भाषा

ENहिગુ
ग्रंथ पाठ

niruttaratantram · अध्याय p14

षष्ठः पटल:
श्रोदेव्युवाच -
रजनी-पूजनादेव द्रुतं सिद्धिं कथं भवेत् ?
तत्त्वं कथय मे सर्वं यद्यहं तव वल्लभा ॥
श्रीशिव उवाच-
शृणु देवि ! प्रवक्ष्यामि लोक-संशय-भेदकम् ।
यस्य विज्ञान-मात्रेण जीवन्मुक्तिः प्रजायते ॥
अज्ञान-तिमिराच्छन्ना आवयोः स्मृति-वर्जिताः ।
उन्मज्जन्ति निमज्जन्ति संसार-जलधौ जनाः ॥
सर्वा नार्यस्त्वमेवासि सर्वेऽहं पुरुषाः प्रिये !
एतद्-विज्ञान-मात्रेण जायते सिद्धि-भाजनाः ॥
श्रीदेव्युवाच -
सर्वज्ञ ! जगतां नाथ ! सर्व-लोक-हिते रत !
केनैतत् द्रुत-सिद्धिः स्यात् तन्मे ब्रूहि कुलेश्वर ॥
श्रीशिव उवाच -
चपलासि वरारोहे ! हेम-गौराङ्गि पार्वति !
संसार-भेदकं ज्ञानं कथं ते कथयाम्यहम् ॥
श्रीदेव्युवाच -
चपलाहं सावहिता महादेव ! भवाम्यहम् ।
संसार-भेदकं तत्त्वं कथयस्व कृपां कुरु ॥
संसार-भेदकं ज्ञानं न प्रकाश्यं कदाचन ।
प्रकाश्यते यदा यस्मिन् स हि मत्सदृशो भवेत् ॥
भीत्या वाकर्षिता प्रीत्या धनाद्वा हीनजा तथा ।
चार्वङ्गी सस्मिता प्रीता यौवनाहित-विग्रहा ॥
वीक्ष्यमाणा तनु-क्षीणे प्रोक्षणस्य च तत्परा ।
आनीय वीरभावेन सुप्रीता चार्घ्य-दानतः ॥
विस्तीर्णमासनं दत्त्वा भवत्या ध्यानतत्परः ।
स्वयं मत्सदृशो भूत्वा निःस्पृहो विगत स्पृहः ॥
बिन्दु-मात्रेण मदन-सद्मनि निधाय चक्रम् ।
वश-कारी गिरीन्द्र-जाता आज्ञा करस्य रजनीमथवा ॥
निशीथे तु बलिं दत्वा निरुक्त-विधिना ततः ।
आवयोः प्रीति-जनकं ध्यात्वा तत्पर-कर्मणा ॥
न कार्यः कर्म-सन्देहो घृणा-लज्जा-विवर्जितः ।
भवत्या भावमापन्नः प्रकृति-सस्मित-प्रदः ॥
उत्तरादेव फलं तस्मिन् पुंसि तद्भावमागते ।
मनोजा सा तु विज्ञाने क्रमेण परितोषिता ॥
किं दातासि वरं त्वं मे मधु-ताम्बूल-तर्पिते ।
स्थिर-धीर्निरीक्ष्यमाणे तव चक्रं रति-विग्रहं वीरः ॥
अयुतमथवा सहस्रं शतमष्टाधिकं जपेन्मनुम् ।
स तु कार्तिकेय-विक्रमो मत्तस्य मम भावं प्रयाति ॥
विप्रास्ते मम पर्वणि नित्यं योगीन्द्रो भावना-निपुणः ।
कुरुते गुरूपविष्टं भुवि भरव-भावमर्हति ॥
कथयामि वरारोहे ! शृणु तत्त्वं परात्परम् ।
कथितं नैव कस्मैचित् यदि संसारमिच्छति ।
स्त्री-पुंसोः सङ्गमे सौख्यं जायते तत्परं पदम् ।
तदावयोश्च विन्यस्तं याभ्यां ताभ्यां कृतं नहि ॥
भाजनः सर्व-विद्यानां ब्राह्मणः कामिनी-गणे ।
वीराणां जायते श्रेष्ठो भुवि भुवि इवास्पदं ॥
आवयोर्मनसा प्रीतिं यः कुर्याद् विजितेन्द्रियः ।
योऽसौ कालीं भजेद् भक्त्या स एव हि न चान्यथा ॥
यः करोति सपर्यां ते देवि ! सद्गुरु-मार्गतः ।
सन्देहो नैव कर्तव्यो यदि संसिद्धिमिच्छति ॥
मनोरूपा हि संसिद्धिर्जायते नात्र संशयः ।
कुलागारे लभेत् सिद्धि देवानामपि दुर्लभाम् ॥
वर्तमाने पूजने तु यदि सन्देह-भाजनः ।
लभते नैव संसिद्धिर्जन्म-कोटि-सहस्रकः ॥
इति कथितं परं यत् सहसा सिद्धि-विधायकं महेशि !
जगदति-दूरं विशेषतस्ते मृगशावाक्षि ! विधेहि दक्षिणाम् ॥
श्रीदेव्युवाच -
प्रेयसी तव देवेश ! गिरीन्द्रस्य च नन्दिनी ।
दक्षिणा कीदृशी नाथ! वद तां च वदाम्यहं ॥
एवमाकर्ण्य देवेशः सस्मितो लोल-लोचनः ।
स्वं पश्यन् गिरिजां वीक्ष्य श्रृणु देवि ! वरानने ॥
अरुणमरुण-तल्पं तु प्रान्त-देशे निधाय।
पृथुल-कुच-युगलं कोडे प्रौढमालिङ्गनं यत् ॥
स्व-रस-वदनेभ्यः कर्मणा येन वक्षः।
सुतन्वालिङ्गिता दक्षिणा-भेद-सिद्धौ ॥
॥। इति निरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे षष्ठः पटलः ॥

मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc