरी कर्णे ललाटे विमलारि तु
स्नायुवर्गे स्थितोऽनन्तः सूक्ष्मः शुक्ले व्यवस्थितः ।
शिवोत्तमोत्तमो देवः स्थितोस्थि निचये सदा
एकनेत्रस्थितो मांसे एकरुद्रस्तथापरे ।
रुधिरे संस्थितो नित्यं त्रिमूर्तिः कफपित्तयोः
श्रीकण्ठो रोमसङ्घाते मूत्रेषु च सदा स्थितः ।
शिखण्डी च परो रुद्रो नखेषु सर्वतस्थितः
तन्महेशस्थितो देहे ऋषयश्चापि सन्धिषु ।
प्. ३६४)
पृष्ठवंशे च चण्डीशः पार्श्वेषु च संस्थितः
अङ्गुलीषु स्थिता नागा बाहौ पितरस्संस्थिताः ।
नाभौ वह्नि स्थितः साक्षात् सर्वेषामेव देहिनाम्
विद्याधरास्तथा यक्षाः रोमकूपेषु संस्थिताः ।
हस्तयोरिन्दुदेवत्यो जानुजङ्घे तथाश्विनौ
ऊरुयुग्मौ स्थितौ देवौ मित्रावरुणविश्रुतौ ।
नेत्रयोर्गन्धयोश्चैव ग्रीवायां चिबुके स्थिताः
सप्तगृहास्ससपस्संस्थिताश्चाधिदैवताः ।
नक्षत्रमण्डलं दिव्यं मुक्तनानु केऽनु संस्थिताः
एवं वै यो विजानाति सर्वदेवैरधिष्ठितम् ।
प्. ३६५)
शरीरं सर्वजं ज्ञानं न पापेन विलिप्यते
एतन्यासपरं देवि योऽभ्यसेत दिने दिने ।
स श्रियं लभते देवि ईश्वरेण समो भवेत्
न पापं न च वै पुण्यं न भयेषु भयं भवेत् ।
मुच्यते किल्बिषैर्घोरैः सप्तजन्मकृतैरपि
सेवितव्यं प्रयत्नेन योगिनां मुक्तिमिच्छता ।
नवोपायं मयाचोक्तं तेन त्वामृतसंस्थिताः
सर्वेषां यः परो देवः सर्वव्यापी व्यवस्थितः ।
इति निश्वासकारिकायां ज्ञानकाण्डे सर्वदेवशरीरन्यासे
एकचत्वारिंशत्पटलः ॥
देव्युवाच
आत्मा मूर्तिस्त्वया देव कथितं शिवशासने ।
स पशुः पूर्वमाख्यातो देवो ज्ञेयस्तथैव च
नमश्चेता च जीवश्च कथितन्तु त्वया पुरा ।
स पशुः निष्क्रियश्चैव अस्वतन्त्रमधोमुखम्
कथं शिवत्वमायाति ज्ञेयं नामादि क्रमेण तु ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हति
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं संप्रवक्ष्यामि त्वत्प्रियार्थं वरानने
प्. ३६७)
सर्वसंहितसामान्यं विधिमेतत्समासतः ।
कथयामि न सन्देहः एकैकस्य यथाक्रमम्
षड्विधं मानसं ज्ञेयं शक्तिस्तु नवधा स्मृता ।
अनन्तपूजामित्युक्ता विसर्गेण समन्विता
एवं पूज्य अनन्तन्तु मुक्तिं तत्रैव विन्यसेत् ।
हां हूङ्कारसंयुक्तो अष्टभेदस्य चाष्टमम्
मूर्तिविन्यासं देवेशि अस्मिन् तन्त्रे उदाहृतम् ।
दीक्षाकाले यथा योगं ग्रहणञ्च यथा भवेत्
तथा ते कथयिष्यामि ग्रहणं येन यद्यथा ।
अनन्तमूर्तिसंयोगमेभिर्बीजैरुदाहृतम्
प्. ३६८)
एवं विन्यस्य यत्नेन सकलीकरणं ततः ।
मन्त्रातीतश्च मन्त्रश्च मया पूर्वमुदाहृतः
तं ज्ञात्वा सकलं देवं निष्कलञ्च तथैव च ।
मूर्ध्नि वक्त्रौ च हृदये गुह्ये चैव यथाक्रमम्
विन्यसेद्देवदेवेशि सद्योजातन्तु मूर्तिषु ।
समयज्ञस्य देवेशि सकलीकरणं हितम्
अर्चनं तस्य वक्ष्यामि तन्मे निगदतः शृणु ।
स्थण्डिले शिवलिङ्गन्तु प्रोक्षणाभ्युक्षणादिना
अग्नौ शिवे च देवेशि द्रव्यमालभते तथा ।
पञ्चभिर्भ्रह्मभिश्चैव विधिसर्वमशेषतः
प्. ३६९)
ईशानमध्यतो दद्यात् पूर्वे तत्पुरुषन्यसेत् ।
अघोरं दक्षिणेचैव वामदेवं तथोत्तरे
पश्चिमे विन्यसेन्नित्यं सद्योजातन्तु सुवृते ।
अनेन विधिना यस्तु यजेत सुसमाहितः
ईश्वरावाप्तिसंयोगं समये कथितं मया ।
पञ्चब्रह्मसमायोगात् कलाभिश्च स सुवृते
विद्याङ्गैश्च समायुक्तं पुत्रके कथितं मया ।
आवाहनादिदेवस्य पूर्ववत्कथितं तव
द्वारावरणसंयुक्तं कथयेत्तस्य देशिकः ।
एवं तत्सकलीकृत्य सन्ध्याकाले उपासनम्
प्. ३७०)
कर्तव्यं पुत्रकेनैव कथितं सुरसुन्दरी ।
अनेन विधिना देवि पुत्रकस्सुसमाहितः
लभते सामीप्यपदं सादाख्यस्य न संशयः ।
तैरेव पूर्वोक्तैस्तु शिवाङ्गैश्च समन्वितः
आवाहरोधसंयोग ध्यानयोगविचक्षणैः ।
लभते सायुज्यमात्मानं सादाख्यस्य महात्मनः
चतुरावरणैर्युक्तं यजेत सुसमाहितः ।
मन्त्रैः करणयोगेन स पशुः सुरसुन्दरि
भवेन्मन्त्रात्मकश्चैव स पशुर्नात्र संशयः ।
अमन्त्रेण पशुः प्रोक्तः चेता मात्रं समाविशेत्
प्. ३७१)
स चेतनः स्मृतस्तन्त्रैः अकिञ्चित्ज्ञः पशुः स्मृतः ।
समन्त्रैश्च सदायुक्तश्चेतनः परमेश्वरि
तदा योग्यश्शिवध्याने भवते नात्र संशयः ।
देव्युवाच
कथं मन्त्रात्मकं देहं पशोर्विज्ञायते प्रभो
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ।
ईश्वरः
मन्त्रैस्संबद्धदेहस्य शृणु तस्य पराक्रमम्
पातालादुद्धरेन्नागान् पातयेद्दैत्यराक्षसान् ।
नाशयेत्सर्वविघ्नानि शान्तिं पुष्टिं करोति च
प्. ३७२)
मन्त्रैः संबद्धदेहस्य प्रपलायन्ति नायकाः ।
उत्तिष्ठेदन्तर्द्धाने च पादचारे तथैव च
खड्गे च पादुके चैव रेचने अर्चने तथा ।
गुडिकाकाशगमने दण्डकाष्ठपवित्रके
आसनञ्चैव यानञ्च सर्वमन्त्रैः प्रसिध्यति ।
चेतनात्मा यदा देवि न किञ्चिदपि सिध्यते
भूतैश्च बाध्यते देवि अज्ञानेन समावृतः ।
मन्त्रात्मा चेतनात्मा च कथितस्तव सुवृते
कथितञ्च रहस्यन्तु भेदस्तु उभयोरपि ।
बिन्दुनादसमायोगात् वर्णस्तु नदते यदा
प्. ३७३)
तत्तु मन्त्रात्मकं प्रोक्तं शिवं परमकारणम् ।
पञ्चब्रह्मकलैर्युक्ते कृते तु सकले शिवे
तस्मिन् प्रकाशते देवो मन्त्रात्मा परमेश्वरः ।
वर्णव्यूहे स्थितो यस्मात् शिवः परमकारणः
तेन देवि समाख्यातो मन्त्रात्मा परमेश्वरः ।
प्रणवो भयसंयुक्तो व्योमव्यापी इति स्मृतः
पदमन्त्रसमायुक्तो धर्मात्मा परमेश्वरः ।
अनन्तेशादितः कृत्वा शिखण्ड्यन्तं वरानने
स एव संस्थितो नित्यं मन्त्रात्मा परमेश्वरः ।
लोकपालान् सहास्त्रैश्च त्रैलोक्यं स चराचरम्
प्. ३७४)
मन्त्रात्माऽवस्थितो देवः शिवः परमकारणः ।
एवं मन्त्रात्मकं देवि कथितं तव सुवृते
ज्ञातव्यं देशिकेनैव शिवतन्त्रानुवर्तिना ।
बिन्दुर्नादश्च शक्तिश्च अतीतः परतश्च यः
यदा विज्ञानतत्वेन मन्त्रातीतः परस्तु सः ।
शब्दरूपरसादीनां अतीतः परमेश्वरः
तन्तु देवि विदित्त्वा तु देशिकः पाशहा भवेत् ।
नादातीतः परश्शान्तः शक्तिरित्यभिधीयते
तस्यातीतः परन्देवि मन्त्रातीतः स उच्यते ।
पूर्वमुच्चारयेद्वर्णान् शब्दलीनञ्च कारयेत्
प्. ३७५)
शब्दलीनः पुनश्शब्दः शब्दातीतं पुनर्नयेत् ।
तस्यातीतं परन्देवि मन्त्रातीतः स उच्यते
एष ते कथितो देवि कारिकायाश्च निर्णयः ।
पूर्वसूत्रे तु कथितं व्याख्यातं तव सुवृते
देव्युवाच
सकलं पूजयित्वा तु निष्कलन्तु ततोपरि ।
त्वया देव समाख्यातं आदिसूत्रे महेश्वर
पशुस्तु सकलः प्रोक्तः स मूर्तिः परिकीर्तितः ।
निष्कलञ्च कथं तस्मिन् पूज्यते परमेश्वरः
निष्कलः कलयातीतं न मन्त्रस्वरयोर्गतिः ।
प्. ३७६)
कथं सकलदेहस्तु स्थातव्यः परमश्शिवः
ईश्वरः
मन्त्रमुच्चारयेत्पूर्वं हृदि कृत्वा महेश्वरम् ।
कूटशब्दपरे लीनं स वै निष्कल उच्यते
उच्चारणे यदा देवि निर्विकल्पं पदं व्रजेत् ।
देहे सकलयोगेन यदा ज्ञातं महेश्वरि
अतीतः कलयातीतः स वै निष्कल उच्यते ।
उच्चारणे यदा हीनं निर्विकल्पपदं व्रजेत्
मनसा चिन्त्यते यच्च बुद्ध्या यत्र विकल्पना ।
बुध्यहंकारनिर्मुक्तं स वै निष्कल उच्यते
प्. ३७७)
समयी पुत्रको वाऽपि साधकाचार्य एव वा ।
सर्वैर्विधिरनुष्ठेयो विशेषः कथितो मया
इति निश्वासकारिकायां द्विचत्वारिंशत्पटलः ।
देव्युवाच
भगवन् श्रोतुमिच्छामि दिक्षाविधिमनुत्तमम् ।
संक्षेपात् कथितं सर्वं विस्तरं कथयस्व मे
पशुग्रहणसंयोगं दीक्षाकाले यथा भवेत् ।
अस्मिन् दीक्षे यथा यागं तत्तथा वक्तुमर्हसि
ईश्वरः
प्. ३७८)
अतः परं प्रवक्ष्यामि दीक्षाविधिमनुत्तमम् ।
सामान्यं सर्वतन्त्राणां कथयामीति वाऽखिलम्
पञ्चब्रह्म शिवाङ्गाश्च शिवेन सह संयुताः ।
शुध्यर्थमध्वरे मन्त्रस्तव देवि उदाहृतम्
वामा ज्येष्ठा च रौद्री च शक्तयस्त्रीणि कीर्तिताः ।
ज्ञातव्या देशिकेन्द्रेण वियोगात्क्षेपयोजने
वामया योजयेन्मन्त्री ज्येष्ठया च वियोजयेत् ।
रौद्र्या चोत्कर्षणं प्रोक्तं पुनरन्यत्र योजयेत्
अवनीमादितः कृत्वा यावत्तत्वन्निरामयम् ।
विधिमेतं सकृत् ज्ञात्वा व्युहहोमेन शुद्ध्यति
प्. ३७९)
एकैकमाहुतिं देवि जुहुयाद्देशिकोत्तमः ।
एवमेव विधिं कुर्याद्यावत्सर्वं समाप्यते
अन्ते पूर्णाहुतिं दद्यात् एष एव विधिस्मृतः ।
शिखया ताडनं कुर्यात् मुद्रया पुष्पसंयुतम्
पशुर्हंहुङ्कृतेनैव ग्राह्यस्संहारमुद्रया ।
शिवेनच्छन्दयेत्पाशान् ततः पूर्णाहुतिक्रमात्
एवमादिक्रमेणैव ज्ञातव्यं देशिकेन तु ।
सर्वाध्वानसमाप्तौ तु शिखोच्छेदन्तु कारयेत्
शिखयाच्छेदयेन्मन्त्री छित्वा पूर्णाहुतिं पुनः ।
पाशाश्च विविधान् कृत्य तत्वे तत्त्वे यथाक्रमम्
प्. ३८०)
सूक्ष्माः स्थूलाश्च ये पाशास्त्वर्षकंबुकवत् स्थिताः ।
पाशाः कोटिसहस्राणि शिवेन कथितास्तु ते
पाशाश्शिवमुखं प्राप्य दह्यन्ते नात्र संशयः ।
देव्युवाच
असंख्यायां महादेव पाशास्तु कथिताः प्रभो
अत्यन्तगहनाश्चैव कथं दह्यश्शिवाध्वरे ।
ईश्वरः
प्रकृतिं पुरुषञ्चैव नियतिं कालमेव च
मायाऽविद्या च ईशश्च सदाशिवश्शिवस्तथा ।
मूलपाशा स्मृताह्येते नव पाशा वरानने
प्. ३८१)
एतैर्दण्डैरिमे दग्धाः पाशाः पञ्चाशत्कोटयः ।
पञ्चाशत्प्रणवा देवि मया पूर्वमुदाहृताः
तेऽपि शुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
अष्टत्त्रिंशत्कलैर्देवि यथाऽध्वानं विशुद्ध्यते
तैर्विशुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
निवृत्तिश्च प्रतिष्ठा च विद्याशक्तिस्तथैव च
एभिः शोध्यं यदा ध्वानं शुद्धाः पञ्चाशत्कोटय ।
अमृता नाम कला या तु तथा चैवामृता मृता
सुसूक्ष्मा च यथा देवि सूक्ष्मा च परिकीर्तिता ।
एभिस्तु शोध्यमध्वानं पूर्वदृष्टेन कर्मणा
प्. ३८२)
एतैः शुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
पदमन्त्रप्रयोगेण शोधनीयाः शिवाध्वरे
एभिश्शुद्धे इमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
एवञ्च सप्तधा देवि अध्वानं परिकीर्तितम्
वेदितव्यं प्रयत्नेन शिवतन्त्रानुवर्तिभिः ।
भुवनाध्वा मया प्रोक्ता आहुतीनान्तु संख्यया
कलाभिस्तावती ज्ञेया सर्वाध्वानमशेषतः ।
त्वयाऽध्वानं यदा देवि जायते देशिकोत्तमः
शतं शतञ्च होतव्यं तत्त्वशुद्धिविधि स्मृतः ।
नव तत्वैस्तथा देवि एवमेव न संशयः
प्. ३८३)
कलातत्त्वे तथैवेह द्वितीयं त्रयमेव हि ।
पञ्चाशच्छतहोमेन वर्णाध्वानं प्रकीर्तितम्
तत्त्वाध्वाने कलाध्वाने वर्णाध्वाने तथैव च ।
उक्षेपं योजनञ्चैव एभिरत्र न कारयेत्
पदाध्वाने तथैवेह होतव्यं शतमेव तु ।
एवं शुध्यति अध्वानं सप्तधा परमेश्वरि
एवं ज्ञात्वा ततो दीक्षां कारयेद्देशिकोत्तमः ।
देव्युवाच
सर्वाध्वानं त्वया देव सूचितं न तु विस्तृतम्
तदहं श्रोतुमिच्छामि विस्तरेण ब्रवीहि मे ।
प्. ३८४)
ईश्वरः
आदिसूत्रे यदध्वानं सूत्रमात्रेण भाषितम्
तदेव कथयिष्यामि विस्तरेण निबोध मे ।
देहाध्वानं प्रवक्ष्यामि तन्मे निगदतः शृणु
अङ्गुष्ठाग्रे स्थितो देवस्त्वनन्तः परमेश्वरः ।
चतुर्वक्त्रो महातेजा आदित्योदय सन्निभः
योगिनं वासमासीनं विद्याविद्येश्वरैर्वृतम् ।
अनन्तं भुवनेशानमधस्तात्परिकल्पयेत्
ओं अनन्ताऽऽगच्छागच्छ आहुतिं प्रतिगृहाण शिवो ददाति ते स्वाहा । ओं
सद्योजातायेति आहुतिं जुहुयात् ।
प्. ३८५)
एवमादिक्रमेणैव हुनेदेकादशात्मिकम् ।
अधिकारे यथा भोगे लये वाऽनुक्रमेण तु
पूर्णाहुतिं ततो दत्वा उद्धरेत यथाक्रमम् ।
एवं कालाग्निरुद्राय नरकेषु तथैव च
ओं कालाग्निरुद्र आगच्छ आहुतिं प्रतिगृहाण शिवोददाति ते स्वाहा ।
ओं अवीचये नमः । ओं रौरवाय नमः । ओं महारौरवाय नमः । ओं
तामिस्त्राय नमः । ओमन्धतामिस्रे नमः । ओं शीत नमः । ओं उष्ण नमः । ओं
सञ्जीव नमः । ओं सुजीवनाय नमः । ओं पद्माय नमः । ओं महापद्माय
नमः ।
प्. ३८६)
ओं कापं सूत्राय नमः । ओं सूचीमुखाय नमः । ओं क्षुरधाराय नमः ।
ओं पर्वताय नमः । ओं सितालवनाय नमः । ओं रौद्राय नमः । ओं
कुंभीपाकाय नमः । ओं अंबरीषाय नमः । ओमङ्गारराशये नमः । ओं
भुवननमः । ओं तीक्ष्णतुण्डाय नमः । ओं वज्रतुण्डाय नमः । ओं
शकुनये नमः । ओं मीनोदराय नमः । ओं खरोदराय नमः । ओं
सन्दंशाय नमः । ओं काकतुण्डाय नमः । ओं वानराननाय नमः । ओं
उग्रीवाय नमः । तेजोष्टकम् । ओं लोकाक्षाध्यक्षाय नमः । ओं गणाध्यक्ष
नमः । ओं त्रिदश नमः । ओं त्रिपुरान्तक नमः । ओं सर्व रूप नमः । ओं
शान्त नमः । ओन्निमेष नमः । ओमुन्मेष नमः ।
प्. ३८७)
तेजोष्टकन्तु होतव्यं देशिकैस्सुसमाहितैः ।
अत ऊर्ध्वं समाख्यातं योगाष्टममनुत्तमम्
ओं कृत नमः ।
एवमादिक्रमेणैव हुनेद्योगाष्टकं पुनः ।
एतेषामुपरिष्ठात्तु सुशिवा द्वादशस्मृताः
ओं वाम नमः । ओं भीम नमः । ओं उग्र नमः । ओं भव नमः । ओं शर्व
नमः । ओं विद्याधिप नमः । ओमेकवीर नमः । ओं प्रचण्ड नमः । ओमीश्वर
नमः । ओजसे नमः । ओमनन्त नमः । ओमेकशिव नमः । सुशिवाह्येते
प्रकीर्तिताः । शोधनीयाश्शिवाध्वरे ।
प्. ३८८)
अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ।
ओं मण्डलाधिप नमः ।
अत ऊर्ध्वं महादेवो वामदेवभवोद्भवौ
ओं वामदेव नमः । ओं भवोद्भव नमः । ओमेकपिङ्गेक्षण नमः ।
ओमीशान नमः । ओमङ्गुष्ठमात्र नमः । एते महादेवाष्टकास्मृताः । अत
उपरिष्टाद्गुरुपङ्क्तिद्वयम् । ओं शिवाऽनन्त नमः । अनन्त नमः । ओं प्रभु
नमः । ओं वामन नमः । ओं चण्ड नमः । ओं प्रताप नमः । ओं व्रतार्ति
नमः । ओं शिव नमः । ओं कपालि नमः । ओं भीम नमः । ओङ्कारालि नमः ।
ओं पिङ्गल नमः । ओं महेन्द्र नमः ।
प्. ३८९)
ओं दिनकृन्नमः । ओं प्रतोद नमः । ओं दक्ष नमः । ओं क्षेमीश नमः ।
ओं कबलेश नमः । ओं कटङ्कट नमः । ओं बुहन्तान नमः । ओमनादर
नमः । ओं श्वेत नमः । ओं यजुर्वेद नमः । ओं सामवेद नमः । ओं
ऋग्वेद नमः । ओमथर्ववेद नमः ओमाचार्य नमः । ओं शिव नमः । ओं
विरूपाक्ष नमः । ओं नारायणाय नमः । ओं विबुचण्डोदर नमः । ओं
संवर्त नमः । ओं यममाली नमः । ओं गहनेश नमः । ओं पीड नमः ।
प्रथिमा पङ्क्तिरिष्यते । ओं श्वेत नमः । ओं दारु नमः । ओं लोकाक्षि नमः ।
प्. ३९०)
ओं सूत्र नमः । ओं सुहोत्र नमः । ओमेकपाद नमः । ओं ग्रन्थेश्वर नमः ।
ओं गौतम नमः । ओं जैमिनि नमः । ओं दधिवाह नमः । ओमृषभ नमः ।
ओं गोकर्ण नमः । ओं गुहेश्वर नमः । ओं गुहवासि नमः । ओं शिखण्डि
नमः । ओं झटिमालि नमः । ओमुग्र नमः । ओं शिखि नमः । ओं शूली नमः ।
ओं सुगति नमः । ओं सुपाल नमः । ओमट्टहास नमः । ओं दारुक नमः । ओं
षाढी नमः । ओं त्रिदण्डीनमः । ओं भाव नमः । ओं भाव्य नमः । ओं
लकुलीश नमः । द्वितीया पङ्क्तिरिष्यते । ओं देवावरणे नमः । ओं दीर्घबाहू
नमः । ओमृभु नमः ।
प्. ३९१)
ओमृति नमः । ओं भृति नमः । ओं स्थाणु नमः । ओं सद्योजाताय नमः ।
ओं भुवन्नमः । ओं चण्डि नमः । ओं षण्मुख नमः । ओञ्चतुरानन नमः ।
ओञ्चक्रपाणि नमः । ओं कूर्माक्ष नमः । ओमर्धनारीश्वर नमः । ओं मेष
संवर्तक नमः । ओं भस्मेश नमः । ओं कामनाशन नमः । ओं कपालीश
नमः । ओं भूर्भुवन्नमः । ओं वषट्कार नमः ।
तृतीया पङ्क्तिराख्याता शोधनीया शिवाध्वरे ।
अथोर्ध्वं तत्वसर्गे तु बोद्धव्यं देशिकेन तु
पृथिव्यादि समारभ्य प्रधानान्तन्तु यावतः ।
अस्मिन् मध्ये तु ये तत्वाः शोधनीया विपश्चितैः
प्. ३९२)
एवं प्रकृतितत्त्वन्तु व्याख्यातं तव शोभने ।
तस्याधस्तात्स्मृतास्सर्वे शोधनीयाः शिवाध्वरे
यवयवाचान्तरेणैव परिवार्य व्यवस्थितः ।
प्रकृतेरूपरिष्ठात्तु भावसर्गं विजानतः
अणिमां तारमंभानां शोधनीयं विपश्चितैः ॥ ४३ १।२ ॥
ओं अंभन्नमः । ओं सलिलन्नमः । ओं ओघ नमः । ओं वृष्टि नमः । ओंतार
नमः । ओं सुपार नमः । ओं सुनेत्र नमः । ओं सुमारि नमः । ओमुत्तमाभा
नमः । इष्टयश्शोध्याः । ओं तारा नमः । ओं सुतारा नमः । ओं तारायत
नमः ।
प्. ३९३)
ओं प्रमोद नमः । ओं प्रमुदित नमः । ओं मोदमान नमः । ओं रद्यक
नमः । ओं सदा प्रमुदित नमः । ओं सिद्धि नमः । ओं तार नमः । ओं सुवार
नमः । ओं सुनेत्र नमः । ओं सुमानि नमः । ओमुत्तमाभा नमः ।
तुष्टयश्शोध्याः । ओं तारा नमः । ओं सुतारा नमः । ओं सुपार नमः । ओं
सुनेत्र नमः । ओं सुमारि नमः । ओमुत्तमाभा नमः ।
तुष्टयश्शोध्याः देशिकैस्सुसमाहितैः
ओं अणिमा नमः । ओं लघिमा नमः । ओं प्राप्ति नमः । ओं प्राकाम्य नमः ।
ओं वशित्वाय नमः । ओमीशित्वाय नमः ।
प्. ३९४)
ओं सर्वकामावसायित्वाय नमः ।
अणिमादय ऐश्वर्याश्शोधनीया मुमुक्षुभिः ।
अत ऊर्ध्वं स्थितं देवि नाडी विद्याष्टकं स्मृतम्
ओमिडा नमः । ओं चण्डी नमः । ओं गौरी नमः । ओं शान्तिक नमः । ओं माला
नमः । ओं मली नमः । ओं स्वाहा नमः । ओं स्वधा नमः ।
रागाद्या विद्येशान्ताश्शोधनीयास्सदा बुधैः ।
अत ऊर्ध्वं विग्रहाष्टकं निग्रहानुग्रहे स्थितम्
ओं कार्य नमः । ओं कारण नमः । ओं सुख नमः । ओं दुःख नमः । ओं
ज्ञान नमः । ओं साध्य नमः । ओं कारण नमः ।
प्. ३९५)
इति निग्रहानुग्रहे स्थिताः । पुरुषतत्त्वं शोध्यम् ।
अतः परं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
प्राकृते चैव तत्त्वे तु यस्मिन् संस्कार इष्यते
तदहं संप्रवक्ष्यामि तन्मे निगदतः शृणु ।
भूलोकस्तु यदा प्राप्तः तिर्यग्योनिं विशोधयेत्
स्थावरं प्रथमं शोध्यं ततः शोध्यं सरीसृपम् ।
पक्षियोनिः ततश्शोध्या मृगाश्च तदनन्तरम्
पशुश्च शोध्यो देवेशि अनुपूर्वं यथाक्रमम् ।
गवाद्याः पशवः प्रोक्ताः सिंहाद्याश्च मृगा स्मृताः
भासाद्याः पक्षिणः प्रोक्ताः सर्पाद्यास्तु सरीसृपाः ।
प्. ३९६)
सप्तच्छदाद्या देवेशि स्थावरा परिकीर्तिताः
एतान् शोध्यविधानेन मानुषं समुपक्रमेत् ।
अन्त्यजाः प्रथमं शोध्याश्शूद्रयोनिस्ततः पुनः
वेश्ययोनिं ततो नीत्वा क्षुद्रयोनिं पुनर्नयेत् ।
क्षुद्राद्ब्राह्मेषु संयोज्य अधिकारं यथाक्रमम्
अन्त्यजे अधिकारन्तु बन्धरोधनमारणम् ।
हिंसकादि विधानानि अधिकारं त्यजेत्सदा
शूद्रत्वे शैवशुश्रूषां स वशित्वञ्च शोभने ।
अधिकारः सदा देवि शूद्रत्वे परिकीर्तितः
वाणिज्यं कृषिधर्मञ्च वैश्यस्य परिकीर्तितम् ।
प्. ३९७)
क्षत्रक्रियांशस्तत्रैव संस्थितं वरवर्णिनी
युद्धद्यूतञ्च व्यायामं विग्रहं फलमेव च ।
क्षत्रियाणामधिकारः कथितन्तु यथाक्रमम्
गर्भाधानादितः कृत्वा अन्त्येष्टिञ्चाप्यपश्चिमम् ।
अधिकारन्तु विप्रस्य तव देवि उदाहृतम्
आदौ संस्काराद्देवेशि चत्वारिंशत्तथैव च ।
अष्टाधिकञ्च विज्ञेयं संशोध्या देशिकेन तु
ब्रह्मचारी द्विजो भूत्वा कर्तव्यन्तु यथाक्रमम् ।
पत्नीसंयोजनं कृत्वा यजेद्यज्ञान् स दक्षिणान्
एवं संशोध्यमानन्तु पञ्चाशत्तन्नियोजयेत् ।
प्. ३९८)
सूत्रेण गदितं पूर्वं तत्सर्वं तूर्णकारयेत्
अविकल्पेन देवेशि देशिकेन्द्रेण धीमतः ।
पुरुषस्योपरिष्ठात्तु नित्या शोध्या तु देशिकैः
द्विप्रकारासना शोध्या देशिकेन महात्मना ।
सुखपाशं दुःखपाशञ्च द्वयं शोध्यं समासतः
रागं चरञ्च कान्तिश्च कालेन सह संयुतम् ।
विमलं संप्रवक्ष्यामि ज्ञानमार्गमतः परम्
ओं वामदेव नमः । ओं भुव नमः । ओं शर्व नमः ।
ओं भवोद्भव नमः । ओं वज्रदेह नमः । ओं प्रभु नमः ।
प्. ३९९)
ओं धाता नमः । ओं क्रमश नमः । ओं सुगेश नमः । विक्रमेश नमः ।
दशेते शङ्कराः प्रोक्ताः नीयत्या च सदा स्थिताः ।
दीक्षाकाले तु सर्वेते शोधनीया विपश्चितैः
तत ऊर्ध्वं शिवादाय कालतत्वे व्यवस्थितः ।
काले तत्रैव विज्ञेया स्ते तु शोध्या विपश्चितैः
ओं शुद्ध नमः । ओं प्रबुद्ध नमः । ओं सुप्रबुद्ध नमः । ओं प्रशान्त
नमः । ओं परौक्षर नमः । ओं व्यय नमः । ओं शिव नमः । ओं ध्रुव
नमः । ओं क्षर नमः ।
प्. ४००)
दशैते तु समाख्याताः शोधनीया विदुर्बुधैः ।
अत ऊर्ध्वं हरिहरादयो रागतत्त्वे शोधनीयाः
अत ऊर्ध्वं भवेच्छिष्याः कल्याणाद्या महातपाः ।
ओं कल्याण नमः । ओं पिङ्गल नमः । ओं भुव नमः । ओं वीर नमः । ओं
प्रवर नमः । ओं मेधा नमः । अमस्तिते नमः । ओं छेदक नमः । *
* क नमः । ओं शास्त्रकार नमः ।
दशैते गुरवो ज्ञेयाः विद्यातत्वे तु शोधयेत्
कालरौद्रप्रवक्ष्यामि ये तु रुद्रा व्यवस्थिताः ।
वामो ज्येष्ठश्च रुद्रश्च तत्रैव परिकीर्तिताः
प्. ४०१)
ओं वाम नमः । ओं ज्येष्ठ नमः । ओं रुद्र नमः । एवं महादेव
मन्त्रत्रयम् ।
गोपतिश्च तथोर्ध्वन्तु ग्रन्थिं हृदयसंस्थितः ।
असंख्यरुद्रकोटीभिः गोपतिः परिवारितः
ओं गोपति नमः । अत ऊर्ध्वं संस्थितं विश्वम् ।
ओं त्रिकल नमः । ओं क्षेमेश नमः । ओं ब्रह्मण नमः । ओं अधिपते नमः ।
ओं शिव नमः ।
पञ्चैते तु समाख्याताश्शोधनीयाश्शिवाध्वरे ।
अत ऊर्ध्वमनन्तेश पाशाञ्चैव तु संस्थिताः
प्. ४०२)
पूर्वोक्ताश्चैव ये पापा उदमाहाद्यनुक्रमात् ।
ओं मद नमः । ओं मोह नमः । ओं शोष नमः । ओं वैचित्य नमः ।
एवमादिक्रमेणैव शोधनीयाश्शिवाध्वरे
अत उपरि ऋषिकुलम् । ओं ऋषिकुलन्नमः । अतो वागीश्वरी देवी । ओं वागीश्वरी
नमः । अत ओङ्कारः अतस्साध्योङ्कार ओं साध्योङ्कार नमः । अतो धातारः
ओं धातार नमः । ओं मनेश नमः । ओं ध्यानाहार नमः । ओं
भस्मेशाय नमः ।
प्. ४०३)
एते मायोदरे शोधनीयास्सर्वेप्येते विदुर्बुधाः । अत ऊर्ध्वं प्रमाणानि । ओं
पञ्चार्थ नमः । ओं शिवगुह्य नमः । ओं रुद्राङ्कुश नमः । ओं हृदय
नमः । ओं लक्षण नमः । ओं व्यूह नमः । ओंमादशि नमः ।
प्रमाणाष्टकं संशोध्यं देशिकेन महात्मना
तेषां वै उपरिष्ठात्तु हुनेन्मायान्तु देशिकः ।
अतोपरि भवेद्विद्या सर्वविद्याभवारिणी
अष्टधा भेदभिन्नां तु स्वभावात्परिकीर्तिता ।
नव भेदविहीनस्तु पुनरेव स उच्यते
प्. ४०४)
ओं वामे नमः । ओं ज्येष्ठे नमः । ओं रौद्री नमः । ओं काली नमः । ओं
कलविकरणी नमः । ओं बलविकरणी नमः । ओं बलप्रमथिनी । ओं
सर्वभूतदमनी नमः । विद्यातत्वे शोधनीयाः ।
अतोपरि स्थितं देवि ईश्वरं योगमीश्वरम् ।
अनन्तेशादयो वाऽपि यष्टव्यास्तु समाहितैः
ओं अनन्त नमः । ओं सूक्ष्म नमः । ओं शिवोत्तम नमः । ओं एकनेत्र नमः ।
ओं एकरुद्र नमः । ओं त्रिमूर्ति नमः । ओं श्री कण्ठ नमः । ओं शिखण्डी
नमः । ईश्वरतत्वे शोधनीयाः । अत ऊर्ध्वं रूपचतुष्टयम् ।
प्. ४०५)
ओं धर्म नमः । ओं ज्ञान नमः । ओं वैराग्य नमः । ओं ऐश्वर्य नमः ।
रूपचतुष्टयम् । ओं वामे नमः । ओं ज्येष्ठे नमः । ओं रौद्री नमः ।
शक्तित्रयम् । अत उपरिष्टात् शक्तिद्वयम् । ओं ज्ञानशक्तिर्नमः । ओं
क्रियाशक्तिर्नमः । अत उपरिष्ठात्-
तेजीशश्च ध्रुवेशश्च प्रमाणत्वे प्रकीर्तिताः ।
ओं तेजीश नमः । ओं ध्रुवेश नमः ।
प्राणाध्वनि निष्ठानां दीक्षाज्ञानसमन्वितम्
निर्वाणं परमं स्थानं कथितं तव सुव्रते ॥ ७७ १।२ ॥
प्. ४०६)
उपरिष्ठात् प्रणवम् । ओं प्रणव नमः । अत उपरिष्टात्
ब्रह्मविष्णुरुद्रभुवनत्रयम् । ओं ब्रह्म नमः । ओं विष्णु नमः । ओं रुद्र
नमः । ओं प्रतोदन नमः । ओं मनव नमः । अतः परमतिक्रम्य एकाक्षरम् ।
ओमेकाक्षर नमः । ओं पिङ्ग नमः । ओं हंस नमः । सौम्यरुद्रत्रयम् । अत
उपरिष्टाद्ध्रुवः । अत उपरिष्टात् रुद्रैकादश संस्थानम् । ओं ब्रह्म नमः ।
ओमर्क नमः । ओं दण्डि नमः । ओं मुण्डि नमः । ओं सौरभेय नमः । ओं
मृत्युहर नमः । ओं प्रणीत नमः ।
प्. ४०७)
ओं सुख नमः । ओं विजृंभित नमः । एकादश रुद्राश्शोधनीयाः ।
दीक्षाकाले तु ज्ञातव्या गलके संप्रतिष्ठिताः
तृतीयन्तु ध्रुवं वक्ष्ये । ओं ध्रुव नमः ।
सप्तकोटि सहस्राणि परिवारे ध्रुवस्य तु ।
अतो निरञ्जनो देवः तस्य संख्या न विद्यते
ओं निरञ्जन नमः । अत ऊर्ध्वं शक्तिः संशोध्या । ओं शक्ति नमः । अत
उपरिष्टात् अष्टौ ते भुवनेश्वराः । ओं प्रीति नमः । ओं प्रमादित नमः । ओं
प्रलंब नमः
प्. ४०८)
ओं विष्णो नमः । ओं गहन नमः । ओं वितत नमः । अष्टौ ते भुवनेशाः । अत
उपरिष्टाद्भवस्समयः । यः क्षुद्रो विमलं शिवपञ्च कर्म । ओं प्रभव
नमः । ओं रौद्र नमः । ओं विमल नमः । ओं शिव नमः । परतोऽन्य उद्घनो
नाम दुर्भेद्यस्सर्वयोगिनाम् । अघन नमः ।
तस्योपरिष्ठाद्रुद्रोंकारः प्रकीर्तितः
पुरतस्तालुतो देवो रुद्रोङ्कारः प्रकीर्तितः ।
एवमीश्वर एव तत्वम् । ओं रुद्रोङ्कार नमः ।
प्. ४०९)
सदाशिवोष्टभेदेन भ्रुवोर्मध्ये व्यवस्थितः
आसनं लक्षपत्राढ्यं पूर्णचन्द्रमिवोदितम् ।
तस्यासने स्थिता नित्यं चतस्रो योगशक्तयः
ओं निवृत्ति नमः । ओं प्रतिष्ठा नमः । ओं विद्या नमः । ओं शान्ति नमः ।
अतोपरि भवेन्नादं किञ्जाल्कसमतेजसम् ।
पुरुषाख्यः सविज्ञेयः सर्वं व्याप्य व्यवस्थितः
महत्पुरुषैव्याप्तं सूर्यकोटिसमप्रभैः ।
अण्डेऽस्मिन् कुरुते राज्यं शिवशक्त्या प्रचोदितः
अतः सुषुम्ना विज्ञेयाः सार्वाध्वानसमाप्तये ।
प्. ४१०)
नादब्रह्मबिले लीना पद्मसूत्रनिभा स्थिता
ध्यातव्या योगिभिर्नित्यं तुषारकरणन्धुरः ।
अतोपरि महादेवि तेजश्शब्दमयं महत्
अमृतस्येन्दुनिष्यन्द तेजोमृतवरो निधिः ।
स्वशक्तिकिरणोद्योत ज्योतयन्तं समासतः
तस्य तेजोमहौघस्य सर्वे दीप्यन्ति शोभने ।
सा शक्तिः देवदेवस्य ध्यातव्या देशिकेन तु
अन्तोपरि निरालंबं सर्वाध्वानविवर्जितम् ।
प्रक्रियान्तं महाज्ञानमनौपम्यमनामयम्
एवं संशोध्यमध्वानं योजयेत्परमे पदे ।
प्. ४११)
विद्यातत्त्वास्पदं कृत्वा योजयेत्परमे पदे
स्वदेहे प्रक्रियां ध्यात्वा पशुदेहे विशेषतः ।
यवं यवान्तरैकैकं संस्थिता भुवनानि तु
प्रकृतिः पूर्वमाख्याता नाभ्यधस्तात्प्रतिष्ठिता ।
पुरुषं हृदि मध्यस्थं नियतिं पदबाह्यतः
कालकण्ठमधस्तात्तु कलाविद्याक्रमेण तु ।
ज्ञातव्या देशिकेन्द्रेण दीक्षाकाले समाहितः
तस्योपरि स्थिता माया ग्रन्थिस्थाने व्यवस्थिता ।
विद्याकण्ठप्रदेशे तु ज्ञातव्या देशिकेन तु
ईश्वरं तालुमध्ये तु कथितं तव शोभने ।
प्. ४१२)
सदाशिवस्तु मूर्धान्ते व्याख्या तत्वं पराजिते
शान्त्यतीतेन देवेशि दद्यात्पूर्णाहुतिं क्रमात् ।
नवात्मकेन दातव्यं अथवा प्रणवेन तु
परमाक्षरेण दातव्यं पूर्णाहुतिः शिवस्य तु ।
सर्वाध्वनस्समाप्तौ तु शिखाच्छेदन्तु कारयेत्
शिखामन्त्रेण देवेशि कर्तरीमभिमन्त्रयेत् ।
तदेव मुद्रया गृह्य छेदयेच्च विचक्षणे
अङ्गुल्या वा च चत्वारच्छेदनीया तु सुवृते ।
घृतेन संभृतां कृत्वा होमयेत विचक्षणः
तां हुत्वा देशिकेन्द्रस्तु भस्मस्नानन्तु कारयेत् ।
प्. ४१३)
उपस्पृश्याथ आचार्यः शुचीकृत्वा स्वकां तनुम्
कृत्वा सर्वमशेषन्तु पूर्णाहुत्या तु पातयेत् ।
स्वनन्तं पशुतत्वेन एकीकृत्य विचक्षणः
योजयीत ततो मन्त्री पूर्वदृष्टेन कर्मणा ।
कलाध्वानं यथा ख्यातं प्रयोगं तादृशं कुरु
युक्ते तु लक्षणं देवि मया पूर्वमुदाहृतम् ।
शिवधर्मे तु ये धर्माः भवन्ते साधकस्य तु
देव्युवाच
मूर्त्तिस्त्रिविधमाख्याता त्वया देव पुरा मम ।
गृहणं केन वा तस्य एतदिच्छामि वेदितुम्
प्. ४१४)
ईश्वरः
आत्मपञ्चदश प्रोक्तो हंसाख्यं तेन भेदयेत् ।
गृहणमायतेनैव बिन्दुना सहितेन तु
शिखया ताडयित्वा तु ग्राह्यसंहारमुद्रया ।
अधोमुखकरेणैव एकैकेन तु सुवृते
गृह्णीयान्मन्त्रयुक्तेन शिवहस्तेन देशिकः ।
उत्तानेन तु देवेशि वामया तु नियोजयेत्
एतत्ते कथितं देवि पशुग्रहणमोक्षणम् ।
कर्तव्यं देशिकेन्द्रेण विधिदृष्टेन कर्मणा
देव्युवाच
प्. ४१५)
अष्टत्रिंशत्कलैर्योगं यागञ्चैव महेश्वर ।
कथं तेषु स्थिता दीक्षा कथं योज्यस्तु देशिकैः
केन वा ग्रहणं तस्य एतदिच्छामि वेदितुम् ।
ईश्वरः
कलायागं प्रवक्ष्यामि शृणुष्वावहिता प्रिये
न मया कस्यचित् ख्यातं तत्ते वक्ष्यामि सुवृते ।
कलानाञ्चैव देवेशि यं यं योगं वदाम्यहम्
कलया च तथा योगं कथयामि वरानने ।
कलापञ्च महेशस्य चत्वारो वदनस्य तु
पञ्चवक्त्रं समुद्दिष्टं सकलेन तु सुवृते ।
प्. ४१६)
गर्भावरणमेतत्तु कथितं तव सुवृते
मध्यपूर्वादियोगेन यावदुत्तरतः क्रमात् ।
आग्नेयवायुनैर्-ऋत्या चतुर्धा पुरुषं न्यसेत्
चतुर्दिक्षु च विन्यस्य पूर्वा दिवि दिशासु च ।
अघोरस्य कलाह्यष्टौ तान्तु विद्येश विन्यसेत्
वामदेवकला या तु शृणु तस्या वदाम्यहम् ।
पूर्वादारभ्य कर्तव्यं कलानाञ्च निवेशनम्
द्वे पूर्वे दक्षिणे द्वे तु पश्चिमेन तथैव च ।
उत्तरेण तु देवेशि पुनरेकां कलां न्यसेत्
चतुर्दिक्षु उन्मनी याम प्रोक्तानां प्रवरा कला ।
प्. ४१७)
शिवस्य परमा ह्येषा देहे तु परिकल्पयेत्
सद्योजातकलाह्यष्टौ चतुर्धा कारणे न्यसेत् ।
अष्टौ दिशासु प्रणवे तु देवेशि विन्यसेन्नवशक्तयः
धर्मज्ञानञ्च वैराग्यं विन्यसेत्तु यथाक्रमम् ।
अनन्तपद्मं तेनैव कल्पयेद्वरवर्णिनी
तेनैव मूर्तिसंयोगं कर्तव्यं देशिकेन तु ।
ब्रह्मोङ्कारेण कर्तव्यं आत्मतत्त्वन्तु बुद्धिमान्
उन्मनीहासनं तस्य कल्पयेद्वरवर्णिनी ।
निद्रागारन्तु देवेशि विद्या तत्वे तु विन्यसेत्
ईशानस्य कलाह्येते चतुर्धा तु वरानने ।
प्. ४१८)
आसनं तस्य कर्तव्यं रुद्रोङ्कारः सदेशिकैः
निधनोङ्कारन्तु यत्प्रोक्तं शिवतत्त्वं तेन कारयेत् ।
पञ्चमी च कला या तु ईशानस्य महेश्वरी
पञ्चमूर्धानमीशानञ्चत्वारो वदनस्य तु ।
पञ्चवक्त्रम्
आसनं कारयेत्तेन निधनस्य न संशयः
मूर्तिन्यासं कृता देवि कलैः सर्वैः पुनः क्रमात् ।
सकलीकृत्य चात्मानं वाहयेत्परमाक्षरम्
एवन्तु निष्कलो देवि भवते नात्र संशयः ।
पञ्चधा प्रणवं तस्य कल्पयीत यथाक्रमम्
प्. ४१९)
हृदि मूर्ध्नि शिखायान्तु कवचास्त्रक्रमेण तु ।
सद्यवामकलायन्तं न्यसेत् सर्वत्र देशिकः
प्रणवेन तु कर्तव्यमात्मतत्वे तु ये स्थिताः ।
गन्धपुष्पं तथा दीपं बलो बलि निवेदनम्
रुद्रोङ्कारेण विद्याख्ये रूपवर्णकलानां शिव ? ।
* * * * ताः कला निधनेन शिवान्तिकम्
एवं यष्ट्वा तु विधिना ततो दीक्षान्तु कारयेत् ।
सद्योजातकलात्वेन वागीश्वर्यां प्रकल्पयेत्
तेनैव योजयेत्तत्र हुनेत्तेनैव तानि च ।
अध्वानं भुवनाख्यञ्च आहुतीं तावतीं हुनेत्
प्. ४२०)
ग्रहणे ताडने चैव उत्क्षेपे च नियोजयेत् ।
विशेषकरणे चैव प्रतियोज्य कले कले
अन्ते पूर्णाहुतिं दद्यात् एष एव विधि स्मृतः ।
नवात्मकेन देवेशे शान्त्यतीतेन वाऽथवा
परमाक्षरेण दातव्याः पूर्णाहुत्यः क्रमेण तु ।
पूर्वं कला स्थाप्य ततो वागीश्वरीं न्यसेत्
* शेषं भुवनविकलेस्तत्वानि संशोध्याः ।
कलैरेकैरथापि वा
कलाध्वानं यथा शोध्यं देशिकैः सुसमाहितैः
आसनं या कला प्रोक्ता न योज्याह्यासनेन ताः ।
प्. ४२१)
प्रणवैकस्मृतस्तत्र त्रयाणां वरवर्णिनी
कलैस्तत्त्वा यदा शोध्या पृथिव्यादिरनुक्रमात् ।
तस्य वक्ष्याम्यहं देवि तदेकाग्रमनाः शृणु
तत्वे तत्वे शतं जुहुयात् पृथिव्यादिरनुक्रमात् ।
प्रकृत्यन्ते तु देवेशि हुनेत्तत्र शतं शतम्
सन्यस्य कथितं ह्येतत् कला या परिकीर्तिताः ।
एकैककलया देवि तत्त्वेकैकन्तु होमयेत्
विशेषं किञ्च वक्ष्यामि वामदेवस्य तां शृणु ।
पुरुषमादितः कृत्वा गृध्यन्ते तु समासतः
तत्वे तत्वे तु होतव्यं कला वामद्वयं द्वयम् ।
प्. ४२२)
कलैकेन तु देवेशि जुहुयादाहुतीश्शतम्
एषा देवि समाख्याता कला वामस्य शोभने ।
मायाऽविद्या च होतव्या अघोरस्य कलैर्बुधः
एकैकेन तु होतव्यमाहुत्या पञ्चविंशकम् ।
ईश्वरन्नैव देवेशे तथा तत्वं सदाशिवम्
पुरुषस्य कलेनैव होतव्यं सुसमाहितैः ।
आहुतीनाञ्च पञ्चाशन्मेकैकेन तु होमयेत्
विंशविंशतिहोमेन ईशानस्य कलेन तु ।
शिवतत्वन्तु होतव्यं देशिकेन महात्मना
सांप्रतं शते शते पूर्णाहुति * * * * * ।
प्. ४२३)
द्विकलेन तु देवेशि वामे पूर्णाहुति स्मृता
पुनरेव कलैकेन वामे पूर्णाहुति स्मृता ।
चतुष्कलेह्यघोरस्य पूर्णाहुत्यश्शिवस्य तु
दातव्या देशिकेन्द्रेण पुरुषस्य तथैव च ।
ईशानकलापञ्चेन हुनेत वरवर्णिनी
पूर्णाहुत्या तु दातव्या देशिकेन महात्मना ।
योजने करणं यच्च मया पूर्वमुदाहृतम्
तत्त्वया विदितं देवि विभूयः किं कथयामि ते ।
एतद्देवि समाख्यातं कलाध्वानमशेषतः
द्विप्रकारेण देवेशि ज्ञातव्यं देशिकेन तु ।
प्. ४२४)
भुवनाध्वा कलाध्वा च कथितस्तु समासतः
कथितं देवदेवेशि ज्ञातव्यं देशिकेन तु ।
एवं दीक्षासमाप्तौ तु आचार्यः सुसमाहितः
विसर्जयित्वा देवेशि तत्र चण्डेश्वरं यजेत् ।
अपरेऽहनि देवेशि यजेच्चण्डेश्वरं प्रभुम्
पञ्चाङ्गेन समायुक्तमर्धचन्द्रपुरोत्तमे ।
मन्त्राः पूर्वं मया ख्याताः आदिसूत्रे वरानने
एकेनावरणेनैव पूजयित्वा विचक्षणः ।
मण्डले तर्पणं कृत्वा हुनेदष्टशतं क्रमात्
एवं हुनेत्ततो देवि चण्डेशाय महे * * ।
प्. ४२५)
१४५ पुटे पूर्वोक्तविषयादन्यन्नास्ति श्लोकप्रक्षेपः दृश्यते ।
* * * * * * * * * * *
प्रयोजयेत्
द्वितीयावरणे चैव विद्याङ्गैश्च यजेत्पुनः ।
* * * * * सर्वगर्भमुक्त्वा वरानने
सर्वावरणा बाह्या विज्ञेयास्तु वरानने ।
एतत्ते पदचक्रन्तु तव देवि उदाहृतम्
प्रथमं शिवगर्भन्तु द्वितीयं चक्रवर्तिनाम् ।
तृतीये तु महादेवि वायव्या वरणान्यसेत्
चतुर्थन्तु गणेशानामाग्नेययां तदनन्तरम् ।
प्. ४२६)
षष्ठन्तु लोकपालानां माहेन्द्रं सप्तमं स्मृतम्
दशमो नव तत्त्वास्तु विन्यसेत् यथाक्रमम् ।
विद्याङ्गरेखतो दद्यात् बाह्यतः परमेश्वरि
पूर्वादिक्रमयोगेन विन्यसेत यथाक्रमम् ।
अष्टैकैकपदा ये तु ते तु स्तोत्रमुदाहृतम्
गर्भादारभ्य होतव्याः सर्वे तु क्रमशः प्रिये ।
आसनादिविधिं कृत्वा तदारम्भ्य वा पुनः
बाह्याः प्रतिषु दिक्ष्वष्ट स्वष्टौ योन्या पदो प्रिये ।
शतं शतञ्च होतव्यं शुध्यते नात्र संशयः
पूर्णाहुत्या तु दातव्या शिवेन वरवर्णिनी ।
प्. ४२७)
एकाशीति पदञ्चैव पूर्वमेव उदाहृतम्
भद्रकं यजनं वक्ष्ये शृणु देवि यथाक्रमम् ।
पूर्वोक्ते भूप्रदेशे तु तुषकेशास्थिवर्जिते
सुसमे भूप्रदेशे तु निम्नोन्नतविवर्जिते ।
प्रागुदक्प्लवने देशे सूत्रयेद्भुवनं शुभम्
चतुर्विंशति हस्तानि क्षेत्रमानं प्रकीर्तितम् ।
सूत्रयित्वा यथान्यायं नवभागेन भाजयेत्
मध्यमं नवभागेन पुनरत्रैव सूत्रयेत् ।
नवभागविभक्तेषु भागार्धन्तु विवर्जयेत्
द्वात्रिंशदङ्गुलं पद्मं विधिद्वात्रिंशदङ्गुला ।
प्. ४२८)
चतुर्विधिसमायुक्तमष्टद्वारोपशोभितम्
द्वारपूर्वं मयाख्यातं तन्मानेनैव कारयेत् ।
यथा मध्यं तथा सर्वे कर्तव्यं देशिकैः सदा
रेखापद्मस्य देवेशे परिधेयच्छदन्तरम् ।
षोडशाङ्गुलमित्याहुः रेखापद्मस्य चा * क्तम्
परिधेश्च न सन्देहः कर्तव्यं देशिकेन तु ।
शिवाङ्गाच्छृणु देवेशि कथयामि निबोध मे
ओं सर्वव्यापिने नमः । ओं व्योमरूपाय नमः । ओमनन्ताय नमः ।
ओमनाथाय नमः । ओमनाश्रिताय नमः ।
प्. ४२९)
शिवाङ्गाः परिकीर्तिताः । ओं ध्रुवाय नमः । ओं शाश्वताय नमः । ओं
योगपीठसंस्थिताय नमः । ओं नित्ययोगिने नमः । ओं ध्यानाहाराय नमः ।
विद्याङ्गा परिकीर्तिताः ।
पदब्रह्मा तु देवेशि अङ्गे पूर्वमूदाहृतम् ।
ज्ञातव्यं देशिकेनैव दीक्षाकाले न संशयः
ओं उन्नमः । ओं व्योमव्यापिने नमः । ओं व्योमरूपाय नमः । ओं
सर्वव्यापिने नमः । ओं शिवाय नमः । ओमनन्ताय नमः । ओमनाथाय नमः
। ओमनाश्रिताय नमः । ओं ध्रुवाय नमः ।
प्. ४३०)
प्रथमं शिवगर्भे तु न्यसेदेतदुदाहृतम् ।
ओं शाश्वताय नमः । ओं योगपीठसंस्थिताय नमः । ओं नित्ययोगिनः । ओं
ध्यानाहाराय नमः । ओं ओन्नमः । ओं शिवाय नमः । ओं सर्वप्रभवे
नमः । ओं शिवाय नमः ।
ओमीशानमूर्धाय नमः । ओं तत्पुरुषवक्त्राय नमः ।
विद्येशावरणं ह्येतत् द्वितीयं परिकीर्तितम्
ओं अघोरहृदयाय नमः । ओं वामदेव गुह्याय नमः । ओं
सद्योजातमूर्तये नमः । ओं ओन्नमो नमः । ओं गुह्यातिगुह्याय नमः । ओं
गोप्त्रे नमः । ओं अनिधननिधनाय नमः ।
प्. ४३१)
ओन्निधनाय नमः ।
तृतीयावरणं देवि देवाद्यानां प्रकीर्तितम् ।
ओं सर्वविद्याधिपाय नमः । ओं ज्योतीरूपाय नमः । ओंपरमेश्वरवराय
नमः । ओं चेतन नमः । ओमचेतन नमः । ओं व्योमिन् व्योमिन् नमः । ओं
व्यापिन् व्यापिन्नमः । ओं रूपिन् रूपिन्नमः । ओं प्रथम प्रथम नमः । ओं
तेजस्तेज नमः ।
चतुर्थे तु गणेशानामावरणं परिकीर्तितम् ॥ १७७ ।
ओं ज्योतिर्ज्योतिन्नमः । ओमरूप नमः । ओमग्नि नमः ।
प्. ४३२)
ओं मधु नमः । ओं भस्म नमः । ओमनादि नमः । ओन्नाना नमः ।
ओन्धुधूधुधू नमः । ओं भूर्नमः । आग्नेयावरणं ह्येतत्
योगाद्यानामुदाहृतम् । ओं भुवर्नमः । ओं स्वर्नमः । ओमनिधन नमः ।
ओन्निधनोद्भव नमः । ओं शिव नमः । ओं सर्व नमः । ओं परमात्मन्नमः
। ओं महेश्वर नमः ।
षष्ठं वै लोकपालानामावृतं परिकीर्तितम् ॥ १७७ १।२ ॥
ओं महादेव नमः । ओं सद्भावेश्वर नमः । ओं महातेज नमः । ओं
योगाधिपते नमः । ओं मुञ्च मुञ्च मुञ्च नमः । ओं प्रथम प्रथम
नमः । ओं शर्व शर्व नमः । ओं भव भव नमः ।
प्. ४३३)
ओं भवोद्भव नमः ।
सप्तमं महेन्द्रावरणं ताराद्यानां प्रकीर्तितम्
ओं सर्वभूतसुखप्रद नमः । ओं सर्व सान्निध्यकर नमः ।
ओंब्रह्मविष्णुरुद्रपर नमः । ओमनर्चितानर्चित नमः । ओं
संस्कृतासंस्कृत नमः । ओं पूर्वस्थित पूर्वस्थित नमः । ओं साक्षि साक्षि
नमः । ओं तुरु तुरु नमः । ओं पतङ्ग पतङ्ग नमः । ओं पिङ्गपिङ्ग
नमः ।
अष्टमं लोकपालास्त्रावरणं समुदाहृतम् ॥ १७८ १।२ ॥
ओं शब्दशब्द नमः । ओं सूक्ष्म सूक्ष्म नमः । ओं शिव नमः
प्. ४३४)
ओं शर्व नमः । ओं सर्व नमः । ओमोन्नमो नमः । ओमों शिवाय नमो नमः
। ओं ओन्नमः ।
नवमावरणं ह्येतत् अंभाद्यानां प्रकीर्तितम्
दशमे नवतत्वानि विन्यसेत यथाक्रमम् ।
ओं ऊन्नमः । ओं यन्नमः । ओं लन्नमः । ओमन्नमः । ओं क्षन्नमः । ओं
रन्नमः । ओं हन्नमः । ओं प्रसन्नमूर्तये नमः । नवमं मध्ये विन्यसेत् ।
विद्याङ्गा रेखतो दद्यादैश्वर्यास्ते प्रकीर्तिताः
ओं सर्वात्मने पराय परमेश्वराय योगाधिपाय योगसंभवाय
प्. ४३५)
करदःकरदसद्यः भवोद्भवाः वामदेव सर्वकार्यप्रशमनमं
सदाशिव प्रसन्न नमो नमः । सर्वात्मदेहहृदयम् ।
ओं सुशिव नमः । ओं सुशिव देवशिरः । ओंशिवहृदय ज्वालिनी नमः । ज्वालिनी
शिखा शिवात्मकं महातेजः सर्वज्ञं प्रभुमव्ययम् ॥
आवर्तयेन्महाघोरं कवचं पिङ्गलं शुभम् ॥ १८० १।२ ॥
आयाहि पिङ्गल महारव च शिवाज्ञया हृदयं बन्ध बन्ध प्रज्वल प्रज्वल
व्याघूर्ण ककृस्तक्ष्मः । वज्रधर वज्रपाश वज्रशक्तिश्चन्द्रा शरीर
मम हृदयमनुप्रविश्य
प्. ४३६)
सर्वदुष्टास्तंभय हुंफण्णमः । पिङ्गलो नाम यः कवचः
ओंकारबन्धं हुंफट् कव हृदयम् । ओं प्रस्फुर प्रस्फुर घोर घोरतर
तनुरूप चट चट प्रचट प्रचट कह कह वं वं घातय घातय हुंफट्
अघोरास्रं । ओं ओं अघोरशिवाय हुंफट् । अघोरास्त्रं हृदयम् । ओं
व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय
ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहाराय ।
ओन्नमश्शिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषवक्त्राय
अघोरहृदयाय वामदेव गुह्याय सद्योजातमूर्तये ओन्नमो नमः ।
प्. ४३७)
गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय सर्वाऽविद्याधिपतये
ज्योतीरूपाय परमेश्वरपराय अचेतनाचेतनव्योमिन् व्यापिन् व्यापिन् अरूपिन्नरूपिन्
प्रथमप्रथमः तेजस्तेजः ज्योतिर्ज्योतिः अरूप अनग्नि अधूम अभस्म अनादि नाना
नाना धू धू धू धू ओं भूः ओंभुवः ओं सुवः । अनिधननिधन
निधनोद्भव शिवसर्वपरमात्मन् महेश्वर महादेव सद्भावेश्वर
महातेज योगाधिपते मुञ्च मुञ्च प्रथम प्रथम शर्व शर्व भव भव
भवोद्भव सर्वभूतसुखप्रद सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर
प्. ४३८)
अनर्चितानर्चित पर असंस्कृता संस्कृत पूर्वस्थित पूर्वस्थित साक्षि साक्षि तुरु
तुरु पतङ्ग पतङ्ग पिङ्ग पिङ्ग ज्ञान ज्ञान शब्द शब्द सूक्ष्म सूक्ष्म
शिव सर्व सर्वद । ओन्नमो नम । ओन्नमः । ओं शिवाय नमो नमः । परं
महानाथ शिवभट्टारकः । ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः
। भवेनाति भवे भजस्व मां भवोद्भवाय नमः । सद्यः वामदेवाय नमो
ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो
मनोन्मनाय नमः ।
प्. ४३९)
ओं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतस्सर्वसर्वेभ्यो नमस्तेऽस्तु
रुद्ररूपेभ्यः । अघोरः ।
ओं तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । तत्पुरुषः
। ओं ईशानस्सर्वभूतामीश्वरस्सर्वभूतानां ब्रह्माधिपतिः
ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मेऽस्तु सदाशिवोम् । ईशानः । ओं तन्महेशाय
विद्महे वाग्विशुद्धाय धीमहि । तन्नश्शिवः प्रचोदयात् ।
शिवात्मकमिदं सर्वं शिवादेव प्रवर्तते
शिवाय शिवगर्भाय शिवस्सर्वः प्रचोदयात् ।
प्. ४४०)
ओं आं ईं ऊं व्योमव्यापिने ओं ओं प्रशान्ताय नमः । ओं प्रणवात्मने
नमः । ओं हुं शिवाय नमः । ओं हुन्नमः । ओं फण्णमः । ओं जुन्नमः ।
वर्णास्थे यजनं प्रोक्तं शिवाय परमात्मने
ओं सद्योजातं प्रपद्यामि नमः । ओं सद्योजाताय वै नमः ।
ओं भवे नमः । ओं अभवे नमः । ओं अनादि भवे नमः ।
ओं भजस्व मान्नमः । ओं भव नमः । ओं उद्भवाय नमः ।
नमः ओं वामदेवाय नमो नमः । ओं ज्येष्ठाय नमो नमः ।
ओं रुद्राय नमो नमः । ओं कालाय नमो नमः । ओं कल नमः ।
प्. ४४१)
ओं विकरणाय नमो नमः । ओं बल नमः । ओं विकरणाय नमो नमः । ओं
बल नमः । ओं प्रमथनाय नमो नमः । ओं सर्वभूतदमनाय नमो नमः ।
ओं मनन नमः । ओं उन्मनाय नमो नमः । ओं अघोरेभ्यो नमः । ओमथ
घोरभ्यो नमः । ओं घोर नमः । ओं घोरतरेभ्यो नमः । ओं सर्वतो नमः ।
ओं शर्वसर्वेभ्यो नमः । ओन्नमस्ते अस्तु रुद्र नमः । ओं रूपेभ्यो नमः । ओं
तत्पुरुषाय विद्महे नमः । ओं महादेवाय धीमहे नमः । ओं तन्नो रुद्र
नमः । ओं प्रचोदयान्नमः । ओं ईशानस्सर्वविद्यानान्नमः । ओं
ईश्वरस्सर्वभूतानान्नमः । ओं ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा नमः ।
ओं शिवोमेऽस्तु नमः । ओं सदाशिवोन्नमः ।
एकैकन्तु पदं योज्य एकैकन्तु पदं हुनेत्
एकैकपदपीठे तु नव तत्वं प्रकल्पयेत् ।
एकैकपदपीठेन दीक्षां निर्वाणगामिनीम्
एकैकपदपत्रस्य हुनेद्देवि शतं शतम् ।
मण्डलतर्पणं कृत्वा हुनेदेकादशात्मकम्
पूर्णाहुत्यः क्रमेणैव दातव्या अनुपूर्वशः ।
एकामतिपदञ्चैव हुत्वा संशोध्य चाध्वरम्
प्. ४४३)
पुनः संक्षेपतो देवि शृणुष्व कथयामि ते ।
आवाहरोधसान्निध्यं पदैकैकन्तु शुध्यति
पीठे पीठे पदा देवि नव एव प्रकल्पयेत् ।
दशभिर्दशभिराहुतीभिः पीठशुद्धिं न संशयः
एवं समाप्यते दीक्षा पदचक्रेण सुवृते ।
सर्वसंहितसामान्यं विधिमेतत्समाचरेत्
एतद्देवि समाख्यातं पदयागमनुत्तमम् ।
सर्वसंहितसामान्यं सर्वतन्त्रेषु कीर्तितम्
विद्याराजाधिराजेशान्यष्ट्वा मोक्षमवाप्नुयात् ।
पुनरन्यं प्रवक्ष्यामि मन्त्रसारं सुगुह्यकम्
प्. ४४४)
येन विज्ञातमात्रेण परां सिद्धिमवाप्नुयात् ।
त्र्यक्षन्दशभुजन्देवं मया पूर्वमुदाहृतम्
तदहं संप्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
पद्मासनोपविष्टन्तु द्योतयन्तं समन्ततः
पञ्चवक्रधरं देवं कर्णिकस्योपरि स्थितम् ।
तत्रस्थं शक्तिमध्यस्थमादित्योदय सन्निभम्
क्वचिदिन्द्रनिभञ्चैव क्वचिन्मरकसन्निभम् ।
क्वचिद्रससुसङ्घातं सूर्यकोटिसमप्रभम्
द्योतयन्तं स्थितं देवं प्राणाङ्गुष्ठसन्निभम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च
प्. ४४५)
मण्डलत्रयम् ।
अमृतमण्डदशभुजो देवो शान्त्य * * ता शिवः ।
आसनं तस्य देवस्य द्योतयन्ति समन्ततः
शिखादीपशिखाकारा तालुं भित्वा विनिर्जिता ।
तस्यान्ते परतो देवि शक्तिस्तु परिकीर्तिता
प्रक्रियान्तं स विज्ञेयं तद्भित्वा योजयेत्परे ।
छित्वात्मस्थं पशुं कृत्वा तदा योज्येत सुवृते
कालं भ्रूक्षेपमात्रन्तु तत्वं ज्ञात्वा तु योजयेत् ।
एष देवि समाख्यात आत्मा तु परमेश्वरि
एवं यः पश्यतात्मानं स मुच्यति न संशयः ।
प्. ४४६)
मोचयेच्च न सन्देहः पद्मं दृष्ट्वा परे शिवे
अदृष्ट्वा तु न सिध्येत न च नेता परं पदम् ।
तस्माद्यत्नपरेनैव द्ध्यातव्यो योगिभिस्सदा
हृत्कर्णिकास्थमात्मानं कृत्वा ध्यातीत योगवित् ।
स्वस्थानावस्थितं देशं सर्वं पश्यन्ति योगिनः
योजनानां शतं देवि पश्यते नात्र संशयः ।
पत्र पत्रे यथान्यासं कथयामि महेश्वरि
पूर्वपत्रञ्च आग्नेयमीशानार्द्धे तथैव च ।
अर्धार्धपत्रयोगेन पूर्वदेशं स पश्यति
ईशानस्यैव चार्धेन वायव्यस्य च सुवृते ।
प्. ४४७)
उत्तरेण च पत्रेण पश्यतेप्युत्तरं पथम्
पश्चिमं पत्रमेकन्तु वायव्यार्धेन शोभने ।
नै-ऋत्यार्धेन योगीन्द्रः पश्चाद्देशन्निरीक्षयेत्
नै-ऋत्यार्धेन देवेशि समस्तं दक्षिणेन तु ।
आग्नेयस्यैव चार्धेन दक्षिणापथ पश्यति
पत्रैरेव तु चत्वारः पार्श्वकेन तु सुवृते ।
द्वितीये तापनीप्रोक्ता प्रतिदेशन्तु तां विदुः
एवं सर्वेषु तत्वेषु ज्ञातव्यं तत्त्ववेदिनाम् ।
आत्मानं सुषिरं कृत्वा देशान् कृत्वा तु मध्यतः
अनन्तरूपमात्मानं कृत्वा पश्यति नान्यथा ।
प्. ४४८)
सरित्समुद्रनदयस्सर्वेऽभ्यन्तरीकृताः
पश्यते नात्र सन्देहो योगी योगेन संस्थितः ।
तत्वरूपं समाख्यातं ते तु या विदिताः पुरा
तां दृष्ट्यामादिशेत्सर्वं भवते नात्र संशयः ।
मेरुं तत्कर्णिकां कृत्वा त्रैलोक्यं पश्यते तदा
कथयेत्सर्ववृत्तान्तं नात्र कार्या विचारणा ।
एतद्देवि मयाख्यातं योगसद्भावमुत्तमम्
पश्यते योगयुक्तस्तु त्रिभिर्मासैः न संशयः ।
षण्मासाद्योगयुक्तस्तु सर्वं पश्यति नान्यथा
संवत्सरेण युक्तात्मा दिव्यादिव्यां स पश्यति ।
प्. ४४९)
देवैश्च समतां याति भुवनानि यथाक्रमम्
एवं ध्यात्वा जपेद्यस्तु साधकस्सुसमाहितः ।
सिध्यते नात्र सन्देहो निर्विघ्नस्साधकेश्वरः
अनेन विधिना युक्तो योगी यः परमेश्वरि ।
स सिद्धिं लभते क्षिप्रं नात्र कार्या विचारणा
विजयं पूर्वपत्रे तु आग्नेययां शतृनाशनम् ।
शान्तिदं दक्षिणे पत्रे नैर्-ऋते चैव मारणम्
श्रियमिच्छति वारुण्यां नाशार्थे वायवे दिशि ।
उत्तरं धनमिच्छद्भिः ईशान्यां ज्ञानमिच्छता
मृत्युञ्जयेषिणां नित्यं ऊर्ध्वं गोक्षीरसन्निभम् ।
प्. ४५०)
ध्यातव्यं देवदेवेशि मृत्युदुःखैर्न पीड्यते
अधस्तान्नयते देवि नरश्रेष्ठनराधमम् ।
एवं ज्ञात्वा वरारोहे नयते नात्र संशयः
देव्युवाच
ऊर्ध्वं व्याह ते देवेशि शिख्या तस्य अनौपमा ।
तस्याहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
कथं तेन च रूपेण शिखा तस्य फलप्रदा ।
अधस्तात्तु कथं देव नयते पापकर्मणः
कथं प्रत्यक्षतो देहे पश्यन्ते योगिनः प्रभो ।
मुद्रायोगविधानञ्च कथयस्व प्रसादतः
प्. ४५१)
ईश्वरः
शृणु देवि प्रवक्ष्यामि शिखाभेदमनुत्तमम् ।
येन विज्ञातमात्रेण सिध्यन्ते साधको भुवि
गारुडे भूततन्त्रे च भगिनीनां तथैव च ।
शैवज्ञानं परे दिव्ये शिखाकर्म मनोरमम्
शुक्लगोक्षीरसंकाशा शङ्खकुन्देन्दु सन्निभा ।
शिखा मृत्युञ्जयार्थाय ध्यातव्या योगिभिस्सदा
मेघधारानिपातेन पूरयन्ति समन्ततः ।
आचार्यते जगत्सर्वं विषग्रहविनाशयेत्
प्. ४५२)
तृप्तिश्च कुरुते नित्यं मन्त्रध्यानमेव च ।
न च स्रोतो विभागेन स्रवन्ति यदि पश्यति
क्षणादाप्यायनं कुर्यान्नात्र कार्या विचारणा ।
रक्तवर्णशिखाध्यानं कृत्वा योगी यदा भवेत्
तथा ते कथयिष्यामि तदेकाग्रमनाः शृणु ।
वशीकरणमावेशं मारणं शोषणं तथा
विषापहारनिर्वाण निर्बीजकरणं यतः ।
अनग्निज्वलनञ्चैव मूर्च्छकं पावनं तथा
रक्तवर्णधरेणैव एष ते समुदाहृतः ।
पीतवर्णाधरेणैव शृणु वक्ष्यामि सुवृते
प्. ४५३)
ध्यानेन सिद्धिमाप्नोति धनधान्यफलप्रदां ।
स्तंभयेत्पृथिवीं सर्वां त्रैलोक्यं स चराचरम्
कृष्णवर्णशिखायान्तु शृणु वक्ष्यामि सुवृते ।
उच्चाटनन्तु विद्वेष करणं मोचनं तथा
विषसङ्क्रमणञ्चैव मूकत्वञ्च न संशयः ।
स्तंभनं सर्वतत्वानां विषयस्य च न संशयः
सर्वं स सिध्यते तस्य शिखायोगविदं प्रिये ।
शिखया रहितं कर्म नैव सिध्यति साधकैः
वायव्या तु कृष्णवर्णा तु रक्ताग्नेयी च सुवृते ।
पीता महेन्द्री विज्ञेया शुक्ला वारुणि उच्यते
प्. ४५४)
कृष्णं रक्तं सितं पीतं स्फटिकाभञ्च सुवृते ।
सर्वकर्मकरञ्चैव शिखाकर्मविदस्सदा
शिखायोगमिदं देवि कथितं तव सुवृते ।
सर्वतन्त्रेषु सामान्यतन्त्रसिद्धिर्न संशयः
शिखया रहितां देवि यस्सिद्धिमभिकाङ्क्षति ।
हनते मुष्टिनाकाशं पिबते मृगतृष्णिकाम्
पञ्चात्मकमिदं देवि यो वेत्ति तत्तु सिध्यति ।
दीक्षासंरोधनं वक्ष्ये तदेकाग्रमना शृणु
दुविदग्धे शठे क्रूरे अन्यायपथवर्तिने ।
तस्य देवि इदं कुर्यान्नास्यैव कदाचन
प्. ४५४-आ)
परतत्त्वात्तदाकृष्य स्वेनतत्वेन देशिकः ।
पञ्च पञ्चभिराहुत्या नीयते यत्र रोचते
तत स्थाप्य वराचार्यो क्षितिराच्छाद्य चोपरि ।
तिष्ठते तत्र दुष्टात्मा लङ्घने यस्तु देशिकः
यस्मिन् योजयते स्थाने तद्दुःखमनुभुञ्जति ।
सिद्धिरोधं प्रवक्ष्यामि शृणु देवि यथा भवेत्
वायुचक्रे तुलं स्थाप्य यत्तस्य सिद्धिसाधके ।
माहेन्द्रेण तु सञ्च्छाद्य क्षितिरूपधरेण तु
एवं संस्तंभितो देवि तिष्ठते नात्र संशयः ।
प्रत्यक्षं योगिनाञ्चैव यथा भवति तच्छृणु
प्. ४५५)
यस्मिन् काले तु यो योगः सेवितव्यो हि योगिभिः ।
तदहं संप्रवक्ष्यामि शृणु देवि समासतः
घटिकासत्रिभागेन गतेन वरवर्णिनी ।
यावत्त्रीण्योपविष्टात्तु तावत्कालं समभ्यसेत्
सुहृष्टं तल्लक्षपरं पुरक्षेण निमीलयेत् ।
पश्यते तस्य मध्ये तु कंपमानां वरानने
तदेव सदृशं लक्षं पश्यते नात्र संशयः ।
प्रथमे कांसनीलान्तु पश्यन्ते योगिनस्सदा
रक्तां पीतां सिताञ्चैव तत्तुल्यसमतेजसा ।
एकलक्षं निमीलेत तस्य लक्षस्य पश्यताम्
प्. ४५६)
रथचक्रसमाकारं पश्य देवि परं महत् ।
तं दृष्ट्वा योगिनः साक्षात् भिन्नदेशे विशेच्छिवम्
असंशयेन देवेशि सादाख्यं पदमाप्नुयात् ।
स एव लक्षमात्मानं विद्यते पश्यतेद्ध्रुवम्
अभ्यासेन तु देवेशे तत्तुल्यसमतां व्रजेत् ।
एवं योगवरस्यैव प्रत्ययं कथयामि ते
मृते तु विलिखेत् पद्ममधुमेलं हुताशनः ।
कंपते दुःखमादेशं कुरुते योगिनः प्रिये
इन्दोलकमिवाभाति महाक्लेशेन जीवति ।
वश्यमेति शिखा देवि यत्र काले तु योगिनः
प्. ४५७)
यस्मिन् दिशि शिखाऽयाति तस्मिन् सिद्धिं विनिर्दिशेत् ।
अविकल्पेन देवेशि पश्यते नात्र संशयः
हृदिस्थन्तु यदा पश्येत् शिखायोगमनुत्तमम् ।
वायुहंससमायुक्तं षष्ठस्वरसमन्वितम्
नादान्तिम बीजेन * * * * * * * * * ।
पश्यते नात्र सन्देहो बिन्दुनादसमन्वितम्
तदा उद्योतमया पक्षस्याभ्यन्तरेण तु ।
हृल्लक्षन्तु यदा दृष्टं योगिनेन वरानने
तदा वै कर्णदेशे तु लक्षं कुर्यात्तु योगिभिः ।
वायुवर्णां परित्यज्य ऊ बिन्दुशिखयान्वितम्
प्. ४५८)
शिरस्थानं यदा गच्छेद्योगिनस्सुसमाहितः ।
सर्वस्वरविनिर्मुक्त र वर्णकलसंयुतम्
शिरस्थानं यदा तु ज्व मूध्निस्थानं समाश्रयेत् ।
तदा बिन्दुविनिर्मुक्तं शिखा संपरिकीर्तिता
शिखातीता पराशक्तिः शक्त्यतीतः परश्शिवः ।
वायव्यस्य पदाख्यातां आग्नेयञ्चैव तत्तथा
माहेन्द्रं वारुणञ्चैव एवमेव न संशयः ।
पञ्चमं सर्वयोगस्य आधारं परिकीर्तितम्
चिति स्वरूपविज्ञानं चित्स्वभावः परश्शिवः ।
स्वयं निष्क्रमते ह्येकं तत् ज्ञानं ससुरासुरैः
प्. ४५९)
द्वितीयं तत्स्वरूपन्तु दुर्विज्ञेयं सुरैरपि ।
सर्वथा ख्यापितं ज्ञानं सर्वतन्त्रेषु सुवृते
सकलद्वार्धभागेन ज्ञात्वा मुच्यति बन्धनात् ।
दिवारात्रविभागन्तु यस्माद्देवि प्रवर्तते
तद्देवि पूर्वमाख्यातं सन्ताने तव शोभने ।
देशिकस्तं विजानाति मध्यस्थं कमलस्थितम्
एतस्मात्परतो देवि गुरुपारंपरापरम् ।
त्रीण्येतानि परित्यज्य स परं परिकीर्तितम्
षत्त्रिंशदङ्गुलं ख्यातञ्चारदेवे न शोभने ।
तत्र भागविभागेन शून्योच्चारः प्रकीर्तितः
प्. ४६०)
नवसूत्रं यथा प्रोक्तं प्रयोगं तादृशं स्मृतम् ।
तेन सिध्यति देवेशि नात्र कार्या विचारणा
अन्यं गुह्यतमं देवि शृणु वक्ष्यामि तत्त्वतः ।
तत्क्षणाद्देवि पश्येत प्रयोगमिदमुत्तमम्
सव्यदक्षिणयोर्देवि दिव्यं कृत्वा तु योगिराट् ।
कलाश्चतस्रस्सं पश्येत् ज्वलन्तं दीपसंभवम्
आदिरन्तेन संसृष्टमुभयोरपि शोभने ।
मध्यदेशे तु यत्स्पृष्टमुभयोरपि पश्यति
प्रकाशोन्मूलने नैवंमंबकं पश्यते यदा ।
सर्वेषामेव योगानां ध्यानयोगफलं शृणु
प्. ४६१)
मेधाकान्तिस्तथारोग्यं सकृदुक्तन्तु गृह्यति ।
दिव्यादिव्यञ्च यत्किञ्चित् सर्वं पश्यति नान्यथा
सर्ववाङ्मयवेत्तारः त्रिमासाभ्यन्तरेण तु ।
उत्तिष्ठे चान्तर्धाने च बादलेपाञ्जने तथा
गुडिकाद्या भवेत्सिद्धि षण्मासाभ्यन्तरेण तु ।
एतद्देवि समाख्यातं प्रयोगामृतमुत्तमम्
समं सत्यञ्च देवेशि प्रत्यक्षं दृश्यते शुभे ।
अन्यतन्त्रविदा ये तु युक्तायुक्तविचारकाः
एवं क्षिपन्ति चात्मानं ज्ञानं लब्ध्वा तपस्विनम् ।
न तैर्देवि इदं ज्ञानं ज्ञानसद्भावमुत्तमम्
प्. ४६२)
सेवस्व प्रत्ययं ह्येतत् स्व परस्य न संशयः ।
हंसयोगमिदं देवि कथितं विधिविस्तरात्
प्रक्रियाज्ञानविज्ञानं तस्माद्देवि विजानतः ।
त्रयाणां देवतानाञ्च दर्शनं तत्र सुवृते
प्रत्यक्षं तेन दृश्येत विधिपूर्वेण नान्यथा ।
पुनरेव प्रवक्ष्यामि यजनं सुरसुन्दरि
पञ्च ब्रह्मकलाभिश्च नव शक्तियुतेन च ।
आसनं प्रणवेनैव विद्याङ्गैश्च तथैव च
एकेना वरुणेनैव यष्टव्यः परमेश्वरः ।
हृत्पद्मे स्थण्डिले चैव यष्टव्यं सिद्धिमिच्छता
प्. २६३)
सिद्धिञ्च लभते योगी षण्मासाद्यजते यदि ।
प्रथमेऽहनि देवेशि प्रत्यक्षं प्रत्ययो भवेत्
तदेव मथनाद्देवि सिद्धिरुत्पद्यते सदा ।
यजनाज्जायते सिद्धिः ज्ञाने कैवल्यतां व्रजेत्
ध्यानेन जपयोगेन सिद्धिदस्तु न संशयः ।
ईशानमूर्ध्वतो दद्यात् पूर्वं तत्पुरुषं स्मृतम्
अघोरं दक्षिणे चैव वामदेवं तथोत्तरे ।
सद्योजातन्तु देवेशि संस्थितं पश्चिमेन तु
आग्नेययां हृदयञ्चैव ऐशान्यान्तु शिरो न्यसेत् ।
नै-ऋत्यान्तु शिखा देवि वायव्यां कवचं तथा
प्. ४६४)
अस्रचारप्रदेशे तु विन्यसेत्तु विचक्षणे ।
एकेनावरुणेनैवं यजेत सुसमाहिता
मण्डलतर्पणं कृत्वा हुनेदेकादशात्मकम् ।
शिवेन देवे देवेशि हुनेत्पूर्णाहुतिं क्रमात्
स्थण्डिले मण्डले चैव यजनं समुदाहृतम् ।
हृत्पद्मे यजनञ्चैव शृणु देवि वदाम्यहम्
एकारात् चिन्तयेत्तत्वं ऐकारन्तु विनिर्दिशोः ।
ऋजुरञ्च तु विज्ञेया धर्मापादचतुष्टयम्
ओंकारेण तु देवेशि विन्यसेन्न शक्तयः ।
प्रथमं कल्पयेन्मूर्तिं तेन सर्वमशेषतः
प्. २६५)
दशमं प्रणवं यच्च आवाह्य परमं शिवम् ।
प्रणवं न्यासयोगेन त्रितत्वं कारयेद्बुधः
आकारं पूर्वतो न्यस्यं ईकारं दक्षिणेन तु ।
ऊकारं पश्चिमेनैव व्योमबीजोत्तरेण तु
मं बीजं देवदेवेशि ईशान्यां परिकल्पयेत् ।
व्याबीजं वायुदेशे तु बी बीजं नै-ऋतेन तु
ने बीजं देवदेवेशि आग्नेययां चैव विन्यसेत् ।
तेनैव ध्यानकाले तु विन्यासं परिकीर्तितम्
पुनश्च शृणु देवेशि कथयामि तवाखिलम् ।
स्थावरं जङ्गमञ्चैव अण्डजं स्वेदजं तथा
प्. ४६६)
देवदानवतिर्यक्त्वदंष्टृणां क्रूरकर्मणाम् ।
हिंसकास्तस्य दुष्टात्मा दृष्ट्वा तां चिन्तयेद्बुधः
चक्षुषाऽयं मया प्रोक्तो दीक्षा मे तु यथा पुरा ।
तान् सर्वान् चिन्तयेद्देवि दुष्टसत्वस्य योगिनः
तत्वातत्वेषु सन्धाय चिन्तयेच्छिवमव्ययम् ।
एवञ्चिन्तितमात्रास्तु प्रशमं यान्ति ते शुभे
एवं सर्वेषु पापेषु मसकेषु स योगिनः ।
न ते हिंसन्ति पापात्मा शिवं दृष्ट्वा समं ययुः
एवं चिन्तयतो नित्यं विचरस्व यथा सुखं ।
शिवेन समरसो भूत्वा ध्यानयोगपरायणः
प्. ६४७)
यत्र तत्र मनो गच्छेत् ध्यायमानस्य योगिनः ।
तदेव तत्परं ब्रह्म सर्वभावेन संस्थितम्
शुभाशुभेषु कर्मेषु इष्टानिष्टोपपत्तिषु ।
स्थावरेषु च सर्वेषु धीरस्सर्वत्र संस्थितः
मनसा गच्छते यत्र अचिन्त्यं चिन्त्यमेव च ।
तदेव तत्परं ब्रह्म वेदितव्यं हितैषिभिः
सर्वेषु समरसो भूत्वा तत्वभावेन येषु च ।
एवं समरसो भूत्वा विशते शिवमव्ययम्
एवं समरसो देवि विख्यातं तव शोभने ।
सर्वसंहितसामान्यं स तु जो जुष्टभाषितम्
प्. ४६८)
एवं समरसो भूत्वा योगिनः सुसमाहिताः ।
सिध्यन्ते नात्र सन्देहो मुच्यते नात्र संशयः
शृणु देवि परं गुह्यं प्रवक्ष्यामि समासतः ।
येन विज्ञातमात्रेण मुच्यते जन्मबन्धनात्
तत्प्रवक्ष्यामि अहं देवि मुद्राबन्धं परं शुभम् ।
उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत्
आकारेण तु नेकारं अङ्कारसमन्वितम् ।
अव्याकारसमायुक्तो व्योमाकारसमन्वितः
प्रणवौ प्रसृतौ कृत्वा नेत्र मुद्रा प्रकीर्तिताः ।
कृञ्चतौ तु शिखा ज्ञेया पाशच्छेदकरी नृणाम्
प्. ४६९)
एतावेव समौ कृत्वा शिरमुद्रा प्रकीर्तिता ।
विशिष्ट हृदयं विद्या पिण्डितः कवचं तथा
विक्षिप्तः शास्त्रमित्याहुः पञ्चतृंशाक्षरस्य तु ।
एतद्योगपरं देवि विख्यातं तव शोभने
अलेख्येयमिदं सर्वं वाचा सर्वं प्रकाशयेत् ।
वेदोक्तविधिना देवि अध्ययनं समुदाहृतम्
इति निश्वासकारिकायां चतुश्चत्वारिंशत्पटलः ।
देव्युवाच
भगवन् श्रोतुमिच्छामि अधिवासनमुत्तमम् ।
चरुकञ्च महादेव दन्तधावनमेव च
प्. ४७०)
मन्त्रबोधविधानञ्च भगवन् कथयस्व मे ।
ईश्वरः
शृणु देवि परं गुह्यं अधिवासनमुत्तमम्
सर्वसंहितसामान्यं कथयामि तवाखिलम् ।
तिथिनक्षत्रवाराणि शाकुनानि शुभानि तु
दिव्यान्तरिक्षभौमानि लब्ध्वा सम्यक् परीक्षितान् ।
आदौ भौमं परीक्षेत शास्त्रदृष्टेन कर्मणा
हिमवच्छैलविन्ध्यौ वा पारिधात्रे तथांबुदे ।
महेन्द्रे मलये सह्ये रम्ये पुण्यशिलोच्छये
गङ्गाद्यां सरितां श्रेष्ठा अन्तर्वेद्यां तथैव च ।
प्. ४७१)
श्मशाने वा गृहे वाऽपि देवगारे तथैव च
उद्याने च तथा कुर्यात् पद्मषण्डे तटेऽपि वा ।
एवमादौ शुभस्थाने यत्र वा रमते पुनः
सितरक्तपीतकृष्णमधुरादौ चतुर्विधा ।
ब्राह्मणानां सिताभूमिः रक्तावाक्षत्रयस्य तु
वैश्यस्य वसुधा पीता कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणे मधुरास्वादा कषाया क्षत्रियस्य तु
वैश्ये तु षड्रसा प्रोक्ता शूद्रस्य कटका स्मृता ।
अद्य गन्धाद्विजे भूमिः क्षत्रिये रक्तगन्धिनी
शकृत् गन्धाविशे भूमिः शूद्रस्य क्षारगन्धिनी ।
प्. ४७२)
श्वानयेज्जानुमात्रन्तु तां समुद्धृत्य पूरयेत्
पांसुरधिका या तु सा भूमिस्सर्वकामदा ।
ईदृशीं वसुधाभूमिं कुर्याद्भूमि परिग्रहम्
यष्ट्वा तु देवदेवेशि हुनेदष्टशतं क्रमात् ।
बलिस्तत्रैव दातव्या देशिकेन महात्मना
भूम्याः परिग्रहो ह्येवं तव देवि उदाहृतः ।
अपरेऽहनि देवेशि अधिवासनमारभेत्
संभारैः संभृतो मन्त्री कुर्यात्तत्राधिवासनम् ।
गन्धपुष्पसमायुक्तं पञ्चगव्याक्षतेन च
गर्भैः मन्त्रैस्तु संपूज्य होमं तत्रैव कारयेत् ।
प्. ४७३)
हुत्वा तु देवदेवोऽयं मन्त्राणाञ्च यथाक्रमम्
शतं देवाय होतव्यामाहुतीनां वरानने ।
दशांशञ्चैव मन्त्राणां हुत्वा पूर्णाहुतिं ददेत्
येनाध्वानन्तु संप्राप्य सर्वांस्तास्तत्र पूजयेत् ।
पूजयेत्सर्वतत्वानि गन्धपुष्पविधिक्रमैः
एवं संपूज्य तत्वानि पशोह्यालभनं कुरु ।
आलभ्य सर्वमन्त्रैस्तु न्यसेत्तत्वान्यथाक्रमम्
तत्वपाशान्निबध्नीयात् तत्वे तत्वे यथाक्रमम् ।
पाशानि ग्रन्थिषैर्बद्धा वासयेदेव संयुतम्
करणीं कर्तरीञ्चैव संभारांश्च पृथग्विधान् ।
प्. ४७४)
सकलीकृत्य तान् सर्वान् वायेद्देवसंयुतम्
एवं कृत्वा तु विधिना अग्निस्थानेषु च क्रमात् ।
ताम्रपात्रे शरावेवा आनयेज्जातवेदसम्
गायत्र्या चैव देवेशि तत्वेनाभ्युक्षणं कुरु ।
अभ्यर्च्य पञ्चभिः ब्रह्मैः ततः कुण्डे तु प्रक्षिपेत्
विष्टरं विन्यसेत्तत्र कुण्डं शोध्यविचक्षणः ।
अस्त्रेण शोधयेत्कुण्ड मुल्लिख्याभ्युक्ष्य उद्धरेत्
एवं कृत्वा तु देवेशि विष्टरन्तु प्रकल्पयेत् ।
वागीशी स्थापयेत्तत्र ऋतुमतीं महाधिपाम्
त्रिरावर्तं ततो देवि मन्त्रमेकैकशोभने ।
प्. ४७५)
एकादशेन मन्त्रेण शिवाग्निर्जानितो भवेत्
संस्कारं शुद्धिहेत्वर्थं जुहुयात् पूर्णाहुतिं प्रिये ।
शिवाग्नौ जनिते पश्चात् अग्निमाहुतिमन्त्रवित्
चरुन्तु श्रपयेद्देवि विधिदृष्टेन कर्मणा ।
न्यस्त्वा तु सर्वतन्त्राणि त्रितत्वां तत्र विन्यसेत्
सूत्रेण वेष्टयेत्कर्णं क्षीरपर्णञ्च कारयेत् ।
लिनीवारश्यामाक यव गोधूमपिण्डकैः
मध्वौषधिभिः कर्तव्यं कङ्गुना च तथैव च ।
यावत्पूर्णा भवेत्स्थाली कर्तव्यश्चरुकस्सदा
चालनभ्रमणाद्यञ्च यत्कर्मपरिकीर्तितम् ।
प्. ४७६)
पञ्चभिः ब्रह्मभिश्चैव अथ एकादशेन तु
एवं विधिसमायुक्तं पुनः कुर्यात्तु देशिकः ।
संपाताभिहुतं कृत्वा सर्वमन्त्रैः सकृत् सकृत्
स्वाहुत्याग्नौ तु देवेशि हेति द्रव्ये निधापयेत् ।
एवं हुत्वा तु विधिना त्रिभागं कल्पयेत्पुनः
हुत्वा देवाय कल्पीत द्वित्रिधं वरवर्णिनी ।
तृतीयं साधकेभ्यश्च कल्पयेद्विधिपूर्वकम्
पञ्चगव्यन्तु कर्तव्यं विधिदृष्टेन कर्मणा ।
गोमूत्रं गोमयं क्षीरं दधिसर्पि कुशोदकम्
एतावाहृत्य कर्तव्यं पञ्चगव्यं सुशोभने ।
प्. ४७७)
सद्येन गोमयञ्चैव गोमूत्रं गुह्यकेन तु
गृह्णेत्सर्पिरघोरेण दधिवक्त्रेण गृह्णयेत् ।
ईशानेन गृहेत्क्षीरं गायत्र्या तु कुशोदकम्
अभिमन्त्र्य वरारोहे सर्वैः मन्त्रैः सकृज्जपेत् ।
दातव्यं वक्त्रमन्त्रेण यत्किञ्चित्पानभोजनम्
दन्तधावनमप्यत्रं सक्षीरं सदलं शुभम् ।
अवक्त्रर्निर्घृणञ्चैव द्वादशाङ्गुलसंमितम्
दद्याद्वक्त्राभिमन्त्रेण मन्त्रितं गुरवेऽस्य तु ।
आज्याधिश्रयणं कृत्वा उद्वास्योत्पवनं कुरु
नीराजनं ततः कृत्वा कुर्याद्वक्त्राभिधारणम् ।
प्. ४७८)
वक्त्राभिधारणं कुर्यात् सद्य वामेन बुद्धिमान्
अस्त्रेण निष्कृतिं कुर्यात्तत्वेनोद्घातनं स्मृतम् ।
एवं कृते तु देवेशि शिवाग्निर्जनितो भवेत्
पश्चात् पद्मविधानन्तु कर्तव्यं सुसमाहितैः ।
आसनं विभजेत्तत्र अनन्तादिरनुक्रमात्
आवाहयेच्च देवेशं पूर्वदृष्टेन कर्मणा ।
ब्रह्माणं स्थापयेन्नित्यं पूर्वदिग्भागतो बुधः
दक्षिणे रुद्रमित्याहुः पश्चिमे विष्णुमेव च ।
उत्तरे च न्यसेन्नित्यं शिवाय परमेश्वरी
विद्येशां लोकपालांश्च अस्त्राणि तु यथाक्रमम् ।
प्. ४७९)
पूजयेत्पावमानेन विष्टरस्थान्यथाक्रमम्
आदौ तु यो विधिः कार्यः शृणु देवि यथाक्रमम् ।
हेमरूप्यमयात्कुर्यात् कलशान् रत्नपूरितान्
कर्तव्यास्ताम्रजा वाऽपि मृण्मयं वाऽथ कारयेत् ।
अकालमूलकशान् चन्दनेनोपलेपितान्
आसनं कल्पयित्वा तु शिवाख्ये कलशं न्यसेत् ।
आत्मतत्वमधो भागे विद्यातत्वन्तु मध्यतः
शिवतत्वं तृतीयन्तु उपरिष्टात्तु विन्यसेत् ।
तत्रत्वदृष्ट्या तु सर्वाणि अवलोक्य महामतिः
शिखी भवति तत्सर्वं नात्र कार्या विचारणा ।
प्. ४८०)
वर्धन्यामुदपूर्णायां सर्वैर्मन्त्रैः सकृत् सकृत्
ततो देवि जपेदस्त्रं * * * * * भ्रामयेत् ।
अच्छिन्नोदकधारान्तु दद्याद्बाह्ये तु देशिकः
वर्धन्यामग्रतो गच्छेत् कलशार्धसमन्वितः ।
अस्त्रञ्च जपमानस्तु आचार्यश्च शिवात्मकः
भ्रामयेच्चतुरश्रे तु पुनस्तत्रैव स्थापयेत् ।
अक्षरान्विकिरित्वा तु अपूजत्तेन बुद्धिमान्
पञ्चगव्येन चाभ्युक्ष्य गन्धतोयेन ता पुनः ।
कलशं भ्रामयेत्पश्चात् एष एव विधि स्मृतः
कलशं भ्रामयेत्पूर्णं ततो देवाधिवासनम् ।
प्. ४८१)
अग्निकुण्डं ततो गच्छेत् ततो मण्डलतर्पणम्
दिशाधिवासनञ्चैव स्वरवत्तदनन्तरम् ।
दन्तधावनमङ्के स्यात् एष एव विधि स्मृतः
हेमराजतताम्रैश्च पद्मरागमयैस्तथा ।
इन्द्रनीलमहानीला जज कुर्याद्विधानवित्
एतेषामप्यलाभेन कल्पयेद्वर्णकैर्बुधः ।
शालिगोधूमवर्णैश्च प्रतिबिंबे सुशोभनैः
आलिखेन्मण्डलं दिव्यं समरेखं सुशोभनम् ।
कथितञ्चोत्तरे सूत्रे तानि कुर्याद्विचक्षणः
तेन सूत्रविभागेन आलिखेन्मण्डलं शुभम् ।
प्. ४८२)
पूजयेत्तत्र देवेशि पूर्वदृष्टेन कर्मणा
एवं पूज्य यथा न्यायं ततो दीक्षां समाचरेत् ।
पत्नीसंयोजनं कुर्यात् ज्ञानसिद्धिक्रमारितम्
तया सह यजेद्यज्ञं पत्यामास सहस्रकम् ।
विद्यादीक्षा समाप्तौ तु साधकस्सविधीयते
शताष्टाधिक जप्तेन इष्टमन्त्रेण साधकः ।
अभिषेकञ्च देवेशि पूर्वमेव उदाहृतम्
सूत्राः पञ्च चतुस्त्रिंशद्वाचेकाऽपि सुरेश्वरि ।
कारिकां वाऽथ यो वेत्ति अभिषिक्तस्य दापयेत्
कलशैर्विंशतिभिश्चैव नवभिर्दशभिस्तथा ।
प्. ४८३)
अभिषिञ्चेत्ततः शिष्या नाचार्यः छिन्नसंशयः
पृथिवीमादितः कृत्वा माया कलशपश्चिमम् ।
निर्माणकलशमारभ्य ऐश्वर्यञ्चापि पश्चिमम्
एतत्तु संपुटीकृत्य सायंकञ्चाभिषेचयेत् ।
पञ्चाशत्कलशेनैव विद्याख्येनाभिषेचयेत्
पृथिवीमादितः कृत्वा यावत्तत्वमनामयः ।
आनुपूर्वेण देवेशि आचार्यमभिषेचयेत्
पञ्चसूत्रार्थवेत्तार आचार्यास्तत्त्वपारगाः ।
अभिषिक्तो यदा तेन स गुरुः शिवतुल्यगः
भोजयेद्दर्शनाद्देवि शिवतत्वस्य पारगः ।
प्. ४८४)
पृथिवीमादितः कृत्वा कलशा ये प्रकीर्तिताः
व्यूहन्यासन्तु कर्तव्यं त्रितत्वं हि नव न्यसेत् ।
नवभिः कलशैश्चैव नव तत्वानि विन्यसेत्
स मन्त्रान् सप्त आवर्त्य एकैककलशे बुधैः ।
अथवा कलशेकेन अभिषेकन्तु कारयेत्
सर्वतत्वैश्च मन्त्रैश्च समुद्रैश्च समन्वितः ।
एकस्मिन् कलशेनैव विधिरेषोऽत्र कारयेत्
चतुर्हस्तं भवेत्पीठं समन्तादुपशोभितम् ।
उच्छ्रियं हस्तमात्रन्तु कर्तव्यं सुसमाहितैः
चतुर्भिस्तोरणैश्चैव पताकाध्वजशोभितैः ।
प्. ४८५)
वितानबुद्बुदैश्चैव वेदिस्थानं सुशोभितम्
मण्डितं पुष्पचित्रैस्तु चूतपल्लवशोभितम् ।
स्वस्तकैः पद्मकैश्चैव सन्धार्थकसमन्वितैः
पूर्वास्तत्रैव दातव्याः कलशेषु शुभानने ।
शङ्खभेरी रवोद्घोषैः स्तूर्यशब्दैस्तथैव च
वेदशब्दजयारावां तस्मिन् काले तु कारयेत् ।
कौतुकैः मङ्गलैश्चैव तन्त्रीसङ्गीतसंयुतैः
अभिषिञ्चेत्तदा शिष्यः पूर्वादारभ्य देशिकः ।
क्रमशश्चैव देवेशि मायान्ते परिकीर्तितम्
अभिषिक्तं तदाचार्य आनयेच्छिवसंयुतम् ।
प्. ४८६)
छत्रञ्चोपरि सन्धाय पादौ पादुकसंयुतौ
आसने कल्पिते दिव्ये तत्र स्थाप्य विचक्षणः ।
अर्घ्यादिभिः समभ्यर्च्य अधिकन्तु समर्चयेत्
अद्य प्रभृतिराचार्यश्शिवतन्त्रस्य धीमतः ।
कर्तव्योऽनुग्रहो नित्यं चतुराश्रमवासिनाम्
व्याख्यानमर्चनञ्चैव गुरुशिष्यप्रबोधनम् ।
स्वल्पमह्नि जपं कार्यं स्वल्पमग्नौ च होमयेत्
स्वल्पध्यानं सदा कुर्यात् सत्रमेतत्सदा तव ।
करणीं कर्तरीञ्चैव संहितां सृक्स्रुवं तथा
अर्घ्यादिभिस्समभ्यर्च्य अधिकार समभ्यसेत् ।
प्. ४८७)
इति निश्वासकारिकायां पञ्चचत्वारिंशत्पटलः ॥
देव्युवाच
त्रितत्वप्रभवा मन्त्राः त्वया पूर्वमुदाहृताः ।
दीपितं तेषु मन्त्राणां भगवन् कथयस्व मे
श्रूयन्ते सर्वतन्त्रेषु शिवाज्ञा ओन्नमेति च ।
कथयाज्ञापयन्त्येते भगवन् वक्तुमर्हसि
ईश्वरः
शृणु देवि परं गुह्यं मन्त्रसद्भावमुत्तमम् ।
यन्न कस्यचिदाख्यातं कथयामि तवाखिलम्
सर्वव्यापीति यत्प्रोक्तं मया नु तव सुवृते ।
प्. ४८८)
अर्धचन्द्रन्तु विज्ञेयमस्मिंस्तन्त्रे न संशयः
तस्य चैव कलाह्येका निरोधीत्यभिधीयते ।
तेन युक्तोपरिस्थान ओंकारः परिकीर्तितः
नादस्यैव कला या तु ऊर्ध्वगामीति विश्रुता ।
सा एव वर्त्तुलीभूतः नकारः परिकीर्तिताः
शक्तेः कलास्तु चत्वारो भागेनैव यथा स्थिताः ।
तास्तु वक्ष्यामि देवेशि यथातथेन मे शृणु
अमृता तु शिरोवस्था रविभूता मयोद्गता ।
सु सूक्ष्मा तिर्यगेनैव अर्धो दक्षिणतां गता
सूक्ष्मा नाम कला या तु अध ऊर्ध्वमुखा गता ।
प्. ४८९)
अग्रताम्रा चतुर्थी तु बिन्दुनादः सुसंयुता
पार्श्वे तु संस्थितास्तास्तु कथितं तव शोभने ।
स शिवस्सर्ववर्णानां व्यापयित्वा वरानने
रेखाभूतविनिष्क्रान्तः प्रेरयन्तं समन्ततः ।
तेन छिन्नविभक्तानि पदमक्षरसन्धयः
नता लङ्घयितुं शक्ता अपि देवास्सवासवाः ।
ऋषयश्च तथा चान्ये योगिनो भुविमानवाः
तेन सर्वमिदं व्याप्तं जगदेतच्चराचरम् ।
तेन ज्ञापयते सर्वं मन्त्रग्राममशेषतः
निरुद्धा आदिरन्तेन मन्त्रास्सिद्ध्यन्ति नान्यथा ।
प्. ४९०)
शिवतत्वं परे शुद्धं स बाह्याभ्यन्तरे स्थितम्
अन्ते बिन्दुमधश्चोर्ध्वे मध्यतत्वं विनिर्गतम् ।
तेन ते प्रेरिता मन्त्राः शक्तयश्च न संशयः
सिद्ध्यन्ते नात्र सन्देहो मनसा यद्यदीप्सितम् ।
ओङ्कारमादितः कृत्वा नमस्कारं नियोजयेत्
मन्त्राणामेष संयोगः कथितस्तव शोभने ।
स्वाहाकारं वषट्कारं सुवौषट्कारमेव च
हुंकारसहितं देवि फट्कारं पुनरेव तु ।
एतत्र शक्तिसंयोगं वेदितव्यं प्रयत्नतः
ओन्नमस्कारसंयुक्तं पूजाजपनकर्मणौ ।
प्. ४९१)
स्वाहाकारसमायुक्तो होमेष्वाकर्षणेषु च
वौषट्कारसमायुक्तः शान्तिकर्माणि योजयेत् ।
पुष्ट्यर्थे च सदा कुर्यात् सकारोकारसंयुतम्
तत्संयोगद्वितीयस्त्वकारोकारसंयुतः ।
षकारमन्त्रयोगेन हकारसहितेन तु
पुष्ट्यर्थे सर्वमन्त्राणां आत्मनश्च परस्य वा ।
अमृतीकरणं कुर्यात् वषट्कारसमन्वितः
नमो नमेति मन्त्राणामिन्धनार्थे नियोजयेत् ।
प्रणवेन यदा हीनं मन्त्रग्राममशेषतः
हुङ्कारमादियोगेन स्वाहान्तेन तु शोभने ।
प्. ४९२)
आनयेज्जपदैत्यादि व्रतजप्तशुचिस्सदा
हुङ्कारमादियोगेन फट्कारेण तु योजयेत् ।
उच्चाटयति भूतानि दिव्यभूमिगतानि तु
तदेव मादियोगेन फट्फडेति द्वितीयकम् ।
मारणे तु विधिं कुर्यात् शेषास्सर्वे नमो युताः
सिद्धिदास्सर्वकार्येषु तवैवं समुदाहृतम् ।
होमकालेऽथ शुद्धिर्जपयोगे च सर्वदा
यया विज्ञाय कर्तव्यं दीक्षाकाले च देशिकैः ।
एकान्ननिरतो नित्यमुपवासरतोऽपि वा
नक्तं वा चरुभुङ् नित्यं भिक्षाऽहाररतोऽपि वा ।
प्. ४९३)
कृच्छ्रचान्द्रायणैर्वाऽपि जपकाले सदा भवेत्
एवमादिक्रमणैव साधयेन्मन्त्रदेवताम् ।
अन्यथा नैव सिद्ध्यन्ति वृ * क्षश्नान्ति साधकाः
होमेन सर्वकर्माणि साधकः साधयेद्यथा ।
तथा ते कथयिष्यामि शृणुष्वैकमना मम
सकलीकृत्य मन्त्रज्ञः पूर्वदृष्टेन कर्मणा ।
त्रिस्थानकाल तत्वज्ञः शिवशक्तिपरायणः
होमयेन्नियतो मन्त्री जपतो नियतस्तदा ।
अक्षराक्षतसन्धान न द्रुतं न विलंबितम्
स्फुटसंयोगसंयुक्तं ह्रस्वदीर्घमपेक्षितम् ।
प्. ४९४)
प्लुतं विसर्गसंयुक्तं स्वययुक्तं मयोदितः
एवं ज्ञात्वा तु मेधावी जपहोमं समाचरेत् ।
श्रीपर्ण्यभिषेके चापि कृत्वा तु रुचिरासनम्
कुशासनं तथा देवि अथवा गोमयासनम् ।
एभिरासनमुख्यैस्तु विस्तीर्णैस्तु समाहितैः
स्थित्वा होमं सदा मन्त्री नोत्सुकस्यात् कदाचन ।
पदादुच्चुको भूत्वा होमयेद्भुवि देशिकः
वेदना महती तीव्रा जायते नात्र संशयः ।
वेदनार्तो यदा मन्त्री न लक्षं विन्दते सदा
अशोमुदामयश्चैव कटिग्रन्थ्यधिपे पृथुः ।
प्. ४९५)
उरस्तंभो महाघोरः पार्श्वे रोगस्तथैव च
एवमादीनि दुःखानि जायते नात्र संशयः ।
रोगे तु युज्यमाने तु यथा कुर्यात्तु देशिकः
तथाऽन्ते कथयिष्यामि संक्षेपाच्छृणु सुवृते ।
नाव्याहारेण कर्तव्यो योगारंभः कदाचन
न क्षुधार्तं तृषार्तेन न चैव जनसंसदि ।
निवातशरणे दिव्ये तस्मिंस्थित्वा समभ्यसेत्
अन्यथा कुरुतेऽन्यस्तु न लक्षं विन्दते सदा ।
स विकल्पस्य योगस्तु कथितस्तव शोभने
दीक्षाकाले यथा होमः कर्तव्यो देशिकेन तु ।
प्. ४९६)
तथा तु शृणु देवेशि कथयामि समासतः
क्षुधार्तो जायते शेषो महान्हि महतामपि ।
तृषार्ते जायते दोषः भित्तक्षोभोति दारुणः
पित्तक्षोभाद्भवेद्व्याधिः देशिकस्य न संशयः ।
कंपमानञ्च पित्तञ्च पिटकाद्यग्निसंभवात्
पित्तक्षोभाद्भवेद्देवि मायाव्याधिस्सुदारुणः ।
क्षुधार्तस्य तृषार्तस्य पशुका सह सुवृते
सिद्धमन्त्रनियोग्यस्तु भवेते देशिकोत्तमः ।
नवमन्त्रपदस्यैव क्षुधया व्याकुलीकृतः
विन्दते देशिकेन्दस्तु तस्माद्भुञ्जीत सुवृते ।
प्. ४९७)
हविष्य भोजनं कृत्वा घृतक्षीरपरिप्लुत
पायसं वा स भुक्त्वा तु ततो दीक्षा समारभेत् ।
पूर्णाहुत्या प्रपातन्तु उत्सृष्टिस्तु न कारयेत्
अग्नितेजो न दह्येत प्रसृतेनैव पातयेत् ।
दह्यमानो यदा मन्त्री प्रायश्चित्तमवाप्नुयात्
मुखे तु दह्यमानस्य मन्त्रास्तस्य पराङ्मुखः ।
ना साधयन्ति कर्माणि तस्मात्तं परिवर्जयेत्
चक्षुषौ दह्यमानौ तु देवा कुप्यन्ति शोभने ।
तेन देषो भवोद्देवि तस्मात्तं परिवर्जयेत्
रोमेषु दह्यमानेषु कुप्यन्ति ऋषयस्सदा ।
प्. ४९८)
एतेषु दह्यमानेषु प्रायश्चित्तार्थमादरात्
हुनेच्च दैकं देवेशि नत्वा वाक्येन समाहितः ।
ध्यात्वा तत्वं विशुद्ध्येत प्रायश्चित्तानि संशयम्
स्रुचिपूर्णा तु दातव्या पूर्णाहुत्या तु देशिकैः ।
पादाङ्गुष्ठौ समौ कृत्वा प्रसृतेन तु देशिकः
उत्ताना करयुग्मेन पातयेत विचक्षणः ।
पात्रो न दह्यते देवि तथापता तु आहुतिः
दह्यते तु यदा पात्रं प्रायश्चित्तन्तु होमयेत् ।
पूर्वोक्तेन विधानेन शुध्यते नात्र संशयः
इति निश्वासकारिकायां षट् चत्वारिंशत्पटलः ॥
देव्युवाच
पृथिवी दिवि भागेन देव देव त्वया पुरा ।
न्यासस्तु कथितो देव समयाचारधारितः
कथं तत्वानि देवेशि देशिकेन महात्मना ।
आत्मदेहे तु ज्ञातव्या भगवन् वक्तुमर्हसि
ईश्वरः
शृणु देवि परं गुह्यं सर्वज्ञानमनुत्तमम् ।
येन विज्ञानमात्रेण मुच्यते नात्र संशयः
आदौ तु देवदेवेशि मातृकां परिकल्पयेत् ।
दक्षिणे योजयेद्बीजं वामे योनिन्तु विन्यसेत्
प्. ५००)
नमस्कारान्तयोगेन प्रणवादिसमन्वितः ।
वर्गे वर्गे तु कर्तव्यं मन्त्रो वै देशिकेन तु
मातृकापूर्वविन्यासं नवमो तदनन्तरम् ।
पुनर्नवममुच्चार्य शब्दातीतन्तु कारयेत्
एवं विन्यस्य देवेशि विभिन्नं पुनरेव तु ।
अकारो प्रतिज्ञेया नाभ्यधस्तात्तु विन्यसेत्
यकारं पुरुषाख्यस्य हृदि पद्मे तु विन्यसेत् ।
पत्रेषु विन्यसेद्देवि नियतिं तदनन्तरम्
एवं माया च विद्या च ईश्वरश्च सदा शिवः ।
शिवतत्वन्तु देवेशि सर्वेषामुपरि स्थितम्
प्. ५०१)
एवं विन्यस्य तत्वानि सकलादिक्रमेण तु ।
बिन्दुनादं तथा शक्तिः एवं विन्यस्य यत्नतः
हृन्मजो देवतान्यासं शृणु देवि ततः परम् ।
सूर्यमण्डलविन्यासमादावेव विचिन्तयेत्
द्वितीयमैन्दवन्यासं वह्निन्यासं तृतीयकम् ।
ब्रह्माविष्णुश्च रुद्रश्च तथाचेश्वर एव च
सदाशिवश्शिवश्चैव * * सेच्च यथाक्रमम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च
नादशक्तिश्शिवश्चैव विन्यसेथ यथाक्रमम् ।
सूक्ष्मा नाम कला या तु सु सूक्ष्मा च द्वितीयका
प्. ५०२)
अमृता मृता तृतीया च बीजामृतं ततः परम् ।
अस्य पञ्च च देवेशि विन्यसेच्छक्तिवत्सदा
चक्रन्यासं महादेवि पूर्वमेवमुदाहृतम् ।
तत्त्वया विदितं देवि किमन्यत्कथयामि ते
चक्षुषा च भयैवेह तदेव कथितं मयि ।
विदितं तत्त्वया देवि वा?स्ति तत्वमतः परम्
करन्यासं प्रवक्ष्यामि तदेकाग्रमना शृणु ।
नवात्मकं न्यसेत्पूर्वं भिन्नैकैकं न संशयः
पुनस्तु मन्त्रमुच्चार्य मङ्गुष्ठाग्रेण विन्यसेत् ।
सकलं दक्षिणाङ्गुष्ठे शेषं पूर्वं समाचरेत्
प्. ५०३)
करन्यासकृते देवि शिवं तत्रैव चिन्तयेत् ।
त्रितत्वं पूर्वं विन्यस्य शिवं पश्चात्तु विन्यसेत्
एवं कृते ततो देवि शिवहस्तस्तु संस्मृतः ।
तेन सर्वमिदं कार्यमर्चनं प्रोक्षणं तथा
ग्रहणण् योजनञ्चैव शिवहस्तेन कारयेत् ।
प्रथमं करविन्यासं न चास्मानं प्रकीर्तितम्
न्यस्त्वा वै वाक्षरन्देवि मातृकाया द्वितीयकम् ।
नवात्मानं तृतीयन्तु तद्भिन्नन्तु चतुर्थकम्
सकलादिक्रमेणैव पञ्चमं परिकीर्तितम् ।
त्रयोदशं परं देवि सर्वव्याधि व्यवस्थितम्
प्. ५०४)
एवं न्यासं पुरा कृत्वा ध्यायेत्तत्वन्तु योगवित् ।
त्रयोदशात्मसान्निध्यं यदि स्यात्तत्ववेदिनः
कुरुतेऽनुग्रहस्सो हि अवशेन वरानने ।
वचसा कुरुते दीक्षां चक्षुषा च न संशयः
एष देवि महान्यासः सेवितव्यः प्रयत्नतः ।
दर्शनात्पूर्वतेजन्तु वचसा च न संशयः
मनसा च न सन्देहः स्पर्शनेन न संशयः ।
न्यासे कृते तु देवेशि समर्थस्सर्वकर्मसु
एष पुण्यो महान्यासो मया देवि उदाहृतः ।
एकोऽपि यो विजानाति मुच्यते च न संशयः
प्. ५०५)
एवं न्यासं पुरा कृत्वा आचार्यच्छिन्नसंशयः ।
न लिप्यते पुण्यपापैः स्वाचार्यस्यापि मोचकः
एवं न्यासन्तु देवेशि न दद्याद्यस्य कस्यचित् ।
आचार्याय तु दातव्यमभिषिक्ताय धीमते
अन्यथा दुष्टमर्त्यानां वदन् पदकभाक् भवेत् ।
सर्वसंहितसामान्यं ज्ञातव्यं देशिकेन तु
देशे कृते महादेवि ये केचित्पापकर्मतः ।
मुच्यन्ते दर्शनात्तस्य आचार्यस्य न संशयः
अनेन कृतवानस्तु पश्यते शृणु तेऽपि वा ।
वपुर्दर्शनमात्रेण मन्त्राणां स्रवणेन तु
प्. ५०६)
ध्रुवं दर्शनमात्रेण ध्रुवं प्रणयनेन च ।
अग्निशब्देन सुश्रोणिपाशशब्देन चैव हि
पातकैः मुच्यते देवि शब्दं श्रुत्वा नराधमः ।
वपुः संदर्शनाद्देवि देशिकस्य महात्मनः
आब्रह्मलोकगामी स्यात् भवते नात्र संशयः ।
मन्त्राणां श्रवणेनैव शृणु देवि वदाम्यहम्
मन्त्रं श्रुत्वा तु पापात्मा रुद्रसायुज्यमाप्नुयात् ।
धूमसंदर्शनाद्देवि विष्णुसायुज्यमाप्नुयात्
अग्निशब्देन सुश्रोणि शृणु देवि वदाम्यहम् ।
विद्यातत्वे तु या व्यक्तिः भवते पापकर्मणा
प्. ५०७)
मनसा च न सन्देहः स्पर्शनाच्च न संशयः ।
एतत्ते कथितं देवि शिवस्यासं महत्फलम्
एवं ज्ञात्वा च देवेशि कुरु दीक्षां यथेच्छया ।
अनेन दीक्षिता मर्त्याः पशवो मुक्तबन्धनाः
व्रजन्ति शिवसायुज्यं निर्मला विगतज्वराः ।
अतो मन्त्रविभागन्तु कथयामि वरानने
ओं अं ऊन्नमः । ओं यं नमः । ओं लं नमः । ओं मं नमः । ओं क्षं
नमः । ओं रं नमः । ओं हं नमः । ओं हृं नमः । ओं आं नमः ।
ओन्नवात्मकः । ओं कं खं गं घं दं नमः । ओं चं छं जं झं
न्त्रं नमः । ओं टं ठं डं ढं णं नमः ॥
प्. ५०८)
ओं तं थं दं धं नं नमः । ओं पं फं बं भं मं नमः ।
करशाखा सु विन्यसेत् । ओं य र ल व नमः । हस्तमध्यतः । ओं श ष स ह
नमः । ओं मणिबन्धतः । ओं क्षन्नमः । संपुटीकरणे वामकरविन्यासः ।
ओं अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः । नमः । पर्वे पर्वे
एकैकमक्षरं न्यसेत् । ओं अं नमः । करमध्यतः ।
परमाक्षरं देवेशि मणिबन्धे तु विन्यसेत् ।
अङ्गुष्ठमादितः कृत्वा पञ्चब्रह्माणि विन्यसेत्
मध्यमादि शिवाङ्गानि विन्यसेत यथाक्रमम् ।
प्. ५०९)
रुद्रोङ्कारसमायुक्तः फट्कारेण समन्वितः
करसंशोधनञ्चैव देहमालभनं तथा ।
प्रासादभूमिं संशोध्य सर्वमेतेन कारयेत्
किञ्चित्संशोधनार्थन्तु तव देवि उदाहृतम् ।
सर्वमेतेन कर्तव्यं यत्किञ्चिच्छोधनाय वै
ओं पृथिव्यै नमः । ओं अद्भ्यो नमः । ओं तेजसे नमः । ओं वायवे नमः ।
ओं आकाशाय नमः । ओं अहङ्काराय नमः । ओं बुद्धये नमः । ओं
प्रधानाय नमः । ओं पुरुषाय नमः । ओं नियति नमः । ओं काल नमः ।
ओंराग नमः । ओं विद्याय नमः । ओं कालाय नमः ।
प्. ५१०)
विद्याय नमः । ईश्वराय नमः । सदाशिवाय नमः । शिवाय नमः ।
पादादारभ्य विन्यसेत् । ओं हृदयाय नमः । ओं गीर्नमः । ओं हुन्नमः । ओं
शिव नमः । ओं लं नमः । ओं रं नमः । ओं जुं नमः । हृदय
कण्ठञ्च मुक्तिध्यञ्च विन्यसेत् ।
शक्तिकला यास्मविन्यासं कथितं तव सुव्रते ।
पञ्चमं विन्यसेच्छक्तिं शिवशक्तिकलां न्यसेत्
शेषस्तु मनसा न्यासः कर्तव्यस्तु वरानने ।
शिवहस्तं यदा दद्यात् देशिकस्तु महात्मना
सव्यहस्ते यजेद्यागं न्यासञ्चैवमशेषतः ।
प्. ५११)
मातृका होमकाले तु शृणु वक्ष्यामि सुवृते
एकावरण संयष्ट्वा चतुर्भिर्वापि देशिकः ।
अग्निसंस्कारपूर्वन्तु कृत्वा तु वरवर्णिनी
एकैकमाहुतिं तत्र अनुलोमेन सुवृते ।
विलोमेन पुनश्चापि जुहुयाद्देशिकोत्तमः
अनुलोमे सिद्धिकामो विलोमेप्ययनं कुरु ।
अनुलोमविलोमेन होतव्यं देशिकेन तु
इति ते कथितो देवि न्यासः परमदुर्लभः ।
मन्त्राणाञ्चैव विन्यासः कथितस्तव शोभने
देव्युवाच
प्. ५१२)
किमादिपूर्वकं देव यजनं समुदाहृतम् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
ईश्वरः
शृणु देवि प्रवक्ष्यामि यत्त्वया परिपृच्छ्रितम् ।
तदहं संप्रवक्ष्यामि तव देवि वरानने
गणयागन्तु प्रथमं यष्टव्यन्तु समाहितैः ।
पञ्चाङ्गेन समायुक्तमेकहस्तं सुरोत्तमे
शिवपञ्चमविन्यासं शिवध्यानमना न्यसेत् ।
अष्टपत्रं न्यसेत्पद्मं केसरालं स कर्णिकम्
कर्णिकायां न्यसेद्देवं गणेशं लोकपूजितम् ।
प्. ५१३)
आग्नेययां हृदयं न्यस्यं ईशान्यान्तु शिरोन्यसेत्
नैर्-ऋत्यान्तु शिखां देवि वायव्यां त्वचं न्यसेत् ।
चतुर्दिक्षु न्यसेदस्त्रमेष एव विधिस्मृतः
ओं हृन्नमः । ओं हिन्नमः । ओं हुन्नमः । ओं हैं नमः । ओं हन्नमः ।
ओं जहि नमः । ओं हनल नमः । ओं जहि नमः । ओं अन्नमः ।
हृदयशिरश्शिखायैकवचास्त्रैः क्रमेण तु ।
ओं ह्रौं नमः । ओं गणपति । एवं भगवत्कर्णिकायां यजेत् सदा ।
आवाहन्तु कर्तव्यं हृदयेन विसर्जनम्
प्. ५१४)
प्रोक्षणाभ्युक्षणञ्चैव पञ्चभिस्तु न संशयः ।
अस्त्रेण शोधयेद्भूमिं एष एव विधिस्मृतः
अग्निसंस्कारविधानन्तु एभिः सर्वैस्तु कारयेत् ।
मण्डले तर्पणं कृत्वा दशदिक्षु बलिं हरेत्
नवात्मकेन देवेन बलिं सर्वत्र दापयेत् ।
तेन ते तृप्तिमायान्ति भूतग्राममशेषतः
प्रभूणामुत्सवे देवि को न तुष्यति सुव्रते ।
ततो भूतानि तुष्यन्ति शिवेन बलिना सदा
बलिश्च द्विविधो देयो देशिकेन महात्मना ।
पायसं कृसरञ्चैव हारिद्रञ्च गुडोदनम्
प्. ५१५)
हारिद्रञ्च तथा कुर्यात् कृष्णञ्च पललान्वितम् ।
षड्विधेष बलिर्देवि मया ते परिकीर्तितः
दातव्यो देशिकेन्द्रेण आत्मनश्रेय इच्छता ।
एवं गणपतेर्यागो मया ते परिकीर्तितः
यष्टव्यं देवदेवेशि निर्विघ्नं जायते सदा ।
गणयागन्तु प्रथमं द्वितीयं भुपरिग्रहम्
अधिवासं तृतीयन्तु चतुर्थं मण्डलं स्मृतम् ।
पञ्चमन्तु समाख्यातं चण्डेशाय महात्मने
गुरुपूजा स्मृता षष्ठा इति ते परिकीर्तिताः ।
षड्विधं यजते यस्तु आचार्यः सुसमाहितः
प्. ५१६)
मुच्यते सर्वपाशैस्तु स शिवं यात्यनामयम् ॥ ७० १।२ ॥
इति निश्वासकारिकायां सप्तचत्वारिंशत्पटलः
देव्युवाच
यत्त्वया कथितं न्यासं पृथिव्यादिरनुक्रमात् ।
मन्त्रसोच्चारविन्यासं स्थानानि अनुपूर्वशः
ते मया विदिता देवि यस्मिन् यस्मिन् व्यवस्थिताः ।
पुनश्च श्रोतुमिच्छामि संशयो मे महेश्वर
न रूपेण विना न्यासो न च सिद्धिः प्रवर्तते ।
रूपहीना न सिध्यन्ति देवदैत्येन्द्रराक्षसाः
प्. ५१७)
रूपहीना महाक्रूराः विघ्नं कुर्वन्ति नायकाः ।
भूतैश्च परिभूयन्ते निवेशं यान्ति पन्नगाः
उच्चाटावेशकर्माणि मारणं ताडनानि च ।
शान्तिकं पौष्टिकं चैव अमृतीकरणानि च
वश्या नियोगसिद्धिश्च रूपहीना न सिध्यति ।
तस्माद्रूपं महादेव मन्त्राणां कथयस्व मे
तत्वानाञ्चैव देवेश देवानाञ्च विशेषतः ।
कलानां रूपमाख्या हि फलन्यासस्य यद्भवेत्
एतत्कार्यमशेषेण भगवन् वक्तुमर्हसि ।
ईश्वरः
प्. ५१८)
साधु साधु महाप्राज्ञे यत्त्वया चोदितोस्म्यहम्
न केनचिदहं पृष्टो ब्रह्मविष्णुसुरासुरैः ।
एतत्पृश्नं महापुण्यं अशेषफलभूमिदम्
एकमुत्पाद्यकोह्येषु न्यासः परमदुर्लभः ।
प्राणायामपरो भूत्वा रूपलक्षणसंयुतम्
न्यसेद्बीजगणं देवि दक्षिणेन समाहितः ।
सप्तरश्मिप्रतीकाशं शुद्धस्फटिकनिर्मलम्
अयः पिण्डसुतप्ताभं रञ्जितं परिहारितम् ।
चन्द्रांशुनिर्मलं शुद्धं विद्युत्कोटिसमप्रभम्
रश्मिमालासहस्रैस्तु द्योतयन्तं समन्ततः ।
प्. ५१९)
बीजं सञ्चिन्तयेद्देवि सर्वकिल्विषनाशनम्
ब्रह्महत्यादि पापानि ध्यानमात्रेण इत्ययम् ।
योगमुत्पद्यते देवि मासानभ्यन्तरेण तु
एवं बीजस्य विन्यासो योनिनां शृणु सांप्रतम् ।
चण्डरश्मिप्रतीकाशं द्योतयन्तं समन्ततः
स्रवन्तममृतं दिव्यं जरारोगविनाशनम् ।
चन्द्रचन्द्रकसंकाशं योनिचक्रं विचिन्तयेत्
मध्ये नवात्मकं देवं तप्तहाटकसन्निभम् ।
ध्यातव्यं योगिभिर्नित्यं द्योतयन्तं समन्ततः
बीजयोनौ च वा रश्मिः देवदेव्यस्य रश्मयः ।
प्. ५२०)
एकीभूतानि सञ्चित्य युगान्तकिरणत्विषः
बीजे तु ईश्वरः साक्षात् द्योतयन्तं देवि संस्थितम् ।
नवात्मानं वरारोहे ज्ञातव्यन्तु सदाशिवः
बीजयोनिनत्वात्मानां त्रयाणां रश्मयो बुधैः ।
पिण्डीभूताश्शिरस्थाने बिन्दुरेको विचिन्त्यता
तस्योपरि शिखा दिव्या नादं परमदुर्लभा ।
तस्यातिते स्थिता शक्तिः द्योतयन्ती समन्ततः
बिन्दोस्त्वीश्वरो ज्ञेयो * न्नदोर्ज्ञेयो सदाशिवः ।
शक्तिस्तु देवदेवेशि त्वमेव परिकीर्तिता
परत्वमपरश्चैव मातृका या प्रकीर्तिता ।
प्. ५२१)
सांपृतं शृणु देव्यत्र तत्वानां कथयामि ते
उकारः प्रकृतिर्ज्ञेयो रूपत्रयसमन्विता ।
कृष्णं रक्तं तथा श्वेतं ध्यातव्यं योगिभिस्सदा
स्थानं पूर्वं मया ख्यातं ज्ञातव्यं देशिकेन तु ।
यकारं पौरुषं तत्वं शिवरूपं विचिन्तयेत्
सद्योतमदृशं वाऽपि आपरिध्वे तु पुष्करे ।
एतद्ध्यानपरो भूत्वा योगसिद्धिमवाप्नुयात्
वकारो नियतिः ज्ञेया तव वर्णं विचिन्तयेत् ।
अयं वा शुक्लकृष्णञ्च रक्तसूत्रेण चोदितः
तादृशं ध्यायमानस्तु न्यासकाले वरानने ।
प्. ५२२)
सिध्यते नात्र सन्देहः सत्यं देवि वदाम्यहम्
धूम्रवर्णाधरतलं लकारं कामरूपिणम् ।
द्योतयन्तं स्वकं स्थानं ध्यातव्यं शुद्धिमिच्छता
नीलमेघनिभाकारं मायातत्वसुभैरवम् ।
द्योतयन्तं स्वकं स्थानं ध्यात्वा सिद्धिर्न संशयः
विद्यां वै रक्तवर्णाढ्यां न्यासकाले विचिन्तयेत् ।
सिध्यते ह्यविचारेण साधकस्सुसमाहितः
पूर्वाक्ता ये महारूपाः तेन सिद्ध्यन्त्यसंशयः ।
ईश्वरस्तु रकारो वै चित्ररूप उदाहृतः
द्योतयन्तं महातत्वं मूर्धस्थाने व्यवस्थितम् ।
प्. ५२३)
सिध्यते ह्यविचारेण एवं न्यासं विचिन्तयेत्
हंकारमीश्वरादूर्ध्वं देवदेवं सदाशिवः ।
ध्यातव्यं योगिभिर्नित्यं युगान्तकिरणत्विषा
तेनेदं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
अनेन सिद्ध्यते योगी सर्वज्ञत्वं प्रवर्तते
बिन्दुनादं समाख्यातं शक्तेश्चैव समासतः ।
कथितं स रहस्यन्तु न मया गोपितं तव
पृथिव्यादीनि तत्वानि शृणु देवि वदाम्यहम् ।
शुक्लपद्मोपरिष्ठात्तु शोभयन्ती महायशाः
बालस्त्रीरूपिणी श्यामा आदित्यसमतेजसा ।
प्. ५२४)
एवं रूपधरी ध्यात्वा विन्यसेत्पादयोर्धराम्
सन्ततिध्यानयोगेन विषमाशु विनाशयेत् ।
आचार्यः सर्वभूतानां यथैव वसुधा भवेत्
श्यामध्यानपरो भूत्वा आत्मन्यासन्तु कारयेत् ।
वायुञ्जानुप्रदेशे तु पीतवर्णं विचिन्तयेत्
सिध्यतेऽनेन योगेन न्यासेन सुसमाहितः ।
आकाशं भुविरं रूपं ध्यातव्यं योगिभिस्सदा
ऊरुयुग्मे महादेवि न्यासकाले विचिन्तयेत् ।
अहङ्कारं तथा रक्तं गुह्ये चात्मनि विन्यसेत्
आदित्योदयसङ्काशं न्यासकाले विचिन्तयेत् ।
प्. ५२५)
कुङ्कुमारुणसङ्काशं चतुर्वक्त्रं चतुर्भुजम्
चिन्तयेदक्षसूत्रैस्तु द्योतयन्तं समन्ततः ।
न्यासकाले तु देवेशि बुद्धिमेवं विधं न्यसेत्
प्राकृतं पूर्वमाख्यातं पौरुषञ्च विशेषतः ।
ते त्वया विदिता देवि कलानां शृणु सांपृतम्
निवृत्तिश्शुक्लवर्णाभा आपादात्कटिरन्ततः ।
द्योतयन्ती समन्तात्तु रश्मिभिर्हिमशीतलैः
प्रतिष्ठा पीतवर्णाभा हृदि कट्यान्तु यावधि ।
न्यासकाले तु ध्यातव्या योगमुत्पद्यते सदा
विद्या तु रक्तवर्णेन हृदि कर्णावधि स्थिता ।
प्. ५२६)
द्योतयन्ती वरारोहे न्यासकाले विचिन्तयेत्
आकर्णमूर्धनि यावत् शान्तिं वै विन्यसेत्सदा ।
चन्द्रातपप्रतीकाशां मुञ्चन्तीममृतं सदा
ध्यातव्या योगिभिर्नित्यं न्यासकाले विचिन्तयेत् ।
सु सूक्ष्मा हृदयं यावत् ध्यातव्या नित्यमेव हि
बालातपत्रनीकाशा न्यासकाले विचिन्तयेत् ।
अमृताकर्णमाश्रित्य अनेककिरणोज्वला
नीवातातपसङ्काशा न्यासकाले विचिन्तयेत् ।
अमृतामृतकला या तु अनौपम्या ह्यनामया
तद्ध्यानान्मुच्यते देवि जन्मसंसारबन्धनात् ।
प्. ५२७)
मृत्युञ्जयेषिभिर्दिव्या ध्यातव्या नित्यमेव हि
अमृतामृतेति या ज्ञेया जरामृत्युविनाशिनी ।
कर्णिके देवतान्यासं कर्तव्यं सिद्धिमिच्छता
तेषां रूपं समाख्यातं यस्य एवं महात्मनः ।
क्षुषा हि देवेशि वेदितव्यानि देशिकैः
वक्त्रं तथैव विज्ञेयं वेदितव्यं प्रयत्नतः ।
हृदि पद्मस्य विन्यासं शृणु देवि वदाम्यहम्
अनन्तं पूर्वमेवोक्तपद्मञ्च वरवर्णिनी ।
धर्मपादो भवेत्छुक्लो ज्ञानं रक्तं विचिन्तयेत्
वैराग्यं पीतमित्याहुः ईश्वर्यं तमसन्निभम् ।
प्. ५२८)
गात्रकाणि तथैवेह छदनानि तथैव च
शक्त्यो गोरचनाभास्तु केसरा अरुणोपमा ।
एवं पद्मस्य विन्यासं यागकाले विचिन्तयेत्
दीक्षाकाले तु देवेशि नित्यमेवं विचिन्तयेत् ।
तत्तन्यासे तु ते देवि ततस्तत्वं विचिन्तयेत्
तेन सर्वमिदं तत्वं व्यापितं सर्वमेव तु ।
तस्य तेजस्मृतास्सर्वे ये केचित् समुदाहृताः
तेजसा तस्य दीप्यन्ते सर्वतत्वा न संशयः ।
एकैके तु कृते न्यासे एकैकं तेन भाषयेत्
तदा तत्वगणास्सर्वे सिद्धिमुक्तिफलप्रदाः ।
प्. ५२९)
मन्त्रास्तथैव ज्ञातव्या कलाश्चैव समन्ततः
एवं न्यासं पुरा कृत्वा सामर्थ्यं सर्वकर्मसु ।
उच्चाटे मारणे चैव ताडनेऽपि वरानने
शूलहस्तमहारौद्रा क्रोधलोहितलोचनाः ।
भ्रुकुटीकरालवदना क्रूरकर्मसुयोजयेत्
ऊर्ध्वकेशा महारौद्रा कृष्णवर्णा भयावहाः ।
कृशयन्तीं सदा देवि चिन्तयेन्मन्त्रदेवताम्
मुद्गरायुधहस्ताञ्च शूलखट्वाङ्गधारिणीम् ।
पाषाणधारिणीञ्चैव काष्ठहस्तांस्तथैव च
हुङ्कारमादिसंयुक्तां फट्कारान्तेन दीपिताम् ।
प्. ५३०)
मारणोच्चारणादीनि कुरुते नात्र संशयः
शान्तिके पौष्टिके चैव शृणु देवि वदाम्यहम् ।
सौम्यां शुक्लीं महादेवि श्वेतपद्मे व्यवस्थिताम्
श्वेतपद्मधरास्सर्वे कुंभहस्तास्तथैव च ।
चन्द्रांशुधवलस्सौम्याः प्रासादं सव्यपाणिना
ध्यातव्या देवता देवि पौष्टिके शान्तितर्पणे ।
वशीकरण आकर्षे पाशमङ्कुशधारिणीम्
रक्तवर्णाश्च ते सर्वे ध्यातव्यास्साधकेन तु ।
स्तंभने कृष्णवर्णान्तु नित्यमेव विचिन्तयेत्
मूर्तिन्यासं पुरा कृत्वा पश्चान्यासं समारभेत् ।
प्. ५३१)
एष देवि समाख्यातो न्यासः परमदुर्लभः
अनुकूले तु भक्ते तु मया तु कथितं तव ।
एवं न्यास इह प्रोक्तः सर्वमन्त्रेषु चोत्तमः
ब्रह्महत्यादिकैः पापैः न्यासादेव प्रमुच्यते ।
अभोज्य भक्षणं कृत्वा हत्वा लोकं चराचरम्
मुच्यते नात्र सन्देहो न्यासं कृत्वा नराधमः ।
सुवर्णस्तेयगोदानं हुत्वा बहुतराणि च
मुच्यते तत्क्षणाद्देवि न्यासं कृत्वा न संशयः ।
एवं न्यासविधिं कृत्वा आचार्यस्सुसमाहितः
