भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 7

7.1

इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः
अथ सप्तमो ऽध्यायः
भावानिदानीं व्याख्यास्यामः ।
अत्राह
भावा इति कस्मात् ।
किं भवन्तीति भावाः किं वा भावयन्तीति भावाः ।
उच्यते:
वागङ्गसत्त्वोपेतानान्काव्यार्थान्भावयन्तीति भावा इति ।
भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् ।
लोके ऽपि च प्रसिद्धम् ।
अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति ।
तच्च व्याप्त्यर्थम् ।
श्लोकाश्चात्र
विभावेनाहृतो यो ऽर्थो ह्यनुभावैस्तु गम्यते ।
वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः

7.2

वागङ्गमुखरागेण सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते

7.3

नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् ।
यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः

7.4

अथ विभाव इति कस्मात् ।
उच्यते
विभवो विज्ञानार्थः ।
विभावः कारणं निमित्तं हेतुरिति पर्यायाः ।
विभाव्यते ऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः ।
यथा विभावितं विज्ञातमित्यनर्थान्तरम् ।
अत्र श्लोकः
बहवो ऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः ।
अनेन यस्मात्तेनायं विभाव इति संज्ञितः

7.5

अथानुभाव इति कस्मात् ।
उच्यते
अनुभाव्यते ऽनेन वागङ्गसत्त्वकृतो ऽभिनय इति ।
अत्र श्लोकः:
वागङ्गाभिनयेनेह यतस्त्वर्थो ऽनुभाव्यते ।
शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः

7.6

एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः ।
अतो ह्येषां भावानां सिद्धिर्भवति ।
तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः ।
तत्र विभावानुभावौ लोकप्रसिद्धौ ।
लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यते ऽतिप्रसङ्गनिवृत्यर्थम् ।
भवति चात्र श्लोकः:
लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः ।
अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः

7.7

तत्राष्टौ भावाः स्थायिनः ।
त्रयस्त्रिंशद्व्यभिचारिणः ।
अष्टौ सात्विका इति भेदाः ।
एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः ।
एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते ।
अत्र श्लोकः:
यो ऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः ।
शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना

7.8

अत्राह
यदि
काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति ।
उच्यते
यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्ये ऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति
तथा
विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति ।
बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः ।
तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते ।
स्थायिभावा रसत्वमाप्नुवन्ति ।
परिजनभूता व्यभिचारिणो भावाः ।
अत्राह
को दृष्टान्त इति ।
यथा नरेन्द्रो बहुजनपरिवारो ऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते ।
भवति चात्र श्लोकः:
यथा नराणां नृपतिः शिष्याणां च यथा गुरुः ।
एवं हि सर्वभावानां भावः स्थायि महानिह

7.9

लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् ।
इदानीं भावसामान्यलक्षणमभिधास्यामः ।
तत्र स्थायिभावान्वक्ष्यामः
रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवनाप्रातिकूल्यादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेत्स्मितवदनमधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः ।
अत्र श्लोकः:
इष्टार्थविषयप्राप्त्या रतिरित्युपजायते ।
सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः

7.10

हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते ।
तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः ।
भवति चात्र श्लोकः:
परचेष्टानुकरणाद्धासः समुपजायते ।
स्मितहासातिहसितैरभिनेयः स पण्डितैः

7.11

शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते ।
तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
रुदितमत्र त्रिविधम् आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति ।
भवन्ति चात्रार्याः
आनन्दे ऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् ।
तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥ भ्न्_7.10* ॥
हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् ।
रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति

7.12

पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् ।
भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति

7.13

प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् ।
भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति

7.14

स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च

7.15

क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते ।
अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुटगण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा ।
भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः

7.16

अत्रार्या भवन्ति
भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् ।
क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत्

7.17

किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च ।
अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत्

7.18

अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः ।
सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत्

7.19

अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः ।
विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः

7.20

कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः ।
वीररसान्तरचारी कार्यः कृतको भवति कोपः

7.21

उत्साहो नाम उत्तमप्रकृतिः ।
स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावैरुत्पद्यते ।
तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोकः:
असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः ।
उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः

7.22

भयं नाम स्त्रीनीचप्रकृतिकम् ।
गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सनकान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते ।
तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहनस्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोकाः:
गुरुराजापराधेन रौद्राणां चापि दर्शनात् ।
श्रवणादपि घोराणां भयं मोहेन जायते

