niruttaratantram · अध्याय p2
एकादशः पटलः
श्रीदेव्युवाच -
योगिनां साधनं देव ! सूचितं न प्रकाशितं ।
इदानीं श्रोतुमिच्छामि कृपया कथय प्रभो ॥
श्रीशिव उवाच-
आत्मनो ज्ञान-मात्रेण तत्व-ज्ञानं भवेत् प्रिये !
तत्त्व-ज्ञानी भवेद् योगी स योगी त्रि-विधः स्मृतः ॥
आत्मन्येवात्मनो योगं शक्तौ वा शिव-योजनं ॥
अभिषेकेण देवेशि ! भैरवो जायते भुवि ।
अवधूतो भवेद् वोरो दिव्यश्च कुल-सुन्दरि ॥
श्मशानागम-निष्ठश्च कुल-योषित्-परायणः ।
निरालम्बश्च सालम्बो भक्तश्च परमेश्वरि !
भक्तोऽपि वीर-भावेन साधयेत् कुल-साधनं ॥
शक्ति-मात्रं यजेद्योगो भक्तो योग-परायणः ।
कुल-शास्त्रार्थ-सम्वक्ता बलिदान-रतः सदा ॥
निर्द्वन्द्वो निरहङ्कारो निर्लोभो निर्भयः शुचिः ।
गुरु-देव-रतः शान्तो घृणा-लज्जा-विर्वर्जितः ॥
रक्त-चन्दन-लिप्ताङ्गो रक्त-कौपीन-भूषणः ।
उदार-चित्तः सर्वत्र वैष्णवाचार-तत्परः ॥
कुलाचार-रतो वीरः पण्डितः कुल-वर्त्मनि ।
कुल-सङ्घ त-सम्वेत्ता कुल-शास्त्र-विशारदः ॥
महा-बलो महा-बुद्धिर्महा-साहसिकः शुचिः ।
नित्य-कर्मणि निष्ठातो दम्भ-हिंसा-विवर्जितः ॥
पर-निन्दा-सहिष्णुः स्यादुपकार-रतः सदा ।
वीरमासनमासीनः पितृ-भूमि-गतः शुचिः ॥
सर्वदानन्द-हृदयः कुमारी-पूजने रतः ।
एवं यदि भवेद् वीरस्तदैव होनजां यजेत् ॥
दिव्योऽपि वीर-भावेन साधयेत् कुल-साधनं ।
कुलं च सर्व-जातीनां पूजनीयं कुलार्चने ॥
सिद्ध-विद्या विशेषेण सिद्धिदा कुल-पूजने ।
श्मशाने निर्जने रम्ये त्रिपान्ते शून्य-मण्डले ॥
ग्रामे पातालके वापि साधयेत् कुल-साधनं ।
बलि-दानं विना पानं श्मशान-गमनं बिना ॥
जप-पूजादिकं कर्म त्वभिचाराय कल्प्यते ।
तस्मात् सर्व-प्रयत्नेन बलि-दानं समाचरेत् ॥
प्रणवं पूर्वमुद्धृत्य तत्र भावे ततः परं ।
ततो विकट-दंष्ट्रे च पर-पक्षं मोहय-द्वयं ॥।
खादय-द्वयमुक्त्वा च पर-पक्ष-द्वयं तथा ।
या मां हिंसितुमुद्यता च योगिनी च हर-हर हुं फट् ततः परं॥
वह्नि-जाया ततो देवि ! पर-विद्यां ततः परं ।
आकर्षय ततो देवि ! छेदक-कपालिने ॥
गृह्ण-द्वयं वह्नि-जाया अनेन बलिमाहरेत्।
अनेन बलि-दानं तु कुल-कर्म-सुसिद्धये ॥
त्रिपान्तरे श्मशाने वा बलिं दद्याज्जपेन्मनुं ।
महा-त्रिपान्तरे दत्त्वा किं न सिद्धयति भू-तले ॥
बलि-दानं विना किञ्चित् साधनं नैव साधयेत् ।
श्रीदेव्युवाच -
साधकः कथितो देव ! साधिका कीदृशी प्रभो ?