मोचयेद्दर्शनादेव नात्र कार्या विचारणा ।
प्. ५३२)
कालयागविधानेन देशिको यजते यदि
न शक्तो देवि तस्याहं प्रसक्तं गुणसंपदम् ।
एकाहमपि मया न्यासं कुरुते साधकोत्तमः
मुच्यते नात्र सन्देहो जन्मसंसारबन्धनात् ।
सप्ताहमभ्यसेद्यस्तु इमं न्यासं समाहितः
एकविंशकलानाशु नरकान्नयते शिवान् ।
मासादुत्पद्यते योगः त्रिसन्ध्यं यस्तु चिन्तयेत्
षण्मासं योगयुक्तस्तु यं धर्मं मनसि चिन्तयेत् ।
सर्वं संपादयत्येष लोकस्यैव हिताहितम्
वत्सराभ्यासयोगेन देवेश समतां व्रजेत् ।
प्. ५३३)
त्रैलोक्यस्य तु वृत्तान्तं कथयेन्नात्र संशयः
द्विरब्दं योगयुक्तस्तु लोकालोकञ्चराचरम् ।
गच्छते नात्र सन्देहः साधकस्सुसमाहितः
निदानखद्यमानानि क्षेत्रनादमनेकधा ।
सिद्ध्यते नात्र सन्देहः योगिनस्तु न संशयः
उच्छिष्टान्तर्दधाने च पादलेपरसायने ।
आकाशगमनञ्चैव दण्डकाष्ठपवित्रकम्
योगञ्च जनसिद्धिञ्च सिध्यते नात्र संशयः ।
ज्ञात्वा न्यासमिदं देवि विन्यासमन्यत्पलालवत्
लक्षाह्यत्रैव ज्ञातव्यास्तत्वान्यत्रैव सुवृते ।
प्. ५३४)
आत्माह्यत्रैव ज्ञातव्यो देवाश्चैव विशेषतः
एतद्देवि न दातव्यं पुत्रस्यापि वरानने ।
साधकस्य च दातव्यमाचार्यस्य तथैव च
अन्येषां दुष्टमर्त्यानां श्रेयसोऽपि न पातयेत् ।
देव्युवाच
पञ्चब्रह्मेशवाङ्गानां रूपाणि कथयस्व मे
तैर्विना लभते सिद्धिं विद्याङ्गैश्च तथैव च ।
ईश्वर उवाच
पञ्चब्रह्म शिवाङ्गानां सामान्यं परमेश्वरि
सर्वत्र जायते देवि रूपलक्षणसंयुतः ।
नवसूत्रे पुरा प्रोक्तः रूपास्ता एव शोभने
वक्त्रयोगं समाख्यातं ज्ञातव्या देशिकेन तु ।
हृदयस्य प्रवक्ष्यामि रूपं शृणु सुलोचने
शुद्धस्फटिकसंकाशं किरणैरपि सङ्कुलम् ।
द्योतयन्तं ह्यधश्चोर्ध्वं हृत्प्रदेशे व्यवस्थितम्
हृदि ध्यानपरे देवि न्यस्यते नात्र संशयः ।
शिरन्यासं शिरो देवि हारकुन्देन्दुसन्निभम्
द्योतयन्तं समन्तात्तु न्यासकाले विचिन्तयेत् ।
इन्दुकोटिप्रतीकाशं शिखां देविं विचिन्तयेत्
स्रवन्तीममृता धाराः प्लावयन्तीं विचिन्तयेत् ।
प्. ५३६)
तेन न्यासेन ध्यानेन साधकस्सुसमाहितः
सिध्यते नात्र सन्देहो जरारोगविवर्जितः ।
कवचं सर्वगात्रेषु सूर्यकोटिसमप्रभम्
सर्वविघ्नहरञ्चैव ज्वलन्तं सर्वतो मुखम् ।
न्यासेन सिध्यते देवि नात्र कार्या विचारणा
अस्त्रं हस्तप्रदेशे तु न तु स्वाङ्गेषु योजयेत् ।
त्रासयन्तं महादेवि विघ्नाश्चैव विचिन्तयेत्
अस्त्रं पूर्वं जपित्वा तु अयुतानि दशैव तु ।
पश्चात्तु साधनं कुर्यात् निविघ्नैः सिद्धिमाप्नुयात्
तेन सर्वं समाहृत्य दिशासु विदिशासु च ।
प्. ५३७)
अस्त्रमध्ये जपं कुर्यात् तदा सिध्यति नान्यथा
विद्याङ्गा एवमेव स्यात् कथितं तव शोभने ।
तत्र पाशुपतं हस्त्रं शिवाङ्गं घोरसंज्ञितम्
विद्याङ्गमयुतं देवि जप्तव्यं सुसमाहितैः ।
तदा निर्विघ्नतो देवि सिध्यते साधकोत्तमः
प्राकारे तु सदा चिन्त्ये जपकाले तु साधकः ।
तदा निर्विघ्नमायाति साधको नात्र संशयः
जयसङ्कर्षणं कुर्यात् विद्याङ्गे सुसमाहितः ।
कृत्वा पञ्चरवत्योगं मध्ये तु जपमारभेत्
अर्घ्यन्त्वेकादशेनैव जपमध्ये निवेशितम् ।
प्. ५३८)
प्रमाणं जपितं मन्त्रं पुनरेव तु सुवृते
पूजयित्वा यथान्यायं कल्पोक्तं कर्म आचरेत् ।
तदा सिद्धिमवाप्नोति देव्या मानुषकृत्रिमाः
क्रीडन्ते मन्त्रिणस्सिद्धाः पूर्वोक्तानां यथाक्रमम् ।
सर्वकर्मकरः श्रीमान् कर्मणा मनसा गिरा
तत्वं दृष्ट्वा जपेत्तत्वं लक्षमेकं वरानने ।
योगसिद्धिमवाप्नोति मन्त्रास्सिद्ध्यन्ति नान्यथा
रात्रौ शयनकाले तु शतमावर्तयेद्यदि ।
नष्टञ्च कथयेद्देवि शास्त्राणि विविधानि च
स एव प्रेरको देवः कथयेच्च न संशयः ।
प्. ५३९)
गुरुं ज्ञात्वा महादेवि कल्पते नात्र संशयः
देव्युवाच
शब्दस्पर्शादिरूपेभ्यः इन्द्रियेभ्यस्तथैव च ।
यस्मिन् स्थाने तु ते शोध्याः एकदिक्कामवेदितुः
ईश्वरः
शृणु देवि प्रवक्ष्यामि यस्मिन् सिद्ध्यन्ति शोभने ।
तथा ते कथयिष्यामि तदेकाग्रमनाः शृणु
पृथिव्यापस्तथा देजो वायुराकाशमेव च ।
पञ्च पञ्च सुवैयोज्या देशिकेन महात्मना
पृथिव्यादि गुणा ये तु पृथिव्यां स्तांस्तु शोधयेत् ।
प्. ५४०)
एवमत्वं तथा तेजो आशुगे वै तथैव च
पृथिव्यां गन्धतन्मात्रं विषयां गन्धसंज्ञितम् ।
कर्मेन्द्रियचरुस्थञ्च श्रोत्रज्ञानेन्द्रियं स्मृतम्
एवमादिक्रमेणैव शोधनीया विपश्चिता ।
शाक्तौ शिवं तथैवेह एकैकं क्रमशस्तथा
शोधयेत्पञ्चसु तथा पृथिव्यादिषु शोभने ।
अहङ्कारस्तथा षष्ठो अनुलोमाद्विशोधयेत्
एषा ते कथिता दीक्षा मन्त्रोद्धारमशेषतः ।
कलानां निर्णयञ्चैव तत्वानां निर्णयस्तथा
पदानाञ्च समासेन व्याख्यातं तव शोभने ।
प्. ५४१)
ज्ञात्वा भक्तिमयं शिष्यं दीक्षां व्याख्यातुमर्हसि
इति निश्वासकारिकायां अष्टचत्वारिंशत्पटलः ।
देव्युवाच
सकलं देवदेवेश श्रुतं विस्तरतः प्रभो ।
निष्कलं श्रोतुमिच्छामि सकलं व्याप्य विष्ठितम्
ईश्वरः
अतः परं प्रवक्ष्यामि शिवधर्मं सनातनम् ।
येन मुक्तस्सधर्मात्मा धर्मोत्सन्नो निगद्यते
प्रभुस्वतन्त्रश्च सदा सदासंपूर्णलक्षणः ।
अमेयस्सर्वगश्शुद्धः सर्वशक्तिकलान्वितः
प्. ५४२)
व्याप्य कृत्स्नां स्थितो लोकाननन्तादिशिवान्तकान् ।
एकान्तावस्थितो ह्येषः शिवशक्तिसमन्वितः
ईशत्यग्रे स भगवान् ईशिनीभिश्शिवोऽव्ययः ।
जगत्कृत्स्नं महायोगं शक्तियोगं मरीचिभिः
स्थाप्यते विंशके चैव पशून्यस्मात्स्वशक्तिभिः ।
शान्तत्वात् स्वकर्तृत्वात् शक्तिमत्वान्महौजसः
शासनाच्छमनाच्छक्ति क्षेत्रज्ञानुग्रहं प्रति ।
प्रकुर्वन्ति जगत्कृत्स्नं शक्तयस्ता महात्मनः
शिवेनाधिष्ठितं यस्मात् जगत्सर्वं चराचरम् ।
सर्वाकारमनाकारमनौपम्यमनामयम्
प्. ५४३)
सर्वैस्सर्वकलाव्यापी सूक्ष्मस्तन्मयां गतः ।
मन्त्रतेजोमयोनित्यमचिन्त्यः परमश्शिवः
सर्वप्रमाणदूरस्थः तुर्यातीतः परापरः ।
वाग्विशुद्धः परज्योतिः स्वतेजो दृढगोचरः
अप्रमेयमनिर्देश्यमनौपम्यमनामयम् ।
सुसूक्ष्ममव्ययन्नित्यं कारणं ज्योतिरुत्तमम्
सोमार्कानलतेजोभिः पिण्डीकृतसहस्रशः ।
विद्युत्परार्धकोटीनां तत्तेजो व्याप्य तिष्ठति
वैद्युतञ्चन्द्रसूर्यौ च नक्षत्राणि हुताशनः ।
तेजसा तस्य दीप्यन्ते महातेजाश्च स स्मृतः
प्. ५४४)
मणेरिव मणिं तेजः स्वतेजोपरिसंवृतः ।
एवं व्रतः परो देवः स तेजस्तेजसामपि
व्योमस्थं व्योमवन्नित्यं व्योमसाधर्म्यरूपिणम् ।
निर्मलादर्शकप्रख्यं शरद्वारिसमप्रभम्
अभिख्यामिव सूर्याणां युगपद्युदयं यथा ।
अत्यन्तनष्टतमसा ऊर्ध्वभासा दिशो दश
विधा विचिन्त्यदलक्ष्यमचिन्त्यरूपमीश्वरम् ।
नित्यं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम्
सर्वगं सर्वकृत्सर्वस्सवेशस्सर्ववित्प्रभुः ।
सर्वभूतात्म भूतस्थ परं व्योमशिवोऽव्ययः
प्. ५४५)
भोज्यं भोक्ता च दाता च सर्वतत्वतनुःपरः ।
निश्चित्य कर्तृकर्ता च सर्वभूतपतिश्शिवः
नानाशिवसहस्राणि पद्मसर्वयुतानि च ।
सर्वे शुद्धाश्च नित्याश्च ये स्थिताश्शिवगोचरे
सूर्यकोटिप्रभास्सर्वे शुद्धाश्चैव स्वभावतः ।
पृथग्रूपन्तु यत्प्रोक्तं साधकैः शास्त्रचिन्तकैः
महास्थानमहाज्ञानं महाप्रस्थानमेव च ।
महाद्युतिर्महाभूतिः महातेजा महायशाः
अप्रतर्क्यमविज्ञेयं स्वरूपे संप्रतिष्ठितम् ।
अग्राह्यं सर्वभूतस्थमक्षोभ्यञ्चाव्ययं तथा
प्. ५४६)
अघोषमस्वरञ्चैव आत्मसंवेद्यमव्ययम् ।
आत्मसंस्थञ्च विज्ञेयमरूपञ्चाप्रतिष्ठितम्
अक्लेशमक्षयञ्चैव समस्तं व्याप्तरूपिणम् ।
अजञ्चानन्तरूपञ्च अगोत्रपितृमातृकम्
अनस्थिसज्जरुधिरं अत्वचं ह्यकलेवरम् ।
अनादिमध्यनिधनमचाल्यमचलं ध्रुवम्
अप्रसारितविस्तीर्णमव्युच्छन्नं समन्ततः ।
समञ्च सर्वभूतेषु सततं विततन्तनुम्
स बाह्येभ्यन्तरे सर्वे सर्वालयमनालयम् ।
निर्मलं निरहङ्कारं निर्बुद्धिञ्च निरिन्द्रियम्
प्. ५४७)
निर्गुणं निश्चलञ्चैव निष्प्रपञ्च निरामयम् ।
नित्योदयं निराभासं निर्विकल्पं निरामयम्
निस्संशयन्निरौपम्यन्नित्यं नित्योदितं तथा ।
न निम्नं नोध्रितञ्चैव न वक्रन्न च वा ऋजुः
न दीर्घन्न च वा ह्रस्वं न स्थूलं न च वा तनुः ।
न त्रिकोणं चतुष्कोणं न चैव परिमण्डलम्
न चैव कश्चिदाकारस्सर्वाकृति निराकृतिः ।
न परोक्षं समक्षञ्च न गतिर्न च वा गतिः
नो परिष्ठान्न चाधस्तात् नाग्रतो न च पृष्ठतः ।
न चास्ति न च वा नास्ति सर्वस्थं किमवीष्ठितम्
प्. ५४८)
न शरीरं पृथक्त्वेन न चैकस्थं व्यवस्थितम् ।
न परं प्रत्ययं वेद्यन्नापरं किञ्चिदुच्यते
शिवं सूक्ष्मञ्च विज्ञेयं सृष्टिसंहारवर्जितम् ।
न तत्र जायते सृष्टिः संहारो नैव जायते
अनारंभमनुत्पाद्यमक्षयञ्चानलं तथा ।
अव्ययञ्च ध्रुवन्नित्यमनौपम्यमनामयम्
अनाश्रितमनादञ्च अविकारी तदुच्यते ।
सदा शान्तं सुनिर्वाणं परितृप्तञ्च सर्वतः
सर्वभावविनिर्मुक्तं क्रियाकालविवर्जितम् ।
अभोज्यञ्चाप्यभुक्तञ्च स्वच्छञ्चैव सुनिर्मलम्
प्. ५४९)
अप्रमेयमविज्ञेयं सर्वज्ञं सर्वतोमुखम् ।
धर्माधर्मगुणैहीनं संश्रितं न च केनचित्
न चिन्तयित्वा मा भाति न च शक्यं प्रकाशितुम् ।
विरजं चारजं शुद्धं शिवधर्म पविश्च यत्
भावाभावविनिर्मुक्तं मायामायिविवर्जितम् ।
दूषणादोषरहितं न चलं नावचालितम्
प्रत्यक्षादिप्रमाणैस्तु न च शक्यं प्रकाशितुम् ।
अनन्तनहनं सूक्ष्मं प्रमाणातीतलक्षणम्
सर्वागमैरगम्यञ्च बहिरन्तश्च संस्थितम् ।
सर्वकारणधर्मञ्च कारणातीतलक्षणम्
प्. ५५०)
एवमेव महातत्वमसादृश्य गुणै स्थितम् ।
न च तच्छक्यते ज्ञातुं विना तस्याप्यनुग्रहात्
कर्तानुमानबुध्या च शास्त्रणाञ्च विकल्पनात् ।
गुरुवक्त्रात्तु लभ्येत तच्छक्त्या संप्रचोदितात्
तत्वरूपं वरं यस्मात् निस्तत्वं तत्ववर्जितम् ।
यः प्रपद्येदिदं सर्वं ज्ञातं तेनापि सर्वतः
आदौ मध्ये तथाचान्ते वस्तु शुद्धश्च यत्पदम् ।
तदीर्यतेनात्र भेदेन मनसा तु मनोन्मनौ
व्यापिनं सर्वभावानां शुद्धाशुद्धत्वलक्षणः ।
अशुद्धं शुद्धतत्वन्तु व्योमामृतपदोद्भवः
प्. ५५१)
न तस्माच्छक्यते वक्तुं विज्ञेयं निष्कलं शुभम् ।
स्वप्रकाशपरं वेद्यं न केनापि प्रकाशते
यथा पुमान् स्वविषयान् स्वशक्त्यान्ववलोकते ।
तथाऽसौ परमो देवः स्वशक्त्रैवावलोकते
सर्वज्ञश्च सुसंपूर्णः स्वभावविमलश्शिवः ।
सर्वदोषविनिर्मुक्तमसामान्यगुणोदयः
न पार्वतीपतिरसौ च कपालशूली-
नासावपि त्रिपुरहानशशाङ्कमौलिः ।
एकान्तशान्तरहितः सततप्रवाहः
कोपप्रसादरहितः प्रभुरन्य ईशः
प्. ५५२)
शिवमादौ शिवमध्ये शिवमन्ते च सर्वदा ।
महामालञ्जनाजालव्यतीततनुरीश्वरः
जन्ममृत्युजरामोह कामक्रोधभवोद्भवाः ।
न विद्यन्ते यतस्तस्य शान्तं शिवपदं ततः
ब्रह्मादिकारणेशानां शिवत्व सा दर्शनात् ।
शिवत्वं गीयते शंभोः सदा सौम्यं महात्मनः
शिवमेकान्तकल्याणमनौपम्यमनामयम् ।
सर्वमङ्गलमाङ्गल्यं नित्यं शुभकरं शिवम्
अर्हस्तु पूजनीयार्थास्सर्वे भूतपतिर्द्विजैः ।
जगद्गुरुस्सविज्ञेयः सर्वालङ्कारसंयुतः
प्. ५५३)
कारुण्यभस्मलिप्ताङ्गं शान्तिखट्वाङ्गधारणः ।
निस्सहत्वजटाधारः शिवचन्द्रकिरीटवान्
ज्ञानशूलधरो नित्यं कृपाजिह्वाग्रपन्नगः ।
निरावरणमन्नत्वं त्रैलोक्यं दिव्यचक्षुषः
कामात्मतापनो देव इच्छाशक्तिविभूषितः ।
अचलश्शाश्वतो व्यापी अजोनित्यस्वयंभुवः
अप्रवृत्तस्सुसंवृत्तो ज्ञाता कर्ता च शाश्वतः ।
सर्वज्ञः सर्वकर्ता च सर्वतोक्षिशिरोमुखः
* * * सर्वभूतः शिवो ज्ञेयस्तु शाश्वतः ।
अनक्षरमनुत्पाद्यमनिर्देश्यमनामयम्
प्. ५५४)
तत्वावभासकं नित्यं ऐश्वर्यं ज्ञानमुच्यते ।
साक्षिवत्संस्थितो नित्यं त्रिप्रकारस्य कर्मणः
स भित्वा नाभिमध्यं तं संसारं न च संमृशेत् ।
यस्य यस्य मनश्चेष्टा शुभे वा यदि वाऽशुभे
समन्तात्सर्वभूतानां ज्ञस्वभावञ्च व्यापकः ।
क्षणं यत्पश्यते सर्वं सुखदुःखं हिताहितम्
संसारमण्डलं कृत्स्नमादिमध्यान्तसंस्थितम् ।
सर्वमात्मनि पश्येत न च संयुज्यते विभुः
सर्वभूतकृतं कृत्स्नं सङ्कल्पाध्यवसायिनम् ।
शृणुते मनुते नित्यं न तु युज्यति सर्वतः
प्. ५५५)
शब्दस्पर्शञ्च रूपञ्च रसं गन्धं शुभाशुभम् ।
श्रोता वक्ता च भोक्ता च मन्ता च सुखदुःखयोः
प्रादात्सर्वत्र सर्पादश्चेता पश्यन् शृणोति च ।
अशेषभुवनव्यापी निश्शेषो बन्धमोक्षकृत्
सर्वज्ञः सर्वकरणः सृष्टिसंहारकारकः ।
अनादिमध्यनिधनः प्रभवः सर्वतत्वगः
सृष्टिसंहारकर्ता च क्रीडया प्रभवेश्वरः ।
सर्वज्ञश्च प्रबुद्धश्च प्रकको बोधकस्तथा
पालको जलपाल्यश्च निग्रहानुग्रहेश्वरः ।
उत्पादकोह्यनुत्पाद्य आशास्यः शासिता तथा
प्. ५५६)
ससर्वदीपसंवेद्यो ध्रुवश्शान्तोऽथ निर्मलः ।
इच्छया सकलो देव इच्छया कलवर्जितः
इच्छया च सृजत्येन इच्छया संहरत्यपि ।
प्रवृत्तस्य विरोधीते विनाशोत्पत्तिकारणम्
निर्मलोधिकमानश्च अप्रमेयः प्रमाणवित् ।
सर्वसंभवहेतुश्चाप्यहेतुश्च सनातनः
सुधामा शाश्वतो नित्यः प्रभवः कारणेश्वरः ।
सर्वकारणधर्मश्च शक्तिभिः प्रविभाव्यते
स्वतो धर्मश्च भगवान् प्रतीघातविलक्षणः ।
अनादिख्ययश्चैव अविचाल्यो विचालकः
प्. ५५७)
भोक्ता चैव तु भोक्ता च व्यापकः परमेश्वरः ।
शक्तिभिश्चाप्रमेयश्च तृप्तश्च भगवान् शिवः
अक्षोभ्यश्चैव विक्षोभ्य तत्वानाञ्च विशेषतः ।
अतर्क्यचेष्टितो देवः प्रभुः प्रभवतामपि
बुद्धिमत्पूर्वको देवः परं व्योम परात्परः ।
स तस्मात् ज्ञानमात्रेण निष्ठीवे हि स प्रेरितः
ओषधी योगवच्चैव यथाऽप्य बलिना बलः ।
प्रेरको निष्कलो ह्येष यथा सकलनिष्कलः
सुसूक्ष्मत्वादमेयत्वादीशित्वात्परमेश्वरि ।
शक्तिराद्यातिविमला शक्तिभिन्ना निवार्यते
प्. ५५८)
सुसमिद्धो यथा वह्नि स्थलन्दहति शाड्वलम् ।
भवेति शक्तिजिह्वत्वं प्रदीप्यन्तं निवार्यते
उत्पत्तिविलयानान्तु स्थित्यनुग्रहकारिणः ।
कृतप्रसादनोपाय लक्षणं गीर्यते प्रभोः
कालस्तरुष्वमूर्तोऽपि करोति कुसुमोच्चयम् ॥
फलानाञ्च तथा शेषां पतनञ्च यथा निशम्
तथोत्पत्तिविनाशानां कर्ताशंभुरमूर्तिमान् ।
अयस्कान्तगताशक्तिरमूर्ता कुरुते क्रियाः
गृह्णात्यधो यथा तत्वं शिवशक्तिरनामया ।
शक्तयश्शङ्करवशाद्वर्तन्तेत्यन्तनिर्मलाः
प्. ५५९)
कर्ता स एव जगतः परोऽपि स इहोच्यते ।
न करोति स्वयं यस्मात् शान्तस्तेन निगद्यते
न हि कर्ता कारयिता नित्या देवस्सदाशिवः ।
यथा कृषीवलाहीनां स्वकर्माण्यनुवर्तिनाम्
जरा जातिना प्रसादेन न विना फलदानि तु ।
एवं सर्वाणि कर्माणि जपध्यानानि कानिचित्
महेश्वरप्रसादेन न विना फलदानि तु ।
अतीतस्सर्वभावानां अचिन्त्यगुणवर्जितः
सर्वकृत् सर्वस्वभूतेन सनातनः ।
न चासौ चेन्द्रियग्राह्यो न करेण न चक्षुषा
प्. ५६०)
आत्मनैवात्मना ग्राह्यो सर्वशः प्रभुरीश्वरः ।
पूरयती निरवशेषं समस्ततनुरीश्वरोप्यतनुः
सकलपशुबन्धमोक्षप्रलयोत्पत्ति हेतुरेक एषः ।
अधितिष्ठति भूतानि गूढश्शब्दादिवर्जितः
सर्वशश्शान्तस्सर्वज्ञः प्रभूरीशान अव्ययः ।
ओतप्रोतमनाद्यन्तं शक्तिभिर्व्याप्य संस्थितः
चराचरं विश्वमिदं ओजसा सर्वतोमुखः ।
सर्वतः सर्वभूतेषु स्थावरेषु चरेषु च
सर्वबीजकलाव्यापी सर्वं व्याप्य व्यवस्थितः ।
अग्रे प्रकाशयेद्यस्मात् अग्रे शिववाच्छिवाध्वरे
प्. ५६१)
सर्वासित्वाच्च तत्वानां अग्निर्वै सर्वतोमुखः ।
सर्वान्तस्समाधिस्थ अन्तःकरणगोचरः
यदग्रे लक्ष्यते सूक्ष्मं योगिभिस्तदुपास्यते ।
सर्वात्मा सर्वभूतानां सर्वभूतविवर्जितः
भावात्मा सर्वभावानां सर्वभावविवर्जितः ।
प्रधानगुणसंहर्ता तत्वं मया वरं स्मृतम्
सर्वभूतगुणावस्थस्सर्वभूतगुहाश्रयः ।
सर्वभूतात्मसंस्थानं सर्वत्र गतमव्ययम्
जयावृत्तं सुसंपूर्णं शुद्धं स्वात्मव्यवस्थितः ।
एवं परमनिर्वाण स्वमायी परमश्शिवः
प्. ५६२)
अनादिमध्यनिधनो निर्द्वन्द्वः च्छिन्नसंशयः ।
एष दुःखातिगो हेतुरेष क्षेमकरश्शिवः
विकारदेशोपमतुल्यवर्जितः
तथोपमा रूपनिरस्तसंस्कृतिः ।
अभावभावेन विलक्षणो धियः
शिवस्सदाकारणकारणान्तरः
वस्तु यस्मात् क्वचित् किञ्चित् तादृगन्यन्न विद्यते ।
स निर्वाणः परश्शुद्धो निर्मायी परमश्शिवः
एष ते निष्कलो देवः सकलेन समन्वितः ।
अनुध्यानेन तन्नित्यं स्मरन्ती मनसा धियः
प्. ५६३)
कारिकायां महादेवि कथितं तव सुवृते ।
निश्वासे तु परे तन्त्रे निष्कलस्सकलस्य तु
शिवधर्ममिदं सारं सर्वतन्त्रोत्तमोत्तमम् ।
देयं शैवाभिषिक्ताय न दद्यात्परदीक्षिते
इति निश्वासकारिकायां एकोन पञ्चाशत्पटलः ।
देव्युवाच
भगवन् देवदेवेश गोवृषाङ्कितशासन ।
सर्वज्ञः सर्वकर्ता च प्रसादी भव मे प्रभो
सर्वेषामेव मन्त्राणां समुदायं महेश्वर ।
प्. ५६४)
कथयस्व महादेव मन्त्रचारं मम प्रभो
व्योमव्याप्यादितः कृत्वा पञ्चाङ्गानां तथैव च ।
ब्रह्मणाञ्चैव देवेश कथयस्व प्रसादतः
मातृकायां कथं ह्यात्मा भिन्नाभिन्नेषु वर्तते ।
कलेषु क्रियती संख्या प्रभुः किरति साङ्कुरः
मान्त्राणां वर्णसंख्यायां कथं ह्यात्मा व्यवस्थितः ।
दशात्ममादितः कृत्वा तस्याङ्गानां यथाक्रमम्
समुदायेन देवेश कथयस्व यथातथम् ।
पदेषु कियती संख्या प्रभुश्चरति नित्यशः
कलानां सर्वमन्त्राणां अन्तः करणवर्जितः ।
प्. ५६५)
कथञ्चरति देवेश कथयस्व च शङ्कर
अध्यात्मकेन देवेश कथयस्व मम प्रभो ।
ईश्वरः
शृणु देवि महाज्ञानं यत्त्वया परिपृच्छ्रितम्
न कस्यचित् समाख्यातं कथयामि तवाखिलम् ।
सर्वेषामेव मन्त्राणां मन्त्रचारमनुक्रमात्
येन विज्ञातमात्रेण मुच्यते सिध्यतेऽपि च ।
मन्त्रचारं महादेवि दुर्लभं त्रिदशैरपि
एकैकपदवर्णेषु विभज्यवरवर्णिनी ।
कथयामि न संदिग्धं प्राणेन सह सुवृते
प्. ५६६)
पूर्वमेव समाख्यातं सहस्राण्येकविंशतिः ।
षट् शतेन तथा प्रोक्ता प्राणसंख्या यथाक्रमम्
तान् प्राणान् देवदेवेशि विभज्य अनुपूर्वशः ।
पदैस्तु यावती प्राणाः एकैकस्य विभागशः
यथा च चरते देही कथयामि तवाखिलम् ।
एकैकस्य तु वर्णस्य या संख्या वहतीश्वरे
कलेषु यावती संख्या शृणुदेवि यथाक्रमम् ।
एतद्भेदविधानज्ञो भिन्न देहस्स उच्यते
स ज्ञानी भूतले नित्यं मोचकस्स शिवं नयेत् ।
येन येन हि मन्त्रेण करणं कुरुते नरः
प्. ५६७)
सामरस्य च भावेन अव्युच्छिन्नस्वभावतः ।
स एवं मन्त्रमात्मानं याति नास्त्यत्र संशयः
यस्मिन् यस्मिन् पदेनैव योजयेन्मन्त्रदेवतम् ।
तन्मध्येन तु मन्त्रज्ञो मोचयेन्मुच्यतेति च
येन येन कलेनैव मन्त्री मन्त्रतनुर्भवेत् ।
तेन तेन कलेनैव मोचयेत्तत्वविद्गुरुः
येन येन तु वर्णेन आत्मानं योजयेन्नरः ।
तेन तेन हि वर्णेन मोचयेन्मुच्यतेऽपि च
येन येन हि तत्वेन कुरुते न तनुं प्रिये ।
तेन तेन हि तत्वेन मोचयेन्मुच्यतेऽपि च
प्. ५६८)
मन्त्राणां यावती वर्णास्तद्ध्यानात्तावती स्मृताः ।
तेन यष्टे हुते चैव सिध्यते मुच्यतेऽपि च
मातृका यावती वर्णा अध्वानां तावती स्मृताः ।
तेन यष्टे हुते चैव सिध्यते मुच्यतेऽपि च
एतत्ते कथितं सर्वं मन्त्राणां तव सुवृते ।
ज्ञात्वा सर्वमशेषेण दीक्षायोगजपं कुरु
पदवर्णशिवं कृत्वा पूजयेत यथाक्रमम् ।
ह्रस्वदीर्घास्तु ये वर्णाः स्वरयुक्तास्तु ये स्मृताः
ते वर्णा देवतैर्युक्ता स्तत्वैश्चैव यथाक्रमम् ।
प्रणवोद्धारभेदेन ज्ञात्वाऽत्रैव पदानि तु
प्. ५६९)
एकैकं पूजयेद्वर्णमानुपूर्वेण मन्त्रवित् ।
होमं पूर्वोदितस्तेषां कर्तव्यो देशिकेन तु
कलाभेदेन देवेशि यजते यदि देशिकः ।
कलापत्रेषु संस्थाप्य मन्त्रकर्णिकया न्यसेत्
स्वमन्त्रेण तु सर्वेषां पूजा होमविधिक्रिया ।
कर्तव्या देशिकेन्द्रेण सिद्धिकामेन भामिनी
सर्वे ते न तु भेदेन ज्ञातव्यास्तत्ववेदिभिः ।
एवं पूज्य यथा न्यायं दीक्षां कुर्वीत देशिकः
एतत्सर्वं समासेन मया ख्यातं वरानने ।
प्. ५७०)
वेदितव्यं प्रयत्नेन साधकैर्मोक्षकाङ्क्षिभिः
पुनरेव प्रवक्ष्यामि भेदामृतमनुत्तमम् ।
यज्ज्ञात्वा मुच्यतेऽवश्यं भवसंसारबन्धनात्
आध्यात्मकप्रयोगेन वेदितव्यं मनीषिभिः ।
पूर्वादारभ्य विज्ञेयमेकैकस्य यथाक्रमम्
एकाशीति त्वभावेन विभज्य वरवर्णिनी ।
कथयामि न संदिग्धं अशेषन्तु तवानघे
विभाजितेषु ये प्राणा एकैकस्य विभागशः ।
प्राणाश्शतद्वयं ज्ञेयाः प्राणतिष्ठतस्तथैव च
षट् प्राणाश्च पुनर्ज्ञेया निमेषद्वयमीश्वरी ।
प्. ५७१)
लवमेकत्तृटिस्तृंशत् ज्ञातव्यं सुरसुन्दरि
एकैके तु पदे देवि प्रभुश्चरति नित्यशः ।
अहोरात्रेण देवेशि ज्ञातव्यं सुसमाहितैः
वामे च पदवर्णेषु प्रभुश्चरति तां शृणु ।
व्योमव्यापिनि वर्णानां प्राणा वै षष्टि कीर्तिताः
त्रिभिस्तु रहिता देवि निमेषार्धं तथैव च ।
तृटिस्तु पञ्चभूतानां एकैकस्य वरानने
एवं ज्ञात्वा विमुच्यन्ते ह्यशेषपशुबन्धनात् ।
कथितं तव देवेशि पदवर्णेषु शोभने
व्योमव्यापिनमाख्यातं सद्याद्यान् कथयामि ते ।
प्. ५७२)
सद्यस्य वामदेवस्य अघोरस्य तथैव च
पुरुषेशस्य देवेशि कथयामि निबोधये ।
सद्यः कलाभिरष्टाभिः एकैके तु यथा भवेत्
चरते नित्यमीशानी कथयामि यथाक्रमम् ।
सहस्रद्वयसंयुक्तं तथा सप्तशतानि च
ज्ञातव्यं योगिनां नित्यम् चारज्ञेन महात्मना ।
अघोरे तावती ज्ञेया देशिकेन महात्मना
वामस्य संप्रवक्ष्यामि तदेकाग्रमना शृणु ।
सहस्रार्धसमाश्चैव तथा षट्तृंशतानि च
प्राणाष्षष्टि पुनर्देवि ज्ञातव्या देशिकेन तु ।
प्. ५७३)
प्राण एकस्समाख्यातो लवमेकं तथैव च
त्रिभागन्तु तृटिर्देवि वेदितव्यं प्रयत्नतः ।
पुरुषस्य प्रवक्ष्यामि शृणु देवि समासतः
सहस्राः पञ्च विज्ञेयाः शताश्चत्वार एव तु ।
एतद्देवि समाख्यातं ज्ञातव्यं तत्ववेदिना
ईशस्य कथयिष्यामि शृणु देवि समासतः ।
सहस्रास्तु समाख्याताः चत्वारो वरवर्णिनी
शतानि त्रीणि विज्ञेया विंशतिश्च न संशयः ।
एकैकस्य तु ब्रह्मस्य कला वै यावती स्मृता
तेन संख्येन देवेशि प्रभुश्चरति नित्यशः ।
प्. ५७४)
कलाचारं समाख्यातं संक्षेपान्न तु विस्तरात्
वेदितव्यं प्रयत्नेन योगिभिस्तत्वचिन्तकैः ।
शिवाङ्गान् संप्रवक्ष्यामि शृणुष्वावहिता प्रिये
येन विज्ञातमात्रेण सिद्धिमोक्षध्रुवं लभेत् ।
सर्वात्मेति समाख्यातं हृदयं परमात्मनः
षट् षडक्षरको मन्त्र उच्चारेण समो भवेत् ।
सुशिवोऽष्टाक्षरः प्रोक्तः तस्य पारं शृणु प्रिये
सहस्रद्वयसंयुक्तमेकैकस्य यथाक्रमम् ।
शतानि सप्त विज्ञेयाः ज्ञातव्यं देशिकेन तु
एतत्ते चारमाख्यातं सुशिवस्य वरानने ।
प्. ५७५)
ज्वालिन्याः संप्रवक्ष्यामि शृणु देवि समासतः
सहस्रैकं समाख्यातं शतानि च नवानि तु ।
प्राणषष्टिश्च विज्ञेयाः त्रयः प्राणस्तथैव च
निमेषास्तु तथा त्रीणि लवमेकं तथैव च ।
तृटिविश्वसमायुक्तो एकैकस्य वरानने
एवञ्चरति देवेशि ज्वालिन्या वर्णसङ्ग्रहे ।
पिङ्गलस्य प्रवक्ष्यामि तन्मे निगदतः शृणु
या संख्या चरते देवि तामेवमवधारय ।
एतस्मिन् देवदेवेशि प्रभुश्चरति नित्यशः
वर्णचारं समाख्यातं पिङ्गलस्य वरानने ।
प्. ५७६)
अस्त्रेन्द्रस्य प्रवक्ष्यामि शृणु देवि समासतः
वर्णे वर्णे यथा देवं कथयामि समासतः ।
शतानि पञ्चसंख्यानि प्राणानां सुरसुन्दरि
प्राणाश्चतुर्दश प्रोक्तं निमेषकं तथैव च ।
तृटिश्चतुर्थभागञ्च प्रभुश्चरति नित्यशः
एष ते वर्णचारस्तु अघोरास्त्रस्य कीर्तितम् ।
एतद्देवि समाख्यातं शिवपीठे तु ये स्थिताः
भिन्नावस्थेन देवेशि कथितञ्चानुपूर्वशः ।
अभिन्नाः शिवसंयुक्ताः मन्त्रा विद्योदितप्रदाः
तदेषां चारमाख्यातं तन्नित्या वस्तु ये स्मृताः ।
प्. ५७७)
शिवस्यासनमास्थानमन्त्राः सर्वज्ञकीर्तिताः
अप्रमेयाह्यनूपम्या अनिर्देश्या अनामयाः ।
पदवर्णविभेदेन कलाभेदेन ये स्थिताः
नेत्रचारेण देवेशि मन्त्रा ज्ञेयाः सदा बुधैः ।
एकैकन्तु पदा मन्त्रं जपते साधको यदि
तदाचारेण जप्तव्या साधकेन महात्मना ।
मातृकायाः प्रवक्ष्यामि सर्वशास्त्रसुसंयुतम्
येन विज्ञातमात्रेण सिध्यते साधकेश्वरः ।
तस्मात्सर्वप्रयत्नेन मातृकाचारमभ्यसेत्
एकैकोदयदा यज्ञे अचिरादेव सिध्यति ।
प्. ५७८)
अकारादिक्षकारान्ता मातृका परिकीर्तिताः
एभिश्चरति विश्वात्मा यथा शृणु सुलोचने ।
एकैकस्य तु वर्णस्य शतानि चतुरेव तु
द्वात्रिंशतिस्तथा प्राणा विज्ञेयास्साधकैस्सदा ।
तृटिरेका तु विज्ञेया साधकेन महात्मना
तृटित्त्रिभागो विज्ञेयो वर्णे वर्णे चरेत्प्रभुः ।
अभिन्नं यजते यस्तु तस्य चारो न विद्यते
एतत्ते कथितं देवि मातृकाचारमुत्तमम् ।
दशात्मदेहं वक्ष्यामि तदेकाग्रमना शृणु
सहस्रस्य द्वयं ज्ञेयं शतमेकं तथैव च
प्. ५७९)
प्राणाष्षष्टिस्तथैवेह एकैकस्य वरानने
भिन्नस्य चारमाख्यातं शिवेन परमात्मना ।
अभिन्नेषु वरारोहे भवेन्नित्योदितः प्रभुः
हृदयस्य प्रवक्ष्यामि चारं शृणु सुलोचने ।
सहस्रत्रितयं ज्ञेयमेकैकस्य वरानने
पञ्चाशीतिस्तथा प्राणा निमेषद्वयमेव च ।
द्वयमेकञ्च देवेशि तृटिरेका प्रकीर्तिता
तृटिरेका समाख्याता त्रयांशमपि सुवृते ।
हृदयस्तु समाख्यातः शिरसः कथयामि ते
तत्वानां वाचनी संख्या सकलाद्या वरानने ।
प्. ५८०)
संख्या वै तावती प्रोक्ता शिरसस्तु न संशयः
अस्त्रं तथैव विज्ञेयं चारज्ञेन महात्मना ।
नेत्रस्यैव प्रवक्ष्यामि चारं शृणु सुलोचने
सहस्राः सप्त विज्ञेयाः शतद्वितयमेव च ।
एतच्चारं समाख्यातं एकैकस्य वरानने
ज्ञातव्यं देशिकेन्द्रेण सिद्धिमोक्षार्थकाङ्क्षिणा ।
वर्णस्थं कथितं देवि भिन्नचारकथा भवेत्
शिवपीठे यदा देवि न दोषां चारमादिशेत् ।
सोनादिकस्तु भगवान् अनाख्येयं ह्यनामयम्
वर्णस्थस्य पदस्थस्य भिन्नाभिन्नस्य वर्णितम् ।
प्. ५८१)
पीठं त स तु देवेशि कथितञ्चानुपूर्वश
एवं चारविभेदज्ञो मुच्यते नात्र संशयः ।
समुदायेन मन्त्राणां कथितं तव शोभने
योगे योगजपश्चैव ज्ञातव्यो देशिकेन तु ।
संवत्सरतनुर्देवो यदि स्याद्भजने गुरुः
एकोदयेन ज्ञातव्यं देशिकेन महात्मना ।
षड्वर्णं यजते मन्त्री तस्यैव जपमारभेत्
निष्कलेन वरारोहे क्लेशेनैव सिद्ध्यति ।
भिन्नावस्थं त्रिधा कृत्वा न भूयो जन्मभाक् भवेत्
सिद्धिन्यासेन सिद्ध्यर्थं संहारो मोक्षमेव तु ।
प्. ५८२)
उत्पत्तिप्रलयं ज्ञात्वा सिध्यते नात्र संशयः
इति निश्वासकारिकायां पञ्चाशत्पटलः ।
देव्युवाच
उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
ईश्वरः
उत्पत्तिं विलयञ्चैव एतत्प्रश्नवरं महत् ।
तदहं संप्रवक्ष्यामि त्वत्प्रियार्थं वरानने
उत्पत्तिर्निष्कलो ज्ञेयः प्रलयस्सकलस्मृतः ।
प्. ५८३)
एतत् ज्ञानपदं दिव्यं स देवासुरमानुषम्
ऊर्ध्वेनैव तु सो जातः अधो नैव मृतो भवेत् ।
एतत्सूतकमित्याहुः सर्वप्राणिषु वर्तते
ऊर्ध्वं प्रेतकमेवोक्तं ज्ञातव्यञ्च प्रयत्नतः ।
द्वावेतौ त्यजते यस्तु स भवेत्तत्वपारगः
मृतके सूतकेनैव युक्तं सर्वमिदं जगत् ।
मृतकं यो न जानाति सूतकञ्च स्वदेहतः
न चासौ ज्ञानविज्ञेयो ज्ञानं तस्य कुतो भवेत् ।
भोक्तव्यं सर्वतो देवि त्यक्ते मृतकसूतके
कर्तव्योऽनुग्रहो देवि विज्ञातं मृतकसूतके ।
प्. ५८४)
सूतकं देहमध्यस्थं मृतकञ्च तथैव च
परञ्च देहमध्यस्थं प्रविचार्य पृथक् पृथक् ।
उत्पत्तिप्रलयश्चैव भूतानामागतिं गतिम्
ज्ञानार्थं चिन्तयेद्यस्तु स भवेत्तत्वपारगः ।
देवी
भगवन् श्रोतुमिच्छामि प्राणिनाञ्च हिताहितम्
कथं प्राणस्य सञ्चारः प्रतिसञ्चार एव च ।
कति प्राणास्मृता देव अब्दे तु कथयस्व मे
कस्मिन् काले चिरायुस्यात् कथं हीनायुरेव च ।
कथं दीर्घायुषञ्चैव कथं स्त्रीबालयोरपि
प्. ५८५)
विनाशं देवदेवेश कथयस्व प्रमाणतः ।
ईश्वरः
शृणु देवि परप्रश्नः त्वया देवि उदाहृतः
अयुते द्वे सहस्रैकं षट् शतानि तथैव च ।
मया पूर्वं समाख्यातं त्वयाऽपि विदितं तथा
तथैव प्राणसंख्यातो विभज्य कथयामि ते ।
वर्षे वर्षे यावती प्राणा मासे पक्षे तथैव च
अह्निप्राणास्तु यावन्तो मृतौ संख्या तु यावती ।
गणितं गणितैर्देवि प्रमेयपरिमाणतः
कथयामि यथा तथ्यं अशेषं तव सुवृते ।
प्. ५८६)
अहोरात्रेण ज्ञातव्यो कालज्ञेन महात्मना
विभज्य सर्वथा प्राणान् पूर्वोक्ता ये प्रकीर्तिताः ।
एते प्राणा मया प्रोक्ता शतभागविभाजिताः
विभाजिते भवेद्देवि एकैकस्य विभाकशः ।
शतद्वयञ्च विज्ञेयं प्राणानां वरवर्णिनी
षोडशश्चैव विज्ञातो शब्दे तत्परिमाणतः ।
तृटिरष्टौ तु विज्ञेया अहो जीवस्य सुवृते
रात्रिर्वै तावती प्रोक्ता ज्ञातव्या चारवेदिना ।
न न प्राणा स्मृतः पक्षो मासस्तद्विगुणेन च
पक्षश्चतुर्गुणेनैव ऋतवः परिकीर्तिताः ।
प्. ५८७)
अनेन अहमुख्येन ज्ञातव्यं तत्ववेदिना
शतत्रयं तथा षष्ठिः संवत्सरमुदाहृतम् ।
प्रहरे प्रहरे चैव वर्षाह्यत्र त्रयोदश
द्विगुणे पञ्चविंशत्या ज्ञातव्या वर्षाणि तु ।
अनेन क्रमयोगेन वेदितव्यं प्रयत्नतः
सांपृतं शृणु देव्यत्र अतिगुह्यं वरानने ।
न केनचिदहं पृष्टो न मया कथितं क्वचित्
तदहं संप्रवक्ष्यामि शृणुष्वेकमना मम ।
भास्करव्योदये जातं बालकं कश्चमी दिशेत्
द्वितीये वर्षे चैव तृतीये स चतुर्थके ।
प्. ५८८)
पञ्च षट् सप्तमाष्टौ च यावद्वादशकोर्ध्वतः
प्रथमे दुतये चैव पुरुषेति समादिशेत् ।
यावद्वर्षा भवेद्यूनां तावदायुर्विनिर्दिशेत्
लौकिके प्रचुरे चैव तिलाभं परिकल्पते ।
प्राणसंख्यैस्तु देवेशि ये शवाः परिकीर्तिताः
बालमध्यमवृद्धेति अदेशतत्वकारयेत् ।
प्रमेयप्राणवर्षा ये मूर्तिबाले तमादिशेत्
त्रिभागभाजिते नैव मध्यमं वृद्धमादिशेत् ।
एवं क्रमेण देवेशि ज्ञातव्यं तत्ववेदिना
द्वितीये प्रहरे चैव त्रिजातेति तमादिशेत् ।
प्. ५८९)
एवञ्चतुर्थमादेशं कृत्वा देवि समादिशेत्
मृते वा देव देवेशि विदितव्यं प्रयत्नतः ।
एवं ध्यानपरो भूत्वा योगी वै सुसमाहितः
तलामलकवत्सर्वं पश्यते नात्र संशयः ।
यो वेगिनि बिलेनैव देवतारमितं शुभम्
संज्ञेयचारवन्देवि मुच्यते नात्र संशयः ।
धानाधिवहने चैव नारी त्येवं समादिशेत्
अधो नाडीप्रभावेण शृणु देवि वदाम्यहम् ।
प्रथमे विषुवे लग्ने पुरुषस्मृतजातकः
अवसाने स्त्रियञ्चैव मध्यजातं नपुंसकम् ।
प्. ५९०)
यदाचारविभागे तु अविधज्ञास्तु योगवित्
तदा ममास्तु विज्ञेयं तेन मृत्युं समादिशेत् ।
चतुष्षष्टि स्मृता मर्म देहिनां देहमुत्तमम्
केचित्प्रत्ययभूतानि केचिदाध्यात्मिकानि तु ।
यानि कानि तथा चान्ये ज्ञातव्यानि यथाक्रमम्
आध्यात्मिकानि देवेशि दुर्विज्ञेयानि तानि वै ।
औत्पादकोनि यानि स्युः कथयामि समासतः
अकस्माज्जायते देवि देहे देहभृतां वरे ।
सीदन्ति सर्वाण्यङ्गानि दाहः शोषः क्षयो भवेत्
उत्पत्तिकेन देवेशि वेदनार्तस्य योगिनः ।
प्. ५९१)
नाडीसञ्चारतत्वज्ञो लक्षभेदा कृतश्रमः
उत्पत्तिकानाम मार्गाणां कृतकादि समारभेत् ।
मृत्युञ्जयादिभिर्योगैः पुनस्ताः समये बुधः
प्रत्यक्षं स्यन्दते मर्म ज्ञातव्यं तत्ववेदिना ।
यस्मिन् यस्मिन् भवेत्स्वेदः शृणुष्व वदामि ते
गुल्फदेशे तु प्रथमं हस्ताङ्गुष्ठौ तु मूलतः ।
बाहुसन्धिस्त्रितीया तु स्तनाभ्यान्तु चतुर्थकम्
पञ्चमं वोष्ठदेशे तु योगिभिस्समुदाहृतम् ।
कण्ठस्यैवोपरिष्ठात्तु षष्ठं वै परिकीर्तितम्
मूर्धानं वहतेह्येकं महामर्ममुदाहृतम् ।
प्. ५९२)
जानुसन्धिर्महामर्म चाष्टमं परिकीर्तितम्
मेढ्रहस्ता महामर्म वेदितव्याः प्रयत्नतः ।
हृदये तु महामर्म देवि ते समुदाहृतः
तानि वक्ष्यामि देवेशि यथातथ्येन मे शृणु ।
आध्यात्मिकानि यानि स्युः तानि वक्ष्यामि ते शृणु
घोषमाणक्रमेणैव श्रुत्वा तं शृणु ते पुनः ।
तदा देवि विजानीयात् सद्यो मृत्युमुपस्थितः
लक्षयेद्बाह्यतः प्रोक्तं पूर्वदुष्टानि यानि वै ।
न पश्यति रसो जिह्वे षण्मासमधिकं पुनः
एवमादीनि चान्यानि वेद्यानि भुवि मानवैः ।
प्. ५९३)
यो नरं वहते चैव मर्मस्तावत्ततस्मृतः
एकस्मिन्वेगमायाति द्वितीये मन्दगामि च ।
तेषां वै सन्निरोधेन मर्मणाञ्चैव सुन्दरि
ज्ञातव्यं योगिभिर्नित्यं तस्य मृत्युरुपस्थितः ।
अयात्मादात्मनः पश्येद्यदि स्यात्तत्ववेदिनः
तदा मृत्युत्रयं चक्रं आश्रयीत विचक्षणः ।
तदा तु प्रशमं यान्ति नात्र कार्या विचारणा
एवं ते कथितं देवि अभिप्रीत्या मया तव ।
वेदितव्यं प्रयत्नेन न दद्याद्यस्य कस्यचित्
देव्युवाच
प्. ५९४)
ये त्वया कथिता मर्मा प्रत्यक्षं परमेश्वर ।
कथं संहारकाले तु वेदितव्यं हि योगिभिः
किमादिसंहरेन्मर्म लक्षणं किन्नु संभवेत् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
ईश्वरः
शृणु देवि परं गुह्यं मर्माणां कथयामि ते ।
येन विज्ञातमात्रेण चारज्ञो नावसीदति
प्रत्यहं मर्मणां दृष्ट्वा लक्षणं वै विचक्षणः ।
ज्ञात्वा श्रेयांसि कुर्वीत तदाऽसौ नावसीदति
मर्माणि पञ्चविंशत्तु कालचक्रमुदाहृतम् ।
प्. ५९५)
तदा प्रभृति कर्तव्या कालस्यैव प्रतिक्रिया
द्वादशाब्दान् पुनर्वक्ष्ये त्रिविधं चक्रयोगतः ।
तत्र ज्ञात्वा पुनस्सम्यग्यथा मृत्युञ्जयो भवेत्
स पक्षमासकथितं तद्भेदं कथयेत्पुनः ।
मृतसञ्जीवनञ्चैव कथयिष्ये यथा भवेत्
तेभ्यो गुह्यमिदं देवि मर्माणान्तु परीक्षणम् ।
तथा येन प्रकारेण रोधितेन तु लक्षणम्
तथा ते कथयिष्यामि हितार्थं सर्वयोगिनाम् ।
मणिबन्धेन शून्येन शृणु तस्यैव लक्षणम्
मन्दायासौ सदा हस्तावङ्गुल्यं शिशिरायता ।
प्. ५९५)
तिलको दह्यते यस्य संहृतं तं विनिर्दिशेत्
एतद्देवि विदित्वा तु कुर्यात्तस्य प्रतिक्रियाम् ।
मासैकादशभिश्चैव मृत्युमभ्येति सुवृते
स्कन्धशूलं प्रजायेत वातभग्नेव लक्ष्यते ।
मुहुर्मुहुः प्रकंपश्च संहृतं तं विनिक्षिपेत्
मासैस्तु दशभिश्चैव मृत्युमभ्येति नान्यथा ।
शङ्खौ तु हीयमानौ तु शृणु वक्ष्यामि लक्षणम्
अकस्मात्कंपते शीर्षं नेत्रं विसृपते प्रिये ।
निरुद्धं तं विजानीयात् प्रत्यक्षञ्चैव दृश्यते
एवं वै लक्षणं यस्य सोऽष्टमासान्न जीवति ।
प्. ५९७)
कण्ठनाड्युपरिष्टात्तु स्तंभिते लक्षणं शृणु
जिह्वा न परिवर्तेत स्फुटवाच प्रवर्तते ।
शोषितस्तु वरारोहे सप्तमासान्न जीवति
कण्ठं स्तंभित मर्मस्य शृणु वक्ष्यामि लक्षणम् ।
कण्ठशोषं भवेत्तीव्रं निश्लेष्मं का समावहेत्
पाषाणसदृशञ्चैव भुक्तमन्नं न जीर्यते ।
एवं वै लक्षणं यस्य चतुर्मासान् स जीवति
वृषणधस्थिते मार्गे स्तंभिते लक्षणं शृणु ।
रक्तवर्णं भवेन्मूत्रं दहती च न संशयः
एतद्वै लक्षणं यस्य त्रिमासान् स तु जीवति ।
प्. ५९८)
मुष्कसूत्रप्रदेशे तु यस्यैवं शूलमावहेत्
वृषणस्य तु मध्ये तु कृष्णवं यदि पश्यति ।
एवं लक्षणतो बुध्वा द्वौ मासौ स तु जीवति
स्तनस्यैवोपरिष्टात्तु स्पन्दनं यदि संभवेत् ।
गते दक्षिणतो देवि जीवेन्मासं स पक्षकम्
ज्ञातुं सन्धिमधस्तात्तु स्पन्दनं स्तंभ्यते यदि ।
मासमेकं न जीवेत इति शास्त्रेषु निश्चितम्
अकस्माच्छ्रवणं देवि न शृणोति यथा पुरा ।
स्तंभितं तं विजानीयादर्धमासं स जीवति
नेत्रे वाश्रुवहे कस्मात् विना दोषेण भामिनी ।
प्. ५९९)
ततोऽसौ मृत्युमभ्येति दिवसैर्दशभिस्तथा
पादस्यैवापरिष्ठात्तु यदि वै स्तंभितो भवेत् ।
तस्य मृत्युं विजानीयात् पञ्चाहात्तु न संशयः
अकस्माच्चलनं चापि विस्मयञ्चैव जायते ।
विस्वरश्चैव जायेत हीनायुषोजि भामिनी
एवं वै लक्षणं यस्य जीवते स दिनत्रयम् ।
चक्षुषी नैव दृश्येत पूर्वदृष्टञ्च रूपकम्
एवं लक्षणतो दृष्ट्वा द्विदिनं स तु जीवति ।
गुल्फदेशे यदा स्पन्दं निष्पन्दं भवते यदि
एवं लक्षणवाङ्मात्रे दिनमेकं स जीवति ।
प्. ६००)
हृदयं वेपते यस्य मूर्छाकंपश्च जायते
अजितं तं विजानीयाद्दिनार्धं सोऽपि जीवति ।
कण्ठे गुडुगुडोयेतत्किञ्चित्स्पन्दति सुवृते
प्रहरैकेन देवेशि तस्य मृत्युं समादिशेत् ।
तालुमध्ये गतो वायुः किञ्चित्स्पन्दति सुवृते
अतीतं तं विजानीयात् शतं प्राणान् स जीवति ।
एवं मर्मविभागज्ञः साधको नावसीदति
प्रत्यहं प्रत्यवेक्षेत न स जानाति नान्यथा ।
एकादश शतञ्चाष्टौ नव सप्त तथैव च
षट् पञ्चचतुरश्चैव द्वौ मासौ तु विचक्षणैः ।
प्. ६०१)
मासं स पक्षकञ्चैव मासं मासार्धमेव च
दश पञ्चदिनाश्चैव त्रीणि चैव दिनद्वयम् ।
अहरेकं विजानीयाद्दिनार्धं प्रहरं तथा
प्रहरस्यार्धमर्धेन श्वासप्राणशतेन तु ।
मणिबन्धादितः कृत्वा वेदितव्यं प्रयत्नतः
एवं ज्ञात्वा च बुध्वा च कुर्यात्तस्य प्रतिक्रियाम् ।
क्षेत्रं तीर्थं पवित्राणि जपहोमक्रियास्तथा
मृत्युञ्जयादिदेवेशि सेवितव्यानि यत्नतः ।
एतैर्माया मया प्रोक्ताः यथासंख्येन सुवृते
पुनरन्यत्प्रवक्ष्यामि शृणु देवि यथाक्रमम् ।
प्. ६०२)
समेन सव्यमर्माणां यदि निष्पन्दता भवेत्
वायोर्दोषं विजानीयात् कुर्याद्वायुप्रतिक्रियाम् ।
श्लेष्मणा चैव देवेशि निष्पन्दं यान्ति ते पुनः
तान्येन प्रत्यवेक्षेत कुर्यात्पित्तप्रतिक्रियाम् ।
अन्यद्गुह्यतमं देवि शृणुष्व कथयामि ते
येन विज्ञातमात्रेण सर्वदुःखं न जायते ।
इडा सुषम्नयोश्चारं ज्ञातव्यं योगिभिस्सदा
तेन विज्ञायते देवि लोकस्यैव हिताहितम् ।
आत्मनश्च विजानाति यथाकालं विभागशः
दिनमेकं वहेद्यस्तु दक्षिणेन यशस्विनी ।
प्. ६०३)
उत्पातं किञ्चिदाख्याति न तत्र भयमादिशेत्
दिनद्वयं निवर्तेत वहित्वा दक्षिणेन तु ।
गोत्रस्याचाशुभं विद्यान्न मृत्युं तस्य चादिशेत्
दिनत्रयं वहेद्यस्तु यदि वै दक्षिणेन तु ।
महद्भयं भवेद्देवि ग्रामगोत्रस्य सुवृते
चतुर्थेऽहनि योगेन निवर्तेत वरानने ।
आत्मनस्त्वशुभं विद्यान्महाक्लेशेन जीवति
पञ्चाहमेकमार्गस्थं वहित्वा विनिवर्तते ।
आत्मनो मृत्युरायाति इति शास्त्रस्य निश्चयः
पञ्चमस्योपरिष्ठात्तु यं दिवै विनिवर्तते ।
प्. ६०४)
राज्ञश्चैवाशुभं विद्यादाज्येन च वियुज्यते
सप्ताहाद्यदि देवेशि निवर्तेत च योगिनः ।
वाहनानां क्षयं दृष्ट्वा कथयेच्छिवयोगवित्
अष्टाहं वहते यस्तु तदूर्ध्वं विनिवर्तते ।
राज्ञां चैव भयं विद्यान्महाक्लेशेन जीवति
नवमेऽहनि देवेशि वहित्वा विनिवर्तते ।
राजानमशुभं विद्यान्महाक्लेशेन जीवति
दशमेऽहनि देवेशि वहित्वा विनिवर्तते ।
राज्ञां मरणमाशुस्याद्यदि वै विनिवर्तते
ततस्त्वेकादशेनैव न तस्य भयमादिशेत् ।
प्. ६०५)
जनानामशुभं विद्याद्यावत्पञ्च दशेऽहनि
दक्षिणेन यथा प्रोक्तं वामेनैव तथैव हि ।
एवं ज्ञात्वा तु मेधावीं न सीदेन्नैव योगवित्
एवञ्चारविधानज्ञो योगविन्नावसीदति ।
एतद्देवि समाख्यातं रहस्यं गुह्यमुत्तमम्
त्वया गुप्ततरं कार्यं न दद्याद्यस्य कस्यचित् ।
चारेण ज्ञायते * * कारयोगे न संशयः
नारौ जयस्तु विज्ञेय सारे सिद्धिर्न संशयः ।
इति निश्वासकारिकायां एकपञ्चाशत्पटलः ।
देव्युवाच
विज्ञप्ते किं प्रमाणन्तु ज्ञातव्यं देशिकेन तु ।
निस्सते किं प्रमाण स्यात् प्रविशेपि महेश्वर
अन्तरे चायनस्यैव एतदिच्छामि वेदितुम् ।
ईश्वरः
महत्पुण्यमिदं देवि न पृष्टं केनचित्पुरा
तदहं संप्रवक्ष्यामि साधकानां हितावहम् ।
प्राणस्यैव निरोधेन स्थातव्यं देशिकेन तु
एवं क्रमेण देवेशि अविच्छिन्नस्तु साधकः ।
तावत्तक्षणमात्रेण स सिद्धेनैव साधकः
प्. ६०७)
भवते नात्र सन्देहः सत्यं देवि वदाम्यहम् ।
यदा प्राणनिरोधस्तु भवते साधकस्य तु
तदाऽसौ ज्ञातविज्ञेया ज्ञेयं तस्य क्रतो भवेत् ।
ऊर्ध्वभागे चरे यावदधश्शून्यं विनिर्दिशेत्
ऊर्ध्वशून्यमधश्शून्यं मध्ये तु जयनं भवेत् ।
उत्कर्षणी कला सूक्ष्मा सु सूत्रे च द्वितीयका
अधोभागे स्थिते चैते ज्ञातव्ये तत्ववेदिना ।
ऊर्ध्वं सञ्चरतस्तस्य कले दक्षिणतः स्थिते
तदहस्संप्रबुद्धस्तु सर्वसिद्धिप्रदश्शुभः ।
अधोमुखे प्रयातस्य कले द्वे वामतस्थिते
प्. ६०८)
निशान्तन्तु विजानीयाच्चारज्ञे कथितं तव ।
यावद्दक्षिणतो याति तावद्वामेन शोभने
तावच्छून्यं विजानीयात्त्रीण्येव वरवर्णिनी ।
मध्ये तु निश्चलं शून्यमयनं तं विनिर्दिशेत्
तस्य संस्पर्शभावेन यदा युज्यति साधकः ।
तदा निर्वाणतां याति नात्र कार्या विचारणा
तस्य संस्पर्शभावस्तु कथितस्तव शोभने ।
शून्यस्थानानि वक्ष्यामि शृणुष्वावहिता प्रिये
येन विज्ञातमात्रेण अभावपदमाप्नुयात् ।
निवृत्तिमध्यभागे तु प्रतिष्ठा तिर्यगुत्तरे
प्. ६०९)
विद्या दक्षिणतः प्रोक्ता शान्तिः पूर्वदिगाश्रिता ।
नादस्तु पञ्चमो ज्ञेयः स शिवः परिकीर्तितः
कलाश्चतस्रो या प्रोक्ता नादसञ्चरणात्मकाः ।
पञ्चमस्तु शिवः प्रोक्तः सुसूक्ष्मः कथितस्तव
नादपूजां करोत्येवमनुध्यानेन सुवृते ।
जीवस्तु नाद इत्युक्तः स्पर्शशक्तिमयस्मृतः
जीवस्पर्शविनिर्मुक्तो गुरुवक्त्रे प्रतिष्ठितः ।
द्विविधेन तु देवेशि कर्तव्योऽनुग्रहस्सदा
एतद्देवि न दातव्यं ज्ञानं ज्ञेयमिदं शुभम् ।
देयञ्च गुरुभक्ताय शिवभक्ताय धीमते
प्. ६१०)
अन्यथा दुष्टमर्त्यानां श्रेयस्सिद्धि निपातयेत् ।
इति निश्वासकारिकायां द्विपञ्चाशत्पटलः ॥
देव्युवाच
शीघ्रगं सलिलं यद्वत् जलं दहति पावकः ।
मारुतः प्रवहं ब्रूते मन्त्रिणं मोक्षकस्तथा
केन मात्राविभागेन येन च च्छिवकृद्भवेत् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
ईश्वरः
त्रिभेदं कथयिष्यामि अक्षरस्यैव सुवृते ।
प्. ६११)
येन विज्ञातमात्रेण मुच्यते नात्र संशयः
एकारेण यदा सान्तं संभिन्नं वरवर्णिनी ।
बिन्दुनादेन ज्ञातव्यं शीघ्रगं सलिलं नदेत्
श्रुत्वा पापैः प्रमुच्यन्ते नात्र कार्या विचारणा ।
तेन विज्ञातमात्रेण अमृतत्वाय कल्पते
ह सुकारसमायुक्तो ज्वलन्निव समं नदेत् ।
आकारेण यदा भिन्नं देवदेवं सदातने
मारुतः प्रवहं ब्रूते मया पूर्वमुदाहृतम् ।
सीतकंपेन ह्रस्वेन मुखेनैव करोति यः
एवं वेद्यस्वदेहे तु ज्ञात्वा पापक्षयो भवेत् ।
प्. ६१२)
ढ उकारविभागेन श्रुत्वा पापैर्विमुच्यते
ह आकारविभागेन ज्ञात्वा मुच्येत बन्धनात् ।
आकारेण तु विन्यस्य ध्यानादुत्क्रमते ध्रुवम्
संहतप्राणिकरणं संमुखं पर्यवस्थितम् ।
अधस्ताद्वायुना दीप्तमीकारं वह्निदेवतम्
सप्ताहमभ्यसेद्देवि ज्योत्स्ना भावं स पश्यति ।
शृणोति विविधान् नादान् मासादभ्यन्तरेण तु
सिद्धगन्धर्वदेवांश्च तिर्यग्वायुपथे स्थितः ।
त्रिभिर्मासैस्स पश्येत प्रत्यक्षं सर्वतः स्थितम्
यदा संहरते मानं योगी प्राणमशेषतः ।
प्. ६१३)
अभ्यासेन तु देवेशि निश्चलः संप्रजायते
एष ते कथितो देवि आदिभिन्नस्य सुवृते ।
षण्मासानभ्यसेद्यस्तु उच्चामरपुरं व्रजेत्
इच्छया संहरेत्प्राणानिच्छया विकिरेत्पुनः ।
संवत्सरेण मुक्तात्मा भवेत्स्वच्छन्दमृत्युकः
उत्तिष्ठमादितः कृत्वा सर्वं सिद्ध्यति नान्यथा ।
ह्रस्वकारविभिन्नस्य शृणुष्व सुरसुन्दरि
रश्मिनाऽकर्षणं कुर्यात् स्वदेहेनैव योगवित् ।
उदरे रक्तवर्णन्तु मध्याह्ने तेजमालिनम्
तृतीये शीतरश्मिञ्च ध्यायेन्नित्यं स्वदेहतः ।
प्. ६१४)
अहन्यहनि चाभ्यासं कर्तव्यं योगिना प्रिये
अभ्यासमासमात्रेण पश्यते त्रिविधं पुटम् ।
योगमुत्पद्यते तस्य अचिरादेव योगिनः
रक्तेनाकर्षणं कुर्याद्देवदैत्यवराङ्गनाः ।
एवमादीनि चान्यानि कुर्यादाकर्षणानि च
चित्तमाकर्षणञ्चैव सालभक्षास्तथैव हि ।
चित्तगृहाणि रम्याणि वाहिनीश्च तथैव च
शरीरव्याधि निर्नाशकुष्ठव्याधिक्षयं महत् ।
षण्मासयोगयुक्तस्य इत्येतत्समुदाहृतम्
संवत्सरेण योगीन्द्र उच्चावचपरा वपुः ।
प्. ६१५)
स्थूलात्स्थूलतरो भूत्वा सूक्ष्मात्सूक्ष्मतरः पुनः
स तनुर्वितनुश्चैव जायते नात्र संशयः ।
ह्रस्वका विभिन्नस्य कथितं तव शोभने
षड्वर्णेन विभिन्नस्य शृणु देवि वदाम्यहम् ।
सकृत्प्रभावविशदं चन्द्रार्कग्रहणं स्थितम्
विमनस्कं परं शान्तं केवलं तच्छिवात्मकम् ।
शून्यमाकाशभूतन्तु जरामृत्युविनाशनम्
अभ्यासमासमात्रेण शृणु देवि वदाम्यहम् ।
क्षुत्पिपासा विनिर्मुक्तो निर्द्वन्द्वच्छिन्न संशयः
देवगन्धर्वसिद्धाश्च त्रिभिर्मासैः स पश्यति ।
प्. ६१६)
देवैश्च सततं याति षण्मासाभ्यन्तरेण तु
संवत्सरेण युक्तात्मा योगिनस्सुसमाहितः ।
पश्यते देवि भूतेशं गणेशपरिवारितम्
स्वभावस्मरणाद्देवि कालक्षेपस्समुक्तिदः ।
ध्याननिर्मथनाद्देवि सिद्धिरुत्पद्यते ततः
एतत्त्रिभेदभिन्नस्य ज्ञानसिद्धिर्न संशयः ।
देव्युवाच
दूरस्थश्च समीपस्थः पीठस्थः पीठवर्जितः
मलिनो निर्मलश्चेति त्वया पूर्वमुदाहृतः ।
किं दूरमन्तिको वाऽपि दूराद्दूरतरन्तु किम्
प्. ६१७)
सन्निकृष्टं ततो देव भेदानि कथयस्व मे ।
ईश्वरः
अतिगुह्यतरं प्रश्नं केनचिन्नापि पृष्टवान्
तदहं संप्रवक्ष्यामि साधकानां हिताय वै ।
दूरस्थं कथयिष्यामि सर्वयोगिहितावहम्
येन विज्ञातमात्रेण आत्मा वै योग्यतां व्रजेत् ।
दशरूपा मया ख्याता सर्वे दृश्यन्ति शोभने
विद्यातत्वेन ते प्रोक्ता बिन्दुतत्वे वरानने ।
खड्गेन गच्छतस्तस्य द्रष्टव्यं लक्षमुत्तमम्
शीतरश्मिर्यथा सौम्यमभ्यासाज्जायते प्रिये ।
प्. ६१८)
बीजद्वयसमायोगाज्जायते नात्र संशयः
रूपं तत्र मया देवि पूर्वन्तु कथितं तव ।
एतद्वारं मया ख्यातं ज्ञातव्यं तत्वचिन्तकैः
समीपं दीपदृष्ट्या तु व्याख्यातं तव शोभने ।
तत्त्वया विदितं सर्वं मयापि कथितं तव
पीठस्थं चक्षुषा ख्यातं मयापि कथितं पुरा ।
त्वया देवि तथा ज्ञातं किमन्यत्कथयामि ते
दूरस्थं दिव्यमित्याहुः समीपं दिव्यसंज्ञितम् ।
पीठस्थं नयनं प्रोक्तं बिन्दुतत्वं समासतः
देहस्थं मलिनं प्रोक्तं सर्वतत्वेषु शोभने ।
प्. ६१९)
ज्ञातव्यं योगिभिर्नित्यं अधमं योगिसिद्धिदम्
निर्मलो देहहीनस्तु ज्ञाते सिद्धिर्न संशयः ।
सर्वकर्माणि कर्तव्याण्याशु सिद्धिमवेप्सता
निर्मलन्तु विनिर्दिष्ट सर्वतन्त्रेषु शोभने ।
शक्तिचेष्टाविकाराणि कुरुते नित्यमेव च
सकलस्तु स विज्ञेयः शक्तिचेष्टा अदेहतः ।
दृश्या शक्तिरिति ख्याता त्वयापि विहिता तथा
विज्ञानमपि शो ब्रूयान्नशोभमुपयात्यसौ ।
यथा बिन्दुर्मया ख्यातः शक्तिस्तु विदिता तथा
प्रत्यक्षं भवते सूक्ष्मं सुसूक्ष्मं दिव्यमुच्यते ।
प्. ६२०)
उच्चारं दूरमित्युक्तं कथितं तव शोभने
दूराध्यातमिति प्रोक्तं कथितन्तु मया तव ।
एतत्तस्मिन् मया ख्यातं परस्यैवापरस्य च
त्वयापि विदितास्सर्वे सकलाः परमेश्वर ।
एतद्देवि रहस्यन्तु मया ख्यातं समासतः
वेदितव्यं प्रयत्नेन गुरुमाराध्य यत्नतः ।
एतत्प्रश्नपरं देवि सर्वेषामपि चोत्तमम्
परीक्षा पूर्वमेवोक्तं दातव्यं तादृशाय तु ।
देव्युवाच
शक्तिचेष्टाविकारे तु यत्त्वयोक्तं महेश्वर
प्. ६२१)
तेन युक्तानि चेष्टानि कुरुते कथयस्व मे ।
ईश्वरः
एतत्प्रश्नं परं देवि सर्वेषामपि चोत्तमम्
तदहं संप्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
आधारो नाद इत्युक्तः स जीवः परिकीर्तितः
तेजस्पर्शमृता शक्ति नादं व्याप्य व्यवस्थिता ।
स नादो बिन्दुमाश्रित्य शक्तिना प्रेरितो यदा
तदा तत्क्षोभमायाति बिन्दुशक्त्या प्रचोदितः ।
बिन्दोर्वर्णाः समुद्भूताः यतः शास्त्रञ्च वाङ्मयम्
शक्ता समरसी भूत्वा बिन्दुनादे व्यवस्थिताः ।
प्. ६२२)
सुषुप्त इव चात्मानं सुखदुःखं न बाधते
बिन्दुदेवं तथैवेह ज्ञातव्यञ्चैव देहिना ।
सर्वज्ञानता शुद्धा शिवकायाद्विनिर्गता
बिन्दुनादस्तत्वेषु चेष्टते परमेश्वरि ।
बिन्दुनादस्य या चेष्टा तत्वानाञ्चैव सुवृते
ज्ञातव्या सा सदा तज्ज्ञैः शिवशक्तिसमन्विता ।
शक्तेः समरसो देवि कथितञ्चानुपूर्वशः
बिन्दो रूपप्रकाशस्तु नादशब्दस्तु यत्स्मृतः ।
तत्सर्वं शक्तिना व्याप्तं वेदितव्यं प्रयत्नतः
बिन्दुनादो वरारोहे यदा शक्तिसमन्वितः ।
प्. ६२३)
त्रिभिरेव तु संयुक्तः स जीव इति कीर्तितः
शिवशब्दो वरारोहे त्रिभिरेभिः प्रकीर्तितः ।
ईषत्स्पर्शसमायुक्त मुखनासापुटस्य तु
सा शक्तिः कथिता देवि शिवतत्वे प्रकीर्तिताः ।
इति ते कथितं देवि शक्तेस्समरसं तथा
परीक्षा पूर्वमेवोक्ता दातव्या तादृशाय तु ।
देव्युवाच
प्रणवत्त्रयन्तु देवेश योगाध्याये यदुक्तवान्
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
ईश्वरः
प्. ६२४)
देहस्थं यजातान्तेषां व्योमस्थञ्च तथैव हि
योगकाले च देवेशि प्रणवेन यजेत्सदा ।
अधस्तात्पञ्चतत्वानि ब्रह्मोङ्कारेण पूजयेत्
विद्यातत्वे स्थिता ये तु रुद्रोङ्कारेण पूजयेत् ।
शिवतत्वे स्थिता ये तु निधनेन प्रपूजयेत्
मानसं योगकाले तु पूजनीयः परः शिवः ।
शिवपूजाविधौ पश्चाद्योगं सेवेत योगवित्
तत्वाद्या मया प्रोक्ता ब्रह्माद्यैश्च समायुताः ।
तेषां स्थलं पवित्राद्यं प्रणवेन तु दापयेत्
देव्युवाच
प्. ६२५)
रूपस्पर्शादिशब्देभ्यः स्थिरकालास्सर्वतस्थिताः ? ।
यस्मिन् पूर्वाणि देवेश कस्मिन् स्पर्शः प्रतिष्ठितः
शब्दं कथय देवेश एतदिच्छामि वेदितुम् ।
ईश्वरः
जीवस्य भूतसंस्थस्य त्रिस्थाने शृणु दर्शनम्
येन ज्ञातेन दृष्टेन श्रुतेन वरवर्णिनी ।
मुच्यते नात्र सन्देहः सिद्धिश्चैव न संशयः
शुद्धस्फटिकसङ्काशं हृत्पद्मे तु विचिन्तयेत् ।
अङ्गुष्ठपर्वमात्रन्तु पञ्चवक्त्रं महेश्वरम्
पूर्वोक्तविविधा रूपाः शिवस्य कथिता मया ।
प्. ६२६)
एतद्रूपं मया ख्यातं सर्वतन्त्रेषु सुवृते
स्पर्शे च शृणु देवेशि कथयामि न संशयः ।
दिवारात्रविभागेन अयने विषुवे तथा
सङ्क्रान्त्यादिषु देवेशि स्पर्शस्तु समुदाहृतः ।
उच्चारं स्पर्शमित्येते केचिदाहुर्मनीषिणः
स्पर्शमन्ये वदन्त्येवं बिन्दुमन्ये तथैव च ।
इदं तेनाभिजानन्ते विवदन्ति परस्परम्
शब्दाशयमिति ज्ञेयं तस्मिन् पक्षास्तु ये स्मृताः ।
तस्मिन् स्थितः शिवस्साक्षात् कथितं तव सुवृते
एतत्ते पूर्वमाख्यातं त्रिभेदमनुपूर्वशः ।
प्. ६२७)
ना शिष्याय प्रदातव्यं रहस्यमिदमुत्तमम्
देव्युवाच
व्योमनाभदिशापत्रं न मया च न धारितम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि
ईश्वरः
व्योमेत्याकाशमित्युक्तं व्योमसूर्यः प्रकीर्तितः ।
व्योमपद्ममिति प्रोक्तं व्योमप्रोक्तः सदाशिवः
कलाश्चतस्रो याः प्रोक्ताः कण्टकास्ते प्रकीर्तिताः ।
व्योमनालस्मृताकाशं दिशा पत्राः प्रकीर्तिताः
कर्णिकास्तु स्मृतास्सूर्यः कर्णिकास्थः सदाशिवः ।
प्. ६२८)
दिशा पत्रेषु देवेशि विद्येशान् परिकल्पयेत्
नवकालाग्निरुद्रस्तु अधस्रोते व्यवस्थितः ।
शिखादूर्ध्वमुखास्तस्य व्यापकन्ति व्यवस्थिताः
जलबुद्बुदसङ्काशं तत्र देवस्सदाशिवः ।
स्वच्छं सुनिर्मलं तेजः सुषिरज्योतिरुत्तमः
पुष्करास्तु मया ख्यातां केसरास्तु ततैव च ।
एतच्च बिन्दुयोगन्तु कथितं तव शोभने
पुरुषत्रयविज्ञानं तत्क्रियादर्शनं तथा ।
अत्र पद्मे तु विज्ञेयं योगिभिस्तत्र चिन्तकैः
शिवशास्त्रस्य सद्भावमस्मिन् पद्मे प्रकीर्तितम् ।
प्. ६२९)
प्रत्यक्षं दृश्यते देवि तत्वा ये पूर्वचोदिताः
स्वेन स्वेन तु रूपेण सर्वतन्त्रे व्यवस्थिताः ।
तां दृष्ट्वा योगविच्छ्रीमान् सर्वज्ञत्वं प्रपद्यते
लीयते तस्य मध्ये तु स्वशरीरेण योगिनः ।
एतद्रहस्यं परमं कथितं तव शोभने
सुपरीक्ष्य च दातव्यं न च नास्तिकनिन्दिते ।
इदं ते कथितं देवि तारकं ज्ञानमुत्तमम्
देव्युवाच
चिन्ताध्यानमिदं देव न मया वेदितं पुरा ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि
प्. ६३०)
ईश्वरः
यददृश्यध्यानमित्युक्तं चिन्ता मानस उच्यते ।
मानसं मनसालोक्य यद्दलं प्रतिपादयेत्
चित्तचैतन्यसंयोगात् स वै मानस उच्यते ।
ध्यायेल्लक्षवरं दिव्यं पूर्वदृष्टं वरानने
चैतन्यं तद्गतेनैव ध्यानमेतत्प्रकीर्तितम् ।
एतद्देवि समाख्यातं ध्यानमानसमेव तु
द्विविधोत्पाद्यमर्थन्तु सदा तेनैव युज्यते ।
तदा योगमिति प्रोक्तं युक्तस्य वरवर्णिनी
देव्युवाच
प्. ६३१)
सन्धानं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
कस्मिन् सन्ध्या कथं संज्ञो भगवन् कथयस्व मे
ईश्वरः
साधु पृष्टं त्वया भद्रे तथा ते कथयाम्यहम् ।
त्वदीयं पद्मकं देवि न दृष्टं केनचित्पुरा
केचित्त्रितत्वसन्धानमिच्छन्ति वरवर्णिनी ।
अन्येव पशुसन्धानं कथयन्ति वरानने
तादृशं तत्वसन्धानं वदन्ति गुरवो बहुः ।
ईदृशं तत्वसन्धानं न विज्ञातन्तु देशिकाः
पूर्वमात्मनि मेधावी शिखां कृत्वा स्वकां तनुम् ।
प्. ६३२)
तदा कर्मसमर्थन्तु भवते साधकेश्वरः
आत्मनञ्च पशुञ्चैव एकीकृत्य विचक्षणः ।
तदा तत्वे तु संयोज्य विधिं कुर्यादशेषतः
पूर्वाहुत्या तु दातव्या तदन्ते चोद्धरेत्क्रमात् ।
उद्धृत्यचात्मसंस्थन्तु कृत्वा तत्वविदं शुभम्
पृथिवीं तु तथोद्धृत्य आप्येन सह योजयेत् ।
विलीनामापमध्ये तु आप भूतां विचिन्तयेत्
एवमभ्यस्तथा तेजो वायुरा * * * तथा ।
एवं वै सर्वतत्वानि कर्म कृत्वाऽनु संशयेत्
तत्वसन्धानमित्युक्तं अस्मिन् तन्त्रे वरानने ।
प्. ६३३)
एवं संस्थितस्तत्र पशुनालोक्येत्तदा
सर्वध्यानसमाप्तौ तु शृणु देवि यथा पुनः ।
तत्वनीलं नयेत्तत्वं तत्वे तत्वे नियोजयेत्
तत्वसिद्धिं यदा तत्वं दीक्षानिर्वाणगामिनी ।
सर्वतन्त्रेषु सामान्यं विधिमेतत्समारभेत्
एवं वै यो न जानाति न हि नोच्छ्रयते पशून् ।
देव्युवाच
किं तत्वं प्रथमं देव द्वितीयञ्च तथैव च
तत्वे लीनतु कर्तृत्वं तत्वसिद्धिस्तु क स्मृतः ।
ईश्वरः
प्. ६३४)
तत्वन्तु प्रथमाचार्यः तव देवि उदाहृतः
तत्वनीलन्तु यत्प्रोक्तं पशुतत्वं समासतः ।
पशुतत्वेषु संयोज्य पृथिव्यादिष्वनुक्रमात्
त्रितत्वापरशुद्धिन्तु आचार्यस्तत्वपारगः ।
विद्यातत्वास्पदं कृत्वा योजयेत्परमे पदे
युक्ते यद्धर्मसंज्ञो वै स धर्मः कथितस्तव ।
देव्युवाच
भूतात्मा तत्र बाह्यात्मा अन्तरात्मा तु इन्द्रियः
परमात्मा स्थिता देवि मनोऽहङ्कारबुद्धिषु ।
भूतात्मा इन्द्रियात्मा च परमात्मा तथैव च
प्. ६३५)
चतुर्थश्चैव देवेशि एतेषां व्यापकश्शिवः ।
भूतात्मा संस्थितो भूतैः इन्द्रियात्मा तथेन्द्रियैः
परमात्मा स्थितो देवि मनोऽहङ्कारबुद्धिभिः ।
त्रिरात्मानं विनिर्मुक्तं चतुर्थं परमेश्वरि
निरात्मा स तु विज्ञेयः स जीवः परिकीर्तितः ।
तस्य सादात्मकं देहं कृत्वा चैव विभागतः
तदात्त्वनुग्रहं कुर्याद्योगं स्थाप्य शिवं तथा ।
एतत्समासतो देवि रहस्यं कथितं तव
इति निश्वासकारिकायां त्रिपञ्चाशत्पटलः ॥
स्रोतः
मूल पाठ: niśvāsakārikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0