7.23

गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः
विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः

7.24

सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् ।
स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः

7.25

अत्रार्या भवति
करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः ।
सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयो ऽस्य

7.26

जुगुप्सा नाम स्त्रीनीचप्रकृतिका ।
सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते ।
तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
भवति चात्र श्लोकः
नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च ।
उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत्

7.27

विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते ।
तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
भवति चात्र श्लोकः:
कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः ।
सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः

7.28

एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः ।
व्यभिचारिण इदानीं व्याख्यास्यामः ।
अत्राह
व्यभिचारिण इति कस्मात् ।
उच्यते
वि अभि इत्येतावुपसर्गौ ।
चर इति गत्यर्थो धातुः ।
विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः ।
वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः ।
अत्राह
कथं नयन्तीति ।
उच्यते
लोकसिद्धान्त एषः
यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति ।
न च तेन बाहुभ्यां स्कन्धेन वा नीयते ।
किं तु लोकप्रसिद्धमेतत् ।
यथेदं सूर्यो नक्षत्रं दिन वा नयतीति ।
एवमेते व्यभिचारिण इत्यवगन्तव्याः ।
तानिह सङ्ग्रहाभिहितांस्त्रयस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः ।
तत्र निर्वेदो नाम दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् ।
रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् ।
अत्र श्लोकः:
दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते ।
सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत्

7.29

अत्रानुवंश्ये आर्ये भवतः:
इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् ।
ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति

7.30

बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः ।
योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः

7.31

ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदनसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते ।
तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपनानुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्ये भवतः
वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः ।
कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन

7.32

गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः ।
श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम्

7.33

शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा ।
चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते ।
तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
चौर्यादिजनिता शङ्का प्रायः कार्या भयानके ।
प्रियव्यलीकजनिता तथा शृङ्गारिणी मता

7.34

अत्राकारसंवरणमपि केचिदिच्छन्ति ।
तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् ।
अत्रार्ये भवतः
द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च ।
या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः

7.35

किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि ।
गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः

7.36

असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते ।
तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्ये भवतः
परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा ।
उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च

7.37

भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च ।
गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः

7.38

मदो नाम मद्योपयोगादुत्पद्यते ।
स च त्रिविधः पञ्चविभावश्च ।
अत्रार्या भवन्ति
ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च ।
करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः

7.39

कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् ।
परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति

7.40

उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः ।
परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः

7.41

स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः ।
सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः

7.42

स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः ।
कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः

7.43

नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः ।
गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः

7.44

रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य ।
कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात्

7.45

सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् ।
उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः

7.46

एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति ।
अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति

7.47

श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते ।
तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयनवदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या
नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम ।
निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः

7.48

आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् ।
तदभिनयेत्सर्वकर्मानभिलाषशयनासननिद्रातन्द्रीसेवनादिभिरनुभावैः ।
अत्रार्या
आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि ।
आहारवर्जितानामारम्भाणामनारम्भात्

7.49

दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते ।
तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या
चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् ।
सर्वमृजापरिहारैर्विविधो ऽभिनयो भवेत्तस्य

7.50

चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते ।
तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्श्यादिभिरनुभावैः ।
अत्रार्ये भवतः
ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु ।
हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति

7.51

सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया ।
अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च

7.52

मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादिभिर्विभावैः समुत्पद्यते ।
तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोकस्तावदार्या च
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि ।
तत्प्रतीकारशून्यस्य मोहः समुपजायते

7.53

व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः ।
सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः

7.54

स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् ।
सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेच्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः ।
अत्रार्ये भवतः
सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् ।
चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्यो ऽसौ

7.55

स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः ।
शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या

7.56

धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिकमनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेत्प्राप्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनुशोचनादिभिरनुभावैः ।
अत्रार्ये भवतः:
विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः ।
भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या

7.57

प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् ।
अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु

7.58

व्रीडा नाम अकार्यकरणात्मिका ।
सा च गुरुव्यतिक्रमणावज्ञानप्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते ।
तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्शनखनिकृन्तनादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः:
किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः ।
पश्चात्तापेन युतो व्रीडित इति वेदितव्यो ऽसौ

7.59

लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् ।
वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात्

7.60

चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते ।
तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहारताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या भवति:
अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते ।
अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः

7.61

हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते ।
तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गनकण्टकितपुलकितास्रस्वेदादिभिरनुभावैः ।
अत्रार्ये भवतः:
अप्राप्ये प्राप्ये वा लब्धे ऽर्थे प्रियसमागमे वाऽपि ।
हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम्

7.62

नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः ।
ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य

7.63

आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणव्यसनाभिघातादिर्विभावैः समुत्पद्यते ।
तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः ।
तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः ।
वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः ।
वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः ।
अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः ।
कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः ।
प्रियश्रवणकृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः ।
अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावनविलापनाक्रन्दनादिभिः ।
व्यसनाभिघातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः ।
एवमष्टविकल्पो ऽयमावेगः सम्भ्रमात्मकः ।
स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः

7.64

अत्रार्ये भवतः:
अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य ।
शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति

7.65

अप्रियनिवेदनाद्यो विषादभावाश्रयो ऽनुभावस्य ।
सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः

7.66

जडतानाम सर्वकार्याप्रतिपत्तिः ।
इष्टानिष्टश्रवणदर्शनव्याध्यादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेदकथनाविभाषणतूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः ।
अत्रार्या भवति:
इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः

7.67

गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते ।
तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणाङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः
अत्रार्या भवति:
विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि ।
गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः

7.68

विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः ।
तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यनिःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् ।
अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यानादिभिरनुभावैः ।
अत्रार्या श्लोकौ:
कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा ।
दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम्

7.69

वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः ।
निद्रानिःश्वसितध्यानैरधमानां तु योजयेत्

7.70

औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते ।
तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
अत्रार्या भवति:
इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या ।
चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयो ऽस्य

7.71

निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेद्वदनगौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भनमान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः ।
अत्रार्ये भवतः:
आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च ।
रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति

7.72

तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः ।
जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः

7.73

अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाचग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचिकालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते ।
तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्ये भवतः:
भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् ।
कालान्तरातिपातादशुचेश्चभवत्यपस्मारः

7.74

सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च ।
निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे

7.75

सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयनप्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् ।
तदुच्छ्वसितंसन्नगात्राक्षिनिमीलनसर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः:
निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् ।
अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः

7.76

सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः ।
सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत

7.77

विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्ततीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते ।
तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः ।
अत्रार्या भवति:
आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः ।
प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः

7.78

अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते ।
तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
अत्र श्लोकौ:
आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः ।
नॄणामुत्साहसंयोगादमर्षो नाम जायते

7.79

उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः ।
शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः

7.80

अवहित्थं नाम आकारप्रच्छादनात्मकम् ।
तच्च लजाभयापजयगौरवजैह्मयादिभिर्विभाविः समुत्पद्यते ।
तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोको भवति:
धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् ।
तच्चागणनया कार्यं नातीवोत्तरभाषणात्

7.81

उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते ।
तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् ।
अत्रार्या भवति:
चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति ।
वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः

7.82

भवति चात्र श्लोकः:
नानाशात्रार्थबोधेन मतिः संजायते नृणाम् ।
शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत्

7.83

व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः ।
तस्य ज्वरादयो विशेषाः ।
ज्वरस्तु द्विविधः सशीतः सदाहश्च ।
तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चनाग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुखशोषणपरिदेवितादिभिरनुभावैरभिनेयः ।
सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभिलाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः ।
ये चान्ये व्याधयस्ते ऽपि खलु मुखविकूणनगात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावैरभिनेयाः ।
अत्र श्लोको भवति:
समासतस्तु व्याधीनां कर्तव्यो ऽभिनयो बुधैः ।
स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः

7.84

उन्मादो नाम इष्टजनवियोगविभवनाशाभिघातवातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते ।
तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेलचीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः:
इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् ।
विविधाच्चित्तविकारादुन्मादो नाम सम्भवति

7.85

अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः ।
अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत

7.86

मरणं नाम व्याधिजमभिघातजञ्च ।
तत्र यदान्त्रयकृच्छूलदोषवैषम्यगण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् ।
अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपातविनाशप्रभवम् ।
एतयोरभिनयविशेषान्वक्ष्यामः:
तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् ।
अत्र श्लोको भवति:
व्याधीनामेकभावो हि मरणाभिनयः स्मृतः ।
विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः

7.87

अभिघातजे तु नानाप्रकाराभिनयविशेषाः ।
शस्त्रक्षताहिदष्टविषपीतगजादिपतितश्वापदहताः ।
यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपनस्फुरणादिभिरभिनयः प्रयोक्तव्यः ।
अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः ।
अत्र श्लोकौ भवतः:
कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत्

7.88

फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् ।
जडतां सप्तमे कुर्यादष्टमे मरणं भवेत्

7.89

अत्रार्या भवति:
श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि ।
शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम्

7.90

इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् ।
प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः

7.91

त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते ।
तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः ।
अत्र श्लोको भवति:
महाभैरवनादद्यैस्त्रासः समुपजायते ।
स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत्

7.92

वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते ।
तमभिनयेद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः ।
अत्र श्लोको भवति:
विचारणादिसम्भूतः सन्देहातिशयात्मकः ।
वितर्कः सो ऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः

7.93

एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति ।
त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः ।
सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः

7.94

अत्राह:
किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते
एते सात्त्विका इति ।
अत्रोच्यते:
इह हि सत्त्वं नाम मनःप्रभवम् ।
तच्च समाहितमनस्त्वादुच्यते ।
मनसः समाधौ सत्त्वनिष्पत्तिर्भवति ।
तस्य च यो ऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्यो ऽन्यमनसा कर्तुमिति ।
लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् ।
को दृष्टान्तः:
इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति ।
तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् ।
एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः ।
त इमे:
स्तम्भः स्वेदो ऽथ रोमाञ्चः स्वरभेदो ऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः

7.95

अत्रार्याः
तत्र:
क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः ।
व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव

7.96

हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः ।
शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः

7.97

आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् ।
अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु

7.98

शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् ।
स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः

7.99

स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः ।
श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः

7.100

एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः ।
कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम्

7.101

निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः ।
स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः

7.102

व्यजनग्रहणाच्चापि स्वेदापनयनेन च ।
स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः

7.103

मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च ।
पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत्

7.104

स्वरभेदो ऽभिनेतव्यो भिन्नगद्गदनिस्वनैः ।
वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत्

7.105

मुखवर्णपरावृत्त्या नाडीपीडनयोगतः ।
वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम्

7.106

बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च ।
मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः

7.107

निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि ।
महीनिपतनाच्चापि प्रलयाभिनयो भवेत्

7.108

एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह ।
भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः

7.109

[अत्र श्लोकाः:
शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा ।
विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ भ्न्_7.108*1 ॥
रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि ।
स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ भ्न्_7.108*2 ॥
विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः ।
मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ भ्न्_7.108*3 ॥
क्रोधामर्षौ च हासश्च शोको ऽपस्मार एव च ।
दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ भ्न्_7.108*4 ॥
त्रासवैवर्ण्यरुदितैः स्वरभेदः शमो ऽपि च ।
जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः] ॥ भ्न्_7.108*5 ॥
आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः ।
उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया

7.110

[यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः ।
उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम्] ॥ भ्न्_7.109* ॥
ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा ।
सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः

7.111

निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च
जडता मरणं चैव व्याधिश्च करुणे स्मृताः

7.112

गर्वो ऽसूया मदोत्साहावावेगो ऽमर्ष एव च ।
क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः

7.113

असम्मोहस्तथोत्साह आवेगो हर्ष एव च ।
मतिश्चैव तथोग्रत्वममर्षो मद एव च

7.114

रोमाञ्चः स्वरभेदश्च क्रोधो ऽसूया धृतिस्तथा ।
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि

7.115

स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ।
त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके

7.116

अपस्मारस्तथोन्मादो विषादो मद एव च ।
मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः

7.117

स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा ।
आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः

7.118

ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः ।
रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः

7.119

न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः ।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च

7.120

[ बहूनां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ भ्न्_7.119*1 ॥
दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् ।
ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ भ्न्_7.119*2 ॥
विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः ।
संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ भ्न्_7.119*3 ॥
स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः ।
सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ भ्न्_7.119*4 ॥
ये त्वेते सात्त्विका भावा नानाभिनययोजिताः ।
रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ भ्न्_7.119*5 ॥
न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् ।
विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भ्न्_7.119*6 ॥
भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा ।
बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ भ्न्_7.119*7 ॥
षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् ।
सत्त्वप्रयोजितो ह्यर्थः प्रयोगो ऽत्र विराजते ।
विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम्] ॥ भ्न्_7.119*8 ॥
नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः ।
पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः

7.121

एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः ।
य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम्

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc