निबन्धावली · भाग 2136
तदयमक्षणिके धर्मिणि क्रमाक्रमाभावलक्षणो हेतुर्नासिद्धो वक्तव्यः । क्रमाक्रमयोगित्वाक्षणिकत्वयोर्विरोधादेव ।
(#निबन्ध् 84#)
नापि विरुद्धः, सपक्षे भावात् ।
न चानैकान्तिकः, क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् ।
येनैव हि प्रत्यक्षात्मना प्रमाणेनापरप्रकाराभावाद्विधिभूताभ्यां क्रमाक्रमाभ्यां विधिभूतस्यार्थक्रियासामर्थ्यस्य व्याप्तिः प्रसाधिता, तेनैवार्थक्रियासामर्थ्याभावेन क्रमाक्रमाभावस्य व्याप्तिः प्रसाधितेति स्वीकर्त्तव्यम् । न हि दहनादिना धूमादेर्व्याप्तिसाधकप्रमाणादपरं धूमाद्यभावेन दहनाद्यभावस्य व्याप्तिसाधकं किञ्चित् प्रमाणं शरणभूतमस्ति । तस्माद्विध्योरेव व्याप्तिसाधकं प्रमाणमभावयोरपि व्याप्तिसाधकमिति न्यायस्य दुरतिक्रमत्वात् सत्त्वाभावेन क्रमाक्रमाभावो व्याप्त एवेति नानैकान्तिक इत्यनवद्यो व्यापकानुपलम्भः । तदयमक्षणिकाद् विनिवर्तमानः स्वव्याप्यं सत्त्वं निवर्त्यं क्षणिके विश्रामयतीति सत्त्वहेतोः क्षणभङ्गसिद्धिरप्यनवद्या ।
(#निबन्ध् 85#)
ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिबन्धसिद्धिः, अस्याप्यनेकदोषदुष्टत्वात् । तथा हि न तावदयं प्रसङ्गो हेतुः, साध्यधर्मिणि प्रमाणसिद्धत्वात्, पराभ्युपगमसिद्धत्वाभावात्, विपर्ययपर्यवसानाभावाच्च । अथ स्वतन्त्रः, तदाश्रयासिद्धः । अक्षणिकस्याश्रयस्यासंभवात् । अप्रतीतत्वाद्वा । प्रतीतर्हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात् ।
प्रथमपक्षद्वये साक्षात् पारम्पर्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलसाधारणो हेतुः व्यापकानुलम्भश्च स्वरूपासिद्धः स्यात् । अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्या वश्यंभावात् । अन्तिमपक्षे तु न कश्चिद्धेतुरनाश्रयः स्यात् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वात् ।
अपि च, तत् कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा ।
तत्राद्यपक्षद्वये ऽक्षणिकस्य सत्तैवाव्याहता । कथं बाधकावतारः । तृतीये तु न सर्वदाक्षणिकसत्तानिषेधः, तदर्पितसंस्काराभावे तत्स्मरणायोगात् । चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः । पञ्चमे च तद्विषयस्याभावो न तावत् प्रत्यक्षतः सिध्यति, अक्षणिकात्मनः सर्वदैव त्वन्मते ऽप्रत्यक्षत्वात् । न चानुमानतस्तदभावस्तत्प्रतिबद्धलिङ्गानुपलम्भादित्याश्रयासिद्धिस्तावदुद्धता । एवं दृष्टान्तो ऽपि प्रतिहन्तव्यः ।
स्वरूपासिद्धो ऽप्ययं हेतुः, स्थिरस्यापि क्रमाक्रमिसहकार्यपेक्षया क्रमाक्रमाभ्यामर्थक्रियोपपत्तेः । नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः । तथा हि क्रमिसहकार्यपेक्षया क्रमिकार्यकारित्वं तावदविरुद्धम् ।
तथा च शङ्करस्य संक्षिप्तो ऽयमभिप्रायः । सहकारिसाकल्यं हि सामर्थ्यम् । तद्वैकल्यं चासामर्थ्यम् । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः, तस्य ताभ्यामन्यत्वात् । तत्कथं सहकारिणो ऽनपेक्ष्य कार्यकरणप्रसङ्ग इति ।
त्रिलोचनस्याप्ययं संक्षिप्तार्थः । कार्यमेव हि सहकारिणमपेक्षते । न कार्योत्पत्तिहेतुः । यस्मात् द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम्, ततो ऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति ।
न्यायभूषणो ऽपि लपति । प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः । अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्यादिति चेत् । तदिदं माता मे बन्ध्येत्यादिवत् स्ववचनविरोधादयुक्तम् । यो हि उत्तरकार्यजननस्वभावः स (#निबन्ध् 86#) कथमादौ तत् कार्यं कुर्यात् । (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभाव । नहि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति ।
वाचस्पतिरपि पठति । नन्वयमक्षणिकः स्वरूपेण कार्यं जनयति । तच्चास्य स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीये ऽपि क्षणे सदिति तदापि जनयेत् । अकुर्वन् वा तृतीयादिष्वपि न कुर्वीत, तस्य तादवस्थ्यात् । अतादवस्थ्ये वा तदेवास्य क्षणिकत्वम् ॥
अत्रोच्यते । सत्यं स्वरूपेण कार्यं जनयति न तु तेनैव । सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनात् । तस्माद् व्याप्तिवत्कार्यकारणभावो ऽप्येकत्रान्ययोगव्यवच्छेदेन । अन्यत्रायोगव्यवच्छेदेनाववोद्धव्यः । तथैव लौकिकपरीक्षकाणां संप्रतिपत्तेरिति न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः ॥
नाप्यक्षणिके यौगपद्यपक्षोक्तदोषावकाशः । ये हि कार्यमुत्पादितवन्तो द्रव्यविशेषास्तेषां व्यापारस्य नियतकार्योत्पादनसमर्थस्य निष्पादिते कार्ये ऽनुवर्तमानेष्वपि तेषु द्रव्येषु निवृत्तार्थादूना सामग्री जायते । तत्कथं निष्पादितं निष्पादयिष्यति । न हि दण्डादयः स्वभावेनैव कर्तारो येनामी निष्पत्तेरारभ्य कार्यं विदध्युः । किं तर्हि व्यापारावेशिनः । न चेयता स्वरूपेण न कर्तारः, स्वरूपकारकत्वनिर्वाहपरतया व्यापारसमावेशादिति ॥
किं च क्रमाक्रमाभावश्च भविष्यति न च सत्त्वाभाव इति सन्दिग्धव्यतिरेको ऽप्ययं व्यापकानुपलम्भः । न हि क्रमाक्रमाभ्यामन्यस्य प्रकारस्याभावः सिद्धः, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् ।
किं च प्रकारान्तरस्य दृश्यत्वे नात्यन्तनिषेधः । अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति न क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिसिद्धिः । अतः सन्दिग्धव्यतिरेको ऽपि व्यापकानुपलम्भः ।
किं च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं सत्त्वमपि परोक्षमेवेति न तावत्प्रतिबन्धः प्रत्यक्षतः सिध्यति । नाप्यनुमानतः, तत्प्रतिबद्धलिङ्गाभावादिति ।
अपि च क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमित्यतिसुभाषितम् । यदि क्रमेण व्याप्तं कथमक्रमेण । अथाक्रमेण न तर्हि क्रमेण । क्रमाक्रमाभ्यां व्याप्तमिति तु ब्रुवता व्याप्तेरेवाभावः प्रदर्शितो भवति । न हि भवति धूमो वह्निभावाभावाभ्यां व्याप्त इति । अतो व्याप्तेरनैकान्तिकत्वम् ।
अपि च किमिदं बाधकमक्षणिकानामसत्तां साधयति, उतस्विदक्षणिकात् सत्त्वस्य व्यतिरेकम्, अथ सत्त्वक्षणिकत्वयोः प्रतिबन्धम् । न पूर्वो विकल्पः, (#निबन्ध् 87#) उक्तक्रमेण हेतोराश्रयासिद्धत्वात् । न च द्वितीयः । यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर्व्यतिरेकशब्दस्यार्थः । सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्धेतुः स्यादिति सत्त्वमनैकान्तिकम् । व्यापकानुपलम्भः स्वरूपासिद्धः । अथ सा विकल्प्यते तदा पूर्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्पो दूषणीयः । अत एव न तृतीयो ऽपि विकल्पः, व्यतिरेकासिद्धौ सम्बन्धासिद्धेः ।
किं च न भूतलवदत्राक्षणिको धर्मी दृश्यते । न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्यचित् दृश्यस्य प्रतिपत्तिमन्तरेणान्तर्भावयितुं शक्यत इति ।
किं चास्याभावधर्मत्वे आश्रयासिद्धत्वमितरेतराश्रयत्वं च । भावधर्मत्वे विरुद्धत्वं च । उभयधर्मत्वे चानैकान्तिकत्वमिति न त्रयीं दोषजातिमतिपतति ।
यत् पुनरुक्तमक्षणिकत्वे क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति । तत्र विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्यः । तत्प्रतीतिनान्तरीयकत्वाद् विरोधसिद्धेः । यथा तुहिनदहनयोः सापेक्षध्रूवभावयोश्च । प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात् सन्नेव स्यात्, अजनकस्याप्रमेयत्वात् ।
संवृतिसिद्धेनाक्षणिकत्वेन विरोधसिद्धिरिति चेत् । संवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात् ।
यदि वास्तवं कथं तस्यासत्त्वम् । कथं चार्थक्रियाकारित्वविरोधः । अर्थक्रियां कुर्वद्धि वास्तवमुच्यते ।
अथ काल्पनिकम् । तत्र किं विरोधो वास्तवः, काल्पनिको वा । न तावद् वास्तवः, कल्पितविरोधिविरोधत्वात्, बन्ध्यापुत्रविरोधवत् । अथ विरोधो ऽपि काल्पनिकः न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिरिति ।
अयमेव चोद्यप्रबन्धो ऽस्मद्गुरुभिः संगृहीतः
नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता
हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षो ऽपि च ।
शून्यश्च द्वितयेन सिध्यति न चासत्तापि सत्ता यथा
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि ॥ इति ॥
अत्रोच्यते । इह वस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वम्, पटे शुक्लत्वम्, तुरगे गमनमित्यादि । अवस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो बन्ध्यापुत्रे वक्तृत्वाभावो गगनारविन्दे गन्धाभाव (#निबन्ध् 88#) इत्यादि । तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति, आहोस्विदवस्तुधर्मेणापि ।
प्रथमपक्षे सिद्धसाधनम् । द्वितीयपक्षे तु स्ववचनविरोधः । यदाहुर्गुरवः
धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
अवस्तुनो धर्मित्वस्वीकारपूर्वकत्वस्य व्यापकस्याभावादा श्रयासिद्धिदूषणस्यानुपन्यासप्रसङ्ग इत्यर्थः । येनैव हि वचनेनावस्तुनो धर्मित्वं प्रतिषिध्यते, तेनैवावस्तुनो धर्मित्वाभावेन धर्मेण धर्मित्वमभ्युपगतम् । परन्तु प्रतिषिध्यत इति व्यक्तमिदमीश्वरचेष्टितम् । तथा ह्यवस्तुनो धर्मित्वं नास्तीति वचनेन धर्मित्वाभावः किमवस्तुनि विधीयते, अन्यत्र वा, न वा क्वचिदपीति त्रयः पक्षाः ।
प्रथमपक्षे ऽवस्तुनो न धर्मित्वनिषेधः, धर्मित्वाभावस्य धर्मस्य तत्रैव विधानात् । द्वितीये ऽवस्तुनि किमायातम् अन्यत्र धर्मित्वाभावविधानात् । तृतीयस्तु पक्षो व्यर्थ एव निराश्रयत्वादिति कथमवस्तुनो धर्मित्वनिषेधः । तस्माद्यथा प्रमाणोपन्यासः प्रमेयस्वीकारपूर्वकत्वेन व्याप्तः, वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्वकत्वेन व्याप्तस्तथावस्तुनो धर्मित्वं नास्तीति वचनोपन्यासो ऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तः । अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात् । तद् यदि वचनोपन्यासो व्याप्यधर्मस्तदावस्तुनो धर्मित्वस्वीकारो ऽपि व्यापकधर्मो दुर्वारः । अथ न व्यापकधर्मः तदा व्याप्यस्यापि वचनोपन्यासस्यासंभव इति मूकतैवात्र बलादायातेति कथं न स्ववचनप्रतिरोधसिद्धिः ।
यदाहाचार्यः - न ह्यब्रुवन् परं बोधयितुमीशः । ब्रुवन् वा दोषमिमं परिहर्तुमिति महति संकटे प्रवेशः ।
अवस्तुप्रस्तावे सहृदयानां मूकतैव युज्यत इति चेत् । अहो महद्वैदग्ध्यम् । अवस्तुप्रस्तावे स्वयमेव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभाषया निःसर्तुमिच्छति । न चावस्तुप्रस्तावो राजदण्डेन विना चरणमर्दनादिनानिष्टिमात्रेण वा प्रतिषेद्धं शक्यते । ततश्वात्रापि क्रमाक्रमभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्वात्मनो वा क्षणिकस्य धर्मित्वं केन प्रतिषिध्यते ।
(#निबन्ध् 89#)
त्रिविधो हि धर्मो दृष्टः । कश्चित् वस्तुनियतो नीलादिः । कश्चिदवस्तुनियतो यथा सर्वोपाख्याविरहः । कश्चिदुभयसाधारणो यथानुपलब्धिमात्रम् । तत्र वस्तुधर्मेणावस्तुनो धर्मित्वनिषेध इति युक्तम् । न त्ववस्तुधर्मेण, वस्त्ववस्तुधर्मेण वा, स्ववचनस्यानुपन्यासप्रसङ्गादित्यक्षणिकस्याभावे सन्देहे ऽपि वा वस्तुधर्मेण धर्मित्वमव्याहतमिति नायमाश्रयासिद्धो व्यापकानुपलम्भः ।
अक्षणिकाप्रतीता वाश्रयासिद्धो हेतुरिति युक्तमुक्तम्, तदप्रतीतौ तद्व्यवहारायोगात् । केवलमसौ व्यवहाराङ्गभूता प्रतीतिर्वस्त्ववस्तुनोरेकरूपा न भवति । साक्षात्पारम्पर्येण वस्तुसामर्थ्यभाविनो हि वस्तुप्रतीतिः । यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः । अवस्तुनस्तु सामर्थ्याभावाद्विकल्पमात्रमेव प्रतीतिः । वस्तुनो हि वस्तुबलभाविनी प्रतीतिर्यथा साक्षात्प्रत्यक्षम्, परम्परया तत्पृष्ठभावी विकल्पो ऽनुमानं च । अवस्तुनस्तु न वस्तुबलभाविनी प्रतीतिस्तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात् । तस्माद्विकल्पमात्रमेवावस्तुनः प्रतीतिः । न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्यो ऽपि तु व्यवहर्तव्यः । स च व्यवहारो विकल्पादपि सिध्यत्येव । अन्यथा सर्वजनप्रसिद्धो ऽवस्तुव्यवहारो न स्यात् । इष्यते च तद्धर्मित्वप्रतिषेधानुबन्धादित्यकामकेनापि विकल्पमात्रसिद्धो ऽक्षणिक स्वीकर्तव्य इति नायमप्रतीतत्वादप्याश्रयासिद्धो हेतुर्वक्तव्यः ।
ततश्चाक्षणिकस्य विकल्पमात्रसिद्धत्वे यदुक्तम्, न कश्चिद्धेतुरनाश्रयः विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वादिति तदसङ्गतम् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र संभवे ऽपि वस्तुधर्मेण धर्मित्वायोगात् । वस्तुधर्महेतुत्वापेक्षया आश्रयासिद्धस्यापि हेतोः संभवात् । यथात्मनो विभुत्वसाधनार्थमुपन्यस्तं सर्वत्रोपलभ्यमानगुणत्वादिति साधनम् । विकल्पश्चायं हेतूपन्यासात् पूर्वं सन्दिग्धवस्तुकः । समर्थिते तु हेताववस्तुक इति ब्रूमः ।
न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः । आस्तां तावत् । सन्दिग्धस्यावस्तुनो ऽपि विकल्पमात्रसिद्धस्यावस्तुधर्मापेक्षया धर्मित्वप्रसाधनात् । वस्तुधर्महेत्वपेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात् । यथेह निकुञ्जे मयूरः केकायितादिति । अवस्तुकविकल्पविषयस्यासत्त्वं तु व्यापकानुपलम्भादेव प्रसाधितम् । एवं दृष्टान्तस्यापि व्योमोत्पलादेर्धर्मित्व विकल्पमात्रेण प्रतीतिश्चावगन्तव्या । तदेव मवस्तुधर्मापेक्षयावस्तुनो धर्मित्वस्य विकल्पमात्रेण प्रतीतेश्चापह्नोतुमशक्यत्वान्नायमाश्रयासिद्धो हेतुः । न च दृष्टान्तक्षतिः ।
न चैष स्वरूपासिद्धः, अक्षणिके धर्मिणि क्रमाक्रमयोर्व्यापकयोरयोगात् । तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्यकरणसामर्थ्यमस्ति तदा (#निबन्ध् 90#) प्रथमक्षणभाविकार्यवत् द्वितीयादिक्षणभाव्यपि कार्यं कुर्यात्, समर्थस्य क्षेपायोगात् । अथ तदा सहकारिसाकल्यलक्षणसामर्थ्थं नास्ति, तद्वैकल्यलक्षणस्यासामर्थ्यस्य संभवात् । न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति, सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनादिति चेत् । यदा तावदमी मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु, को निषेद्धाः । मिलितैरेव तु तत्कार्यं कर्त्तव्यमिति कुतो लभ्यते । पूर्वापरकालयोरेकस्वभावत्वाद् भावस्य सर्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्वारत्वात् । तस्मात् सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां मनोराज्यस्याप्यविषयः ।
किं कुर्मो दृश्यते तावदेवमिति चेत् । दृश्यताम्, किं तु पूर्वस्थितादेव पश्चात् सामग्रीमध्यप्रविष्टाद् भावात् कार्योत्पत्तिरन्यस्मादेव विशिष्टसामग्रीसमुत्पन्नात् क्षणादिति विवादपदमेतत् । तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिर्न वा कदाचिदपीति विरोधमसमाधाय तत एव कार्योत्पत्तिरिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हति ।
न च प्रत्यभिज्ञानादेवैकत्वसिद्धिः, तत्पौरुषस्य लूनपुनर्जातकेशकुशकदलीस्तम्बादौ निर्दलनात् । विस्तरेण च प्रत्यभिज्ञादूषणमस्माभिः स्थिरसिद्धिदूषणे प्रतिपादितमिति तत एवावधार्यम् ।
ननु कार्यमेव सहकारिणमपेक्षते । न तु कार्योत्पत्तिहेतुः । यस्माद् द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम, ततो ऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वमिति चेत् । भवतु तावत् निजागन्तुकभेदेन द्विविधं सामर्थ्यम् । तथापि तत् प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्मकमवश्याभ्युपगन्तव्यम् । तद्यदि प्रागपि, प्रागपि कार्यप्रसङ्गः । अथ पश्चादेव, न तदा स्थिरो भावः ।
न च कार्यं सहकारिणो ऽपेक्षत इति युक्तम्, तस्यासत्त्वात् । हेतुश्च सन्नपि यदि स्वकार्यं न करोति, तदा तत्कार्यमेव तन्न स्यात्, स्वातन्त्र्यात् ।
यच्चोक्तम् - यो हि उत्तरकार्यजननस्वभावः स कथमादौ कार्यं कुर्यात्, (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभावः, न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति तदसङ्गतम् । स्थिरस्वभावत्वे भावस्योत्तरकालमेवेदं न पूर्वकालमिति कुत एतत् । तदभावाच्च कारणमप्युत्तरकार्यस्वभावमित्यपि कुतः ।
किं कुर्मः, उत्तरकालमेव तस्य जन्मेति चेत् । स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु । स्थिरत्वे ऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव कार्यं करोतीति (#निबन्ध् 91#) चेत् । न । प्रमाणबाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य क्रमिकार्यकारित्वमस्ति । नाप्यक्रमिकार्यकारित्वसंभवः, द्वितीये ऽपि क्षणे कारकस्वरूपसद्भावे पुनरपि कार्यकरणप्रसङ्गात् ।
कार्येनिष्पन्ने तद्विषयव्यापाराभावादूना सामग्री न निष्पादितं निष्पादयेदिति चेत् । न । सामग्रीसंभवासंभवयोरपि सद्यः क्रियाकारकस्वरूपसंभवे जनकत्वमवार्यमिति प्रागेव प्रतिपादनात् । कार्यस्य हि निष्पादितत्वात् पुनः कर्तुमशक्यत्वमेव कारणमसमर्थमावेदयति । तदयमक्षणिके क्रमाक्रमिकार्यकारित्वाभावो न सिद्धः । न च क्रमाक्रमाभ्यामपरप्रकारसंभवो येन ताभ्यामव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात् । प्रकारान्तरशङ्कायां तस्यापि दृश्यत्वादॄश्यत्व प्रकारद्वयदूषणे ऽपि स्वपक्षे ऽप्यनाश्वासप्रसङ्गात् । तस्मादन्योन्यव्यवच्छेदस्थितयोर्नापरः प्रकारः संभवति । स्वरूपाप्रविष्टस्य वस्तुनो ऽवस्तुनो वातत्स्वभावत्वात् । प्रकारान्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात् । तथातीन्द्रियस्य सहकारिणो ऽदृश्यत्वे ऽप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षादेव सिध्यति । एवं क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमिति क्रमाक्रमयोरन्योन्यव्यवच्छेदेन स्थितत्वादेतत्प्रकारद्वयपरिहारेणार्थक्रियाकारित्वमन्यत्र न गतमित्यर्थः । अत एवैतयोर्विनिवृत्तौ निवर्तते ॥
त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणमाश्रयासिद्धिदोषपरिहारतो निरस्तम् । द्वितीयं चासङ्गतम्, विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात् । न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्यः, अपि तु विकल्पादेव व्यवहर्तव्यः । न ह्यभावस्य विकल्पादन्या प्रतिपत्तिरप्रतिपत्तिर्वा सर्वथा । उभयथापि तद्व्यवहारहानिप्रसङ्गात् । एवं वैधर्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतिपत्तिः । तृतीयमपि दूषणमसङ्गतम् । व्यापकानुपलम्भेन निर्दोषेण सत्त्वस्य क्षणिकत्वेन व्याप्तेरव्याहतत्वात् । तदयं व्यापकानुपलम्भो ऽक्षणिकस्यासत्त्वम् सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं व साधयत्येकव्यापारात्मकत्वादिति स्थितम् ॥
ननु व्यापकानुपलब्धिरिति यद्यनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वमवस्तुत्वात् । न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या भूतलादिवदन्यस्य कस्यचिदनुपलब्धेरिति चेत् । तदसङ्गतम् । धर्म्युपलब्धेरेवान्यत्रानुपलब्धितया व्यवस्थापनात् । यथा हि नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षयाकेवलप्रदेशस्य धर्मिण उपलब्धिर्वृक्षानुपलब्धिः । शिंशपापेक्षया च केवलप्रदेशस्य धर्मिण उपलब्धिरेव र्शिशपाया अभावोपलब्धिरिति स्वभावहेतुपर्यवसायिव्यापारो (#निबन्ध् 92#) व्यापकानुपलम्भः । तथा नित्यस्य धर्मिणो विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणादेव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः । अर्थ क्रियापेक्षया च केवलप्रतीतिरेवार्थक्रियायोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः ॥