श्रीशिव उवाच -
निर्लोभा कामना-हीना निर्लज्जा दम्भ-वर्जिता ।
शिव-सङ्ग-गता साध्वी स्वेच्छ्या विपरोतगा ॥
चतुर्वर्णोद्भवा रम्भा प्रशस्ता कुल-पूजने ।
चतुर्वर्णोद्भवानां च पुरश्चर्या विधीयते ॥
वर्ण-सङ्करतो जाता हीनजा परिकीर्तिता ।
लज्जा-लाञ्छित-भाला या सा साक्षाद् भुवनेश्वरी ॥
नाना-जात्युद्भवानां च सा दीक्षा कुल-पूजने ।
ब्राह्मणो हीनजां देवीं मनसा वा प्रपूजयेत् ॥
अज्ञात्वा कौलिकों देवीं पशु-वत् परि-पूजयेत् ।
पशु-वत् पूजयेद् वीरो दीक्षितां वाप्यदीक्षितां ॥
शक्ति-मात्रं यजेद् वीरः प्राप्त-योग-मनाः स्मरेत् ।
अष्टोत्तर शतं देवि ! तद्-योगं सुरतो जपेत् ॥
प्रणम्य मनसा देवीं चुम्बनं मनसा स्मरेत् ।
सुन्दरों नांगरों दृष्ट्वा एवं संञ्चिन्तयेन्नरः ॥।
स एव कालिका-पुत्रः सदा-शिव इहापरः ।
हंट्टे वा मन्दिरे रम्ये त्रिपान्ते पथि चान्तरे ॥
दृष्ट्वा च सुन्दरों रम्यां मनसा च प्रपूजयेत् ।
तद्-योगं मनसा स्मृत्वा जपेदष्टोत्तरं शतं ॥
जयं समर्प्य तां चुम्ब्य प्रणम्य च पुनः पुनः ।
भक्ष्य-द्रव्यं ततस्ताभ्यो भक्त्या च विनिवेदयेत् ॥
यदा द्रव्याणि गृह्णन्ति तदा सिद्धिर्भवेद् ध्रुवं ।
यदि भाग्य-वशेनैव हीनजां कौलिकों परां ॥
पूजयेन्मनसा वाचा तत्त्वं विचिन्तयेत् ।
अष्टोत्तर शतं जप्त्वा चुम्बयित्वा पुनः पुनः ॥
पुनस्तत्त्वं चरेत् तत्र जप-संख्या रसातलं ।
ततस्तु पूर्व-वत् कृत्वा पुरश्चरणमुच्चरेत् ॥
हीन-जाते तु संयुक्ता दीक्षिता सैव सर्वदा ।
शाङ्करी शक्तिका वापि वैष्णवी वाप्यवैष्णवी ॥
सर्वदा साधने योज्या साधकानां कुलाचंने ।
वाक्याद्वा क्रीडया वापि धनाद्वा मानसं नयेत् ॥
न दोषो द्रव्य दाने च होनजा कुल-साधने ।
विजया-रस-संयुक्ता होनजा दीक्षिता सदा ॥
तद्-भाले विलिखेन्मायां ततः सा भुवनेश्वरी ।
हीनजा भाल-संयुक्ता भुवना भुवनेश्वरी ॥
हीनजा कुल-सामान्या कुल-चक्रं लिखेत् प्रिये !
तत्र पूजा चरेद् योगी गुरु-मार्ग-क्रमेण च ॥
अष्टोत्तर शतं जप्त्वा पुरश्चरणमुच्यते ।
अथवा शक्ति-भाले तु त्रिपञ्वारे लिखेत् प्रिये ॥
मनुं वापि त्रिकोणस्थं तत्र पूजादिकं चरेत् ।
वज्र-पुष्पेण संलिख्य वज्र-पुष्पेण पूजयेत् ।
तत्त्व-योगाज्जपेद् विद्यां कलौ कलुष-हारिणीं ।
अष्टोत्तर शतं जप्त्वा पुरश्चरणमुच्यते ॥
कुलजाष्ट-सुतां शुद्धां रजकीं योगिनीं तथा ।
नटीं कापालिकां वेश्यां शौण्डिकां श्वपचों तथा ॥
विदग्धां हीनजां सर्वा पूजयेद् द्रव्यं-दानतः ।
आसां भाले लिखेन्मायां ततस्ताः परिपूजयेत् ॥
सर्वथा दीक्षयेन्नैतां दीक्षयेन्नरकं व्रजेत् ।
नाना-जात्युद्भवा रम्भा होनजा परिकीर्तिता ॥
चतुर्वर्णोद्भवा रम्भा दीक्षयेत् गुरु-मार्गतः ।
हीनजां यदि लभ्यते तदान्यां परि-चिन्तयेत् ॥
हीनजां पूजयेद् योगी निःसङ्गो निशि वारतः ।
होनजां द्रव्य-दानेन तोषाय तत्व-चिन्तनात् ॥
तत्र मन्त्रं च यन्वं च लिखित्वा पूजयेद् यदि ।
स मुक्तः कालिका-पुत्रो न स भूमौ प्रजायते ॥
कामाख्या पूजिता येन स मुक्तो नात्र संशयः ।
शक्ति-मन्त्रा न सिद्धयन्ति कामाख्या-पूजनं विना ॥
ब्राह्मणीं क्षत्रियां वैश्यां शूद्रां च वर-वर्णिनि।
नाहरेद् द्रव्य-दानेन हरेच्च नरकं व्रजेत् ॥
आकर्षिताय शिष्याय प्रत्यानुत्यां च दीक्षितां ।
पूजयेत् परया भक्त्या तासां चाहं विशेषतः॥
आसामभावे देवेशि ! स्व-शक्तिं परि-जयेत् ।
स्व-शक्तौ सिद्ध-मन्त्री स्यात् पश्चाद् देवान् प्रपूजयेत् ॥
तदैव हीनजां शक्तिं शोधयेदुक्त-वर्त्मना ॥
हीनजां शोधयेदेकां सिद्ध-मन्त्री त्वलिप्सितः ।
हीनजा सुप्रसन्ना चेत् सिद्धिर्भवति साधके॥
सर्वदा हीनजां शक्तिं सर्वत्रैव प्रपूजयेत् ।
गुरु-नाम च यन्त्रं च पूजयेत् कुल-मार्गिणम् ॥
अङ्गावरण-पूजादौ यदि वा लक्षते कुलं ।
भैरवं भैरवीं तत्त्वं मनसा न प्रकाशयेत् ।
कन्या-कोटि-प्रदानेन हेम-भार-शतस्य च ॥
यत्फलं लभते देवि ! तत्फलं निज-मन्दिरे ।
प्रथमां द्वितीयामुक्तां शक्तिभ्योऽपि ददेद् यदि ॥
तृप्यन्ति देवताः सर्वा योगिन्यो भैरवादयः ।
पृथिवीं हेम-सम्पूर्णां दत्वा यत्फलमालभेत् ॥
तत्फलं कौलिकां गेहे पूजायां लभते ध्रुवं ।
अश्वमेधाधिकं पुण्यं कुलीनां गृह-दर्शनं ॥
गवां कोटि-प्रदानेन यत्फलं लभते नरः ।
तत्फलं हीनजा-गेहे लभते वात्र संशयः ॥
तिस्रः कोट्यर्द्ध-कोटी च तीर्थ-स्नानेषु यत्फलं ।
तत्फलं लभते देवि ! कुलीनां यन्त्र-दर्शने ॥
कुलीनां यन्त्रमालिख्य यद्यत् कर्म समाचरेत्।
तत्कर्म सफलं याति सत्यं सत्यं न संशयः ॥
कुलीनां यन्त्रमालोक्य सर्व-पापैः प्रमुच्यते।
शैवाः शाक्ताश्च सौराश्च वैष्णवाश्च कुलेश्वरि ॥
पूजयन्ति सदा भक्त्या कुलीनां गृह-मन्दिरे ।
सर्वेषां यन्त्र-मन्त्राणां दुर्गाधिष्ठातृ-देवता ॥
यतो वै जायते विश्वं तस्मात् तां परि-पूजयेत् ।
यन्त्र-पूजा-कृतो मन्त्री न स योनौ प्रजायते ॥
यन्त्र-पूजां विना देवि ! न शक्ति-पूजनं चरेत् ।
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे एकादशः पटलः ॥
मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0