अध्यवसायापेक्षया व बाह्ये ऽक्षणिके वस्तुनि व्यापकाभावाद् व्याप्याभावसिद्धिव्यवहारः । अध्यवसायश्च समनन्तरप्रत्ययबलायाताकारविशेषयोगादगृहीते ऽपि प्रवर्तनशक्तिर्बोद्धव्यः । ईदृशश्चाध्यवसायो ऽस्मच्चित्राद्वैतसिद्धौ निर्वाहितः । स चाविसंवादी व्यवहारः परिहर्तुमशक्यः । यद् व्यापकशून्यं तद्वयाप्यशून्यमिति । एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात् । अयं च न्यायो यथा वस्तुभूते धर्मिणि तथावस्तुभूते ऽपीति को विशेषः । तथा ह्येकज्ञानसंसर्ग्यत्र विकल्प्य एव । यथा च हरिणशिरसि तेनैकज्ञानसंसर्गि शृङ्गमुपलब्धं शशशिरस्यपि तेन सहैकज्ञानसंसर्गित्वसंभावनयैव शृङ्गं निषिध्यते, तथा नीलादावपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्धमेकज्ञानसंसर्गिणौ दृष्टौ, यदि नित्ये भवतः, नित्यग्राहिज्ञाने स्वधर्मिणा नित्येन सहैव गृह्येयातामिति संभावनया एकज्ञानसंसर्गद्वारकमेव प्रतिषिध्यते । कथं पुनरेतस्मिन्नित्यज्ञाने क्रमाक्रमयोरस्फुरणमिति यावता क्रमाक्रमक्रोडीकृतमेव नित्यं विकल्पयाम इति चेत् । अत एव बाधकावतारो विपरीतारोप मन्तरेण तस्य वैयर्थ्यात् । कालान्तरे ऽप्येकरूपतया नित्यत्वम् । क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया । ततो नित्यत्वस्य क्रमाक्रमिकार्यशक्तेश्च परस्परपरिहारस्थिति लक्षणतया दुर्वारो विरोध इति कथं नित्ये क्रमाक्रमयोरन्तर्भावः अनन्तर्भावाच्च शुद्धनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथमुल्लेखः । ततश्च प्रतियोगिनि नित्ये ऽपि विकल्प्यमाने एकज्ञान संसर्गिलक्षणप्राप्ते नित्योपलब्धिरेव नित्यविरुद्धस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः । तत एव चार्थक्रियाशक्तेरनुपलब्धिः । तस्माद् व्यापकविवेकिधर्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य विशेषः ॥
न त्वेतदवस्तु धर्मित्वोपयोगिवस्त्व धिष्ठानत्वात् प्रमाणव्यवस्थाया इति चेत् । किमिदं वस्त्वधिष्ठानत्वं नाम । किं परम्परयापि वस्तुनः सकाशादागतत्वम्, अथ वस्तुनि केनचिदाकारेण व्यवहारकारणत्वम्, वस्तुभूतधर्मिप्रतिबद्धत्वं वा ।
(#निबन्ध् 93#)
यद्याद्यः पक्षस्तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तुप्रतिबद्धत्वमस्यापि न क्षीणम् । न द्वितीये ऽपि पक्षे दोषः संभवति, क्षणभङ्गिवस्तुसाधनोपायत्वादस्य । न चान्तिमो ऽपि विकल्पः कल्प्यते, तस्यैव नित्यविकल्पस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमवद्बाह्यनित्योपादानशून्यत्वेनार्थक्रियावद् बाह्यनित्योपादानशून्यत्वे प्रसाधनात् । पर्युदासवृत्त्या बुद्धिस्वभावभूताक्षणिकाकारे वस्तुभूते धर्मिणि प्रतिबद्धत्वसंभवात् ॥
अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्याभावादित्यादौ योज्यः । एतेन यथा वृक्षाभावादिरन्तर्भावयितुं शक्यते न तथायमिति त्रिलोचनो ऽपि निरस्तः ॥
न च क्रमाद्यभावस्त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वे ऽपि आश्रयासिद्धिदोषपरिहारात् । यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्युक्तम्, तद्वालस्यापि दुरभिधानम् । नित्यो हि धर्मी । असत्त्वं साध्यम् । क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः । अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते । तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्मत्वं प्रागेव विध्योर्व्याप्तिसाधनात् प्रत्यक्षादनुमानादेकस्माद्वा प्रमाणान्तरात् सिद्धमिति नेतरेतराश्रयदोषः ।
न च सत्तायामिवासत्तायामपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात् । वस्तुभूतं हि तत्र साध्यं साधनं च । तयोर्धर्म्यपि वस्त्वेव युज्यते । वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः । तयोरभावे नियमेनाश्रयासिद्धिरिति युक्तम् । असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः । तथा अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव । तथा विकल्पादेवाक्षणिको विरोधी सिद्धः । विकल्पोल्लिखित श्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यम् । अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तम्, तत्स्वरूपस्यानुल्लेखादन्यस्योल्लेखा दित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः । अस्ति च । अतो यथा प्रमाणाभावे ऽपि विकल्पसिद्धस्य (#निबन्ध् 94#) बन्ध्यासुतादेः सौन्दर्यादिनिषेधो ऽनुरूपस्तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तत एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात् । यदि चाक्षणिकानुभवाभावाद् विरोधप्रतिषेधस्तर्हि बन्ध्यापुत्राद्यनुभवाभावादेव सौन्दर्यादिनिषेधो ऽपि मा भूत् ॥
नन्वेवं विरोधस्यापारमार्थिकत्वम् । तद्द्वारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत् । न हि विरोधो नाम वस्त्वन्तरं किञ्चिदुभयकोटिदत्तपादसंबन्धाभिधानमिष्यते अस्माभिरूपपद्यते वा येनैकसंबन्धिनो वस्तुत्वाभावे ऽपारमार्थिकं स्यात् । यथा त्विष्यते तथा पारमार्थिक एव । विरुद्धाभिमतयोरन्यो ऽन्यस्वरूपरिहारमात्रं विरोधार्थः । स च भावाभावयोः पारमार्थिक एव । न भावो ऽभावरूपमाविशति, नाप्यभावो भावरूपं प्रविशतीति यो ऽयमनयोरसंकरनियमः स एव पारमार्थिको विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् । क्रमाक्रमौ क्षणद्वये ऽपि भिन्नरूपतया । ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर्भावाभाववद् विरोधो ऽस्त्येव ॥
ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य बास्तवत्वमिति चेत् । न । न हि धर्मान्तरस्य संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः । किं तु विरुद्धयोर्धर्मयोः सद्भावे । अन्यथा विरोधनामधर्मान्तरसंभवे ऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसंभवः । विरुद्धौचेद्धमौ तावतैव तात्त्विको विरोधव्यवहारः किमपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण ।
तदयं पूर्वपक्षसंक्षेपः
नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता
हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षो ऽपि च ।
शन्यश्य द्वितयेन सिध्यति न चासत्तापि सत्ता यथा
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि ॥ इति ॥
अत्र सिद्धान्तसंक्षेपः
धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
(#निबन्ध् 95#)
तदेवं नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः । ततश्च सत्तायुक्तमपि नैवेति परमार्थः । ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकान्निवर्तमानमिदं सत्त्वं क्षणिक एव विश्राम्यत्तेन व्याप्तं सिध्यतीति सत्त्वात् क्षणिकत्वसिद्धिरविरोधिनी ॥
प्रकृतिः सर्वधर्माणां यद्बोधान्मुक्तिरिष्यते ।
स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसाधितः ॥
इति कृतिरियं रत्नकीर्तेः ॥
(#निबन्ध् 96#)
॥ 6 ॥
॥ प्रमाणान्तर्भावप्रकरणम् ॥
प्रमाणद्वितयादन्यप्रमाणगणदूषणम् ।
नापूर्वमुच्यते तत्तु प्रयोगेणात्र मुद्रयते ॥
इह खलु प्रमाणमात्रे न केचिद् विप्रतिपद्यन्ते । अन्ततश्चार्वाकस्यापि संप्रतिपत्तेः । प्रमाणमात्रोच्छेदवादी च तत्तदाङ्शक्य प्रतिविधानादस्मद्गुरुभिरवज्ञातः
प्रमाणमप्रमाणं चेद् विचारावसरो हतः ।
ब्रुवता नियतं किञ्चित् साध्यं वा बाध्यमेव वा ॥
तत्रायुक्तिं ब्रुवाणस्य श्लाघा सदसि कीदृशी ।
नानुमायाः परायुक्तिः किं सिद्धं तदनादरे ॥
स्वीकृता तेन सेत्यस्मात्तन्मत्या बाधनं यदि ।
अबाधने ऽस्याः स्वीकारात्तद्भिया बाधनं कथम् ॥
साध्यं न किञ्चिदिति चेद् बाधाया अपि साध्यता ।
सापि नेति वचो व्यर्थं प्रश्नमात्रे ऽपि किं फलम् ॥
फलं यदि गिरः क्वापि नान्यत्तच्चावबोधनात् ।
वाचः प्रत्यायने शक्ता नाक्षधूमादि सुन्दरम् ॥
सं(वृ)तौ मानमिष्टं चेद् विचारो ऽप्येष संवृतिः ।
संवृतावपि नेष्टं चेद् वदन् जेता यथा तथा ॥
संवृतिश्च विना मानं वाङ्मात्रेण न सिध्यति ।
मानतो यदि दुअर्वारः प्रमाणस्य परिग्रहः ॥
आचार्योप्याह -
अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम् ।
भावाभावव्यवस्थां कः कर्तुं तेन विना प्रभुः ॥
इति ।
तदेवं प्रमाणमात्राप्रतिक्षेपे प्रत्यक्षं तावदादौ गणनीयम्, तन्मूलत्वादपरप्रमाणोपपत्तेः । न च चार्वाको ऽप्यनुमानमनवस्थाप्य स्थातुं प्रभवति, व्यापारत्रयकरणात् ।
(#निबन्ध् 97#)
तच्छास्त्रे हि प्रत्यक्षेतरसामान्ययोः प्रमाणेतरविधानं लक्षणप्रणयनतो विधातव्यम् । तच्च लक्षणं प्रत्यक्षे धर्मिणि लक्ष्ये प्रामाण्ये प्रत्येतव्ये स्वभावो हेतुः । परबुद्धिप्रतिपत्तौ च कायादिव्यापारः कार्यहेतुः । परलोकप्रतिषेधे च दृश्यानुपलम्भो ऽङ्गीकर्तव्य इति कथमनुमानापलापः । यदाचार्यः
प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् ॥
अपि च
अर्थस्यासंभवे ऽभावात्प्रत्यक्षे ऽपि प्रमाणताः ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥
इत्यनुमानमपि प्रमाणम् । प्रामाण्यं च प्रमाणान्तरागृहीतनिश्चितप्रवृत्तिविषयार्थतया तत्प्रापणे शक्तिः ॥
नन्वस्तु प्रापणे शक्तिः प्रामाण्यम्, परमसौनार्थादुत्पत्तेः, अपि त्वर्थदर्शनादि(ति) चेत् । किमिदमर्थदर्शनम् । अर्थस्य धर्मो दृश्यत्वम् । ज्ञानस्य धर्मो द्रष्टृत्वम् । प्रथमपक्षे नीलत्ववद् दृश्यत्वस्यापि साधारणत्वादेकगोचरो ऽर्थः सर्वगोचरः स्यात् । न हि प्रतिपुरुषमर्थानां भेदो नैरात्म्यप्रसङ्गात् । द्वितीयपक्षे तु कथमन्यस्मिन् ज्ञानस्वभावे द्रष्टृत्वे सत्यन्यस्यासम्ब(द्ध)स्यार्थस्य प्रत्याशा स्यात् । द्रष्टृत्वं दृश्यत्वमन्तरेणानुपपद्यमानं तदाक्षिपतीति चेत् । ननु ज्ञानार्थयोरुत्पत्तिसारूप्यबलतो द्रष्टृदृश्यत्वव्यवस्था(प)नमेतत् । अनभ्युपगमे द्रष्टृत्वं दृश्यत्वं च न संभवतीति किं केनाक्षिप्यताम् । भवतु वा प्रकारान्तरेणापि द्रष्टृदृश्यभावस्तथापि भेदे सत्यव्यभिचारस्तदुत्पत्तिरेव प्राप्तिनिमित्तम् । सा च प्रापणशक्तिः प्रत्यक्षानुमानयोरविशिष्टेति प्रमाणे एव ।
नन्वन्यदपि शाब्दोपमानादिकं प्रमाणमस्ति । तथा हि शब्दाच्चोदनारूपादसन्निकृष्टे ऽर्थे स्वर्गादौ यज्ज्ञानमुत्पद्यते तदपि शाब्दं ज्ञानं प्रमाणमेव । प्रत्ययितोदितवाक्यप्रसूतं च ज्ञानं प्रमाणम् । यदाह कुमारिलः
तच्चाकर्तृकतो वाक्यादन्याद्वा प्रत्ययितो (?) दितात् । इति ।
तत्र यदा शब्दसमुत्थं ज्ञानं प्रमाणं तदोपादानादिबुद्धिः फलम् । यदा तु शब्दस्तदा तदालम्बनं ज्ञानं फलमिति । नैयायिकस्य पुनः
आप्तोपदेशः शब्दः
इति शब्दप्रमाणलक्षणसूत्रम् । तत्र शब्द इति लक्ष्यपदम् । आप्तोपदेश इति लक्षणपदम् । अस्यायं संक्षेपार्थः । आप्तोपदिष्टः शब्दः प्रमाणमिति । आप्तश्च (#निबन्ध् 98#) साक्षात्कृतहेयोपादेयतत्त्वो यथादृष्टस्य चार्थस्याचिख्यासया प्रयुक्त उपदेष्टा अभिधीयते । प्रमाणफलव्यवस्था च पूर्ववद् द्रष्टव्येति ।
तथा मीमांसकानामुपमानं प्रमाणम् । यदुक्तं शबरस्वामिना उपमानमपि सादृश्यमसन्निकृष्टे ऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोः स्मरणस्येति ।
अस्यायमर्थः । एकत्र दृश्यमानं सादृश्यं कर्तृ । प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयैतत्सादृश्यविशिष्टो ऽसौ इत्यसन्निकृष्टे ऽर्थे यां बुद्धिमुत्पादयति तदुपमानं प्रमाणमिति । यत्तदोरध्याहार इति । तस्मात् स्मरतीति स्मरणं पुरुषः । तेनायमर्थः - यथा गवये दृश्यमानं सादृश्यं गां स्मरतो मनुष्यस्य एतत्सादृश्यविशिष्टो ऽसौ गौरिति बुद्धिमुत्पादयतीति ।
न चेदमुपमानं स्मरणं कर्तव्यम्, गवयसादृश्यविशिष्टस्य गोर्गोविशिष्टस्य च सादृश्यस्य प्रमेयत्वात् । गोसादृश्ययोर्विशेषणविशेष्यभावस्योपमानप्रमाणविषयस्य गोग्राहिणा गवयग्राहिणा वा प्रत्यक्षेण केनचिदग्रहणात् । यदाह भट्टः
प्रत्यक्षे ऽपि यथा देशे स्मर्यमाणे च पावके ।
विशिष्टस्यान्यतः सिद्धेरनुमानप्रमाणता ॥
प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते ।
विशिष्टस्यान्यतो ऽसिद्धेरुपमानप्रमाणता ॥
न च ग्रहणमन्तरेण स्मरणमस्ति । तस्मान्नोपमानं स्मरणमतः प्रमाणमिति । नैयायिकादीनां तूपमानसूत्रम्,
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् इति ।
अस्यायमर्थः । प्रसिद्धं साधर्म्यं यस्य तस्माद् गवयादेः साध्यस्य संज्ञासंज्ञिसम्बन्धस्य साधनं सिद्धिस्तदुपमानफलम् । समाख्यासम्बन्धप्रतिपत्तिहेतुरुपमानमित्यर्थः । अयमस्य प्रपञ्चः । यः प्रतिपत्ता गां जानाति न गवयम्, आदिष्टश्च स्वामिना गच्छारण्यम् गवयमानयास्मादिति, गवयशब्दवाच्यमर्थम जानानो वनेचरमन्यं वा तज्ज्ञं पृष्टवान्, भ्रातः कीदृशो गवय इति । तेन चादिष्टं यथा गौस्तथा गवय इति । तस्य श्रुतातिदेशवाक्यस्य कस्याञ्चिदरण्यान्यामुपगतस्यातिदेशवाक्यार्थस्मरणसहकारि यद् गवयसारूप्यज्ञानं तत्प्रथमत एवासौ गवयशब्दवाच्यो ऽर्थ इति प्रतिपत्तिं प्रस्तुवानमुपमानं प्रमाणमिति ।
(#निबन्ध् 99#)
तथार्थापत्तिसंज्ञं प्रमाणं मीमांसकस्य । अर्थापत्तिरपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपद्यमानो यदर्थान्तरं परिकल्पयति । सार्थापत्तिः । यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यार्थस्य परिकल्पना । अस्यायमर्थः । प्रत्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धोः यो ऽर्थः स येन विना न युज्यते तस्यार्थस्य कल्पनमर्थापत्तिरिति । सा च षट्प्रमाणपूर्विका षट्प्रकारैवेति ॥
प्रत्यक्षानुमानादिप्रमाणपञ्चकाभावस्वभावमभावाख्यं प्रमाणम् । प्रमेयं घटाद्यभावः । नास्तीह घटादीति ज्ञानं घटाद्यभावालम्बनं फलम् । यदाह कुमारिलः
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमणता ॥
इति ॥
एतानि षट् प्रमाणानि प्रत्यक्षादीन्यसंकीर्णस्वस्वलक्षणयोगित्वादन्योन्याप्रविष्टस्वभावानि प्रत्येतव्यानीति ॥
अत्रोच्यते । चोदनायास्तावद् वाह्ये ऽर्थे प्रतिबन्धाभावान्न प्रामाण्यम् । प्रयोगः - यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यम् । यथा दहने ऽप्रतिबद्धस्य रासभस्य । अप्रतिबद्धाश्च बहिरर्थे वैदिकाः शब्दाः इति व्यापकानुपलब्धिः । न तावदयमसिद्धो हेतुः । शब्दानां वस्तुतः प्रतिबन्धाभावात् । प्रतिबद्धस्वभावता हि प्रतिबन्धः । न च सा निर्निबन्धना, सर्वेषां सर्वत्र प्रतिबद्धस्वभावताप्रसङ्गात् । निबन्धनं चास्यास्तादात्म्यतदुत्पत्तिभ्यामन्यन्नोपलभ्यते, अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । न हि शब्दानां वहिरर्थस्वभावतास्ति भिन्नप्रतिभासावबोधविषयत्वात् । नापि शब्दा बहिरर्थादुपजायन्ते, अर्थमन्तरेणापि पुरुषस्येच्छाप्रतिबद्धवृत्तेः शब्दस्योत्पाददर्शनात् ।
ननु योग्यतयैव किञ्चत् प्रतिबद्धस्वभावमुपलभ्यते । यथा चक्षुरिन्द्रियं रूपे । चक्षुः खलु व्यापार्यमाणम् रूपमेवोपलभ्भयति । तथैवैते वैदिकाः शब्दास्तादात्म्यतदुत्पत्तिवियुक्ता अपि योग्यतामात्रेणातीन्द्रियमर्थं बोधयिष्यन्ति तत्कथं तादात्म्यतदुत्पत्तिविरहमात्रेणाप्रतिबन्धो येनैवं व्यापकानुपलब्धिः सिध्यतीति । नैष दोषः । यतश्चक्षुरिन्द्रियमपि रसादिपरिहारेण रूप एव प्रकाशकत्वेन प्रतिनियतं तत्कार्यत्वात् । रूपं हि चक्षुरुपकरोति । न सत्तामात्रेण चक्षू रूपं प्रकाशयति, व्यवहितस्यापि रूपोपलब्धिप्रसङ्गात् । तस्माद् रूपाद् योग्यदेशसन्निहितात् तज्ज्ञानजननयोग्यतामासाद्य चक्षू रूपज्ञानमुत्पादयत्तत्कार्यमिति व्यक्तमवसीयते । अन्यथा तदुपकारानपेक्षस्य तस्यापि तत्प्रकाशननियमो नोपपद्यते । (#निबन्ध् 100#) न ह्यनुपकार्यत्वाविशेषे चक्षू रूपस्यैव प्रकाशकम्, न रसादेरिति घटामुपैति नियमः । अयमेव तर्हि नियमः कुतो यद् रूपेणैव चक्षुरूपकर्तव्यम्, न रसादिनेति । यदि वस्तुवशादेव रूपमुपकरोति न रसादिकम्, हन्त तर्हि यथोपकार्यत्वं प्रति नियमश्चक्षुषो रूपेण, तथा शब्दानामपि स्वाभाविक एवास्तु बहिरर्थप्रत्यायननियम इति ।
अत्रोच्यते । न चक्षुषः स्वाभाविको रूपोपकार्यतानियमः, कस्यचिद् वस्तुनः स्वाभाविकत्वानुपपत्तेः । तथा हि स्वाभाविकत्वं वस्तुधर्मस्यानुजानानः प्रष्टव्यः - किं स्वाभाविक इति स्वतो भवति, आहोस्वित् परतः, अथाहेतुतः । यदि स्वतो भवति, तदसङ्गतम्, स्वात्मनि क्रियाविरोधात् । अथाहेतुतः तदयुक्तम्, अहेतोर्देशादिनियमायोगात् । तस्मान्न स्वाभाविको रूपोपकार्यताप्रतिनियमश्चक्षुषः । किंनिबन्धनस्तर्हि स्वहेतुप्रतिबद्ध इति, ब्रूमः - चक्षूः खलु स्वहेतुना जन्यमानं तादृशमेव जनितम् यद्रूपोपकर्तव्यमेव भवति । रूपमपि तादृशमेव स्वहेतुना जनितं यत्तदुपकारकस्वभावम् ।
शब्दानामपि स स्वभावः स्वहेतुप्रतिबद्धो येनैते बाह्यार्थाव्यभिचारिण इति चेत् । न शक्यमेवमभिधातुम्, नित्यत्वाभ्युपगमाद्वेदवाक्यानाम् । अथानित्यत्वमभ्युपगम्यायमाक्षेपः परिहर्तुमिष्यते, तदपि दुष्करम्, दोषान्तरप्रसङ्गात् । यदि स्वहेतुनैव ते नियमार्थोपदर्शनशक्तिमन्तो जनिताः, तदाव्युत्पन्नसमयस्यापि स्वार्थमववोधयेयुः । यथा चक्षुः स्वहेतो रूपप्रकाशकमुत्पन्नं सत् प्रकाशयत्येव रूपमसङ्केतविदो ऽपि, न च शब्दादुच्चरितात् प्रागप्रतीतसमयस्यापि विशेषावगमः समस्ति । तस्मान्न स्वहेतुप्रतिबद्धश्चक्षुरादेरिव शब्दानामर्थप्रतिपादननियम इति निश्चयः ॥
अथ स्वहेतुभिरेवायमीदृशस्तेषां स्वभावो दत्तो येन ते संकेतविशेषसहाया एव कमप्यर्थमवबोधयन्ति । न तर्हि सङ्केतपरावृत्तौ पदार्थान्तरवृत्तयो भवेयुः । यदि ह्ययमग्निहोत्रशब्दः संकेतापेक्षो यागविशेषप्रतिपादकः, कथं सङ्केतान्यत्वेनार्थान्तरं प्रतिपादयति । न हि क्षित्याद्यपेक्षेण बीजेन स्वहेतोरङ्कुरजननस्वभावेनोत्पन्नेन रासभः शक्यो जनयितुम्, तथा शब्दो ऽपि यदर्थप्रतिपादननियतस्तमेव प्रकाशयेत् ॥
अथ तत्तत्सङ्केतापेक्षस्तत्तदर्थप्रत्यायनयोग्य एवायं जात इत्युच्यते । तदपि न प्रस्तुतोपयोगि । न ह्येवमस्य प्रामाण्यमवतिष्ठते । यदा हि सङ्केतेनापुरुषार्थ प्रतिपादनमपि संभाव्यत एव, तदा न शक्यमुपकल्पयितुं किमयमभिमतस्यैवार्थस्य द्योतको न वेति । तर्हि वाच्यवाचकलक्षणः शब्दार्थयोः संबन्धो भविष्यति । तथा चाह
वाच्यवाचकसंबन्धाः सन्ति यद्यपि वास्तवाः ।
सङ्केतैरनभिव्यक्ता न ते ऽर्थव्यक्तिहेतवः ॥
(#निबन्ध् 101#)
इति चेत् । ननु तस्य वास्तवत्वे ऽसङ्केतविदो ऽप्यर्थप्रतिपत्तिर्भवेदित्युक्तम्, सङ्केतापेक्षायां चार्थान्तरे न प्रवर्तेतेत्याद्यभिहितम् । अतः पूर्वमेवायं प्रत्याख्यातो वाच्यवाचकलक्षणः सम्बन्धः । तस्मान्न बहिरर्थे प्रतिबन्धः शब्दानामिति निर्णयः ॥
ततश्च नासिद्धो हेतुः ॥
नापि विरुद्धः, विपर्ययव्याप्त्यभावात् । तदभावश्च सपक्षे वृत्त्युपदर्शनात् । न हि विरुद्धस्य साधर्म्यवति धर्मिणि सद्भावो युक्तः, साध्यविपर्ययस्य तत्राभावात् । न च व्यापकमन्तरेण व्याप्यस्य संभवः, तत्प्रच्युतिप्रसङ्गात् ॥
नाप्यनैकान्तिको हेतुः, विपर्यये बाधकप्रमाणसंभवात् । प्रामाण्यप्रतिषेधे हि साध्ये प्रमाण्यमेव विपक्षः । न च तस्मिन् प्रतिबन्धाभावलक्षणो हेतुरस्ति, स्वविरुद्धेन प्रतिबन्धेन व्याप्तत्वात् । न खल्वयं प्रादेशिकः प्रमाणशब्दो ज्ञानेषु निर्निबन्धन एव, सर्वज्ञानेषु प्रामाण्यव्यपदेशप्रसङ्गात् । निबन्धनं च स्वविषयप्रतिबन्धादन्यन्नोपपद्यते । तस्मात् प्रमाणस्य प्रमाणव्यपदेशविषयत्वं स्वविषयप्रतिबन्धने व्याप्तम् । अतः प्रमाणे धर्मिणि विपक्षे प्रामाण्यस्य विरुद्धव्याप्तस्योपलम्भेन विपक्षे व्यवच्छेदसिद्धेर्नानैकान्तिको हेतुः ।
न चान्यो दोषः संभवी । तस्मान्निरस्ताशेषदोषेण हेतुना यत् प्रसिद्धं तदुपादेयमेव सताम् (इति) पण्डितश्रीजितारिपादैरेव वेदाप्रामाण्ये दर्शितम् ।
एवं च वैदिकशब्दानां प्रमाण्ये निरस्ते तदुत्थं ज्ञानमप्यप्रमाणमेव । आप्तप्रणीतस्य पुनर्वचनस्यार्थाव्यभिचारे तज्जन्मनो ज्ञानस्याव्यभिचारसंभवे ऽपि न प्रामाण्यमुपगन्तुं शक्यते, परचित्तवृत्तीनामशक्यनिश्चयत्वेनाप्तत्वापरिज्ञानात् वचनस्यापि तत्प्रणीतत्वाप्रतिपत्तेः । प्रयोगश्चात्र -
यद् येन रूपेण न निश्चितं न तत् तेन रूपेण व्यवह्रियते । यथा रथ्यापुरुषः सर्वज्ञत्वेन । न प्रतीयते चाभिमतपुरुष आप्तत्वेनेति व्यापकानुपलब्धिः ॥
नायमसिद्धः, आप्ताभिमतस्य तथात्वानिश्चयात् । तथा हि परचित्तवृत्तयो ऽतीन्द्रियत्वान्न प्रत्यक्षसमधिगम्या इति कायवाग्व्यवहारतो ऽनुमातव्याः । तौ च कायवाग्व्यवहारौ बुद्धिपूर्वमन्यथापि कर्तुं शक्येते । ततस्तत्प्रतिबद्धत्वेनानिश्चयात् कथं कायवाग्व्यवहारतो विशिष्टपरचित्तवृत्त्यनुमानम् ॥
नापि विरुद्धः, सपक्षे सद्भावसंभवात् ॥
नाप्यनैकान्तिकः, प्रामाणिकतद्रूपव्यवहर्तव्यत्वनिश्चितत्वयोर्व्याप्यव्यापकभूतयोर्विधिभूतयोर्वृक्षत्वशिंशपात्वयोरिव प्रत्यक्षानुपलम्भाभ्यां सर्वोपसंहारेण (#निबन्ध् 102#) व्याप्तेः सिद्धत्वात् । तदतः साधनाद् दोषत्रयरहितात् साध्यं सिद्ध्यदवाच्यमेव । तदेवमाप्तत्वस्य दुर्बोधत्वेन तत्प्रणीतत्वानिश्चयादेकप्रहारनिहतमाप्तवचसः प्रामाण्यम् ।
अतो यदेतस्य प्रामाण्यप्रसिद्ध्यर्थं वाचस्पतिप्रभृतीनां वल्गितं तदप्राप्तावसरमेव । एवं प्रत्ययोदितमपि भट्टाभिमतं शाब्दं प्रमाण्यं व्यस्तमिति बोद्धव्यम् । तस्मात् स्थितमेतत् न शाब्दं बहिरर्थे प्रमाणमस्तीति । बुद्ध्याकारे तु तत्कार्यप्रसूतत्वात्तदनुमानमेवेति ।
मीमांसकोक्तं तावदुपमानं मानमेव न भवति, निर्विषयत्वादस्य । इहापि प्रयोगः -
यस्य न विषयवत्त्वं न तस्य प्रामाण्यम् । यथा केशोण्डुकज्ञानस्य । न सिद्धं च विषयवत्त्वमुपमानज्ञानस्येति व्यापकानुपलम्भः ।
नायमसिद्धो हेतुः, निर्विषयत्वादुपमानस्य । तथा हि सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयो वर्ण्यते । न सदृशवस्तुव्यतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात् ।
ननु सादृश्यं वस्तु दुर्वारमेव । यदाह
सादृश्यस्य च वस्तुत्वं न शक्यमपवाधितुम् ।
भूयो ऽवयसामान्ययोगो जात्यन्तरस्य तत् ॥
इति । अत्रोच्यते । यदि सदृशातिरिक्तं सादृश्यं वस्तु दृश्यं स्यात्, तदा दृश्यानुपलम्भग्रस्तमेव, शास्त्रानाहितसंस्कारेणापि केनचित्तस्यादर्शनात् । तस्य चास्तित्वे सर्व सर्वत्रास्तीत्यप्रवृत्तिनिवृत्तिकं जगदापद्येत । अथादृश्यं तत्सादृश्यमुपेयते, तथापि तत्र प्रसिद्धलिङ्गाभावादसिद्धमेव । सिद्धेन च तेन विषयवत्तोपमानस्य सिध्येत । सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनापि क्रियमाणोघटत एव इति न सादृश्यमुपस्थापयितुं प्रभवति । उपमानप्रमाणबलादेव सादृश्यसिद्धिरिति चेत् । न । प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डयोर्विशेषणविशेष्यभावस्योपमानविषयत्वात् कथं सादृश्यमात्रस्योपमानात् सिद्धिः । ततश्च सादृश्यस्यासिद्धेर्न तद्विशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयः । तदेवमुपमानस्य निर्विषयत्वं सिद्धमिति नासिद्धो हेतुः ।
नापि विरुद्धः, सपक्षे भावात् ।
न चानैकान्तिकः । तथा हि प्रामाण्याभावे साध्ये प्रमाण्यमेव विपक्षः । तच्च विषयवत्तया व्याप्तम्, निर्निमित्तत्वे सर्वज्ञानप्रामाण्यप्रसङ्गात् । तदयं विरुद्धव्याप्तोपलब्ध्या विपक्षान्निवर्तमानो विषयवत्त्वाभावलक्षणो हेतुः प्रामाण्याभावलक्षण एव विश्राम्यतीति व्याप्तिसिद्धिः । अतो नोपमानं प्रमाणमिति ।
(#निबन्ध् 103#)
नैयायिकपरिकल्पितोपमाननिराकरणार्यमप्ययमेव प्रयोगो द्रष्टव्यः, तस्यापि निर्विषयत्वात् । तथा हि समाख्यासंबन्धस्तस्य विषयो वर्ण्यते । स च परमार्थतो नास्ति । स हि संबन्धः संबन्धिभ्यां भिन्नो ऽभिन्नो वा । यदि भिन्नस्तदा तयोरिति कुतः । न च संबन्धान्तरादिति वक्तव्यम्, तदपि कथं तेषामिति चिन्तायामनवस्थाप्रसङ्गः । न च यथा प्रदीपः प्रकाशान्तरमन्तरेण प्रकाशते तथा संबन्धो ऽपि संबन्धान्तरमन्तरेण संबद्धो भविष्यतीति वक्तुमुचितम् । प्रमाणसिद्धे हि वस्तुरूपे ऽयमस्य स्वभाव इति वर्ण्यते । यथा प्रदीपस्यैव । संबन्धस्तु न प्रमाणप्रतीतः । तत्क एवं जानात्वयमस्य स्वभाव इति, यद्वा नास्त्येवायमिति । अयमनयोः संबन्धः संबद्धावेताविति तु बुद्धिः स्वहेतुबलात् संबद्धवस्तुद्वयादपि संभाव्यमाना न संबन्धमाक्षेप्तुं प्रभवति । तस्मान्न भिन्नसंबन्धसिद्धिः । अथाभिन्नः तदा संबन्धिनावेव केवलाविअति न समाख्यासंबन्धो नाम, यः कश्चिदुपमानस्य विषयः स्यात् ।
ननु संबन्धबुद्धिजनकत्वं संबद्धपदार्थाद्भिन्नमभिन्नं वा । भेदे च स एव सम्बन्धः, नाम्नि परं विवादः । अथाभिन्नम्, तदा यथा संबद्धपदार्थस्य स्वभावः सर्वपदार्थसाधारणस्तथा तदपि रूपं तदव्यतिभिन्नं सर्वपदार्थसाधारणमिति स पदार्थो ऽभिमतपदार्थेनेव परैरपि पदार्थैः सह संबद्धः स्यात् ।
नचैवम्, तस्माद्भिन्नं तत्सबन्धबुद्धिजनकत्वं संबद्धपदार्थादेष्टव्यमिति चेत् । नन्वेतदाशङ्क्य राजकुलपादैः परिहृतमेव । तथा हि
संबद्धं स्वयमेव चेन्ननु यथा तं तस्य संबन्धिनं
प्रत्यात्मा जगतीमपि प्रति तथा तत्केन योगो ऽस्य न ।
संबन्धे परतो ऽपि तुल्यमखिलं तेनैव चेत् संयमो
हेतुः किं न नियामकः स च कथं योगः क्वचिन्नापरे ॥
इति । तस्मात् संबन्धाभावात् पूर्वोक्तेन न्यायेन सारूप्याभावाच्चासिद्धं नैयायिकस्यापि निर्विषयमुपमानं प्रमाणमतो ऽनन्तरेणैव व्यापकानुपलम्भेन निराकृतम् ।
अर्थापत्तिरपि । यदेतत् सामान्यलक्षणं प्रत्यक्षादिप्रतीतो यो ऽर्थः स येन विना नोपपद्यते तस्यार्थस्य परिकल्पनमर्थापत्तिरित्यत्र विचार्यते । यस्यार्थस्य दर्शनाद् यो ऽर्थः परिकल्प्यते तयोर्यदि प्रतिबन्धो ऽस्तितदार्थापत्तिरनुमानमेव । अर्थापत्तिरिति नामान्तरकरणे नास्माकं काचिद्विप्रतिपत्तिः । तथा हि प्रमाणपरिदृष्टो ऽर्थः केनचिद्विना नोपपद्यत इति कुतो लभ्यते, यदि परिदृश्यमानपरिकल्प्यमानयोः कश्चित् संबन्धः स्यात् । अन्यथा तेन विना नोपपद्यत इत्यह्रीकादन्यो न ब्रूयात्, (#निबन्ध् 104#) घटपटवत् । स च सम्बन्धः क्वचित् पूर्वमवश्यं प्रत्यक्षानुपलम्भतः क्वचिददृश्यत्वे ऽपि विपर्ययबाधकप्रमाणबलाद्वा निश्चेतव्यः । अन्यथा तेन विनानुपपत्तिज्ञानस्यैवानुपपत्तेः । सति चैवम्, एकं संबन्धिनं दृष्ट्वा यत्रस्थेन विना तत्रस्थं नोपपद्यते, तस्य द्वितीयस्य संबन्धिनः कल्पनमनुमानमेव । तत्र स्वभावप्रतिबन्धे स्वभावहेतुजैव सार्थापत्तिः । तदुत्पत्तिप्रतिबन्धे कार्यालिङ्गजैव । तदुक्तम् - अन्यथानुपपन्नत्वमन्वयव्यतिरेकिण्यर्थे भवति यत्, तस्मान्नार्थापत्तिः प्रमाणान्तरमिति । तस्मात् परिदृश्यमानपरिकल्प्यमानयोः सति प्रतिबन्धे नार्थापत्तिः प्रमाणान्तरमिति । अथ तयोर्न प्रतिबन्धः, तदार्थापत्तिः प्रमाणमेव न भवतीति मन्तव्यम्, साक्षात् पारम्पर्येण च संबन्धाभावात् । यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यमित्यादिर्वेद निराकरणार्थ यः पूर्वमुपन्यस्तः स एवास्या अपि प्रामाण्यनिराकरणाय द्रष्टव्यः । सामान्येनैवार्थापत्तौ निराकृतायां प्रत्यक्षादिपूर्वकत्वलक्षणस्तत्प्रपञ्चो निरस्तो भवत्येवेति तदर्थं न प्रबन्धो ऽभिधीयते, गवि निराकृते शावलेयनिराकृतिवत् । तस्मान्नार्थापत्तिः प्रमाणान्तरमिति ।
तथा अभावप्रमाणस्यापि प्रामाण्यं नोपपद्यते, तस्यापि निर्विषयत्वात् । ततश्च मीमांसकोपवल्गितोपमाननिराकरणार्थमुपन्यस्तो यो विषयवत्त्वाभावलक्षणो ऽनुपलम्भः स एवास्यापि निरासार्थमुपन्यसितव्यः । ननु चात्रासिद्धो हेतुः । तथा हि यदि घटाभावो वास्तवः प्रमेयभूतो न स्यात्, तदा नास्तीह घट इति प्रत्ययः कथमुत्पद्यत इति चेत् । केवलप्रदेशग्राहिप्रत्यक्षादिति ब्रूमः । ननु यदि कैवल्यं प्रवेशस्वरूपं तत्तर्हि सघटे ऽपि प्रदेशे विद्यत इति तत्रापि तस्य प्रत्ययस्य सद्भावप्रसङ्गः । अथातिरिक्तः, मुखान्तरेणाभाव एवाभ्युपगतो भवतीति चेत्, न । कैवल्यं तद्विविक्तत्वमसङ्कीर्णत्वमित्यादिभिः पदैः प्रदेशस्य घटं प्रत्यनापन्नाधारभावस्य स्वहेतुत उत्पन्नस्य घटप्रदेशादन्य एवात्माभिधीयते । स एव चाभावप्रत्ययं जनयतीति किमपरेणाभावेन कर्तव्यम् ।
ननु घटं प्रत्यनापन्नाधारभावस्य प्रदेशस्येति घटाभावयुक्तस्य प्रदेशस्येत्युक्तं भवतीति चेत् । तर्हि घटाभावो ऽपि घटं प्रत्यनापन्नाधारभावः किमभावान्तरेण स्वरूपेणैव वा । प्रथमपक्षे ऽनवस्था । अथ तदभावरूपत्वादभावान्तरमन्तरेणैव घटाभावो घटं प्रत्यनापन्नाधारभावः । यद्येवमसहायः प्रदेशविशेषो ऽपि पर्युदासवृत्त्या घटाभावरूपत्वादभावं विनैव घटं प्रत्यनापन्नाधारभावो युक्त इति किमकाण्डमाहोपुरुषिकया मिथ्याप्रलापेनाबोधविक्लवं शिष्यपुद्गलमाकुलयसि । तस्माद् भूतलातिरिक्तस्याभावस्यासिद्धत्वान्नायं विषयवत्ताभावलक्षणो हेतुरसिद्धः । प्रमाणपञ्चकाभावादेव तु प्रमेयाभावसिद्धिप्रत्याशापि न युज्यते, विप्रतिपत्तिविषयत्वादस्या नेनैव प्रमेयाभावसिद्धेरयोगात् ।
विरुद्धानैकान्तिकत्वे च पूर्वमेव हेतोः परिहृते । तदतः सिद्धमभावप्रमाणाभिमतस्याप्रामाण्यमिति ।
(#निबन्ध् 105#)
अथवाभावप्रमाणस्वरूपमेव निरूप्यताम् । कःपुनः प्रमाणाभावात्माभिमतो भवताम्, किं प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रम्, अथ वा पर्युदासवृत्त्या भावान्तरम् । वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा । ज्ञानरूपमपि ज्ञानमात्रकमेकज्ञानसंसर्गिवस्तुज्ञानं वेति षड् विकल्पाः ।
तत्र न तावन्निवृत्तिरूपो ऽभावो युज्यते । स खलु निखिलशक्तिविकलतया न किञ्चित् । यच्च न किञ्चित् तत्कथमभावं परिच्छिन्द्यात्, तद्विषयं वा ज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम् ।
यदाहुः -
न ह्यभावः कस्यचित् प्रतिपत्तिः प्रतिपत्तिहेतुर्वा तस्यापि कथं प्रतिपत्तिरिति । नापि वस्त्वन्तरतापक्षे जडरूपो ऽभावः सङ्गच्छते, तस्याभावलक्षणप्रमेयपरिच्छेदाभावात्, परिच्छेदस्य ज्ञानधर्मत्वात् । नापि ज्ञानमात्रस्वभावो ऽभावो वक्तव्यः, देशकालस्वभावविप्रकृष्टस्यापि ततो ऽभावप्रसङ्गात्, तदपेक्षयापि ज्ञानमात्रत्वात् तस्य । अथैकज्ञानसंसर्गिवस्तुज्ञानस्वभावो ऽनुमन्यते तदास्तमभावप्रमाणप्रत्याशया, प्रत्यक्षविशेषस्यैवाभावनामकरणात् । तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात् । अतो न काचिद् विप्रतिपत्तिर्नाम । तस्मादभावप्रमाणस्वरूपमर्पि निरूप्यमाणं विशीर्यत एव । यदप्यस्य लक्षणमुक्तम्
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
इत्यादि, तदपि याचितकमण्डनम् । तस्मात् स्थितमेतत्, प्रमाणस्य सतो ऽत्रैवान्तर्भावात् प्रमाणे एव ॥
प्रमाणान्तर्भावप्रकरणं समाप्तम् ॥
(#निबन्ध् 106#)
॥ 7 ॥
॥ व्याप्तिनिर्णयः ॥
इह दहनादिना धूमादेरर्थान्तरस्य व्याप्तिस्तदुत्पत्तिलक्षणा । सा च विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भसाधनेति न्यायः । अत्र च भट्टप्रभृतयो विप्रतिपद्यन्ते । तथा हि ते ऽग्निमति प्रदेशे धूमस्य भूयोदर्शनं तद्वियुक्ते च तथैवादर्शनमित्यन्वयव्यतिरेकित्वं कल्पयाम्बभूवुः ।
ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति चेत् । किमेतावता तत्राप्यनुमानमस्तु, तद्वद्वा धूमादावपि भा भूत् । प्रथमपक्षस्तावद् व्यभिचारादेव निरस्तः । द्वितीयो(ऽपि) व्यभिचारादेव । न ह्यन्यस्य व्यभिचारे धूमस्य किञ्चित् । तस्मादग्निधूमयोरव्यभिचारस्यासंभवे शतमपि तदुपपत्तयः तत्प्रसाधकविशिष्टप्रत्यक्षानुपलम्भा वा नानुमानोपयोगिनः । संभवे वा किं तदुत्पत्त्या तदुपयोगिना विशिष्टप्रत्यक्षानुपलम्भेन, दर्शनादर्शनाभ्यामेवाव्यभिचारसिद्धेः । तथा च काशिकाकारः प्राचीनानेकदर्शनजनितसंस्कारसहायेनचरमेण चेतसा धूमस्याग्निनियतत्वं गृह्यत इति ॥
त्रिलोचनस्त्वाह - प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात् कथं ताभ्यां सामान्ययोः संबन्धप्रतिपत्तिः । अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य संबन्धः प्रतीयत एवेति । ननु सो ऽपि कस्य प्रमाणस्य विषयः । न तावत्प्रत्यक्षस्य, स्वलक्षणविषयत्वात्तस्य । नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात् । न च व्यावृत्योः कश्चित्संबन्धः । अथ प्रत्यक्षपृष्ठभावी विकल्पो दृष्टे भेदे ऽभेदमध्यवस्यति, तदेव सामान्यम् । एवमपि विकल्पानां न वस्त्वेन विषयः । अपि तु ग्राह्याकारः । स च न वस्तु । वस्तु तु तेषां परोक्षमेवेति, कथं तेनापि सम्बन्धग्रहः । अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति । अतो धूमो नाग्निं व्यभिचरति । तद्व्यभिचारे धूम उपाधिरहितं संबन्धमतिक्रामेदिति हेतोविपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहहेतुरनुपलम्भाख्यं प्रत्यक्षमेव । ततः सिद्धः स्वाभाविकः सम्बन्धः ॥
वाचस्पतेस्तु प्रपञ्चः । तथा हि धुमादीनां वह्न्यादिभिः स्वाभाविकः संबन्धः । न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । वह्न्यादयस्तु यदार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते । वह्न्यादीनां (#निबन्ध् 107#) तु स्फुटमार्द्रेन्धनाद्युपाधिकृतः संबन्धो न तु स्वाभाविकः । ततो ऽनियतः । स्वाभाविकस्तु धूमादीनां वह्नयादिभिः संबन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद् व्यभिचारस्यादर्शनात् अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । न चादृश्यमानो ऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सग्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम् ।
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्
इति तु दत्तावकाशा लौकिकमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित् प्रवर्तेत । सर्वत्रैव कस्यचिदनर्थस्य कथञ्चिच्छङ्कास्पदत्वात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणदर्शनात् । तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेवशङ्कनीयम् । न त्वदृष्टपूर्वमपि । विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवितुमर्हति । तदुक्तं मीमांसावार्तिककृता -
नाशङ्का निःप्रमाणिका इति ।
तस्मादुपाधिं प्रयत्नेनान्विष्यन्तो ऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः ।
स्यादेतत् । अन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत । सर्वं सर्वस्माद् गम्येत । अथान्यस्य चेदन्यत् कार्यं कस्मात् सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात् । ततश्च स एवातिप्रसङ्गः । यद्युच्येत न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषे ऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति । नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव । तस्माद् यत्किञ्चिदेतदपि । केन पुनः प्रमाणेनैष स्वाभाविकः संबन्धो गृह्यते । प्रत्यक्षसंबन्धिषु प्रत्यक्षेण । तथा हि अभिजाअतमणिभेदतत्त्ववद् भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकासंबन्धग्राहीति युक्तमुत्पश्यामः । एवं मानान्तरविदितसंबन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणान्युन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि (#निबन्ध् 108#) साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येवेति ॥
अत्रोच्यते । इह खलु भेदे तदुत्पत्तिरेव व्याप्तिः । न चासावन्यो वा स्वत एवाविनाभावलक्षणः स्वाभाविकः संबन्धो भूयोदर्शनमात्रतः सिध्यति । तथा हि, किं यत्र भूयोदर्शनप्रवृत्तिस्तत्र नियतत्वव्यवस्था, यत्र वा नियतत्वमस्ति तत्रैव भूयोदर्शनप्रवृत्तिः । प्रथमपक्षे घटादपि कुलटा, पार्थिवत्वादपि लोहलेख्यत्वं सिध्येत्, भूयोदर्शनसंभवे ऽपि नियतत्वसंभवात् ।
व्यभिचारदर्शनान्नैवमिति चेत् । कस्य पुनर्व्यभिचारदर्शनम् यस्य कस्यचित् शास्त्रकारस्य, प्रतिपत्तुर्वा । प्रथमपक्षे प्रतिपत्तुः किमायातं यतो नानुमानमयं कुर्यात् । अन्यथान्यस्य तद्विषयप्रत्यक्षीकारेणैव सो ऽपि कृतार्थ इति किमवश्यमनुमानमन्वेषते । न चाप्तवचनादव्यभिचारदर्शनादनुमानम् । आप्तस्य निश्चेतुमशक्यत्वादित्यन्यत्र प्रसाधनात् । शास्त्रकारं च पृष्ट्वा दृष्टसंबन्धो ऽपि धृमादग्निमनुमास्यत इत्यलौकिकम् । प्रतिपत्तुस्तु नावश्यं सन्नपि व्यभिचारो गोचरीभवति । न हि यत्र व्यभिचारस्तत्रैव तावति काले देशे वावश्यं प्रतीतिमवतरति । अप्रतीयमानश्च नास्त्येवेति न नियमः । सत्यपि व्यभिचारे दर्शनसामग्रयभावात् तस्मादर्शनात् । अतिचिरकालव्यवधाने ऽपि दर्शनात् ब्राह्मण्यादिव्यभिचारवत् ॥
घटपार्थिवादौ प्रतिपत्तैव प्रवृत्तः । तदैव क्रमेण वा व्यभिचारं पश्येदिति चेत् । यदि तावदसौ कथञ्चित् प्रवर्तते, प्रवृत्तो ऽपि वा सामग्र्यभावाव्यभिचारं न पश्येत् । वज्रं वा लोहेन व्यापारयेत् । व्यक्तं तस्य तावत् तदप्यमानमापन्नमिति महत् पाण्डित्यम् । तस्माद् यदि व्यभिचारादर्शनादनुमानं तदादृष्टव्यभिचारस्य प्रतिपत्तुर्घटपार्थिवत्वादप्यस्ति । तथा अदर्शनमात्रेण व्यभिचाराभावो न सिध्यति, योग्यानुपलब्धेरेव सर्वत्राभावसाधने ऽधिकारात् । ततो बहुलं सहचारमात्रेण न व्यभिचारी न वाव्यभिचारी निश्चित इति शङ्कावकाशः ॥
यद्येवमदृष्टव्यभिचारादपि धूमादनुमानं मा भूत् । न । ईदृशस्य शङ्कावकाशस्य सर्वत्र तदुत्पत्तिरहिते संभवादिति । अथ कदाचित् प्रतिपत्ता प्रवृत्तो व्यभिचारं पश्यति । न तर्हि यत्र भूयोदर्शनम्, तत्र नियतत्वस्थितिः । तत्र कुतो धूमे प्रतिबन्धसिद्धिः । भूयोदर्शनस्यान्यत्र नियतत्वोपस्थापकत्वक्षतौ मलिनपौरुषत्वेन सर्वत्रानाश्वासात् ॥
यद्येवं द्विचन्द्रादौ चक्षुरादिप्रत्यक्षं मलिनपौरुषमुपलब्धमिति घटादिकमपि नोपस्थापयेदिति चेत् । न । इन्द्रियविषयकार्यं हि प्रत्यक्षम् । न द्विचन्द्रादिज्ञानमीदृशमर्थकार्यत्वाभावात् । (#निबन्ध् 109#) ततो भिन्नलक्षणस्य प्रत्यक्षाभासत्त्वे ऽपि घटज्ञानं प्रत्यक्षमेव । न चैवं धूमादौ पार्थिवत्वादौ च व्याप्तिग्राहकस्य भूयोदर्शनस्य लक्षणभेदो येनैकत्राश्वासः स्यात् ॥
एते एवार्थकार्यत्वाकार्यत्वे लक्षणभेद इति चेत् । न । घटादिज्ञानस्य ह्यर्थकार्यत्वविवादे प्रमाणान्तरतो ऽर्थक्रियालाभतो वा निश्चयः, न प्रतिज्ञामात्रेण । न चात्र धूमस्याग्निसहचारः सदातनो ऽयमथ सुहृद्द्वयस्येव सात्ययो गृहीत इति संशये सदातनसहचारप्रसाधकप्रमाणान्तरसङ्गतिरस्ति, तत्कार्यं वा किञ्चिदुपलभ्यते । तर्हि बाध्यमानत्वाबाध्यमानत्वलक्षणो लक्षणभेदो भविष्यतीत्यपि न वक्तव्यम्, अव्यभिचारग्राहकस्य भूयोदर्शनस्य बाधितत्वासिद्धेः । अबाधमात्रं हि प्रसज्यप्रतिषेधो ऽप्रमाणम् । प्रमाणान्तरसङ्गतिरर्थक्रियालाभो वा पर्युदासश्चासिद्ध इति न तावत् प्रथमः पक्षः । नापि द्वितीयः । नियतत्वाभावे ऽपि पार्थिवत्वादौ भूयोदर्शनसंभवादिति न भूयोदर्शनगम्या व्याप्तिः ॥
त्रिलोचनचोद्ये ऽपि ब्रूमः । यदि प्रत्यक्षं स्वलक्षणविषयमित्ययोगव्यवच्छेदेनोच्यते तदा सिद्धसाधनम् । अन्ययोगव्यवच्छेदस्त्वसिद्धः, प्रत्यक्षानुमानादिसर्वज्ञानानां ग्राह्यावसेयभेदेन विषयद्वैविध्यानतिक्रमात् । यद्वि यत्र ज्ञाने प्रतिभासते तद् ग्राह्यम् । यत्र तु तत् प्रवर्तते तदध्यवसेयत् । तत्र प्रत्यक्षस्य स्वलक्षणं ग्राह्यम् । अध्यवसेयं तु सामान्यम्, अतद्रूपपरावृत्तस्वलक्षणमात्रात्मकम् । अनुमानस्य तु विपर्ययः । ततश्च सांव्यवहारिकप्रमाणापेक्षया रूपरसगन्धस्पर्शसमुदायात्मकस्य घटस्य रूपभेदमात्रग्रहणे ऽपि प्रत्यक्षतः समुदायसिद्धिव्यवस्था । तथैकस्यातद्रूपपरावृत्तस्य ग्रहणे ऽपि साध्यसाधनसामान्ययोरतद्रूपपरावृत्तवस्तुमात्रात्मनोरयोगव्यवच्छेदेन विषयभूतयोर्व्याप्तिग्रहो युक्त एव । अत एव विकल्पानामवस्त्वेव विषयः, वस्तु तु तेषां परोक्षमेवेत्यपि दुर्ज्ञानम्, सर्वविकल्पानामध्यवसेयापेक्षया वस्तुविषयत्वात् । शास्त्रे ऽपि तथैव प्रतिपादनात् । न च मनसा तज्जातीयानां व्याप्तिग्रहः शक्यः, मनसो बहिरस्वातन्त्र्यात् । अन्यथा अन्धबधिराद्यभावप्रसङ्गात् । न च वह्निव्यभिचारे धूम उपाधिरहितं आंबन्धमतिक्रामेदिति वक्तुमुचितम्, स्वकपोलकल्पितस्वाभाविकसंबन्धस्य याचितकमण्डनत्वादिति ॥
यदपि वाचस्पतिजल्पितम्, यो यत्रोपाधिना नियतस्तत्र तस्य स्वाभाविकः संबन्धः । यथा दहने धूमस्य । तदुपाधेर्दृश्यस्यानुपलभ्यमानत्वात् क्वचिद् व्यभिचारस्यादर्शनादित्यत्रेदं विचार्यते । यस्यादर्शनतः स्वाभाविकः संबन्धो व्यवस्थापनीयः, स खलु धूमस्वरूपादर्थान्तरमुपाधिर्वक्तव्यो यथा दहनादिन्धनम् । अर्थान्तरं च किञ्चिद् दृश्यमदृश्यं च किञ्चित्, न तु सर्वमेव दृश्यतानियतम् । ततश्च धूमस्यापि हुताशने स्यादुपाधिः, न चोपलभ्यते इत्युपाधिमात्रानुपलब्धिरनैकान्तिकी । तत्कथमदर्शनमात्रान्नास्त्येवोपाधिः, यतः स्वाभाविकसंबन्धसिद्धिः (#निबन्ध् 110#) स्यात् । दृश्योपाध्यभावसाधने तु सिद्धसाधनम् । परमदृश्योपाधिशङ्कासंभवे स्वाभाविकत्वप्रतिरोधस्तदवस्थ एव । क्वचिद् व्यभिचारादर्शनादित्यसंबद्धमेव, उपाधिवत् व्यभिचारस्याप्यदर्शनमात्रादभावासिद्धेः । व्यभिचारस्य सर्वदेशकालयोः संभवे ऽपि दृश्यत्वे ऽपि सर्वदा सर्वत्र सर्वेण सामग्र्यभावादपि निश्चेतुमशक्यत्वात् । ब्राह्मण्यादिव्यभिचारवदेवाहत्यादर्शने ऽपि देशकालान्तरे तद्दर्शनस्य निषेद्धुमशक्यत्वात् ।
ननु यदि धूमस्यापेक्षणीयमर्थान्तरमुपाधिः स्यात् कथं धूम इत्येव पावकसत्तानियम इति चेत् । नन्विदमेव चिन्त्यते किं धूमे सत्यवश्यमग्निः संभवीन वेति । कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमो ऽपि स्यान्नाग्निरिति किमत्र निष्टब्धं कारणम् । तस्मात् पावकपराधीनोदयो धूमः परिनिष्ठितः कथं तदभावे भावं स्वीकुर्यादित्येव साधु ।
अथ व्यक्तौ जातौ वा वह्निव्यभिचारो न दृष्टः, कथं तत्र शङ्कयत इति चेत् । तत् किं स्थाणुव्यक्तौ जातौ वा पुरुषत्वं दृष्टं येन स्थाणौ शङ्कयते । अन्यत्रोर्ध्वतालिङ्गिते दृष्टमिति चेत् । इहाप्यन्यत्र भूयः सहचारिणि पार्थिवत्वादौ दृष्ट एव व्यभिचारः । यत्रैव तु यत् संशय्यते तत्रैव तस्य दर्शनमपेक्ष्यत इत्यलौकिकम् । यदि धूमव्यक्तौ व्यभिचारो दृष्टस्तदा धूमसामान्यं व्याप्तौ बहिर्भूतमेव, कथं संशयः । अथ जातौ दृष्टस्तदापि व्यभिचारनिश्चय एव, कथं संशयः । अतो धूमजातावदृश्यमानो ऽपि व्यभिचार उपाधिर्वा दर्शनायोग्यतया निषेद्धुमशक्य इति संशयो दुर्वारप्रसरः । स चेदानीमुपाधेर्व्यभिचारस्य वा संशयः स्वाभाविकत्वसंशयस्वभावः स्वाभाविकत्वनिश्चयं तावदवश्यं प्रतिबध्नाति । तस्मात् स्वाभाविकत्वनिश्चयप्रतिबन्ध एवार्थतः, निश्चयमन्तरेण गमकस्य स्वयमकिञ्चित्करत्वात् । तदेवमुपाध्यनुपलब्धिर्व्यभिचारस्यानुपलब्धिर्वानैकान्तिकी न तयोरभावं साधयति, यतः संबन्धस्य स्वाभाविकत्वसिद्धिः स्यात् । असिद्धा चेयमुपाध्यनुपलब्धिः । यथा दहनो नेन्धनेन विना धूमेन संबध्यते तथा धूमो ऽपि न तेन विनाग्निना संबध्यत इति समानमुपाधित्वमिन्धनस्योभयत्र ।
अथ सिद्धस्याग्नेरिन्धनसाहित्येन धूमलाभ इत्युपाधिव्यवस्था, असिद्धस्य तु धूमस्य तन्निमित्तात्मलाभतयाव्यभिचारात् स्वाभाविकः संबन्ध इति व्यवस्था प्यत इति चेत् । एवमपि सैव तदुत्पत्तिरायाता । सैव स्वाभाविकः संबन्धः । न पुनः प्रतिज्ञासिद्धः सहचारमात्रात्मकः । किं च स्वाभाविकत्वादव्यभिचारः सर्वत्र, सर्वत्राव्यभिचाराच्च स्वाभाविकत्वमितीतरेतराश्रयत्वमनिवार्यम् । यस्य तु सकृत्तदुत्पत्तिप्रतीतिरेव सर्वत्राव्यभिचारप्रतीतिस्तस्य नायं प्रसङ्गः ।
यद्येवं ममापि भूयोदर्शनादव्यभिचारसिद्धिरिति चेत् । न । भूय इत्यपरिनिष्ठितवारसंख्यत्वात् कियता दर्शनेन लक्षणानुसारी निर्वृतिमासादयेत् । अस्माकं (#निबन्ध् 111#) तु प्रत्यक्षानुपलब्धौ परिगणितसंख्यावेव । यदाहुः
प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थितिम् ।
दृष्टौ वा क्रमशो ऽपश्यन्नन्यथा त्वनवस्थि(ति)रिति ॥
यत्त्वनुपलभ्यमानस्यापि कल्पनानुपपत्तेरिति विलपितम्, तद्वालस्याप्यसाम्प्रतम् । अनुपलभ्यमाने ऽर्थे च कल्पनावकाशात् । न हि दृश्यमानो घटः कल्पित उच्यते । न च सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्, साधकबाधकाभाव एव संशयस्य न्यायप्राप्तत्वात् । अत एव न सर्वत्र शङ्कापिशाचावकाशः । तत्कथं नायं प्रवर्तेतं ।
प्रमाणविषये ऽपि शङ्का कर्तुं शक्यत इति चेत् । न । स्वीकृतप्रमाणस्य हि निश्चयफलत्वात् प्रमाणस्याविप्रतिपन्नप्रमाणविषये निश्चयस्वीकारनान्तरीयक एव तत्स्वीकारः । न च शङ्केत्येव न प्रवृत्तिः, अर्थसंशयेनापि प्रवृत्तेरनिवार्यत्वात् स्निग्धान्नपानोपयोगवत् । तदुपयोगे कदाचिन्मरणदर्शने ऽपि कोटिशो जीवितदर्शनात् । न च प्रामाणिकलोलयात्राक्षतिः, प्रामाणिकैरेव प्रमाणाभावे संशयस्य विहितत्वात् । यथादर्शनमाशङ्कनीयमित्याद्यपि सिद्धसाधनम्, अन्यत्र दृष्टस्यैवोपाधेर्व्यभिचारस्य वा शङ्कितत्वात् । किं च बाधकादर्शने ऽपि साधकभावादपि शङ्का स्यादेव ।
यदपि स्यादेतदिति वल्गितं तदपि निःसारम् । प्रमाणसिद्धे हि रूपे स्वाभावावलम्बनम् । नतु स्वभावावलम्बनेनैव वस्तुस्वरूपव्यवस्था । तद्यदि नियतविषयान्वयव्यतिरेकग्राहकप्रत्यक्षानुपलम्भप्रमाणसिद्धे हेतुफलभावे स्वभाववादस्तत् किमायातं स्वाभाविकसंबन्धे । यत्र तदुत्पत्तिसामग्रीं हृदयेन दूरीकृत्यान्यतः सहचरितद्वयाद् विशेषंण प्रतीतौ प्रत्युपाय एव देवीयान् । तत्सामग्र्यपेक्षणे च तदुत्पत्तिरेव सा । किमाहोपुरुषिकया नामान्तरकरणेन । केन पुनः प्रमाणेन एष स्वाभाविकः संबन्धो गृह्यत इत्यादिस्तद्ग्रहणप्रकारः पूर्वमेव निराकृतः । तथा स्वाभाविकत्वासिद्धौ स्वभावतश्च प्रतिबद्धा हेतव इत्याद्युपसंहारोपि मनोराज्यमात्रम् । तस्मादर्थान्तरे गम्ये कार्यहेतुस्तद्भावसिद्धिश्च प्रत्यक्षानुपलम्भादिति स्थितम् । तदेवं स्वाभाविकवादेन हृदयानुलेपनमशुचिनेव परिहार्यं दूरत इति ।
॥ व्याप्तिनिर्णयः समाप्तो रत्नकीर्तिपादानाम् ॥
(#निबन्ध् 112#)
॥ 8 ॥
॥ स्थिरसिद्धिदूषणम् ॥
नमस्तारायै ॥
यद्योगादन्धवद्विश्वं संसारे भ्रमदिष्यते ।
सा कृपावशगैः पापा स्थिरसिद्धिरपास्यते ॥
इह परे सकलपदार्थस्थैर्यप्रसाधनार्थं प्रत्यक्षमनुमानमर्थापत्तिं(च) प्रमाणान्याचक्षते । तथा हि स एवायं घटस्फटिकादिरिति प्रत्यभिज्ञाख्यं प्रत्यक्षमुदीयमानं स्थैर्यमुत्थापयति । न चेदमप्रमाणमभिघातव्यम् । अप्रामाण्यं हि भवदप्रामाण्यकारणोपपत्त्या वा भवेत्, प्रामाण्यलक्षणविरहाद् वा । यद्याद्यः पक्षः किमप्रामाण्यकारणम्, मिथ्यात्वमज्ञानं संशयो वा । न तावदत्र मिथ्यात्वम् । मिथ्यात्वं हि तद्विषये बाधकप्रत्ययाद् वा हेतूत्थदोषतो वा संभाव्येत । न तावद् बाधगन्धो ऽपि संभवति, देशकालनरान्तरेष्वप्यसंभवात् । न चानवगतापि बाधा कदाचिदपि भविष्यतीति शङ्का युक्तिमती, निर्बीजशङ्कानुपपत्तेः ।
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
इति दत्तावकाशा संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत । अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणदर्शनेन सर्वत्र शङ्कानिवृत्तेः । तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेव शङ्कनीयं नादृष्टपूर्वमपि । यदुक्तं कारिकायां
नाशङ्का निष्प्रमाणिका ।
इति ।
बृहट्टीकायामपि
उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥
इति ।
क्षणभङ्गसाधनं बाधकमस्येति चेत् । न । अनुमानस्य परम्परयापि प्रत्यक्षपूर्वकत्वात् प्रत्यक्षं प्रधानम् । प्राधान्याच्चानुमानस्य बाधकम् । न त्वनुमानमस्य । प्रत्यक्षान्तरं तु बाधकं भवति । यथा सर्पादिप्रत्ययस्य रज्वादिप्रत्यक्षम् । तच्चात्र न संभवति ।
ननु प्रत्यक्षे ऽपि बाधके कस्मान्न भवति परस्परप्रतिबन्धेन द्वयोरप्यप्रत्यक्षता । न । अर्थक्रियासमर्थवस्तुविषयाविषयत्वेन समानत्वाभावादेकस्य प्रत्यक्षाभासत्वादिति न (#निबन्ध् 113#) सद्विषयत्वं बाधकप्रत्ययान्मिथ्यात्वम् । नापि हेतूत्थदोषत्तः, देशकालनरान्तरे ऽर्थविसंवादात् । नाप्यज्ञानमप्रामाण्यकारणमत्रास्ति, प्रत्यभिज्ञानसंवेदनसंभवात् । न च संशयः । न हि तदेवेदं स्याद् वा न वेति स्फटिकादिषूदयति मतिः,किं तु तदेवेदं स्फटिकादिकमिति निरस्तविभ्रमाशङ्का । तन्नाप्रामाण्यकारणोपपत्त्या प्रत्यभिज्ञानस्याप्रामाण्यम् । नापि लक्षणक्षयात् । यदेव हि उत्पन्नमसन्दिग्धमदुष्टकारणजन्यं देशकालनरान्तरेष्वबाधितं च तदेव प्रमाणमिति नः सिद्धान्तः । तदुक्तम्
तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति ।
ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् ॥
तथा बृहट्टीकापि
तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसंमतम् ॥
इति । एतच्च लक्षणमुक्तन्यायेन प्रत्यभिज्ञाने ऽपि संभवतीति प्रमाणमेवेदम् । नन्विदमेकमेव न भवति, कारणभेदात्, विषयभेदात्, स्वभावविरोधाच्च । तथा हि स इति संस्कारकार्यम्, अयमिति चेन्द्रियकार्यम् । न च कारणभेदे ऽपि कार्याभेदो विश्ववैचित्र्याहेतुकत्वप्रसङ्गात् । तथा सत्यपि स्फटिकः स्फटिक इति व्यपदेशाभेदे पूर्वदेशकालसंबन्धापरदेशकालसंबन्धाभ्यां विरुद्धधर्माभ्यां योगात् स्फटिकः पूर्वापरकालयोर्भिद्यत इति विषयभेदो वक्तव्यः । तथा स इति परोक्षम्, अयमिति साक्षात्कारः । न चानयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकता आपादयितुम्, त्रैलोकस्यैक्यप्रसङ्गात् । न चास्य प्रामाण्यम्, विकल्पत्वेनावस्तुनिर्भासित्वात्,स्मार्तादविशेषाच्च । तस्मात् प्रत्यभिज्ञा एकत्वं स्थापयति भावानामिति मनोरथमात्रम् ॥
अत्रोच्यते । एकमेवेदं प्रत्यभिज्ञानं समाख्यातम् । यद्यपीन्द्रियं केवलमसमर्थम्, यद्यपि संस्कारमात्रम्, संस्कारसध्रीचीनं तु इन्द्रियं भावयिष्यति प्रत्यभिज्ञानम्, तद्भावाभावानुविधानात् प्रत्यभिज्ञाभावाभावयोः । न हि नाजीजनद् बीजमात्रमङ्कुरमिति मृदादिसहितमपि न जनयति । अथ भवतु देशकालयोस्तत्संसर्गयोर्वा परस्परनानात्वम्, न तदवच्छिन्नस्य पद्मरागस्य, तस्य ताभ्यां तत्संसर्गाभ्यां चान्यत्वात् ॥
ततो ऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति चेत् । स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते । न च स्वभावविरोधः, अनुमानस्याप्यनेकत्वप्रसङ्गात् । तदपि हि प्रत्यक्षमप्रत्यक्षं च, अविकल्पो विकल्पश्च, असमारोपः समारोपश्च । स्वानुभवावस्थापिताभेदस्य स्वरूपतद्ग्राह्यभेदापेक्षया प्रत्यक्षादीनामविरोध इति चेत् । न, इहापि साम्यात् । न खल्वेतदपि विज्ञानं (#निबन्ध् 114#) तत्तेदन्ताधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयदभिन्नं नानुभूयते नावसीयते वा । एकत्वे ऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभेदापेक्षया प्रत्यक्षतापरोक्षते न विरोत्स्येते, सहसंभवात्, विज्ञानैकत्वस्य च प्रमाणसिद्धत्वात् । न च स इति पूर्वदेशकालसंसर्गो ऽयमिति च सन्निहितदेशकालसंसर्गं एकस्य विरुध्यते, यतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति तदव्यवच्छेदे तत्स्वरूपापरिच्छेदात् स्वप्रच्युतिव्यवच्छेद्यस्वभावत्वात् पद्मरागभावस्य तदनवच्छेदे तत्परिच्छेदानुपपत्तेः ॥
कस्मात् पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते । तदभावाविनाभावादिति चेत् । स एव कुतः । प्रत्यक्षेण कदाचिदपि पुष्परागपद्मरागयोस्तादात्म्यानुपलम्भादिति चेत् । यत्र तर्हि ततस्तादात्म्यप्रतीतिः, न तत्र तदविनाभावः । समस्ति च सो ऽयं पद्मराग इति देशकालावस्थानुगतमेकं पद्मरागमवभासयन्ती साक्षात्कारवती प्रतीतिः । न विकल्परूपतयास्या अप्रामाण्यम्, अभिलापसंसर्गप्रतिभासत्वप्रामाण्ययोरविरोधात् । न चेदं स्मार्तम्, अदेशकालावस्थावतो ऽयं देशकालावस्थानुगतत्वेनाधिक्यादिति ॥
अथ केशकुशकदलीस्तम्बादौ सत्यपि भेदे प्रत्यभिज्ञानमुत्पन्नमिति चेत् । उत्पद्यतां को दोषः । किमनेन प्रतिपादितं भवति । किं प्रत्यभिज्ञायाः साधारणानैकान्तिकत्वम्, अथ शब्दसाम्यादुभयोरप्यप्रामाण्यम्, उत संशयापादनमात्रम् । प्रथमः पक्षो ऽनभ्युपगमादेव निरस्तः । न हीयमनुमानत्वेनोपन्यस्ता । अनुमानत्वे ऽप्यबाधितत्वादिति विशेषणे न दोष इति प्रतिपादयिष्यामः । नापि द्वितीयः पक्षः, दृष्टान्तमात्रतः साध्यसिद्धेरयोगात् । केशोण्डुकादिविषयस्य चक्षुर्विज्ञानस्याप्यप्रामाण्ये घटादिप्रत्यक्षस्याप्रामाण्यप्रसङ्गात् । संशयमात्रं तु व्यवहारोच्छेदकत्वान्नाश्रयणीयमेवति प्रतिपादितमिति न तृतीयो ऽपिओ पक्षः ॥
किं च केशादौ यदि प्रत्यभिज्ञा व्यभिचारिणो, कार्यकारणप्रतीतिः किं न व्यभिचारिणी । या व्यभिचारिणो सा कार्यकारणप्रतीतिरेव न भवतीति चेत् । यद्येवं या विसंवादिनी सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति समानम् । प्रत्यभिज्ञानस्य च सति प्रामाण्ये ऽनुमानादिष्वनन्तर्भावे प्रत्यक्षतैव, संस्कारसहायेन्द्रियान्वयव्यतिरेकानुविधायित्वाच्च । सत्संप्रयोगे सतीन्द्रियाणां भावाच्च । तदियं प्रत्यभिज्ञा अनेकदेशकालावस्थासंबद्धमेकं स्फटिकादिकं गोचरयन्ती स्थैर्यं व्यवस्थापयति ॥
तथानुमानतो ऽपि स्थिरतासिद्धिः । प्रयोगः - विवादाध्यासितः स एवायं स्फटिकं इत्यादिप्रत्यभिज्ञाप्रत्ययो यथार्थः, अबाधितप्रत्ययत्वात् । यावानबाधितप्रत्ययः स सर्वो यथार्थ उपलब्धः । यथा स्वसंवेदनप्रत्ययः । अबाधितश्चायम् । तस्मात्तथेति । अबाधितत्वं च परोद्भावितक्षणिकत्वसाधनबाधकोद्धारान्निश्चेयम् ॥
(#निबन्ध् 115#)
अथापरः प्रयोगः । विवादाध्यासिता भावाः पूर्वापरकालयोरेकस्वभावाः, अबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायमानत्वात् । यद्यदबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायते तत्सर्वमभिन्नम् । यथा यस्त्वया दृष्टो नीलो ऽर्थः स एव मया दृष्ट इति नीलो ऽर्थः प्रत्यभिज्ञायते । तथा चैते भावाः । तस्मात्तथेति । पूर्वं प्रत्ययस्य धर्मिता, अधुना भावानामिति विशेषः ।
किं च सहेतुकत्वाद्विनाशस्य स्थैर्य सिद्धम् । प्रयोगः - विवादास्पदीभूता भावा यथास्वं विनाशहेतुसन्निधेः प्राङ् न विनाशिनः, सहेतुकविनाशत्वात् । यद्यद्धेतुकं तत्तदसन्निधौ न भवति । यथा वह्न्याद्यभावे धूमादिः । सहेतुकविनाशाश्चामी भावाः । तस्मात्तथेति । सहेतुकविनाशत्वं च घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धम् । न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानमुचितम्, अङ्कुरादिहेतोरपि तथात्वप्रसङ्गात् । शक्यं हि वक्तुमर्थस्याभविष्णुतायामसमर्थो जन्महेतुः, भविष्णुतायां व्यर्थ इति । अपि च अक्षणिकाः सन्तः, कारणवत्त्वात् । यत् कारणवत्तदक्षणिकम् । यथा भावविनाशः । कारणवन्तश्चेमे सन्तः । तस्मादक्षणिका इति ।
कारणवत्त्वस्य साध्यविपर्यये वृत्तिशङ्का विनाशस्य सहेतुकत्वमेव निवर्तयतीति प्रसिद्धव्याप्तिकात् कारणवत्त्वादक्षणिकत्वसिद्धिरिति ॥
तथा शङ्करः स्थिरसिद्धौ प्राह । नोत्पत्त्यनन्तरविनाशी भावः, प्रमेयत्वात्, वस्तुव्यावृत्तिवदिति । अविद्यमानविपक्षत्वादन्वय्येव हेतुः । प्रमेयत्वस्य क्षणिकत्वेन विरोधाभावात् सन्दिग्धव्यतिरेकित्वमिति चेत् । न खलु क्षणिकत्वे कस्यचित्प्रमेयत्वं सिध्यति, क्षणस्थितिधर्मणः प्रमाणकाले ऽपातात् । अतीतस्य च प्रमेयत्वे ऽतिप्रसङ्गादिति ।
एवमेव प्रयोगमुपस्तुवन् त्रिलोचनो ऽप्याह । अक्षणिकाः सर्वभावाः, प्रमेयत्वात् । यत् प्रमीयते तदक्षणिकम् । यथा भावविनाशः । प्रमेयाश्च सर्वभावाः । तस्मादक्षणिका इति ।
असिद्धो दृष्टान्तधर्मीति चेत् । न । स्वकारणकलापादुत्पन्नवतो भावस्यान्तरेण निवृत्तिप्रसवं सर्वदावस्थानप्रसङ्गात् । तदैव भावो ऽस्ति न पूर्वं न प्रश्चादित्यपि शब्दः क्षणिकपर्यायत्वेनेष्यमाणः क्षणादूर्ध्वं सत्त्वाविच्छेदोपजननमन्तरेण नार्थवान् देवैरपि शक्यः परिकल्पयितुम् । विनाशकालापेक्षया हि क्षणो ऽल्पीयान् कालः । तेन सो ऽस्यास्तीति क्षणिको वक्तव्यः । इतरथा जन्मविनाशयोरेकस्मिन् काले भवतोः तुल्यहेतुकत्वेनैकत्वप्रसङ्गः । एकत्वे तु द्वयोरेकतरः प्रहातव्यः । तत्र जन्मप्रहाणे भावा निःस्वभावाः प्रसज्येरन् । निवृत्तिपरित्यागे च जन्मिनो भावा नित्या इति दुर्निवारः प्रसङ्गः । तत् सिद्धो दृष्टान्तः ॥
(#निबन्ध् 116#)
ननु प्रमेयत्वक्षणिकत्वयोर्विरोधासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकं प्रमेयत्वमिति चेत् । नैतदस्ति । यस्मादर्थं कञ्चित् प्रापयत् प्रत्यक्षं तेन प्रत्यासन्नत्वात्प्रापयति । प्रत्यासत्तिश्च तदुत्पतिरेवावकल्पते, न तादात्म्यम्, साकारनिराकारवादयोरप्रकृतत्वात् । अन्यत्र निराकृतत्वाच्च । सा च नियतवस्तुप्रतिभासाक्षिप्ता कार्यकारणभावलक्षणा प्रत्यासत्तिस्तुल्यकालं प्रमाणप्रमेययोरनुपपन्ना, सव्येतरविषाणयोरिव । ततः प्रमाणमर्थसत्तां बोधयत्तदधीनोत्पादतया बोधयति । कारणभावमात्रानुबन्धित्वाच्च तस्य पूर्वकालसत्तया भवितव्यम् । अतः पूर्वकालसत्त्वेन व्याप्तं प्रमेयत्वम् । पूर्वकालसत्त्वं च क्षणिकत्वे ऽनुपपन्नमिति व्यापकानुपलब्ध्या विपक्षात् क्षणिकत्वाद् व्यावर्तमानं प्रमेयत्वमक्षणिकत्वेन व्याप्यत इति असन्दिग्धो व्यतिरेकः । तदेवमनुमानप्रमाणसिद्धो ऽक्षणिक इति ॥
एवमर्थापत्तिरप्यस्य साधिका । तथा हि कार्यकारणभावग्रहणं क्रमयौगपद्यग्रहणस्मरणम् अभिलाषः स्वयंनिहितप्रत्यनुमार्गणं दुष्टार्थकुतूहलविरमणं कर्मफलसंबन्धः संशयपूर्वकनिर्णयः बन्धमोक्षः मोक्षप्रयत्नः शुभोदर्के कर्मणि प्रवृत्तिः प्रत्यभिज्ञा कार्यकारणभावः उपादानोपादेयभावप्रभृतयः स्थिरसत्तामन्तरेणानुपपद्यमानाः स्थैर्य साधयन्ति । प्रतिक्षणं भेदे सत्यनुभवितुर्विनष्टत्वे ऽन्यस्य कार्यकारणभावग्रहणाद्यनुपपत्तेरिति कथं क्षणभङ्गशङ्कापि ॥
अत्राभिधीयते । अप्रमाणमेवायं प्रत्यभिज्ञाख्यो विकल्पो मिथ्यात्वं च सद्विषयत्वबाधकप्रत्ययात् । नन्वस्य बाधकं प्रत्यक्षमसम्भवि, अनुमानं चासमर्थमावेदितमिति चेत् । नन्वस्य प्रत्यभिज्ञानस्य स्वार्थाविनाभावदार्ढ्ये प्रत्यक्षसहस्रेणापि किम् । संवादशैथिल्ये तु बाधकप्रत्यक्षवदनुमानमपि प्राप्तावकाशम्, प्रमाणस्यैव सिद्धिबाधयोरधिकारात् । तथा हि मायाकारः शिरसि निमज्जितं गोलकमास्येन निःसारयतीति प्रत्यभिज्ञा शिरसि च्छिद्रप्रसङ्गसङ्गतेनानुमानेन बाध्यमाना प्रतीतैव । बाध्यमाना न प्रत्यभिज्ञेति प्रस्तुते ऽप्यस्तु । यथावनताकाशप्रतिभासः सर्वसंप्रतिपत्तावपि बाध्य एव तद्वदेकताग्रहः सर्वसंप्रतिपत्तावपि बाध्यो ऽस्तु । तस्मादस्याः प्रत्यक्षताकीर्तनं याचितकमण्डनमात्रमत्राणम् । कथमतः स्थैर्यस्थितिरस्तु । ततश्चानुमानत्वमप्यस्या ध्वस्तम्, उक्तक्रमेण अबाधितत्वविशेषणविरुद्धबाध्यमानतायाः प्रसाधनादिति विशेषणासिद्धो हेतुः । यदापि क्षणभङ्गसाधकं बाधकं नोच्यते अस्यास्तदापीयमप्रमाणमेव, लूनपुनर्जातकेशपाशादौ व्यभिचारोपलम्भात् ॥
ननूक्तं या व्यभिचारिणी सा न प्रत्यभिज्ञेत्यादि । युक्तमेतत्, यदि कार्यकारणभावप्रतीतिवल्लक्षणभेदः प्रतिपादयितुं शक्येत । यथा ह्यन्वयव्यतिरेकग्रहणप्रवणप्रत्यक्षानुपलम्भादुपपन्नो निश्चयः कार्यकारणभावप्रतीतेरन्यस्तदाभासप्रतीतिरित्यनयोर्लक्षणभेदः, तथा यदि प्रत्यभिज्ञाने ऽपि लक्षणभेदो दर्शितः स्यात्, दर्शयितुं (#निबन्ध् 117#) वा शक्यो व्यभिचाराव्यभिचारोपयोगी, तदा भवतु प्रत्यभिज्ञातदाभासयोर्विवेकः । न त्वेवमस्ति, सर्वत्रात्यन्तसदृशे वस्तुनि पृथग्जनप्रत्यभिज्ञाया एकरसत्वात् ॥
संवादित्वासंवादित्वे लक्षणभेद इति चेत् । न । अलिङ्गस्य हि विकल्पस्य संवादो नाम प्रमाणान्तरसङ्गतिरर्थक्रियाप्राप्तिर्वा । तत्र न तावदाद्यः पक्षः, पश्चादपि स एवायमिति स्वतन्त्रैकाध्यवसायमात्रादपरस्य प्रमाणगन्धस्याप्यभावात् ।
नापि द्वितीयः पक्षः संगच्छते । न हि पूर्वापरकालयोरेकवस्तुप्रतिबद्धा सिद्धा काचिदर्थक्रियाः, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात् । तथा हि यथैको घटो वारि धारयतीति तत्कालभाविनो ऽप्यन्यस्य देशान्तरवर्तिनो न वारिधारणवारणम् तथा द्वितीयादिक्षणोप्यन्यो यदि वारि धारयति, कीदृशो दोषः स्यात् । विसदृशक्रियायां तु चिन्तैव नास्ति । तत्कथं प्रत्यभिज्ञानस्य संवादसंभवः ॥
ननु यद्येकं प्रत्यभिज्ञानं बिसंवादि दृष्टमिति सर्वमेव प्रत्यभिज्ञानं विसंवादि शङ्क्यते, तदैकमिन्द्रियज्ञानं केशोण्डुकद्विचन्द्रादौ विसंवाद्युपलब्धमिति घटादिष्वपि सर्वमेव प्रत्यक्षं विसंवादि संभाव्यताम्, इन्द्रियजन्यत्वस्यैकलक्षणस्य सर्वत्र संभवादिति चेत् । न । तत्रापि लक्षणभेदस्य सद्भावात् । तथा हि बहिरर्थस्थिताविन्द्रियार्थकार्यतया साक्षादर्थाकारानुकारित्वं प्रत्यक्षत्वम् । तच्चाभ्यासविशेषासादितपटिम्ना प्रत्यक्षेण निश्चीयते । क्वचित्त्वर्थक्रियाप्राप्तिज्ञानादिति प्रत्यक्षत्वमनवद्यमेव । द्विचन्द्रादौ त्वर्थविनाकृतेन तिमिरादिविप्लुतचक्षुइर्मात्रेण तज्ज्ञानं जनितमिति प्रत्यक्षाभासमेव । द्विचन्द्राद्यर्थाभावस्तु देशकालनरान्तरैर्द्विचन्द्रादेरर्थस्य बाधितत्वादव्याहत इति प्रत्यक्षाभासपरिहारे ऽपि प्रत्यक्षेषु क आश्चासविरोधः । प्रत्यभिज्ञाने ऽपि सर्वमिदमस्तीति न युक्तम् ॥
यथा हि पूर्वं पावकादौ पाकादिक्रिया प्रतिबद्धा सिद्धा पश्चादनुभूयमाना दहनज्ञानस्य संवादमावेदयति, अन्यथा बाह्यार्थोच्छेदान्निरीहं जगज्जायते, न तथा प्रथमचरमकालयोरेकीमावप्रतिबद्धा काचिदर्थक्रिया उपलब्धिगोचरा पूर्वापरकालयोरेकत्वमन्तरेण वा प्रवृत्त्यादिक्षतिर्येनैकतावग्रहो ऽपि संवादी स्यात् । तदियमनुमानबाधितत्वाद् व्यभिचारशङ्काकलङ्कितत्वाच्चन प्रत्यक्षमनुमानं वेति कथमतः स्थैर्यसिद्धिरनुमानप्रतिहतिर्वा ॥
यत् पुनर्वाचस्पतिरूवाच संस्कारेन्द्रिययोर्मिलितयोरेव प्रत्यभिज्ञानं प्रति कारणत्वमिति, तदयुक्तम्, भिन्नसामग्रीप्रसूतत्वादनयोर्ज्ञानयोः । तथा हि निमीलिते चक्षुषि स इत्यत्रेन्द्रियविनाकृतस्यैव संस्कारस्य सामर्थ्यमुपलब्धम् । प्रथमदर्शने त्वयमित्यत्र संस्काररहितस्यैवेन्द्रियस्य सामर्थ्यं दृष्टम् । तस्मात् सामग्रीद्वयप्रतिबद्धं (#निबन्ध् 118#) ज्ञानद्वयमिदमवधारितम् । कथमुभाभ्यां मिलित्वैकमेव प्रत्यभिज्ञानमुत्पादितमित्युद्घुष्यते । बीजक्षित्याद्योस्तु पृथक् सामर्थ्यं न दृष्टमित्येकैव सामग्रीत्यङ्कुरो ऽप्येक एवास्तु । तथा पूर्वदेशकालापरदेशकालाभ्यां तत्संबद्धाभ्यामन्यत्वात् पद्यरागस्याभेद इत्यप्यसङ्गतम् । विरुद्धयोर्धर्मयोः पद्मरागादन्यत्वे ऽपि विरुद्धधर्मयोगात् पद्मरागस्य भेदः कथमपह्नयते, त्रैलोक्यैकत्वप्रसङ्गस्य दुर्वारत्वात् । न हि धर्मधर्मिणोरन्यत्वे ऽपि ब्राह्मणत्वचाण्डालत्वे एकाधारे भवितुमर्हत इति पद्मरागस्य भेदो दुरतिक्रमः । तथा च न स्वभावविरोधो ऽनुमानस्याप्यनेकत्वप्रसङ्गात् । तदपि प्रत्यक्षमप्रत्यक्षं चाविकल्पो विकल्पश्चासमारोपः समारोपश्चेत्यप्ययुक्तम् । अनुमानस्य हि परमार्थतः स्वसंवेदनप्रत्यक्षात्मनो ऽविकल्पस्यासमारोपस्वभावस्याप्रत्यक्षत्वविकल्पत्वसमारोपत्वादेः परापेक्षया प्रज्ञप्तत्वाद् विरुद्धधर्माध्यासाभावात् कथं भेदसिद्धिः । स ए वायमिति तु प्रत्यभिज्ञानस्य स इत्यस्पष्टाकारयोगित्वम्, अयमिति स्पष्टाकारयोगित्वमिति विरुद्धधर्मद्वयं भेदकम् ॥
न चैवं वक्तव्यम् तत्तेदन्तापेक्षया प्रत्यभिज्ञानस्याप्येकस्यैव पारोक्ष्यापारोक्ष्यमविरुद्धमिति । न होदमेकाकारतया व्यवस्थितम्, येनानुमानवदस्यापि पारोक्ष्यापारोक्ष्यव्यवस्थामात्रं स्यात् । यावदतीतार्थाकारानुकारो वर्तमानार्थानुकारश्च स्वधर्मो न भवति तावत्तदर्थगोचरतैव नास्ति । कुतः पारोक्ष्यापारोक्ष्यव्यवहारो भविष्यति । तस्मात् स्पष्टास्पष्टाकारद्वयविरुद्धधर्माध्यासात् प्रत्यभिज्ञानं
प्रत्ययद्वयमेतदिति स्थितम् ॥
तथा सहेतुकविनाशत्वादयमप्यसिद्धो हेतुः । यत्पुनरत्रोक्तम् सहेतुकविनाशत्वं घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरघटविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धमिति, तदसङ्गतम्, अग्निधूमयोर्द्वयोरपि दृश्यत्वात्, प्रत्यक्षानुपलम्भतो धूमस्य वह्निकार्यता सिध्यतु । विनाशशब्दवाच्यस्त्वर्थो न कश्चिदिदन्तया दृष्टः । कर्परमेव घटमुद्गराभ्यामुत्पद्यमानमुपलब्धम् । यदाहुर्गुरवः
दृष्टस्तावदयं घटो ऽत्र च पतन् दृष्टस्तथा मुद्गरो
दृष्टा कर्परसंहतिः परमतो नाशो न दृष्टः परः ।
तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं
स्वाधीना पलिघस्य केवलमियं दृष्टा कपालावलिः ॥
तदयमभावो दृश्यानुपलब्धिबाधितः कथं प्रत्यक्षतो मुद्गरादिकार्यमवधार्यः ॥
यत्पुनरस्मिन्नदृश्यमाने ऽपि दृश्यत इति वाग्जालं सा भण्डविद्या । तद्वचनाद् गृह्णान्नपि पशुरेव । तथा हि
कस्यचित् प्रतिभासेन साध्यते ऽप्रतिभासि यत् ।
प्रतिभासो ऽस्य नास्येति नोपपत्तेस्तु गोचरः ॥ इति ।
(#निबन्ध् 119#)
अथैवं वक्तव्यम् किमन्येन ध्वंसेन, कर्परमेव घटध्वंसो ऽस्तु, तथा च सति मुद्गराद्यभावे कर्पराभावात् घटस्थैर्यमव्याहतमिति । दुराशा खल्वेषा । तथा हि यथा नाशशब्देन कर्परमुच्यते तथा यद्यभावशब्देनापि कर्परमेवोच्यते तदैकत्र प्रदेशे घटमेकमपनीय घटान्तरन्यासे तत्रापनीतघटस्याभावव्यवहारो न स्यात्, तत्प्रध्वंसकपालयोस्तत्रानुत्पादात् । तस्माद्यथापनीतघटस्य प्रच्युतिमात्रापेक्षया न्यस्तघटे ऽभावव्यवहारस्तथा मुद्गरादिकारणाभावात् प्रध्वंसकर्परयोरनुत्पादे ऽपि प्रच्युतिमात्रापेक्षयैव प्रतिक्षणमन्यान्यत्वव्यवहारो घटस्य सिध्यतीति कुतः स्थैर्यसिद्धिः । तस्मात् प्रध्वंसकर्पराभावे ऽपि प्रच्युतिमात्रात्मकभावापेक्षयाप्यस्मन्मतमव्याहतम् । यदाहुर्गुरवः
आस्तां कर्परपंक्तिरेव कलशध्वंसो न चेयं पुरा
तेन स्थैर्यमपि प्रसिध्यतु ततो भिन्नेन नाशेन किम् ।
अत्रोत्तरम्,
नाशः सैव यथोच्यते यदि तथाभावो ऽपि कुम्भान्तर्
अन्यासे ऽभाववचः कथं मतमतः सिध्यत्यभावो ऽपि न ॥
इति ।
ननु यदि स्वहेतुजनितो नाशो नास्ति, कथं क्वचिदेव देशे काले घटो नष्ट इति प्रतीतिनियमः । न च मुद्गरादन्यो नाशस्य हेतुर्वक्तव्यः, प्रागपि नाशसंभवे नष्टघटबुद्धिसंभवप्रसङ्गात् । यदाहुः
नाशो नास्ति यदि स्वहेतुनियतः किं देशकाले क्वचित्
कुम्भो नष्ट इति प्रतीतिनियमस्तेनास्ति कार्यश्च सः ।
नाप्यन्यत् किल कारणं रयवतो दण्डात्पुराप्यन्यथा
नाशोक्ता न कृता विनष्टघटधीः केनोद्धुरा वार्यते ॥
इति चेत् । तर्हीदानीमर्थापत्त्या प्रध्वंसं प्रसाध्य मुद्गराधीनत्वमस्य साधयितुमारब्धम् । तथा च सति धूमाग्निवत् प्रत्यक्षतः प्रध्वंसस्य मुद्गरादिकार्यत्वं सिद्धमित्युत्फुल्लगल्लमुल्लपितं व्यालुप्तम् ॥
न चार्थापत्तितो ऽपि तत्सिद्धिः संद्यपते, कुम्भो नष्ट इति प्रतीतेरन्यथाप्युपपद्यमानत्वात् । विनाशं विनापि हि घटदर्शनवतो मुद्गरकृतकपालानुभव एवनष्टघटावसायसाधनः, किमपरेण नाशेन कर्तव्यम्, घटो नष्ट इति बुद्धेर्घटनिश्चयपूर्वकमुद्गरकृतकपालानुभवमात्रान्वयव्यतिरेकानुविधानदर्शनात् । न चेयं सामग्रीपूर्वमप्यस्ति । मुद्गराभावे कर्परपंक्तेरेवाभावात् कथं प्रागपि नष्टघटबुद्धिप्रसङ्गः संगतो नाम । यदाहुर्गुरवः
दृष्टे ऽम्भोभृति मुद्गरादिजनिता दृष्टा कपालावली
सङ्केतानुगमाद्विनष्टघटधीस्तावत् समुत्पाद्यते ।
(#निबन्ध् 120#)
सामग्र्यामिह नाशनाम न किमप्यङ्गं न चास्यामपि
स्यादेषा न कदापि नापि च पुराप्येषा समग्रा स्थितिः ॥
अर्थापत्तिरतो गता क्षयमियं न ध्वंससिद्धौ प्रभुः ॥ इति ॥
यदि नाशानुभवो नास्ति कपालानुभवात् कपालकल्पनैव स्यात्, न नष्टघटबुद्धिरिति चेत् । तदेतदतिसाहसम्, घटनिश्चयपूर्वककपालवलयदर्शनादेव नष्टघटबुद्धेः साक्षादेवानुभूयमानत्वात् । तदपलापे धूमादीनामपि दहनादिपूर्वकत्वनिश्चयो न स्यादित्यतिप्रसङ्गः ॥
ननु घटो नष्ट इति बुद्धिर्विशेष्यबुद्धिः । सा च विनाशं विशेषणमाक्षिपतीति चेत् । तदसत्, यतः
स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ।
उच्यते । न चाविद्यमानमदृश्यं वा स्वबुद्ध्या किञ्चिद्रञ्जयति । प्रयोगो ऽत्रयस्य न स्वरूपनिर्भासस्तन्न कस्यचित् स्वानुरक्त प्रतीतिनिमित्तम् । यथा करिकेशरः । नास्ति च स्वरूपनिर्भासो ध्वंसस्येति व्यापकानुपलब्धिः । नास्या असिद्धिः, अभावस्य स्वरूपेणैवेदन्तया निर्भासाभावात् । न च विरुद्धता, सपक्षे भावात् । नाप्यनैकान्तिकत्वम्, प्रतिभासाभावे ऽपि स्वानुरक्तप्रतीतिहेतुत्वे शशविषाणादेरपि तथात्वं स्यादित्यतिप्रसङ्गः ।
ननु
न ध्वंसेन विना विनश्यति जगद् भावेन सार्धं सचेत्
सच्चासच्च किमस्तु वस्तुनियतं भावानुजो ऽसौ ततः ।
भावात् तेन तु भिन्नकारणतया तत्कारणासंभवे
ऽभावात्तेन कृतान्यतापि गलिता भङ्गः कुतो ऽनुक्षणम् ॥
अत्रोच्यते । कारणान्तरादुत्पद्यमानो ध्वंसो ऽभिन्नो भिन्नो वा । नाद्यः पक्षः, भिन्नकारणत्वात्, तैरनभ्युपगतत्वाच्च । अथ द्वितीयः पक्ष । तदा कः पुनर्भावस्य प्रद्वेषो येन प्रध्वंसाख्ये वस्तुनि स्वहेतोरुत्पन्ने निवर्तते नाम ॥
यत्पुनरेतदुच्यते - नाभावस्योत्पादे भावस्यापरा निवृत्तिः, किं त्वभावोत्पत्तिरेव तन्निवृत्तिरिति । कथमन्यस्योत्पादे ऽन्यस्य निवृत्तिः । अत्र स्वभावभेदैरुत्तरं वाच्यम् ये परस्परपरिहारस्थितयः स्वहेतुभ्यो जायन्ते । न हि स्वतो ऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद् भस्मनो ऽपि न कारणम् । स्वभावभेदेनतु कार्यकारणभावसमर्थनं परस्परपरिहारस्थितिनियमे ऽपि तुल्यम् । यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्यापकारं कञ्चिदकुर्वन्तो ऽपि बीजादयो ऽङ्कुरमारभमाणाः प्रागभावं निवर्तयन्ति, तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात्; एवं तदभावहेतवो ऽपि भावरूपे ऽकिञ्चित्करा (#निबन्ध् 121#) अपि तदभावमादधानास्तन्निवर्तयन्ति, अभावोत्पादस्यैव भावनिवृत्तिरूपत्वात् । तेन पूर्ववन्नार्थक्रियाकरणप्रसङ्ग इति । तदुचितं स्याद् यदि कार्यकारणयोरिवास्या प्यात्मा प्रमाणप्रतीतः स्यात्, केवलं दृश्यानुपलम्भग्रस्ते ऽप्येतस्मिन्नुपलभ्यत इति प्रलापो व्यक्तमियं भण्डविद्येत्युक्तम् । अर्थापत्तिरपि क्षीणेत्यपि प्रागभावस्य च दृष्टान्तत्वेनोपन्यासो भण्डालेख्यन्यायः ।
किं च कः पुनरत्र विरोधः
सहस्थानाभावो यदि तव विरोधो ऽर्थविपदोः
सहस्थानासङ्गः क्षणमपि यथा शीतशिखिनोः ।
स च ध्वंसो ध्वंसान्तरमुपनयन् संप्रति भवेद्
विरोधी सो ऽप्यन्यं क्षयमिति न नाशः कथमपि ॥
अन्यथा सिद्धसत्तामात्रेण विरोधित्वे सर्वं सर्वेण विरुद्धं प्रसज्येत । स्वभावालम्बनमप्यदर्शनादेव निरस्तमिति ।
अथान्योन्याभावप्रकृतिकतयार्थे सतो तदा
क्षयस्यैवाभावः सह भवतु वा हेतुबलतः ।
अनेन ध्वंसे च प्रकृतहतिरस्य त्वनुदये
बलीयानेवार्थः स्वयमपचये ऽन्येन किमिह ॥
सच्चासच्च किमस्तु वस्त्विति तु प्रसङ्गः त्रिलोचनप्रस्तावे निराकरणीयः । अत एवात्र प्रस्तावे भुवनैकगुरून् भगवतः कीर्तिपादानवमन्यमानः शङ्करः पशोरपिपशुरिति कृपापात्रमेवैष जाल्मः ।
यदप्याह त्रिलोचनः भावव्यतिरिक्तां निवृत्तिमनिच्छद्भिरशक्या स्वरूपनिवृत्तिरवस्थापयितुम् । या हि तस्य प्राक्तनी काचिदवस्था भवद्भिरर्थक्रियानिर्वर्तनयोग्या दृष्टा सैव यद्युत्तरकालमप्यनुवर्तते तर्हि स्वरूपेणैव निवृत्तो भावः कथमवस्थाप्यते । तदानीमयं नष्टो नाम यदि स्वहेतुप्रतिलब्धस्वरूपव्यतिरेकिणी तस्य काचिदवस्थोत्पद्येत, उत्पत्तौ सैव तस्यात्मान्तरं जातमित्यतादवस्थ्यमेवास्य विनाशं ब्रूमः । तादवस्थ्ये तादात्म्ये च स्वरूपेण निवृत्तो भाव इत्यस्य शब्दस्य सत्यमर्थं न विद्मः । स्वरूपनिवृत्तिः खल्वियं भवन्ती भाव एव स्यात्, भावादन्या वा । तत्त्वे स्वकारणेभ्यो निष्पन्नस्यार्थस्यान्यथानुपपत्तावुत्पत्तेरारभ्य सत्त्वान्नित्यत्वं प्रसज्येत । अन्यत्वे च तदेव निवृत्तेरन्यत्वनिवृत्ति(रिति) प्रियमनुष्ठितं प्रियेण । तस्मादुत्सृज्य विभ्रमं नाशोत्पत्तिरेव नष्टत्वमभ्युपगन्तव्यमिति ।
(#निबन्ध् 122#)
तदेतदज्ञानफलम् । तथा हि
स्वकारणादेव यथान्यदेशविच्छिन्नरूपः समुदेति भावः ।
विच्छिन्नभिन्नक्षणवृत्तिरेवं स्वकारणादेव न जायते किम् ॥
अभावतो ऽर्थान्तररूपबाधे तत्रापि चार्थान्तरमीक्षणीयम् ।
प्रदीपदृष्टान्तमतं न कान्तं स्वरूपसंदर्शनविप्रयोगात् ॥
यथा हि देशान्तरपरावृत्तमनीलादिपरावृत्तं च स्वहेतोरुत्पन्नं वस्तु तथा द्वितीयक्षणान्तरपरावृत्तमपि । यथा चान्यदेशानवस्थायित्वं तद्देशावस्थायित्वेनाविरुद्धम्, विरुद्धं च देशान्तरावस्थायित्वेनैव तथा द्वितीयक्षणावस्थायित्वं प्रथमक्षणावस्थायित्वेनाविरुद्धम्, विरुद्धं पुनर्द्वितीयक्षणावस्थायित्वेनैव । केवलं देशान्तरद्वितीयक्षणयोस्तत्प्रच्युतिमात्रं व्यवह्रियते । तदन्योन्याभावप्रध्वंसाभावयोः पदार्थयोः सद्भावे ऽप्यवार्यम्, अभावान्तरास्वीकारे ऽपि भावाभावयोरप्यमिश्रत्वास्वीकारे तादात्म्यप्रसङ्गात् । तस्माद् भावाभावयोस्तादात्म्यमिति । यथार्थक्रियाकारित्वस्य तद्देशवर्तित्वनीलत्वादिभिन्नविरोधस्तथा द्वितीयक्षणानवस्थायित्वेनापीति विवक्षितम् । परमार्थतस्तु धर्मिधर्मयोस्तादात्म्यं व्यावृत्तिकृतो भेदव्यवहार इति अपोहसिद्धौ प्रसाधितम् । एतच्चोक्तक्रमेणाविरुद्धमापादितम् । एतावति तु तत्त्वे वाक्छलमात्रप्रवृत्ता द्वेषविषज्वलितात्मानः क्षुद्राः प्रलपन्तीति किमत्र ब्रूमः ।
ततश्च व्यतिरिक्तनिवृत्त्युत्पत्तिमन्तरेण स्वरूपनिवृत्तेरुपपत्तेः कथं क्षणादूर्ध्वं प्राक्तनसत्तावस्थितिः । तस्मादुत्सृष्टविभ्रमं नष्टव्यवहारमात्रमस्तु, न त्वस्यान्यत् किञ्चिज् जायेत, भावस्य तादवस्थ्यप्रसङ्गात् । अभावः कथं निषिध्यत इति चेत् । न, तदनुत्पत्तिमात्रविषयस्य वाचानिश्चयेन च पश्चादभावव्यवहारमात्रप्रवर्तनस्येष्टत्वाद् वस्तूत्पत्तेरेव निषिद्धत्वात् ।
ननु केयं वाचोयुक्तिः, अभावव्यवहारमात्रमिष्यते पश्चान्नाभाव इति । एवं सति विसंवादिताप्रसङ्गो ऽभावव्यवहारस्य । अभावश्च मिथ्येति भाव एव प्रतिषेध्यस्य स्यात् । स चाभावः पश्चा(द्) भवतीति स्फुटतरमस्य कादाचित्कत्वात्सहेतुकत्वम्, वस्तुत्वं चेति । असदेतत्, अभावाख्यवस्त्वन्तरास्वीकारे ऽपि प्रच्युतिमात्रापेक्षयापि व्यवहारस्य चरितार्थत्वप्रतिपादनात् ।
यत्तु तद्विविक्तभूतलादेर्विषयत्वमाशङ्क्योक्तम्, न भूतलादेर्वस्त्वन्तरत्वात् । न च वस्त्वन्तरे प्रतिपादिते प्रतीते वा घटादि वस्तुभूतमिति प्रतिपादितं प्रतीतं (#निबन्ध् 123#) वा भवति । एवं वस्त्वन्तरमेव नाश इति अस्मिन् मते यद् दूषणमुक्तं तत् स्वयमेव परिहृतं स्यादिति, तदप्यसंबद्धम्, केवलं हि भूतलमस्य विषय इति कथं न घटादेरभूतत्वबोधः । यैव हि घटाद्यपेक्षया कैवल्यावस्था प्रदेशस्य स एव घटविरहः । वचनादिनाप्येवं केवलप्रदेशप्रतिपादने कथमिव न प्रकृतघटाद्यभावप्रतिपादनम् । कैवल्यं चासहायप्रदेशादव्यतिभिन्नमेव ॥
न चेह घटो नास्तीति प्रत्ययस्य घटवत्यपि प्रदेशे प्रसङ्गः, स्वहेतोस्तथोत्पन्नस्य सघटप्रदेशस्य केवलप्रदेशादन्यत्वात् । न च प्रत्यभिज्ञानतः सघटाघटप्रदेशयोरेकत्वम्, पूर्वमस्य निराकरणात् । न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधाने ऽङ्कुरादिहेतोरपि तथाभिधातुमुचितम् । असिद्धे हि कार्ये हेतोराश्रयणमवार्थम् । सिद्धे चेयं चिन्ता, यदि हेतोर्नित्यो ऽनित्यो वार्थो जातः किं नाशकारणेनेति हेतुपुरस्कारेणैव प्रवृत्तेः । न चैवमसिद्धे ऽङ्कुरादौ कार्ये शक्यमभिधातुम्, स्वरूपस्यैवाभात् तद्धर्मकत्वा(तद्) धर्मकत्वादिपर्यनुयोगस्य निर्विषयत्वात् ॥
ननु त्वयापि भावाभावयोर्लक्षणभेदो ऽभिहितः । तत्कथमेकत्वं सर्वार्थानाम् । लक्षणभेदादेव भेदव्यवस्था । ततो ऽपि चेन्न भेदव्यवस्थितिः, न कस्यचित् कुतश्चिद् भेदव्यवस्थितिरित्यद्वैतप्रसङ्ग इति चेत् । न । यो हि नश्वरस्वभावः स एव नाशोः, नश्यतीति बहुलाधिकारात् कर्तरि घञः प्रसाधनात्, तं नाशं भावस्वभावमिच्छामः । नशनं नाश इति तु प्रसज्यात्मा द्विधा कर्तव्यः । तत्त्वतस्तावद् वस्तुत्वविरहात् तत्त्वान्यत्वविरहित एवासौ भावो न भवतीति तद्भावनिषेधमात्रपातं तु भवति खरशृङ्गादिवत् । संवृतौ तु यथा कालभेदेन विकल्प्यमानः कादाचित्क इव प्रतिभाति तथा सर्वोपाख्याविरहरूपतया भावाद्भिन्न इव प्रतिभातीति नावस्तुत्वोपलक्षणभेदाख्यानविरोधः । एवं च सति संवृत्त्या लक्षणभेदे भावाभावयोर्भेदस्येष्टत्वात् । तत्वेन च लक्षणैकताविरहे भावस्य तेनैक्यनिषेधात् कथमद्वैतप्रसङ्गोपालम्भः ॥
स्यादेतत् । न च विवेकाप्रतीतौ तद्विविक्तग्रहणं भवति । तद्विवेकश्च न भूतलादिस्वरूपमेव विशेषणत्वादिति । तदेतन्न्यायबहिष्कृतम् । विशेषणविशेष्यभावो हि सङ्कल्पारुढे रूपे बाह्यार्थस्पर्शे विकल्पशब्दलिङ्गान्तराणां वैयर्थ्यप्रसङ्गादिति शास्त्रे विस्तरेण प्रतिपादनात् । स च सङ्कल्पो ऽभिन्नमपि भावं भिन्नमिवाकलयति । यथा शिलापुत्रकस्य शरीरम्, शरीरे करणादयः, लम्बकर्णो देवदत्त इत्यादि । तस्मात् कल्पनाधीनो विशेषणविशेष्यभावः । अभिन्ने ऽपि भावे भेदविवक्षापेक्षो भेदव्यवहारः कथं भेदनियतमात्मानमातनोतु ॥
स्खलद्गतिरयं राहोः शिर इत्यादिनिर्देश इति चेत् । यदि सत्यमेतत्, तदा शिरो ऽतिरिक्तस्य राहोरिव क्ष्मातलादेरतिरिक्तस्य विवेकस्य दृश्यानुपलम्भबाधितत्वादयमपि निर्देशः स्खलद्गतिरेव, तथापि नेति कोषपानं प्रमाणम् । तस्मात्सघटात् (#निबन्ध् 124#) प्रदेशान्तरात् प्रदेश एवायमन्यो घटविविक्तः स्वहेतोरुत्पन्नो न तु घटविवेकेन विशेषितः, स्वहेतोरुत्पन्नस्य विविक्तस्याभावे विवेकस्याभावात् । किं च
व्याप्तं भिदा यदि विशेष्यविशेष(ण)त्वं भेदात्ययान्ननु तदा तदभाव एव ।
देशो विशिष्ट इति चास्ति यथा तथेदमप्यस्ति दृश्यमतभेददृगस्ति नेति ॥
तस्मान्नाभावो नाम कश्चिद् यत्र कारणव्यापारः । तदेवं सहेतुकविनाशत्वादिति हेतुः स्वरूपासिद्ध इति स्थितम् ॥
सतामक्षणिकत्वं कार(ण)वत्त्वादित्यप्यसंबद्धमेव, क्षणिकत्वकारणवत्त्वयोर्विरोधाभावादक्षणिकत्वेन कारणवत्त्वस्य व्याप्तेरसिद्धेः सन्दिग्धव्यतिरेकित्वात् । न चास्य विपर्यये वृत्तिशङ्का नाशस्य सहेतुकत्वमेव निवर्तयति, उक्तक्रमेण नाशस्यैवाभावादिति ॥
तथा प्रमेयत्वादपि स्थिरसिद्धिर्मनोरथमात्रम् । साकारवेदनोदयपक्षस्थितौ हि द्वितीयक्षणानुवृत्तावप्यर्थस्य व्यवहितत्वात्, प्रकाशानुपपत्तेर्विषयस्वरूपवेदनमेव ज्ञानस्य विषयवेदनम् । एवं च वर्तमानानुरोधः । अतीते ऽपि तत्प्रत्यासत्तेरप्रच्युतेः । न चातिप्रसङ्गः, अनन्तरातीतादन्येन क्षणेन सारूप्यासमर्पणात् । ततश्च कारणत्वाद् यदि नाम प्रमेयत्वस्य पूर्वकालसत्त्वेन व्याप्तिस्तथापि प्रमेयत्ववत् पूर्वकालसत्त्वमपि क्षणिके ऽविरुद्धमिति प्रमेयत्वाक्षणिकत्वयोर्व्याप्तिसाधनो व्यापकानुपलम्भो ऽसिद्धः । ज्ञानाकारार्पकत्वं हि हेतुत्वम्, प्रमेयत्वं प्रामाणिकप्रतीतत्वम् । तच्चानन्तरातीत एव क्षणे समुपपद्यते ॥
ज्ञानसत्त्वासमये ऽर्थानुवृत्तेरभावान्निर्विषयतेति चेत् । नन्वनुवृत्तावपि तदर्पिताकारस्वरूपसंवेदनमेव तद्वेदनम् । तदेव च सविषयत्वम् । इयं च प्रत्यासत्तिरनन्तरातीते ऽपि क्षणे ऽक्षीणेति न द्वितीयक्षणानुवृत्तेरनुरोध इत्युक्तम् । अतः सन्दिग्धव्यतिरेकित्वादनैकान्तिकमेव प्रमेयत्वम् ॥
अथ साकारवादविद्वेषादनाकारज्ञानग्राह्यत्वं प्रमेयत्वमभिप्रेतं तदासिद्धतास्य हेतोः । इन्द्रियार्थसन्निकर्षादेर्ज्ञानमुत्पद्यतां नाम । तच्चानुभवैकरसत्वेन सर्वत्रार्थे सदृशाकारत्वात् कस्य ग्राहकमस्तु, येनाभिसंबद्धमिति चेत् । आत्ममनःसंयोगादीनामपि ग्रहणं स्यात् । जनकस्य ग्रहणमिति चेत् । तथाप्यात्मादीनां ग्रहणप्रसङ्गः । विषयत्वेन जनकस्य ग्रहणमित्यप्यसाधु, विषयत्वस्याद्याप्यनिश्चयात् । इदं दृष्टं श्रुतं वेदमित्यध्यवसायो यत्रार्थे स विषय इति चेत् । नन्वस्त्येव प्रतिनियतो व्यवहारः । कः पुनरत्र प्रत्यासत्तिनियम इति पृच्छामः । स चेदुपवर्णयितुं न शक्यते, व्यवहारो ऽपि त्वन्मते नियतो न स्यादिति ब्रूमः । अस्ति तावदिति चेत् । अत एवार्थसारूप्यमसाधारणं प्रत्यासत्तिनिमित्तमस्तु, निर्मिमित्ते नियमायोगात् ॥
(#निबन्ध् 125#)
ननु सारूप्यमप्यर्थादर्शने कथमवधार्यते । तच्च किमेकदेशेन, सर्वात्मना वा । आद्ये पक्षे सर्वं सर्वस्य वेदनं स्यात् । द्वितीये तु ज्ञानमज्ञानतां व्रजेत् । किं च सारूप्यादर्थवेदने ऽनन्तरं ज्ञानं तुल्यविषयं विषयः स्यादिति चेत् । माभूदर्थस्य दर्शनम् । आकारविशेषबलादध्यवसितार्थस्यार्थक्रियाप्राप्तेरेवार्थो ऽपीदृश इति सारूप्यव्यवहारो ऽविरुद्धः । अत एव स्थूलगतं परमाणुगतं वा सारूप्यं न चिन्त्यते । ज्ञानाकारस्य स्थूलत्वे ऽप्येकसामग्रीप्रतिबद्धपुञ्जविशेषादप्यभीष्टक्रियाकरणात् पुरुषार्थसिद्धेः । सारूप्यं चैकदेशेनैव । न चात्र सर्ववेदनप्रसङ्गः, सर्वेषां ज्ञानं प्रत्यजनकत्वात् । जनकानां च स्वव्यपदेशनिमित्तासाधारणैकदेशार्पकत्वेन ग्राह्यत्वात् । नापि तुल्यविषयान्तरज्ञानग्रहणप्रसङ्गः, तस्य स्वसंवेदनादेव प्रमाणात् सिद्धत्वात् । प्रमाणान्तरस्य तत्र वैयर्थ्यात् । जडत्वे सत्याकारार्पकस्य वस्तुनो ग्राह्यत्वादित्यस्यार्थस्याभीष्टत्वाच्च । बाह्यार्थस्थितौ चेयं चिन्तेति सर्वमनवद्यम् । तदेवमयं प्रमेयत्वादिति हेतुः साकारवादपक्षे सन्दिग्धव्यतिरेकः, निराकारपक्षे चासिद्ध इति स्थितम् ।
न चार्थापत्तिरति स्थिरात्मसाधनी, कार्यकारणभावग्रहणादीनामन्यथोपपत्तेः । तथा हि उपादानोपादेयभावस्थितचित्तसन्ततिमप्याश्रित्येयं व्यवस्था सुस्थेति कथमात्मानं प्रत्युज्जीवयतु । तत्र कार्यकारणभावप्रतीतिस्तावदनाकुला । तथापि प्राग्भाविवस्तुनिश्चयज्ञानस्योपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्तुज्ञानेनास्मिन् सतीदं भवतीति निश्चयो जन्यते । तथा प्राग्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानोपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानेनास्मिन्नसतीदं न भवतीति व्यतिरेकनिश्चयो जन्यते । यथोक्तम्
एकावसायसमनन्तरजातमन्यविज्ञानमन्वयविमर्शमुपादधाति ।
एवं तदेकविरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् ॥
अत एव देवदत्तेनाग्नौ प्रतीते यज्ञदत्तेन च धूमे प्रतीते न कार्यकारणभावग्रहणं तज्ज्ञानयोरुपादानोपादेयभावाभावात् । यत्र त्वेकसन्ताने ज्ञानक्षणयोरुपादानोपादेयभावस्तत्र कार्यादिग्रहः सुग्रहः । अन्यथा सत्यपि नित्यात्मनि प्रतिसन्धातरि कार्यकारणभावादीनामप्रतीतिरेव स्यात् ।
तथा हि आत्मनः सकाशात् प्रतिसन्धेयबुद्धीनामभेदो भेदो वा भेदाभेदो वा । प्रथमपक्षे आत्मैव स्यात् प्रतिसन्धाता, बुद्ध्य एव वा स्युः प्रतिसन्धेया इति कः प्रतिसन्धानार्थः । भेदपक्ष ऽपि बुद्धिभ्यो भिद्यमानस्य जडस्यात्मनः कः प्रतिसन्धानार्थ इति न विद्मः । बुद्धियोगाद् द्रष्टुत्ववत् प्रतिसन्धातृत्वमिति (#निबन्ध् 126#) चेत् । बुद्धि रेव तर्हि द्रष्टी प्रतिसन्धात्री चेती नियमस्वीकारे तद्योगादस्य तथात्वमिति किमनेन याचितकमण्डनेन । बुद्धीनां कर्तृत्वाभावादिति चेत् । तद्द्वारेणापि तर्हि तस्यात्मनो द्रष्टृत्वादिव्यवहारानुपपत्तिः । यदि हि बुद्धिर्हेतोः फलस्य वा द्रष्ट्री स्यात् तदानन्तर्यप्रतिनियमस्य चानुसन्धात्री कल्पिता । तद्योगाद् द्रष्टृत्वं प्रतिसन्धातृत्वं चोच्यत इति स्यादपि प्रतिविषयमलब्धविशेषायां च बुद्धौ संबन्धो ऽपि न विशेषं व्यवहारयितुमीशः - अधुना निबन्धनाधिगन्ता, अधुना फलस्य, इदानीं प्रतिसन्धातेति । तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेणात्मना कर्तव्यम्, तावतैव पर्याप्तत्वाद् व्यवहारस्य ।
स्थिरात्मानमन्तरेण सैव बुद्धिर्न स्यादिति चेत् । केनैवं प्रतारितो ऽसि । अहो मोहमाहात्म्यं यदीदृशानपि परवशीकरोति । तथा हि नेदमिदमन्तरेण यदुच्यते तत् खल्वन्यत्र प्रत्यक्षानुपलम्भाभ्यां सामर्थ्यावधारणे सति युज्यते वह्नेरिव धूमे, चक्षुरादिवद्वा दृष्टकारणान्तरसामग्र्या कार्यादर्शने पश्चाद् दर्शने च किञ्चिदन्यदपेक्षणीयमस्तीति सामान्याकारेण ।
आद्यः पक्षस्तावन्नास्तीति व्यक्तम् । द्वितीयो ऽपि न संभवी । न हि कारणबुद्धिसमनन्तरं कार्यबुद्धौ सत्यां निश्चयप्रवृत्तस्येदमस्यानन्तरं दृष्टं मयेति प्रतिसन्धानमदृष्टपूर्वं कदाचित् यतो ऽन्यस्य सामर्थ्यपरिकल्पनं स्यादित्युदस्य व्यामोहमुक्तक्रमेणैव कार्यकारणग्रहणव्यवस्था स्वीकर्तव्या ।
भेदाभेदपक्षस्तु धिक्कार एव, तस्यैव तदपेक्षया भेदाभेदविरुद्धधर्माध्यासादेकत्वानुपपत्तेः । ततश्च यद्भिन्नं भिन्नमेवाभिन्नं चाभिन्नमिति नैकस्य भेदाभेदौ ।तथाप्यभेदे विश्वमेकमिति युगपदुत्पादस्थितिप्रलयप्रसङ्गः । एवं क्रमिवस्तुग्राहकैः क्रमिज्ञानैरुपादानोपादेयभूतैः साक्षात् पारम्पर्येण क्रमेणामी जायन्त इति निश्चयो जन्यते । ऐककालिकानेकवस्तुग्राहकैरेव तज्ज्ञानैरेकोपादानत्वात् सकृदिमानि जातानीति विकल्पः क्रियत इति क्रमाक्रमग्रहणमप्यनवद्यम् ।
कथमनेकज्ञानादेकविकल्प इति चेत् । कि दोषः ।
भवन्तु भिन्ना मतयस्तथापिता दधत्युपादानतयैककल्पनम् ।
न भिन्नसंख्या फलहेतुबाधिनी न चान्यसन्तानभवा इवाक्षमाः ॥
यदप्युक्तं शङ्करेण पूर्वोत्तरक्षणयोः संवित्तीः, ताभ्यां वासना, तया हेतुफलभावाध्यवसायी विकल्प इति चेत् । किमिदानीं यत्किञ्चिदाशङ्कितेन वक्तव्यमित्येवं विधिरनुष्ठीयते भवता । विकल्पो हि गॄहीतानुसन्धानमतद्रूपसमारोपो वा स्यात् । न तावत् पूर्वः पक्षः, अदृष्टान्वयव्यतिरेकस्य पुरुषस्य हेतुफलभावाग्रहे ऽनुसन्धानप्रत्ययहेतोर्वासनाविशेषस्यैवानुपपत्तेः । अगृहीतस्य चानुसन्धाने ऽतिप्रसङ्गादिति ।
(#निबन्ध् 127#)
तदेतन्न सम्यगालोचितम् । यतो हेतुफलभूतयोः पूर्वोत्तरक्षणयोरेकैकेन ज्ञानेनाननुभवे ऽप्युपादानोपादेयभूताभ्यां क्रमिज्ञानाभ्यां हेतुफलत्वे गृहीते एव । केवलं हेतुकाले फलाभावात् । तद्विषयसामर्थ्यग्रहणे ऽपि फलादर्शनात् तदवसाय एवाप्रवृत्तः कार्यदर्शनेन प्रवर्त्यते । तथा फलावलोकने ऽपि तत्कार्यता गृहीतैव विकल्पेनानुसन्धीयत इति गृहीतानुसन्धानरूप एवायं विकल्प इति यत्किञ्चिदेतत् ।
यदाह महाभाष्यालङ्कारः
यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत् ।
अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम् ॥ इति ॥
तथा स्मरणमभिलाषः, स्वयं विहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणम्, कर्मफलसंबन्धः, संशयपूर्वकनिर्णयश्च पूर्वपूर्वानुभवैकोपादानकारणैः समर्पितसंस्कारगतैरुत्तरोत्तरार्थानुभवैवोपादेयभूतैर्जन्यमानो युज्यत इति किमधिकेनात्मना परिकल्पितेन । उपादानोपादेयभावनियमादेव च न सन्तानान्तरे स्मरणादिप्रसङ्गः सङ्गतः । किमिदमुपादानमिति चेत् । उच्यते । यत्सन्ताननिवृत्त्या यदुत्पद्यते तत्तस्योपादानकारणम् । यथा मृत्सन्ताननिवृत्त्योत्पद्यमानस्य कुम्भस्य मृदुपादानमिति शास्त्रे प्रपञ्चितम् । न चात्र परलोकक्षतिः ॥
यदप्युक्तम् - चित्तशरीरयोः कियत्कालस्थितिनिबन्धनस्य दृष्टस्य निवृत्तौ चित्तस्यापि निवृत्तिप्रसङ्गः । मरणवेदनया हि चित्तं विकलम् । ततो ऽविकला चित्तान्तरजननावस्था न संभवति । तस्मादुपस्थिते मरणदुःखे सर्वसंस्कारविरोधिनि चित्तमप्युच्छिद्येतेति नास्तिक्यमायातमिति । तदयुक्तम् । यतो मरणदुःखं चित्तविशेष एव, तस्य चित्तान्तरजननसामर्थ्यस्वभावस्य स्वभावादवार्यैव ज्ञानोत्पत्तिरिति । बन्धान्मोक्षो ऽपि संसारिचित्त सबन्धादनाश्रवचित्तप्रबन्धो यः । शुभादिमोक्षयोरपि प्रवृत्तिरवार्या । यतः सत्यप्यात्मन्यहमेव मुक्तो भविष्यामि सुखी चेत्यात्मग्रहणक्षणादध्यवसायात् प्रवर्तते । न पुनरात्मना गलहस्तितः । स चानाद्यविद्यापरम्परायातः पूर्वापरयोरेकत्वारोपको मिथ्यासङ्कल्पो बाधिते ऽप्यात्मन्यव्याहतप्रसर इति कथमप्रवृत्तिः । ननु
नैरात्म्यवादपक्षे (तु) पूर्वमेवावबुध्यते ।
मद्विनाशात्फलं न स्यान्मत्तो ऽन्यस्याथवा भवेत् ॥ इति ।
अप्रवृत्तिरेवास्त्विति चेत् । अस्तु, को दोषः । यद्ययमात्मग्रहो निर्विषयो ऽपि प्रवृत्तिमनाक्षिप्त क्षणमपि स्थातुं (न) प्रभवति । यथा हि जातस्यावश्यं मृत्युरिति (#निबन्ध् 128#) ज्ञातवतोप्यप्रतिक्रियपुत्रादिमरणे सोरस्ताडमाक्रन्दो मरणादौ च यत्नः शोकोद्रेकात् एवमविद्योद्रेकादेव नैरात्म्यं जानन्नपि प्रवर्तते, न सुखमास्त इति किमत्र क्रियताम्, अविद्यायाः प्रवर्तनशक्तेरवार्यत्वात् । प्रत्यभिज्ञा च पूर्वमेव ध्वस्ता । कार्यकारणभावनियता पश्चाद्भाविपूर्वभाविता । सा च क्षणिके ऽप्यविरुद्धा । उपादानोपादेयता च क्रमिस्वसंवेदनज्ञानद्वयेन साक्षात्कृता तत्पृष्ठभाविना निश्चीयत इति, असत्यप्यात्मनि प्रतिसन्धातरि कार्यकारणग्रहणादय उपपद्यमाना नात्मानमुपस्थापयितुं प्रभवन्ति । अतो ऽर्थापत्तिरति न क्षमेति भाग्यहीनमनोराज्यमिव स्थिरसिद्धिर्विशीर्यत एव । तथा च क्षणभङ्गसन्देहे सत्त्वाद्यनुमानं प्राप्तावसरम् ॥
॥ स्थिरसिद्धिदूषणं समाप्तम् ॥
(#निबन्ध् 129#)
॥ 9 ॥
॥ चित्राद्वैतप्रकाशवादः ॥
॥ नमस्तारायै ॥
दिगेषा स्वपराशेषप्रतिवादिप्रसाधनी ।
चित्राद्वैतमताबोधध्वान्तस्तोमकदर्थिनी ॥
इह खलु सकलजडपदार्थराशौ प्रत्याख्याते निराकृते च निराकारविज्ञानवादे प्रतिहते चालीकाकारयोगिनि पारमार्थिकप्रकाशमात्रे सम्यगुन्मूलिते च साकारविज्ञानालीकत्वसमारोपे प्रतिसन्तानं च स्वप्नवदबाधितदेहभोगप्रतिष्ठाद्याकारप्रकाशमात्रात्मके जगति व्यवस्थिते यस्य यदा यावदाकारचक्रप्रतिभासं यद्विज्ञानं परिस्फुरति तस्य तदा तावदाकारचक्रपरिकरितं तद्विज्ञानं चित्राद्वैतमिति स्थितिः । तदेवं चित्रमद्वैतं विज्ञानमिति पदत्रयमिह प्रत्युपस्थितम् ॥
अत्र च विप्रतिपत्तिर्नाम किं चित्रतायामद्वैते विज्ञानत्वे सर्वत्रैवेति विकल्पाः ॥
न तावदसौ चित्रस्वरूपानुसारिणी भवितुमर्हति, तन्मात्रस्य सर्वज्ञानुभवसिद्धत्वात्, अन्यथा शशविषाणादाविव जडमिदमलीकं विज्ञानं वेति विप्रतिपत्तीनामनवकाशप्रसङ्गात् । नापि विज्ञानत्वे विवादः कर्तुंमुचितः,
सहोपलम्भनियमाद्
इत्यादिना पूर्वमेव नीलादीनां साकारविज्ञानत्वप्रसाधनात् । अत एव सर्वत्रापि विमतिरसङ्गता, साकारविज्ञानसिद्धावेव चित्राद्वैतवादावतारात् । तस्माच्चित्रतेयमद्वैतविरोधिनीति व्यामोहादेकत्व एव विप्रतिप्रत्तिरिति तत्र प्रसाधनं साधनमिदमुच्यते ॥
यत् प्रकाशते तदेकम् । यथा चित्राकारचक्रमध्यवर्ती नीलाकारः । प्रकाशते चेदं गौरगान्धारमधुरसुरभिसुकुमारसातेतरादिविचित्राकारकदम्बकमिति स्वभावहेतुः ।
न तावदस्यासिद्धिरभिधातुं शक्यते, प्रत्यक्षप्रमाणप्रसिद्धसद्भावे विज्ञानात्मकनीलाद्याकारचक्रे धर्मिणि प्रकाशमानतायाः प्रत्यक्षसिद्धत्वात् । न चास्य (#निबन्ध् 130#) हेतोर्विरुद्धता संभवति, विचित्राकारमध्यवर्तिनि नीलाकारे दृष्टान्तधर्मिणि प्रकाशमानतालक्षणस्य साधनस्य दृष्टत्वात् । ननु चैकत्वे साध्ये यदपरमेकत्वाधिकरणं तदिह दृष्टान्तीकर्तुमुचितम् । न चास्य नीलाकारस्य एकता विद्यते, विरुद्धधर्माध्यासप्रसिद्धस्यानेकत्वस्य संभवात् । देशकालाकारभेदो हि विरुद्धधर्माध्यासः । ततश्च यथा चित्रिताकारचक्रस्याकारभेदतो भेदस्तथा नीलाकारस्यापि देशभेदतो भेदः । तदयं साध्यशून्यो दृष्टान्तो हेतुश्च विपक्षे परिदृश्यमानो यदि तत्रैव नियतस्तदा विरुद्धः ॥
तत्रापि संभवे ऽनैकान्त इति चेत् । अत्रोच्यते । यदि देशभेदतो विज्ञानात्मकस्थूलनीलाकारस्य भेदस्तदास्य प्रतिपरमाणुदेशभेदे भेदसंभवातु परमाणुप्रचयमात्रात्मको विज्ञानात्मकस्थूलनीलाकारः स्यात् । तथा च सति सर्वेषां विज्ञान(अ)त्मकनीलपरमाणूनां स्वस्वरूपनिमग्नत्वेन संतमसनिमग्नानेकपुरुषवत् व्यतिवेदनाभावात् स्थूलनीलाखण्डलकप्रतिभासाभावप्रसङ्गः सङ्गतः स्यात्, ग्राह्यग्राहकलक्षणयोः पुरस्तादपकर्तव्यत्वात् । न चैवं वक्तव्यम् परमाणूनां स्वरूपनिमग्नत्वे ऽप्येकोपादानतया पुञ्जात्मैव स्थूलः स्थूलमात्मानं ज्ञास्यतीति, सत्यप्येकोपादानत्वे स्वस्वरूपनिमग्नत्वादेव स्थूलव्यवस्थापकस्य भिन्नस्यात्मनो ऽन्योन्यं वा ग्राह्यग्राहकभावस्यायोगात् । तादात्म्येन व्यतिवेदनस्य चानभ्युपगमात् ।
वर्गो वर्गं वेत्ति
इत्यस्यानुपदत्वात् । न च यथा बाह्यार्थवादे स्थूलैकाकारज्ञानप्रतिभास एव बाह्यपरमाणुप्रचयप्रतिभासव्यवस्था गत्यन्तराभावात्, तथा ज्ञानपरमाणुप्रचयव्यवस्था(पक) स्थूलैकाकारयोगिविज्ञानान्तरस्थानभ्युपगमात् । अभ्युपगमे वा तस्यैव दृष्टान्तत्वात् । तस्माद् यावद् यावत् प्रतिभासस्तावत्तावत् स्थूलतयैव व्याप्तः । अस्थूले परमाणौ स्थूलनिवृत्तिमात्रे च प्रतिभासस्य दृश्यानुपलम्भबाधितत्वात् । यथा प्रसिद्धानुमाने सत्त्वं क्षणिकत्वेन व्याप्तं क्रमाक्रमकारित्वेनापि, क्षणिकत्वाभावाच्च कर्माक्रमनिवृत्तौ निवर्तमानं क्षणिकत्वे नियतं सिध्यति, तथात्रापि प्रकाशमानत्वं साधनमेकत्वेनापि स्थौल्येनापि, एकत्वाभावाच्च विपक्षात् परमाणुपुञ्जात्मन एकत्वनिवृत्तिमात्रात्मनश्च स्वविरुद्धोपलम्भात् स्थौल्यस्य व्यापकस्य निवृत्तौ निवर्तमानमेकत्वं नियतं सिध्यति । ततश्च यथा बहिर्व्याप्तिपक्षे घटे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलात् सत्त्वं क्षणिकत्वनियतमवधार्य सत्त्वात् पक्षे क्षणभङ्गसिद्धिः, त(था) त्रापि नीलाकारे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलादेव प्रकाशमानत्वमेकत्वनियतमवगम्य प्रकाशमानत्वाद् विचित्राकारचक्रे साध्यधर्मिण्येकत्वसिद्धिरिति न दृष्टान्तस्य साध्यशून्यत्वम् । नापि हेतोर्विरुद्धता । न चानैकान्तिकता ॥
नन्वेकत्वे साध्ये तत्प्रच्युतिर्द्वित्वं च विपक्षः, तस्माच्च विपक्षाद्धेतुव्यतिरेकप्रतिपत्त्यवसरे किं विपक्षात्मा प्रकाशते न वा । प्रतिभासपक्षे प्रकाशमानत्वस्य (#निबन्ध् 131#) हेतोः साधारणानैकान्तिकता, विपक्षे ऽपि दृष्टत्वात् । अथ न प्रकाशते तदा सन्दिग्धव्यतिरेकित्वम्, कुतो व्यतिरेक इत्यवधेरेवाप्रकाशमानशरीरत्वात् कथमतः साध्यसिद्धिप्रत्याशा ।
अत्रोच्यते । इह द्विविधो विज्ञानानां विषयः ग्राह्यो ऽध्यवसेयश्च । प्रतिभासमानो ग्राह्यः । अगृहीतो ऽपि प्रवृत्तिविषयो ऽध्यवसेयः । तत्रासर्वज्ञे ऽनुमातरिसकलविपक्षप्रतिभासाभावान्न ग्राह्यतया विपक्षो विषयो वक्तव्यः, सर्वानुमानोच्छेदप्रसङ्गात्, सर्वत्र सकलविपक्षप्रतिभासाभावात् ततो व्यतिरेकासिद्धेः । प्रतिभासे च देशकालस्वभावान्तरितसकलविपक्ष साक्षात्कारे साध्यात्मापि वराकः सुतरां प्रतीयत इत्यनुमानवैयर्थ्यम् । तस्मादप्रतिभासे ऽप्यध्यवसायसिद्धादेव विपक्षाद् धूमादेर्व्यतिरेको निश्चितः । तत् किमर्थमत्र विपक्षप्रतिभासः प्रार्थ्यते । यदि पुनरस्याध्यवसायो ऽपि न स्यात्तदा व्यतिरेको न निश्चीयत इति युक्तम्, प्रतिनियतविषयव्यवहाराभावात् ॥
नन्वस्मन्मते वस्त्ववस्त्वात्मकसकलविपक्षप्रतिपत्तिसंभवात् ततो हेतुव्यतिरेकः संप्रत्येतुं शक्यत एव । न च प्रतिभासमात्रेण सत्त्वप्रसङ्गः, अर्थक्रियाकारित्वलक्षणत्वात् सत्त्वस्य । त्वन्मते तु प्रकाश एव वस्तुत्वम् । अतो विपक्षयोरेकत्वप्रच्युतिर्द्वित्वयोः प्रतिभासे प्रकाशमानत्वसाधनस्य विपक्षसाधारणता । अप्रतिभासे चसन्दिग्धव्यतिरेकित्वमिति चोद्यं दुरुद्धरमेवेति चेत् । तदेतदसङ्गतम् । तथा हि धूमादिरवह्न्यादेर्विपक्षाद् व्यावृत्तो वह्न्यादिनियतः सिध्यति, तस्य च वस्त्ववस्त्वात्मकसकलविपक्षपदार्थराशेः स्वरूपनिर्भास इति किं निर्विकल्पकज्ञाने कल्पनायां वा । निर्विकल्पे चेत् । प्रतिभास इति च को ऽर्थः । किं निराकारे ज्ञाने सकलविपक्षादिस्वरूपस्य साक्षात् स्फुरणम्, यदि वा तदर्पितबुद्धिस्वभावभूतसदृशाकारप्रकाशः, अथ समनन्तरप्रत्ययबलायातबुद्धिगतबाह्यसदृशाकारप्रतिभासः, आहोस्विद् बुद्धेरात्मभूतविपक्षसदृशालीकाकारपरिस्फूर्तिः ।
न तावदाद्यः पक्षो युक्तः, देशकालस्वभावविप्रकृष्टानां पदार्थानामर्वाचीने जने निराकारे च ज्ञाने स्फुरणायोगादित्यस्यार्थस्य शास्त्रे एव विस्तरेण प्रसाधनात् । स्फुरणे चासाध्यस्यापि प्रकाशनप्रसङ्गे ऽनुमानवैयर्थ्यस्य प्रतिपादनात् ।
नापि द्वितीयः पक्षः, देशादिविप्रकृष्टत्वादेव साक्षात्स्वाकारसमर्पणसामर्थ्याभावात् ।
न च तृतीयः सङ्गतः, सादृश्यसंभवे ऽपि समनन्तरबलादेवायातस्य बाह्येन सह प्रत्यासत्तेरभावात् ।
न चतुर्थो ऽपि प्रकार संभवति, असत्प्रकाशयोर्विरोधात्, स्फुरतो ऽलोकत्वायोगात् । तथा ह्यसत्प्रकाश इति किमसदीश्वरादेः ख्यातिः, भासमानो वा आकारो ऽसन्, सन् वा न कश्चित् ख्यातीति विवक्षितम् । तत्र यस्य पदार्थस्य स्वरूपपरिनिर्भासः स कथमसन्निति प्राणधारिभिरभिधातव्यः । स्फुरतः केशोण्डुकाकारस्य (#निबन्ध् 132#) बाह्यरूपतया बाध्यत्वे ऽपि ज्ञानरूपतयार्थत्वस्य आचार्येण प्रतिपादितत्वात् ग्राहकाभिमतनिराकारप्रकाशस्याप्यसत्त्वाभिधानप्रसङ्गात् ॥
प्रतिभासे ऽपि बाधनादसत्यत्वमिति चेत् । किं तद् बाधकम्, प्रत्यक्षमनुमानं वा । यद्येकत्र स्वरूपसाक्षात्कारिणि प्रत्यक्षे ऽविश्वासः कथमन्यत्र बाधके स्वरूपान्तरप्रकाश एव निर्वृत्तिस्तत्पूर्वकमनुमानं च सुतरामविश्वासभाजनमिति न बाधकवार्तापि । यदाहुर्गुरवः
यस्य स्वरूपनिर्भासस्तदेवासत्कथं भवेत् ।
बाधातो यदि साप्येका प्रत्यक्षानुमयोर्ननु ॥
प्रत्यक्षे यद्यविश्वासः एकत्रान्यत्र का गतिः ।
तत्पूर्वमनुमानं च कथमाश्वासगोचरः ॥ इति ।
ननु
दृष्टमेव द्विचन्द्रादिप्रतिभासे ऽपि बाधितम् ।
न दृष्टे ऽनुपपन्नत्वं तज्ज्ञातमपि बाध्यते ॥
इति चेत् । न । बाध्यस्याप्रतिभासनात् । प्रतिभासिनश्चाबाध्यत्वात् । तथा हि
बुद्ध्याकारस्य निर्भासो बाधा बाह्यस्य वस्तुनः ।
स्फूर्तावप्यविश्वासे क्व विश्वास इति कीर्तितम् ॥
एतेन भासमानो वा आकारो ऽसन्निति द्वितीयो ऽपि पक्षः प्रतिक्षिप्तः, प्रतिभासादेव सत्तासिद्धेर्बाधकाबकाशाभावात् ।
तथा सन् वा कश्चिन्न ख्यातीति तृतीयसङ्कल्पो ऽपि व्याकुलः, प्रकाशव्याप्तत्वात् सत्तायाः । अप्रकाशस्यासत्तया ग्रस्तत्वात् ॥
ननु प्रकाशो नामः वस्तुनः सत्तासाधकं प्रमाणम् । न च प्रमाणनिवृत्तावर्थाभावः । अर्थक्रियाशक्तिस्तु सत्त्वम् । तच्चाप्रकाशस्यापि न विरुध्यत इति चेत् । सत्यमेतत् । बहिरर्थबादे ऽप्रकाशस्यापि सामर्थ्याभ्युपगमात् । केशोण्डुकादिप्रतिभासे ऽध्यवसितस्यार्थक्रियाशक्तिवियोगादेवाभावसिद्धेः । सर्वथा बहिरभावे तु ज्ञानस्य प्रकाशाव्यभिचारात्तावतैव सत्त्वे किमर्थक्रियया ।
कथमन्यहृदः सत्त्वं प्रकाशादेव नास्य चेत् ।
नार्थक्रियापि सर्वस्मै क्वचिच्चेद् भासनं न किम् ॥
इति । निर्विकल्पे तावत् स्वसंवेदनसिद्धस्वाकारमन्तरेण विपक्षादयो न परिस्फुरन्ति । अथामी विकल्पे प्रतिभासन्त इति द्वितीयः सङ्कल्पो ऽभ्युपगम्यते, अस्मिन्नपि पक्षे प्रतिभासमान आकारो ऽसाधारणो ऽशब्दसंसृष्टतया स्वसंवेदनतादात्म्ये प्रविष्टत्वाद्वस्तुसन्नेव ।
अध्यवसेयतया विपक्षादयो गृह्यन्त इति चेत् । तदापि तेषां स्वरूपस्य निर्भासो ऽस्ति न वा । निर्भासे प्रत्यक्षसिद्धतैव, नासत्ख्यातिः । शास्त्रे ऽपि
(#निबन्ध् 133#)
ऽस्वरूपसाक्षात्कारित्वमेव प्रत्यक्षत्वम्ऽ
उक्तम् । तस्य चेतरप्रत्यक्षेष्विव विकल्पे ऽपि स्वीकारे विरुद्धव्याप्तोपलम्भेन विकल्पभ्रान्तत्वयोर्दूरमपास्तत्वाद्विकल्पे ऽपि त्वन्मते प्रत्यक्षत्वमक्षतम् । तत् कथं तत्सिद्धस्य प्रत्यक्षान्तरानुमानाभ्यां बाधाभिधानम्, तयोरपि स्वरूपान्तरप्रकाशपौरुषत्वात् ॥
अथ विकल्पभ्रान्तत्वयोर्व्यापकविरुद्धयोः संभवात् विकल्पे प्रत्यक्षत्वमेवासंभवि । नन्वस्य प्रत्यक्षत्वमसंभवीति स्वरूपसाक्षात्कारित्वमसंभवीत्युक्तम् । अथ विपक्षादिरर्थो ऽस्मिन् प्रकाशत इति वाचा स्वरूपसाक्षात्कारित्वं कथितमिति माता मे बन्ध्येति वृत्तान्तः । इष्यते च त्वया विपक्षादिस्वरूपसाक्षात्कारित्वं बिकल्पस्येति प्रत्यक्षतानतिक्रमः, अप्रत्यक्षत्वे वस्तुस्वरूपस्फुरणायोगात् । ततश्च तत्प्रतिभासिनो ऽपि रूपस्य सत एव ख्यातिर्नासत्ख्यातिः । न च तदेव विकल्पे परिस्फुरद्रूपमसतामीश्वरादीनां स्वरूपम्, असत्त्वस्यैवाभावप्रसङ्गात् । स्वरूपस्फुरणे ऽप्यसत्त्वे ऽन्यत्रापि प्रकाशिन्यनाश्वासात् ।
ततो यत् साकारवादे जल्पितम्
नित्यादयः सन्त एव स्युः
इति तदात्मन एव पतितम् । यदाहुर्गुरवः
स्वरूपसाक्षात्करणादध्यक्षत्वं न चापरम् ।
विकल्पभ्रमभूमित्वमत एव हि बाधितम् ॥
यदि नाध्यक्षता तस्य रूपनिर्भास एव न ।
ततस्तदसदीशादि प्रतिभातीत्यसङ्गतम् ॥
यदि तु प्रतिभासेत रूपमस्य सदेव तत् ।
तदसत्प्रतिभातीति तच्च भात्यसदेव वः ॥
अथाध्यवसाये ऽध्यवसेयस्वरूपस्य प्रतिभासो नास्तीत्युच्यते । न तदा कस्यचिदध्यवसायः । कथमतः प्रतिनियतवस्तुव्यवस्थासिद्धिः । किं च को ऽयमध्यवसायोनाम । किं व्यावृत्तिभेदपरिकल्पितस्य प्रकाशांशस्य, स्वाकारांशस्य, अलीकाकारस्य, बाह्यवस्तुनो ऽवस्तुनो वा स्फुरणमध्यवसायार्थः । यदि वा स्वाकारे बाह्यारोपः, बाह्ये वा स्वाकारारोपः, स्वाकारबाह्ययोर्योजना, तयोरेकीकरणमेकप्रतिपत्तिरभेदेन प्रतिपत्तिः भेदाग्रहो ऽध्यवसायार्थ इति विकल्पाः ।
तत्र न तावदादिमौ पक्षौ कल्पनामर्हतः । स्वरूपे सर्वस्यैव स्फुरणस्य निर्विकल्पत्वादवसायानुपपत्तिः । इतरथा निर्विकल्पकज्ञानाभावप्रसङ्गात् ।
अलीकस्फुरणं तु प्राक् प्रत्याख्यातम् ।सत्यपि स्फुरणे ऽस्फुटत्वान्निर्विकल्पकमेतत् । द्विचन्द्रादिज्ञानवत् । अस्तु स्वग्राह्ये तन्निर्विकल्पकम्, बाह्ये तु अध्यवसेये (#निबन्ध् 134#) अध्यवसाय इति चेत् । न तत्संबन्धाभावात, तदप्रतिभासाच्च । अन्यथातिप्रसङ्गादित्युक्तप्रायम् । बाह्यवस्तुस्वरूपस्फुरणे तु प्रत्यक्षप्रतिपत्तिरेवासाविति को ऽध्यवसायः । अवस्तुस्फुरणं पुनस्त्रिधा विकल्प्य प्रागेव प्रत्याख्यातम् ।
स्वाकारे तु बाह्यारोपो न संभवत्येव । तथा हि ज्ञानं केनचिदाकारेण सत्येनालीकेन वोपजातं नाम । बाह्यारोपस्तु तदाकारे तत्कृतो ऽन्यकृतो वा स्यात् । तत्कृतत्वे न तावत् तत्काल एव व्यापारान्तरमनुभूयत इति कुतस्तदारोपः । कालान्तरे च स्वयमेवासत् कस्य व्यापारः स्यात् ।
द्वितीयपक्षे ज्ञानान्तरमपि नाकारारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण क्वचित् किञ्चित्करं नाम । तदेतदर्वाचीनज्ञानसदृशाकारगोचरीकरणे ऽपि न बाह्यारोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय । न च शब्दामुखीकरणमतिरिक्तो व्यापारः, शब्दाकारस्यापि स्वरूप एवान्तर्भावादिति नाकारादन्यो ज्ञानव्यापारः । आरोप्यमाणश्चासावर्थो बाह्यः । तत्र बुद्धौ यदि स्वरूपेण स्फुरति सत्यप्रतीतिरेवासौ, क आरोपः । अथ न परिस्फुरति तथापि क आरोपः । स्फुरणे वा अधिकरणभूतस्वाकारातिरिक्तस्यारोप्यमाणाकारस्यापि प्रतिभासप्रसङ्गः ।
तदाकारस्फुरणमेव तस्य स्फुरणमिति चेत् । न । तस्यारोपविषयत्वात् । न हि मरीचिस्फुरणमेव जलस्फुरणमिति न स्वाकारे बाह्यारोपः । अत एव बाह्ये स्वाकारारोपो नास्ति, आरोपविषयस्य बाह्यस्यास्फुरणात् । तत एव स्वाकारबाह्ययोर्योजनाप्यसंभविनी, योग्ययोरप्रतिभासात् । न चैकीकरणमध्यवसायः । को ऽयमेकीकरणार्थः । यद्येकतापत्तौ प्रयोजकत्वं तदारोप्यारोपविषययोः कदाचिदेकीभावाभावादसंभव एव । न हि शशविषाणे कारणं किञ्चित् । न च पूर्वमनेकमेकतामेतीति क्षणिकवादिनः सांप्रतम् । अर्थान्तरोत्पत्तिमात्रं तु स्यात् । न च तदुपलब्धिगोचरो ऽन्यत्रारोपविषयात् स्वाकारात् । न च तावताप्यर्थस्य किञ्चिदिति कथमेकीकरणम् ।
अथैकप्रतीतिरध्यवसायः । तथापि न द्वयोरेकप्रतिपत्तिरध्यवसेयानुभवाभावात् । न च द्वयोः प्रतीतिरित्येवाध्यवसायः नीलपीतवत् ।
न चाभेदेन प्रतीतिरध्यवसायः । यतः पर्युदासपक्षे ऐक्यप्रतीतिरुक्ता भवति । सा च प्रत्युक्ता, अध्यवसेयप्रतिपत्त्यभावात् । भेदेन प्रतीतिनिषेधमात्रे ऽपि न बाह्यस्य प्रतीतिरुक्तेति कुतस्तदध्यवसायः । यदि हि बाह्यं प्रकाशेत एकत्वेनानेकत्वेन वा सता असता वा प्रतीतिरिति युक्तम् ।
सर्वाकारतत्स्वरूपतिरस्कारेण सा प्रतीतिरित्येकप्रतीतिरिति चेत् । तत्स्वरूपतिरस्कारे तर्हि तदप्रतिभासनमेव । कस्यचिदंशस्य प्रतिभासनादिति चेत् । न । निरंशत्वाद्वस्तुनः सर्वात्मना प्रतिभासो ऽप्रतिभासो वेति शास्त्रमेवात्र विस्तरेण परीक्ष्यते ।
(#निबन्ध् 135#)
न च भेदाग्रहो ऽध्यवसायो वक्तव्यः । तथा हि किं बाह्ये गृह्यमाणे ऽगृह्यमाणे वा । न च प्रथमः पक्षः, बाह्यग्रहणस्य प्रतिक्षिप्तत्वात् । ग्रहणे वाध्यवसायस्य प्रत्यक्षताप्रसङ्गात् । अगृह्यमाणे तु बाह्ये प्रवृत्तिनियमो न स्यात्, अन्येषामपि तदानीमग्रहणादन्यत्रापि प्रवृत्तिप्रसङ्गात् ।
त्रिलोचनो ऽपीत्थमध्यवसायं दूषयति । को ऽयमध्यवसायः । किं ग्रहणम्, अहोस्वित् करणम्, उत योजना, अथ समारोपः । तत्र स्वाभासमनर्थमर्थ कथं गृह्णीयात्, कुर्याद् वा विकल्पः । न हि नीलं पीतं शक्यं ग्रहीतुं कर्तुं वा शिल्पकुशलेनापि । नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः । न च स्वलक्षणं विकल्पग्रहणगोचरः । न च स्वाकारमनर्थमर्थमारोपयति । न तावदगृहीतस्वाकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् । तत्र किं गृहीत्वा आरोपयति, अथ यदैव स्वाकारं गृह्णाति तदैवारोपयति । नाद्यः । न हि क्षणिकं विकल्पविज्ञानं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति । उत्तरस्मिंस्तु कल्पे ऽविकल्पस्वसंवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदः समारोप्यमाणो विकल्पेन स्वगोचरो न शक्यो ऽभिन्नः प्रतिपत्तुम् । नापि बाह्यस्वलक्षणकत्वेन शक्यः प्रतिपत्तुम्, विकल्पाकारे स्वलक्षणस्य बाह्यस्याप्रतिभासनादिति ।
बाचस्पतिरपि अध्यवसायं प्रतिक्षिपति । अनर्थं स्वाभासमर्थमध्यवस्यतीति निर्वचनीयमेतत् । नन्वयमारोपयतीति किं विकल्पस्य स्वरूपानुभव एवारोपः, उत व्यापारान्तरं स्वरूपानुभवात् । न तावत् पूर्वः कल्पः, अनुभवसमारोपयोर्विकल्पाविकल्परूपतया द्रवकठिनवत्तादात्म्यानुपपत्तेः । व्यापारान्तरत्वे तु क्रमः समानकालता वा । न तावत् क्रमः, क्षणिकस्य विज्ञानस्य क्रमवद्व्यापारायोगात् । अक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापारानुपपत्तेः न क्रमवद्व्यापारसंभवः । अनुभवसमारोपौ समानकालाविति चेत् । भवतु समानकालत्वं केवलम् । आत्मा स्वभावस्थित एव वेद्यः, परभावेन वेदने स्वरूपवेदनानुपपत्तेः । तथा चात्मा ज्ञानस्य ग्राह्यग्राहकाकारो ऽनुभूतो ऽर्थश्च समारोपितः । न त्वात्मा वेद्यमानः समारोपितो नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः । स च समारोपः सतो ऽसतो वा ग्रहणमेव । न च ज्ञानातिरिक्तस्य ग्रहणं संभवतीत्युपपादितम् ।
स्वप्रतिभासस्य बाह्याद्भेदाग्रहो बाह्यसमारोपस्ततो बाह्ये वृत्तिरिति चेत् । स किं गृह्यमाणे बाह्ये न वा । न तावद् गृह्यमाणे । उक्तं ह्येतन्न तद्ग्रहणं संभवतीति । अगृह्यमाणे तु भेदाग्रहे न प्रवृत्तिनियमः स्यात्, अन्येषामपि तदानीमग्रहादन्यत्रापि प्रवृत्तिप्रसङ्गादिति । तस्माद् यथा यथायमध्यवसायश्चिन्त्यते तथा तथा विशीर्यत एव । तथा विकल्पारोपाभिमानग्रहनिश्चयादयो ऽप्यध्यवसायवत् स्वाकारपर्यवसिता एव स्फुरन्तो बाह्यस्य वार्तामात्रमपि न (#निबन्ध् 136#) जानन्तीत्यध्यवसायस्वभावा एव शब्दप्रवृत्तिमित्तभेदे ऽपि तत्कथं युक्त्यागमबहिर्भूतो ऽनात्मस्फुरणमाचक्षीत ।
नन्वेवं विकल्पादीनामसंभवे संभवे ऽप्यनात्मप्रकाशकत्वानभ्युपगमे सर्वजनप्रसिद्धविधिप्रतिषेधव्यवहारोच्छेदप्रसङ्ग इति लोकविरोधः । विकल्प इत्यध्यवसायैत्यारोप इत्यभिमान इति ग्रह इति निश्चय इत्यादिकं शास्त्रे प्रतिपदं प्रतिपादितम्, तत्सिद्धं च बहिरर्थादिकमभ्युपगतमित्याचार्यविरोधः, न्यायविरोधश्च । तथा हि सवरेव प्रकारैरविपरीतस्वरूपसंवेदनाद् भ्रान्तेरत्यन्तमभावः स्यात् । ततश्च सर्वसत्त्वाः सदैव सम्यक्सम्बुद्धा भवेयुः ।
विकल्पिता बुद्धिर्भ्रान्तिः, स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायादिति चेत् । कथमवसीयमानस्तया सो ऽर्थो न प्रकाशते । प्रकाशमानो वा कथमसौ तस्यां न प्रकाशते । अथ प्रकाशत एव, तदार्थस्य तादात्म्यप्रसङ्गः । असति चार्थे सारस्यात् अभून्मान्धाता, भविष्यति शङ्खो ऽस्त्यात्मा, नित्यः शब्द इति सर्वात्मना च निश्चयः स्यात् । गौरिति स्पष्टेन च स्वेन लक्षणेन प्रकाशेत । स्वलक्षणे च सङ्केतायोगात् विकल्पिकैव सा बुद्धिर्न स्यात् । तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम् । एवं ह्येते दोषा न स्युः, अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति ॥
अत्राभिधीयते । न तावल्लोकशास्त्रविरोधौ, अगृहीते ऽपि बाह्ये प्रवृत्तिनिवृत्त्यादिसमर्थनात् स्वपरवादिदुरतिक्रमाध्यवसायस्वरूपनिर्वचनात् । न्यायविरोधस्य तु गन्धो ऽपि नास्ति ।
तथा हि का पुनरियं भ्रान्तिरसत्ख्यातिरतस्मिंस्तद्ग्रहो वा यदभावादिदानीमेव मुक्तिरासज्यते ।
न तावदाद्यः पक्षः, असत्ख्यातेः प्रत्याख्यानात् । यदाहुर्गुरवः
यस्य स्वरूपनिर्भासो बाधकाद् यदि तन्न सत् ।
बाधके ऽपि क आश्वासः स्वरूपान्तरभासिनि ॥
अन्यस्वरूपोपनयात् तत्स्वरूपनिवारणम् ।
तत्रापि संशयो जातः पूर्वबाधोपलब्धितः ॥
इयमेवाग्रहे बाधा नाद्यजस्यापरा यदि ।
अस्य पूर्वैव भवतु रूपनिर्भासनं समम् ॥
नान्या व भाविनीत्यत्र प्रमाणं किञ्चिदस्ति वः ।
अपि स्वरूपनिर्भासे यदा बाधकसंभवः ॥
(#निबन्ध् 137#)
अनिर्भासे स्वरूपस्य हेतुशोधनविप्लवे ।
बाधशङ्काविनिर्भासे ऽप्येवं चेद् विप्लवो महान् ॥ इति ॥
शास्त्रे च अतस्मिंस्तद्ग्रहात् स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायाद् दृश्यविकल्प्ययोरेकीकरणाद् भ्रान्तिरुक्ता । तामयं समर्थयितुमसमर्थः स्वातन्त्र्येणालीकस्फुरणं भ्रान्तिरिति काव्यं विरचय्य विस्तारयति ॥
नन्वतस्मिंस्तद्ग्रहो ऽपि भ्रमः स्वाकारपर्यवसितज्ञानादतिरिक्तो बहुभिर्बहुधा विचार्यं प्रत्याख्यातः । तत् कथं तस्मिन्नपि पक्षे न भ्रान्तिक्षतिर्येनेदानीमेव मुक्तिप्रसङ्गो न स्यादिति चेत् । तदेतद् भगवतो भाष्यकारस्य मतविद्वेषविषव्याकुलविक्रोशितमतिकातरयति कृपापरवशधियः । तथा हि समनन्तरप्रत्ययबलायातस्वप्रतिभासविशेषवेदनमात्रादगृहीते ऽपि परत्र प्रवृत्त्याक्षेपो ऽध्यवसायः । न चासौ पूर्वोक्तवाग्जालैः प्रतिहन्तुं शक्यः, सर्वप्राणभृतां प्रत्यात्मविदितत्वात्, कैश्चिदप्यनुद्भिन्नत्वात् । अयमेव च संसारस्तत्क्षयो मोक्ष इति क्वेदानीमेव तद्वार्तापि । तथा हि विचित्रानादिवासनावशात् प्रबोधकप्रत्ययविशेषापेक्षया विकल्पः केनचिदाकारेणोपजायमान एव बहिर्मुखप्रवृत्त्यनुकूलमर्थक्रियास्मरणाभिलाषादिप्रबन्धमाधत्ते । ततः पुरुषार्थक्रियार्थिनो बहिरर्थानुरूपाणि प्रवृत्तिनिवृत्त्यवधारणानि भवन्ति । पृथग्जनसन्तानज्ञानक्षणानां तादृशो हेतुफलभावस्य नियतत्वात् । अनिश्चितार्थसंबन्धविकल्पकाले ऽपि सदसत्तानिर्णयादिप्रवृत्तिप्रसवः । तत्र यदुभयथा प्रवृत्तिसाधनसामर्थ्यमस्य स्वहेतुबलायातमयमेव प्रवृत्तिविषयत्वारोपो ऽध्यवसायापरनामा । यथा चन्द्रादिज्ञानस्य भ्रान्तस्याभ्रान्तस्य वा तद्दर्शनावसायजननमेव ग्रहणव्यापारः ।
स्वविदपीयमर्थविदेव कार्यतो द्रष्टव्येति
न्यायात् । तथा विकल्पस्याप्यग्निरत्रेत्यादिनाकारेणोत्पद्यमानस्य प्रवृत्त्याक्षेपकत्वमेव बाह्यावसानं नाम । यथा च निर्विकल्पद्विचन्द्राद्याकारतैव तथावसायसाधनी, एवमवसायस्यापि तादृशाकारतैव विषयान्तरविमुखप्रवृत्तिसाधनी ॥
ननु तथा च तच्च तेन प्रतिपाद्यते न च तज्ज्ञाने तत् प्रकाशत इति शपथेनापि न संप्रत्यय इति चेत् । असंबद्धमेतत् । न ह्यध्यवसायाद् बाह्यस्य पटादेर्वस्तुनो बाधकावतारात् पूर्वसन्दिग्धवस्तुभावस्य क्षणिकादेरवस्तुनो वा शशविषाणादेरस्फुरणे ऽपि सिद्धिप्रतिबन्धो ब्रह्मणापि प्रतिविधातुं शक्यः । द्विविधो हि विषयव्यवहारः, प्रतिभासादध्यवसायाच्च । तदिह प्रतिभासाभावे ऽपि परापोढस्वलक्षणादेरध्यवसायमात्रेण विषयत्वमुक्तम्, सर्वथा निर्विषयत्वे प्रवृत्तिनिवृत्त्यादिसकलव्यवहारोच्छेदप्रसङ्गात् । ततश्च तेन च तत् प्रतिपाद्यते न च ज्ञाने तत्प्रकाश इति सङ्गतिरस्त्येव, प्रकाश्यप्रकाशकभावाभावे ऽप्यध्यवसायाध्यवसायकभावेनापि विषयविषयिभावोपपत्तेः ।
(#निबन्ध् 138#)
ननु यदि नाध्यवसेयप्रतीतिस्तदागृहीते ऽपि स्वलक्षणादौ प्रवृत्तिरिति सर्वत्राविशेषेण प्रसज्येत, सर्वत्रागृहीतत्वेन विशेषाभावात्, ततश्च प्राप्तिरपि नाभिमतस्य नियमेनेत्यनुमानमपि विप्लुतम् । अत्र ब्रूमः । यद्यध्यवसेयमगृहीतं विश्वमप्यगृहीतम्, तथापि नियतविषयैव प्रवृत्तिर्न सर्वत्र, तथाभूतसमनन्तरप्रत्ययबलायातनियताकारतया नियतशक्तित्वाद्विकल्पस्य । नियतशक्तयो भावा हि प्रमाणपरिनिष्ठितस्वभावाः, न शक्तिसाङ्कर्यपर्यनुयोगभाजः, असदुत्पत्तिवत् सर्वत्रासत्त्वे ऽपि हि बीजादङ्कुरस्यैवोत्पत्तिः, तत्रैव तस्य शक्तेः प्रमाणेन निरूपणात् । तथेहापि हुतवहाकारस्य विकल्पस्य दाहपाकाद्यर्थक्रियार्थिनस्तत्स्मरणवतो हुतवहविषयायामेव प्रवृत्तौ सामर्थ्यं प्रमाणप्रतीतं कथमतिप्रसङ्गभागि । प्रत्यासत्तिचिन्तायां च तात्त्विकस्यापि वह्नेर्ज्वलद्भास्वराकारत्वं विकल्पोल्लिखितस्यापीति, तावता तत्रैव प्रवर्तनशक्तिर्ज्वलनविकल्पस्य न जलादौ ॥
ननु च सादृश्यारोपेण किं स्वाकारस्य बाह्ये स्वाकारे वा बाह्यस्यारोपः । उभयथाप्यसङ्गति, आरोप्यारोपविषययोः स्वाकारबाहययोर्द्वयोर्ग्रहणासंभवादिति चेत् । न वयमारोपेण प्रवृत्तिं ब्रूमः । किं तर्हि, स्ववासनापरिपाकवशादुपजायमानैव सा बुद्धिरपश्यन्त्यपि बाहयं बाहये प्रवृत्तिमातनोतीति विप्लुतैव संसारात्मिका च । यत् शास्त्रं
न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधायाः
इति । तस्मान्न रूप्यादिवदारोपद्वारेण प्रवृत्तिरपि तु तथाविधाकारोत्पत्तिप्रतिबद्धशक्तिनियमात् । न च विचारकस्य वस्त्वदर्शननिश्चयादप्रवृत्तिः सङ्गच्छते । दर्शने ऽपि हि प्रवृत्तिरर्थक्रियार्थितया । अर्थक्रियाप्राप्तिश्च वस्तुसत्तानियमे । स च नियमो यथा दर्शनाद् वस्तुप्रतिबन्धकृतः, तथा विकल्पविशेषादपि पारम्पर्येण वस्तुप्रतिवस्तुप्रतिबन्धकृत इत्यदर्शने ऽपि अध्यवसायात् प्रवृत्तिर्युज्यत इति नानुमानमनवस्थितम् । एतेन तच्च न प्रतीयते, तेन चाभेदाभासनमित्युपालम्भो ऽसंभवीत्युपदर्शितम्, अप्रतिभासे ऽपि प्रवृत्तिविषयीकरणमित्यभेदादिनिष्ठाया दर्शितत्वात् । तस्मादविचाररमणीयो ऽतस्मिंस्तद्ग्रह एव भ्रान्तिरारोपापरनामा, तत्क्षयश्च मोक्ष इति युक्तम् ।
यदाहुर्गुरवः
तस्मात्प्रवृत्तेराक्षेपे विकल्पाकारजन्मनि ।
मतो जलाद्यारोपो ऽपि सत्यासत्यसमश्च सः ॥
ततो यद्यपि तत्त्वेन नारोपो नाम कस्यचित् ।
व्यवहारकृतस्त्वेष प्रतिषेद्धुं न शक्यते ॥
मरीचौ जलवद् यावदनात्मन्यात्मकल्पनम् ।
भ्रम एव हि संसारो निर्वाणं तत्त्वसंस्थितिः ॥
(#निबन्ध् 139#)
ततश्च यावन्न विचारसंभवो भवो ऽयमन्यः शम इत्ययं नयः ।
विचारलीलाललिते तु मानसे भवः शमो वा क इहेति कथ्यताम् ॥
तथा आर्यमैत्रेयनाथपादा अपि
न चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥
आर्यनागार्जुनपादाश्च
निर्वाणं च भवश्चैव द्वयमेव न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥
इति सर्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदने ऽपि भ्रान्तिव्यवस्थासंभवादस्ति संसारः ॥
यदप्युक्तं विकल्पस्याविषयश्च बाह्यम् ग्रहणं चास्य शब्देन संयोज्येति विकल्पत्वमपि दुर्योजम्, आत्मनि च शब्दयोजना नास्तीति विकल्पो नाम नास्त्येव, तत्कस्य विकल्पचिन्तेति । अत्रभिधीयते । इहाग्निरत्रेत्यध्यवसायो यथा कायिकीं वृत्तिं प्रसूते तथाग्निर्मया प्रतीयत इति वाचिकीमपि प्रसूते, एतदाकारानुव्यवसायरूपां मानसीमपि प्रसवति । एवं च सति यथा विकल्पेनायमर्थो गृहीत इति निश्चयः, तथा शब्देन संयोज्य गृहीत इत्यपि, अर्थाकारलेशवच्छब्दाकारस्यापि स्फुरणात् । तस्मादर्थग्रहाभिमानवान् मानवस्तावदभिधानसंयुक्तग्रहणाभिमानवानपीत्यवसायानुरोधादेव विकल्पव्यवस्था न तत्त्वतः । यदाहुर्गुरवः
न शब्दैः संसर्गः क्वचिदपि बहिर्वा मनसि वा-
क्षराकाराकीर्णः स्फुरति पुनरर्थाकृतिलवः ।
उभावप्याकारौ यदपि धिय एवाध्यवसितिर्
विधत्ते तौ बाह्ये वचसि च विकल्पस्थितिरतः ॥
अभाने प्रतिभाने वा न चारोपो ऽपि कस्यचित् ।
प्रतीत्योत्पादभेदेन व्यवस्थामात्रमीदृशम् ॥
निर्विकल्पाद्विकल्पस्य भावे लेशानुकारिणः ।
सङ्केतकारिवचनाद् बुद्ध्याकारे विशेषिणि ॥
(#निबन्ध् 140#)
सङ्केतः कृत इत्यास्था तादृक् शब्दश्रुतौ पुनः ।
प्रवृत्त्याक्षेपबुद्ध्यात्मभावे वाच्यव्यवस्थितिः ॥
इति ।
तस्माद् वस्तु वा घटपटादि सन्दिग्धवस्तु वा साधकबाधकातिक्रान्तम्, अवस्तु वात्मदिक्कालाक्षणिकादिकमध्यवसितमिति, अप्रतिभासे ऽपि प्रवृत्तिविषयीकृतमित्यर्थः । अयमेव चारोपैकीकरणाध्यवसायाभेदग्रहादीनामर्थः सर्वत्र शास्त्रे बोद्धव्यः । तस्मादध्यवसायस्याकारविशेषयोगादगृहीते ऽपि प्रवर्तनयोग्यता नाम यो धर्मस्तया बाह्याध्यवसाययोर्ग्राह्यग्राहकभावश्चेत् संवृत्त्या दुष्परिहरः, तदा विषयिविषयभावो ऽपि लब्ध इत्यध्यवसायमात्रेण विषयविषयित्वमुक्तमिति युक्तम् । यदाह अलङ्कारकारः
कथं तद्विषयत्वं तत्र प्रवर्तनादिति ।
एतेन यदुक्तम् कथमवसीयमानस्तयात्मार्थो न प्रकाश्यत इत्यादि, तन्निरस्तम्, तदप्रकाशे ऽपि तदध्यवसायस्य व्यवस्थापितत्वात् । असति चार्थे सा न स्यादित्यप्ययुक्तम्, आत्मादेरध्यवसेयस्य प्रतिभासप्रतिक्षेपे बुद्ध्या सह तादात्म्याभावात् । न च सर्वाकारनिश्चयप्रसङ्गदोषः सङ्गतः । सर्वाकारनिश्चयो हि सर्वेष्वाकारेषु प्रवृत्तिकारकत्वात्मा निरुक्तः, न चैकाकारोल्लेखिनो विकल्पस्याकारान्तरे प्रवर्तनशक्तिरनुभवविषय इति कुतः शब्दप्रमाणान्तरानपेक्षेति युक्तम् । तत्र निर्विकल्पकं स्पष्टप्रतिभासत्वाद् ग्राहकं व्यवस्थाप्यते । विकल्पस्तु स्पष्टैकव्यावृत्त्युल्लेखादारोपकादिव्यवहारभाजनम् । यथा च बाह्ये सति क्वचिद् भ्रमव्यवस्था तथान्तर्नये ऽपि सर्वत्र । केवलं बहिर्मुखप्रवृत्यपेक्षया क्रियमाणो नात्मनि कश्चिद् भ्रम इत्युक्तं भवति । न च गोस्वलक्षणप्रकाशावकाशः, स्वाकारस्यैव स्फुरणात्, स्वलक्षणे च संकेतायोगात् । विकल्पिकैव न स्यादिति तु स्वरूपापेक्षया सिद्धसाधनम् । बाह्यापेक्षया त्वध्यवसायवद् विकल्पिकैव सा बुद्धिस्तथा । तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रख्यानमस्या गवावसाय इत्येष्टव्यमित्यपि नेष्टव्यमेव, चरणमर्दनादिना प्रत्यवस्थाने ऽपि युक्तिशास्त्रबहिर्भूतत्वादेतदभावे ऽपि कथितदोषप्रध्वंसात् । न हि विकल्पबुद्धावलीकाकारस्फुरणमेव बाह्यस्याध्यबसाय इति काचिदर्थसङ्गतिः, अर्थस्येति संबन्धानुपपत्ते । बुद्धेरत्र क्रमाभावात् प्रत्यक्षतैव, कथमध्यवसायः । अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति तु न बुध्यामहे । अवसायेन हि तद्वितिस्पर्शे प्रतिभासः को ऽपरः । तद्वित्तावप्यस्पष्टत्वादध्यवसाय इत्यप्ययुक्तम्, तद्रूपवित्तावस्पष्टत्वस्यैवाभावात् ।
जातो नामाश्रयो ऽन्योन्यश्चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि यत् ॥
(#निबन्ध् 141#)
इति आचार्यः स्मर्यताम् । न च तदासौ भ्रान्तिर्भवितुमर्हति, वस्तुस्वरूपस्यैव निर्भासात् ॥
अलीकवृत्तेरिति चेत् । सैवास्तु । बाह्यस्यास्फुरतो ऽध्यवसायः कथम् । सैव स इति चेत् । अलीकमिदमिति विदुषो बाह्याध्यवसायव्यस्थाभावात्, बाह्यास्फुरणात् तदप्रतिबद्धत्वाच्च । प्रतिबन्धे ऽपि तस्येपि स्यात्, न पुनस्तदध्यवसायः, तदस्फुरणस्फुरणयोरपि तदयोगादित्यलमतिनिर्बन्धेन । तदेवमप्रतिभासिनो ऽपि विपक्षादध्यवसायमात्रसिद्धादेव व्यावृत्तो दोषत्रयनिर्मुक्तः प्रकाशमानतात्मको हेतुर्यावत्प्रकाशावधिज्ञानात्मकचित्राकारचक्रस्यैकत्वं साधयत्येव ॥
यदाहुर्गुरवः
भासते यत्तदेकं तद्यथा चित्रे सिताकृतिः ।
भासते चाखिलं चित्रं पीतशीतसुखादिकम् ॥
नात्रासिद्धिः प्रकाशस्य चित्रे धर्मिणि दर्शनात् ।
न च साध्यवियुक्तत्वं दृष्टान्तस्यापि दृश्यते ॥
एकैकाणुनिमग्नत्वात् संवित्तिर्न परस्परम् ।
न चैकाणुप्रकाशो ऽस्ति स्थूलमेव स्फुरत्यतः ॥
बाह्याणूनां प्रतीभासो बुद्धिरेका स्थवीयसी ।
ज्ञानाणूनां क एकस्तु प्रतिभासो भविष्यति ॥
तस्मात् स्थूलतया व्याप्तो निर्भासस्तन्निवृत्तितः ।
निवर्तमानो ऽनेकस्मादेकत्वे विनियम्यते ॥
यथा सजातीयमताद् भागाद्भेदनिराक्रिया ।
अनाभासप्रसङ्गेन विजातीयमतात् तथा ॥
तन्नास्तु साध्यो दृष्टान्तो न च शङ्काविपर्यये ।
अतो निर्दोषतो हेतोश्चित्राद्वैतव्यवस्थितिः ॥
संग्रहश्लोकश्च
एकत्वेन यथाप्तिमानभिमतो भासस्तथा व्याप्यते
स्थौल्येनाप्यणुशो न हि क्वचिदिदं स्वप्ने ऽपि निर्भासनम् ।
तेन प्रत्यणुभेदनेत्युपरतं तद्व्यापकस्यात्ययाद्
एकत्वेन परीतमाकृतिचयश्चायं विनिर्भासते ॥
इति ॥
ननु चात्र दृष्टान्तदार्ष्टान्तिकयोरुभयमात्राप्येकत्वं प्रत्यक्षतो ऽनुमानाच्च विरुद्धधर्माध्यासलक्षणात् प्रतिहतम्, तत् कथमनुमानादेकत्वसिद्धिरिति चेत् । उच्यते । यदेतत् प्रत्यक्षं भेदसाधकमुपनीयते, तत् किं नीलादीनामनात्मभूतमात्मभूतं (#निबन्ध् 142#) वा । प्रथमपक्षे, आस्तां तावदेषामतो भेदसिद्धिः, सत्तामात्रमपि न सिध्येत् । स हि नीलादिको ऽर्थो जडो विज्ञानान्तरात्मालीकस्वभावो वा स्वीकर्तव्यः । त्रिष्वपि पक्षेषु प्रकाश्यप्रकाशकभावाभावः । तथा हि ज्ञानस्य प्रकाशकत्वं नाम किं विद्यमानत्वं व्यापारावेशो वा । प्रथमपक्षे सर्वसर्वदर्शित्वप्रसङ्गः, सर्वपुरुषज्ञानविद्यमानतायाः सर्वं प्रत्यविशिष्टत्वात् । तथा नीलादिभिरपि ज्ञानस्य ग्रहणप्रसङ्गः, तेषामपि विद्यमानत्वलक्षणग्राहकत्वसंभवात् ॥
अथ ज्ञानत्वे सति विद्यमानत्वमिति सविशेषणं लक्षणमुच्यते । तत् किं नीलादीनामज्ञानत्वे कोशपानमायुष्मता कर्तव्यम्, येन सत्तामात्रेण समसमयं स्फुरतोर्विज्ञाननीलाद्योः प्रतिज्ञामात्रादेकस्य जडत्वालीकत्वबाध्यत्वाप्रकाशत्वादि व्यवस्थाप्यते ।
अथ द्वितीयस्तदा स किं व्यापारः प्रत्यक्षस्यात्मा ज्ञानान्तरम्, अर्थस्यात्मार्थान्तरं वा स्यात् । प्रथमविकल्पे स्वात्मनि कारित्रविरोधः । द्वितीयपक्षे ज्ञानान्तरं यद्यन्यविषयम् अर्थस्य न किञ्चित् । तद्विषयत्वं चाद्यापि न सिद्धम्, तत्प्रत्यासत्तेरेव चिन्त्यमानत्वात् ॥
तृतीये पुनः सङ्कल्पे नीलादिकं कृतमेव स्यात्, न प्रकाशितम्, तैलवर्त्यादिभिरिव प्रदीपः । प्रकाशस्तु स्वयमेव । तथा च ज्ञानान्तरत्वात् सन्तानान्तरवदप्रतिभासप्रसङ्गः ।
चतुर्थे तु विकल्पे अर्थान्तरे कृते नीलादिकं तदवस्थमेव । न चानात्मप्रकाशनसामर्थ्यं ज्ञानस्य स्वीकर्तुमुचितम्, व्यापारवत् प्रकाशनस्याप्येवं निराकर्तव्यत्वात् । न चाग्निधूमयोः कार्यकारणभाव इव ज्ञानज्ञेययोरपि स्वाभाविको ग्राह्यग्राहकभावो वक्तव्यः, प्रमाणसिद्धकार्यकारणभाववद् ग्राह्यग्राहकस्वरूपयोरद्यापि निर्वक्तुमशक्यत्वादिति क्व नीलादिवार्तापि यद्भेदसिद्धिप्रत्याशा प्रत्यक्षतः सम्पद्यते ॥
अथात्मभूतं तत् प्रत्यक्षमिति द्वितीयः पक्षः, तदात्मस्वसंवेदनमेव भेदसाधकमभ्युपगतं भवेत् । तच्च यदि प्रत्याकारं भिन्नं तदा सर्वेषां स्वस्वरूपनिमग्नत्वाच्चित्रप्रकाशप्रणाशप्रसङ्ग इत्युक्तम् ।
अथैतद्दोषभयात् सर्वेषामाकाराणामेकत्वमेव स्वभावभूतं स्वसंवेदनमिष्यते, तदैतदेव चित्राद्वैतं विज्ञानमुच्यते, यदनेकाभिमतानां सहोपलब्धानां नीलसुखाद्याकाराणां स्वभावभूताखण्डस्वसंवेदनप्रत्यक्षं नाम । यदाहुर्गुरवः
भ्रमाभ्रमाकल्पनकल्पनानि, शातासितादीन्यखिलाक्षजानि ।
ज्ञानान्यभिन्नानि सहोपलब्धेः, पूर्वापरत्वं तु न वेद्यमेव ॥ इति ।
(#निबन्ध् 143#)
तदेवं दृष्टान्तदार्ष्टान्तिकयोरुभयत्रापि स्वसंवेदनप्रत्यक्षसिद्धमेकत्वमविद्यावशाद् विप्रतिपत्तौ सत्यामनुमानतः साध्यते । अत एव स्वसंवेदनप्रत्यक्षादनुमानाच्च एकत्वसिद्धौ न प्रत्यक्षान्तरम् । नापि विरुद्धधर्माध्यासलक्षणमनुमानं भेदसाधनाय प्राप्तावसरम्, भेदग्राहकस्य भिन्नस्य प्रत्यक्षस्योक्तक्रमेणाप्रामाण्यात्, पक्षस्य प्रत्यक्षादिबाधितत्वात् ।
ननु ब्रूयान्नाम किञ्चित्, तथापि प्रतिभासभेदाद् भेद एव, न हि दृष्टे ऽनुपपन्नं नामेति चेत् । हन्त 1 प्रतिभासशब्देन किमभिप्रेतम्, किमाकारचक्रं स्फुरणं वा । तत्र यदि प्रथमः पक्षः, तदा बाह्ये ऽर्थे प्रत्येतव्ये बुद्ध्याकारः प्रमाणम् । तथाचाकारभेदो व्यवहर्तव्य एव । अन्यथा बाह्यभेदो न सिध्येत् । यदा पुनराकारचक्रमेव प्रमेयम् स्वसंवेदनं च प्रमाणं तदा तेनैव नीलादीनां स्वभावभूतेनाखण्डात्मना एकीकृतानां कथमप्रमादी भेदमाचक्षीत ।
द्वितीयपक्षे तु स्फुरणं स्वभावभूताखण्डस्वसंवेदनमेवोक्तमिति । तथापि कथं भेदस्तस्माद् यथोर्ध्वमिन्द्रियप्रत्यक्षतः क्षणभेदे प्रतीते ऽप्यविद्यावशादेकत्वाध्यवसायः तथा तिर्यक्स्वसंवेदनप्रत्यक्षेणाकाराभेदे ऽधिगते ऽप्यविद्यावशादेव भेदावसायः ॥
यद्येवं विरुद्धधर्माध्यासतो विज्ञानाकारचक्रवद् व्याप्तो ऽपि न भिद्येतेति चेत् । न, बाह्ये धर्मिण्यनेकत्वस्य साध्यस्य प्रत्यक्षाद्यबाधितत्वात् । बुद्ध्याकारकदम्बके तूक्तक्रमेण स्वसंवेदनादिसिद्धैकत्वे ऽनेकत्वस्य प्रत्याख्यानाद् बाधकावतार एव नास्ति । तस्माद् विज्ञानत्वे सतीति हेतुविशेषणं कर्तव्यम् येन बाह्यस्यैव भेदः सिध्यति ॥
ननु यदि विज्ञानात्मकं विचित्राकारचक्रमेकं तदा नीलाकार एव पीताद्याकारवृन्दं प्रविशेत् । तथा प्रकाशाकारचक्रयोरभेदो व्यक्तिसामान्यवत् प्रकाश एव, आकारचक्रमेव वा स्यादिति चेत् । असदेतत् । तथा हि द्वयोरप्यनयोः प्रसङ्गविपर्यययोः भेदः, स च बाह्यार्थवाद एव युज्यते, तत्र भेदग्राहकस्येन्द्रियप्रत्यक्षस्येष्टत्वात् । विज्ञानवादे त्वनात्मप्रकाशाभावात् स्वसंवेदनमेवैकं प्रमाणम् । ततो ऽपि विपर्ययस्य भेदस्य सिद्धेः प्रसङ्गो ऽप्यसङ्गतः इत्यद्वैतमेव ।
किं च एवं स्थूलनीलाद्याकारो ऽपि परमाणुमात्रे प्रविशेदित्यप्रतिभासंजगदापद्येत । अस्ति च प्रतिभासः । तस्माद् यथावस्थितानामेवाकाराणामखण्डस्वसंवेदनात्मतैवैकत्वम्, न भेदो न संकोचः स्वीकर्तव्यो ऽप्रतिभासप्रसङ्गात् । तथा कृतकत्वस्यानित्यत्ववस्तुत्वादिभिरभेदे कृतकत्वमेवानित्यत्वमेव वा स्यादित्यपि प्रसङ्गो वक्तव्य आपद्येत, सामान्यव्यक्त्योरिव तयोर्वस्तुतो ऽभेदो ऽखण्डात्मत्वात् ॥
व्यावृत्तिभेद एव परमिति चेत् । यद्येवं प्रकाशनीलाद्योरप्ययमेव क्रमो जागर्तीत्येकावशेषप्रसङ्गो बालप्रलापः । तदेवं
(#निबन्ध् 144#)
बाह्यं न नश्यति भिदाणुतयापि सत्त्वादर्थक्त्रियाविरहसंकरतात्मभेदे ।
बुद्धिस्तु नश्यति भिदैव विदैव सत्त्वाच्चित्राप्यतो न भिदमेति किमत्र कुर्मः ॥
ननु देशवितानाप्तिर्नात्मान्तरवियोगिनः ।
देशवितानहानौ न भास इत्यपि शक्यते ॥
इति चेत् ।
न स्वात्मान्तरमन्यात्मा स बाह्यस्यैव युज्यते ।
बुद्धेः स्ववित्तिनिष्ठायाः यः परस्तस्य का गतिः ॥
हन्त तथापि
नीलादिवत्तदेकं च कथमेतत् समेतु चेत् ।
नीलमंशान्तरं चैकं कथं तद्भाति सङ्गतम् ॥
नेष्टं तदपि चेत् तर्हि क्वाण्वन्तर्भिदि भासनम् ।
न परीक्षाक्षमं चाणुः कुतस्तस्य तदा भिदा ॥
मा भूदवस्तुभावाच्चेत् सो ऽप्येकत्वहतौ भवेत् ।
निर्भासादेकतासिद्धौ स्ववित्तेर्वस्तुता स्थिता ॥
न प्रतीत्यसमुत्पादो ऽनुत्पादो वास्य बाधकः ।
एकानेकवियोगे ऽपि स्फूर्तिमात्रेण सत्त्वतः ॥
किं च पूर्वापरज्ञानमद्वैते यन्न विद्यते ।
प्रतीत्योत्पन्नता तस्मादसिद्धेरप्यसाधनम् ॥
अनुत्पादो ऽप्यनेकान्तो ऽकार्यकारणरूपकम् ।
हाने ऽपि हेतुफलयोः स्फुरद्रूपं क्व गच्छतु ॥
एकानेकतया वस्तुव्याप्तिः सिद्धा यदि क्वचित् ।
सर्वशून्यत्वसमये हेतुरिष्टविघातकृत् ॥
अथ लोकप्र(सि)द्धौ च न सर्वलोककल्पितम् ।
वस्तुव्यवस्था शरणं किं तु मानेन सङ्गतम् ॥
न चाध्यक्षानुमानाभ्यामनङ्गं क्वचिदीक्षितम् ।
यस्य राशिरनेकं स्यान्नापि वस्तु च किञ्चिन ॥
यस्य चैकतरत्वाभ्यां सत्त्वव्याप्तिः स हन्यताम् ।
अभ्रान्तवित्तिमात्रेण सत्तावादी तु जित्वरः ॥
॥ समाप्तश्चित्राद्वैतप्रकाशवादो ऽयम् ॥
ग्राहयं न तस्य ग्रहणं (न) तेन ज्ञानान्तरग्राहयतापि शून्यः ।
तथापि च ज्ञानमयः प्रकाशः प्रत्यक्षपक्षस्तु तवाविरासीत् ॥
(#निबन्ध् 145#)
॥ 10 ॥
॥ सन्तानान्तरदूषणम् ॥
अथेह प्रकाशसहोपलम्भादिसाधनबलेन जडपदार्थराशावपास्ते नीलपीताद्यशेषपदार्थजाते च स्वचित्तप्रतिभासात्मनि स्वप्नमायादिवदद्वयरूपे सिद्धे सन्तानान्तरसदसत्तानिरूपणार्थमिदमारभ्यते ।
एवं हि केचिदाहुः । अस्त्येव सन्तानान्तरमनुमानप्रतीतम् । तथा हीच्छाचित्तसमनन्तरव्याहारव्यवहाराभासस्य दर्शनात् तदभावे चादर्शनादुपलम्भानुपलम्भसाधनमन्वयव्यतिरेकशरीरमिच्छाचित्तेन सह व्याहाराद्याभासस्य कार्यकारणभावमात्मसन्ताने ऽवधार्येच्छाचित्तस्याप्रतिसंवेदनसमये ऽपि विच्छिन्नव्याहाराद्याभासदर्शनात् तत्कारणभूतमिच्छाचित्तमनुमीयमानं सन्तानान्तरमेव व्यवतिष्ठत इति ।
अत्रेदमालोच्यते । तदिच्छाचित्तं व्याहाराद्याभासस्य कारणतया व्यवस्थाप्यमानमनुमातुर्दर्शनयोग्यमथ दृश्यादृश्यविशेषणानपेक्षमिच्छामात्रम् । यदितावदाद्योविकल्पस्तदानुमातुर्दर्शनयोग्यत्वादिच्छाचित्तस्यानुमानकाले ऽनुपलब्धिरभावमेव गमयतीत्यनुपलम्भाख्यप्रत्यक्षबाधितत्वात् क्वानुमानावकाशस्तस्य । यदि पुनरिच्छाचित्तमनुमानकाले ऽप्यनुभूयेत, तदा किमस्यानुमानेन । अथैवमग्निधूमयोस्तदुत्पत्तिसिद्ध्यनन्तरं नगनिकुञ्जे धूममुपलभमानो नाग्निमप्यनुमिनुयात्, तत्राप्यग्नेरनुपलब्धिबाधितत्वात्, उपलम्भे चानुमानवैफल्यात् । नैवम्, अनुमानसमये देशविप्रकर्षवतो वह्नेर्दर्शनायोग्यत्वेन दृश्यानुपलब्धिविरहात्, अदृश्यानुपलम्भस्य चाभावसाधनत्वविरोधात् । इच्छाचित्तस्य तु नास्ति देशविप्रकर्षः । इच्छाचित्तं हि स्वसंबद्धमेवानुमातुर्दर्शनयोग्यम्, तस्य च देशादिविप्रकर्ष इत्यलौकिकमेतत् ।
अथ द्वितीयो विकल्पः । तथा हीच्छाचित्तमात्रं स्वपरसन्तानसाधारणदृश्यादृश्यविशेषणानपेक्षं व्याहाराद्याभासं प्रति कारणतयावधार्यते । तदवधारणं केन प्रमाणेन । व्याहाराद्याभासस्य हीच्छामात्राभावे ऽभावं प्रतीत्य तदुत्पत्तिसिद्धिगवेषणा । न चेच्छामात्रस्य स्वपरसन्तानसाधारणस्य स्वसंवेदनेनान्येन वाभावः शक्यावगमः । यथा हि वह्निमात्रस्य देशकालव्यवहितस्यापि धूमोत्पाददेशकालयोर्यदि स्यादुपलभ्येतैव मयेति संभावितस्यानुमातृपुरुषेन्द्रियप्रत्यक्षेण (#निबन्ध् 146#) धूमोत्पादात् प्रागभावे ऽवधार्यमाणस्तदुत्पत्तिसिद्धिमध्यासयतीति व्यवहितदेशकालस्यापि वह्नेर्धूममात्रं प्रति कारणत्वावधारणम्, स्वभावविप्रकृष्टस्य तु जठरभवादिसाधारणस्य सर्वथानुमातृपुरुषाशक्याभावप्रतीतिकस्य व्याप्तिबहिर्भाव एव । तथात्रापीच्छाचित्तं परसन्तानसाधारणमपि यावद्यदीय स्यादुपलभ्येतैव मयेति यदि संभावयितुं शक्येत तदा तद्व्यतिरेकसिद्धिद्वारेण कारणतयावधार्यते । केवलं स्वभावविप्रकृष्टे चित्तमात्रे ऽस्तमितेयं कथेति ॥
न च परचित्तं कालविप्रकृष्टं वर्तमानत्वादस्य, अतीतानागतयोरेव कालविप्रकृष्टत्वेन व्यवहारात् ।
नापि देशविप्रकृष्टम्, यस्मिन्नेव हि शुक्लशङ्खादिदेशे स्वचित्तं शुक्लाकारप्रतिभासि स्वसंवेदनेन वेद्यते तद्देशवर्त्येव पीताकारप्रतिभासि परसन्तानभावि चित्तं न वेद्यते । तत् कथमेष देशविप्रकर्षः ॥
अथेच्छाचित्तमात्रं स्वसंवेदनमात्रापेक्षया न स्वभावविप्रकृष्टम् । न ह्यग्निरप्येको येनैवेन्द्रियविज्ञानेन दृश्यते तेनैवान्यो ऽपि दृश्यम् । तत्र यथा चक्षुर्विज्ञानमात्रापेक्षया अग्निमात्रं दृश्यमिति व्यवस्थाप्यते तथात्रापि स्वसंवेदनमात्रापेक्षया इच्छाचित्तमात्रं स्वपरसन्तानसाधारणमपि दृश्यमेवेति ।
अत्रोच्यते । किमत्र मात्रशब्देनानुमातृपुरुषसंबन्धासंबन्धाभ्यामविशेषितं यस्य कस्यचित् पुरुषस्येन्द्रियज्ञानं वस्तुविषयीकुर्वाणमस्य दृश्यतासंभवे ऽपिनानिमितमभिमतम् । यद्येवं पिशाचादिरपि दृश्यः स्यात् । सो ऽपि हि कस्यचित् पुंसो योग्यादेः स्वजातीयस्य वा पिशाचान्तरस्य भवत्येवेन्द्रियज्ञानगोचर इति न कश्चित् स्वभावविप्रकृष्टः स्यात् । तस्मादनुमातृपुरुषसंबन्धित्वमनपास्य विज्ञानस्य स्वलक्षणादिभेदनिरासपर एव मात्रशब्दो युक्तः । एतदेवाशङ्कय धर्मोत्तरेणाभिहितम् -
एकप्रतिपत्त्रपेक्षं चेदं प्रत्यक्षलक्षणम् ।
इत्यादि । तेनैवं दृश्यतासंभावना यदीह देशे काले वा स्याद् घटादिर्नियमेनोपलभ्येत, मदीयस्य चक्षुर्विज्ञानमात्रस्य विषयीभवेदिति । परचित्ते तु न शक्यमेवम् । यदीह परचित्तं स्यात् नियमेन मदीयस्य स्वसंवेद(न) मात्रस्य विषयि स्यादिति ॥
यदि चेच्छाचित्तमात्रं तदुत्पत्तिग्रहणसमये दृश्यतया संभावयितव्यम्, तदानुमानकाले ऽपि दृश्यतया संभाव्य तदनुपलम्भेनाभावसाधने कथमनुमानं प्रवर्तयितुमिदमारब्धम्, प्रत्यक्षेणैव पक्षबाधात् । न च कालभेदेन स्वभावविप्रकर्षेतराविति यत्किञ्चिदेतत् । तस्मादिच्छाचित्तमात्रस्य स्वपरसन्तानसाधारणस्य दृश्यतया संभावयितुमशक्यत्वात् व्यहाराद्युत्पादात् प्रागनुपलम्भे ऽप्यभावसिद्धौ न तदभावप्रयुक्तो व्याहाराद्यभावः प्रतीयत इति कथं कारणत्वसिद्धिर्यतः कार्यहेतुद्वारेणानुमीयेत । इच्छाचित्तविशेषस्तु स्वसन्तानभावी न भवत्येवानुमातुर्दृश्यः । किं तु तस्य दृश्यानुपलम्भाज्जिज्ञासितविशेषे धर्मिणि बाधितस्य कथमनुमानमित्युक्तमेव ॥
(#निबन्ध् 147#)
तदेवमिच्छाचित्तविशेषे स्वसन्तानभाविनि साध्ये पक्षस्य प्रत्यक्षबाधः, इच्छाचित्तमात्रे ऽपि स्वपरसन्तानसाधारणे साध्ये यद्यनुपलम्भमात्रेण दृश्य विशेषणानपेक्षेण प्रतिबन्धसिद्धिसमये तस्याभावः प्रतीयते, तदा पक्षीकृते धर्मिणि तथेति स एव दोषः । अथ न प्रतीयते तदा सन्दिग्धव्यतिरेको हेत्वाभासो व्याहारादिरिति स्थितम् ।
एवं तर्हि सन्तानान्तरसाधकस्याभावाद् बाधकस्यापि कस्यचिददर्शनाद्भवतु तत्र सन्देह एवेति केचित् । तैरिदं बाधकमभिधीयमानमवधीयताम् । यदि हि सन्तानान्तरं संभवेत् तदा ततो भेदेन स्वसन्तानस्यावश्यं भवितव्यम् । अन्यथा स्वसन्तानादपि प्रकाशमानात्तस्य परसन्तानाभिमतस्य भेदो न स्यात् । न चाभेदस्तयोरिति स्वसन्तानाद् भेदाभेदाभ्यामबाध्यस्य परसन्तानस्य सामान्यशशविषाणादिवदभाव एवायात इति कथं सन्देहः । तस्मात् परसन्तानापेक्षया स्वसन्तानस्य भेदो ऽप्यवश्यम्भाव्यः । स च भेदः सन्तानस्य स्वभावः स्वसन्ताने प्रतिभासमाने नियमेन प्रतिभासेत । कथमपरथा प्रतिभानाप्रतिभानलक्षणविरुद्धधर्माध्यासे ऽपि स्वसन्तानस्य परसन्तानाद् भेदः स्वभावतामासादयेत् ॥
न चासौ भेदः प्रतिभासते । भेदप्रतिभासे हि उपगम्यमाने तदवधिभूतस्यापि परसन्तानस्य प्रतिभासो दुरपह्नवः स्यात् ।
अस्माद्भिन्नमितीदं चेत् स्वरूपं स्वस्य चेतसः ।
सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना ॥
भेदे ऽन्यलेशमपि नैति कुतो भिन्नः ।
एवमादिकमशेषमिह प्रवचनप्रदीपश्रीसाकारसङ्ग्रहादिवचनमनुस्मर्यताम् ।
यथा हि स्वसन्तानमात्रे परिस्फुरति शशविषाणादस्फुरतो न भेदः प्रतिभाति तथा परसन्तानादपि स्फुरणविरहिणो न भात्येव भेदः । न हि परसन्तानापेक्षया कश्चिद् विशेषलेशः स्वसन्तानस्य परिस्फुरति यो नास्ति शशविषाणापेक्षया । न च शशविषाणपरसन्तानावपेक्ष्य समाने स्वसन्तानप्रतिभासे शशविषाणापेक्षया न भेदो नाप्यभेदः प्रतिभाति । परसन्तानापेक्षया तु भेद एव भातीत्येवमवस्थापयितुं शक्यम् ।
भेदाभेदयोरभावपरिहारेण हि यथा भेदो व्यवस्थितः तद्वद् भेदप्रतिभासो ऽपि भेदाभेदाभावप्रतिभासविलक्षण एवोचितो भवितुम्, न च तथानुभूयते । तथापि भेदः प्रतिभातीति वचनरचनमेतत् । भाष्यकारन्यायो ऽप्यत्र भेदप्रतिभासदूषणे विस्तरतो ऽवगन्तव्यः ॥
(#निबन्ध् 148#)
यदि चावधिप्रतिभासविरहे ऽपि भेदप्रतिभानमिदं परचित्तानु(कम्पया) क्षमितव्यं (तर्हि) बहिरर्थस्यापि कथमभावः सिध्यति । शक्यं हि तत्रापि सन्देहमवतारयितुम्, न बहिरर्थः कस्यचिदाभासते, परसन्तानस्तु परस्य प्रतिभासत एव, ततश्चात्रैव सन्देहो न बहिरर्थ इति चेत् । एतदपि सकलं सन्दिग्धमेव । न ह्यवश्यं परसन्तानः परस्याभासते, कदाचिदसौ नास्त्येव न चासाववभासत इत्यपि वक्तुं शक्तेः ।
किं च मा नाम भासीष्ट बहिरर्थः कस्यचिदपि तथापि कथं तदभावसिद्धिर्भेदप्रतिभासाभ्युपगमवादिन इतीयन्मात्रमिह विवक्षितम् । न चात्र कश्चिद् दोषः । तस्माद् बहिरर्थेन साधारणं सन्तानान्तरमिति कथं विज्ञप्तिवादिनामपि संमतं भविष्यति । किं च कार्यकारणभावो ऽपि विज्ञानद्वयस्य भेदप्रतिभासवादिना बाधितुमशक्यः । पूर्वभाविनी हि संवित्तिः परसंवित्त्यपेक्षया भेदं पूर्वत्वं चात्मनो गृह्णात्येवावधिप्रतिभासविगमे ऽपि ॥
परभाविन्यपि संवित्तिः पूर्वसंवित्त्यपेक्षया भेदं परत्वं चात्मनो ऽधिगच्छत्येव सन्तानान्तरवदिति नियतपूर्वापरभावलक्षणे कार्यकारणभावे ऽवभासमाने ऽवसीयमाने च नीलादिचित्राकारवत् कथम्
संवृत्त्यास्तु यथा तथा
इति भगवतो वार्तिककारस्य वचनेन फलितमत्र मते । अपि च चित्राकारचक्रे धर्मिण्यद्वैतसाधनार्थमुपन्यस्तस्य प्रकाशमानत्वादिहेतोर्भेदग्राहकप्रत्यक्षापहृतविषयत्वमुद्भावयतः प्रतिवादिनो भेदग्रहणमनुमन्यमानेन सन्तानान्तरसन्देहं च विना कथमुत्तरितव्यं भवता ॥
नन्वेवमपि सन्तानान्तराभावः केन प्रमाणेन सिद्धः । न तावत् प्रत्यक्षेण, तस्य विधिविषयस्य प्रतिषेधसाधनातधिकारात् । नाप्यनुमानेन, तस्य दृश्याभावसाधननियतस्यातीन्द्रियपरचित्ताभावसाधने ऽनवतारादिति चेत् । अत्र ब्रूमः । सन्तानान्तरसंभवे नियतभावः ततओ भेदः स्वचित्तस्य । अभेदे स्वसन्तानात् परसन्तान एव स्यात् । यथा च यदुपलभ्यमानं येनं रूपेण न भासते न तत् तेन रूपेण सद्व्यवहारयोग्यं यथा नीलं पीतरूपेण । नोपलभ्यते च स्वचित्तमुपलभ्यमानं परसन्तानाद् भिन्ने(न)रूपेणेति भेदस्य स्वचित्ततादात्म्यनिषेधे दृश्यविशेषणप्रयोगानपेक्षा स्वभावानुपलब्धिरियम् ॥
नाप्यसिद्धिः, भेदप्रतिभासे तदवधेरपि प्रतिभासप्राप्तेः । अवध्यप्रतिभासे तु भेदप्रतिभासाभावः शशविषाणभेदप्रतिभासाभाववत् सिद्ध एव । एवमनेन प्रमाणेन सन्तानान्तरस्य स्वचित्तापेक्षया भेदे प्रतिक्षिप्ते अभेदे च स्वयमेवासंभविनि भेदाभेदाभ्यामवाच्यत्वं सिद्धम् । सामान्यादिवद् वस्तुतापहतिरिति, कथं (#निबन्ध् 149#) बाधकाभावात् सन्तानान्तरे सन्देहो ऽभिधीयते । एतच्च शास्त्रीयप्रमेयस्मारणमात्रफलं किञ्चिल्लिखितमिति । परमिह स्वयमनुसन्धेयम् ।
अपि च सन्तानान्तरे तावदर्वाग्दृशां सन्देहो भवद्भिरनुमन्यते । भगवतस्तु किमवस्थाप्यताम् । संदेहावस्थापने कथं सर्वज्ञता । विद्यमानमेव कदाचित् सन्तानान्तरं भगवता नावधार्यते तथाप्यसौ सर्वज्ञ इति कथमेतत् । अनुमानं च सन्तानान्तरविषयं प्रागेव चिन्तितम् । न चानुमानेन प्रतीतावपि सर्वज्ञता भवितुमर्हति । प्रत्यक्षेण परचित्तप्रतीतौ ग्राह्यग्राहकभावो ऽपि परचित्तस्य भगवच्चित्तेन सहायात इति बहिरर्थवाद एव मुखान्तरेणोपगतः स्यात्, कथमयं वञ्चयति वादः ॥
अस्मदीयमतेन तु परचित्तं नास्त्येवेति तदवधारणकृतो(न) भगवतः सर्वज्ञताक्षतिदोषः । यावच्च भेदग्रहणाभिमानरूपा संवृस्त्तितावत् सन्तानान्तरे सन्देहात्तदवबोधनार्थं वचनादिरपि प्रवर्तत इति स्ववचनविरोधो ऽपि न संभवत्येव । न खलु सन्तानान्तरविषयः सर्वथा सन्देहो नास्त्येवेत्यभिमतमस्माकम्, अपि तु परमार्थगतिरियमुपदर्शिता । इदं हि सन्तानान्तराभावसाधनमद्वयसाधनेन साधारणमिति नैकनियतः स्ववचनादिविरोधस्तत्परिहारो वा । चित्राकारसंभवमात्रेणापि च वेदान्तध्वान्तापसारो भाष्यकारेण दर्शितः । तथा च
आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित्
इत्यादिवार्तिकव्याख्यानभाष्यम् ।
आत्मवादस्तर्हि प्रसक्त इति चेत् । न चित्राकारसंवेदनात् इत्यादि द्वेषविकलुषाशेषा एव तुषाकारो ऽपि वेदान्तसिद्धान्त इति अलक्षित तद्ग्रन्थानुत्थापयन्ती सन्तानान्तरापेक्षया पठितवतीत्यवस्था (?) सर्वा संवृतिसत्यान्तः पातिनी ह्येवापै(ती) ति सकलमनाकुलमिति ॥
॥ सन्तानान्तरदूषणं समाप्तम् ॥
मूल पाठ: Nibandhāvalī · Edition: Anantalal Thakur: Ratnakīrti Nibandhāvalī. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0