भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 20

20.1

इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः
अथ विंशो ऽध्यायः
समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः ।
यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम्

20.2

एकार्णवं जगत् कृत्वा भगवानच्युतो यदा ।
शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया

20.3

अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ ।
तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया

20.4

निजबाहू विमृदनन्तौ भूतभावनमक्षयम् ।
जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम्

20.5

बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् ।
नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम्

20.6

तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा ।
श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत्

20.7

किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते ।
उत्तरोत्तरसंबद्धा नन्विमौ निधनं नयः

20.8

पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः ।
कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता

20.9

वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति ।
तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः

20.10

शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् ।
योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ

20.11

भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा ।
अतिभारो ऽभवद् भूमेर्भारती तत्र निर्मिता

20.12

वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ ।
सत्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता

20.13

विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता

20.14

संरम्भावेगबहुलैर्नानाचारी समुत्थितैः ।
नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः

20.15

यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् ।
तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत्

20.16

यदा हतौ तावसुरौ हरिणा मधुकैटभौ ।
ततो ऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम्

20.17

अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि ।
अङ्गहारैः कृतं देव त्वया दानवनाशनम्

20.18

तस्मादयं हि लोकस्य नियुद्धसमयक्रमः ।
सर्वशस्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति

20.19

न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ।
यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः

20.20

[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः ।
न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना

20.21

ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना ।
पुनरिष्वस्त्रजाते च नानाचारीसमाकुले

20.22

पुनर्नाट्यप्रयोगेषु नानाभावसम्न्विताः ।
वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः]

20.23

चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् ।
ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता

20.24

नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका ।
मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया

20.25

ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती ।
कैशिकी सामवेदाच्च शेषा चाथर्वणादपि

20.26

या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता संकृतपाठ्ययुक्ता ।
स्वनामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः

20.27

भेदास्तस्यास्तु विज्ञेयाश्चत्वारो ऽङ्गत्वमागताः ।
प्ररोचनामुखं चैव वीथी प्रहसनं तथा

20.28

जयाभ्युदयिनी चैव मङ्गल्या विजयावहा ।
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना

20.29

[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया ।
सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना]

20.30

नटी विदूषको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्तु कुर्वते

20.31

चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा ।
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा

20.32

[लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च ।
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः]

20.33

उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु

20.34

उद्धात्यकावलगितलक्षणं कथितं मया ।
शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः

20.35

सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।
गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः

20.36

प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् ।
ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः

20.37

कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते ।
तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम्

20.38

एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः ।
[तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते

20.39

पात्रग्रन्थैरसंबाध प्रकुर्यादामुखं ततः ।
एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम्

20.40

लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ।
[इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता ।
सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि]

20.41

या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः

20.42

वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु ।
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः

20.43

वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा ।
उद्धतपुरुषप्राया परस्पराधर्षणकृता च

20.44

उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः ।
चत्वारो ऽस्या भेदा विज्ञेया नाट्यकोविदैअः

20.45

अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् ।
इति संघर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः

20.46

उत्थानसमारब्धानर्थानुत्सृज्य यो ऽर्थयोगवशात् ।
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः

20.47

[निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः ।
संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः]

20.48

साधर्षजो निराधर्षजो ऽपि वा रागवचसंयुक्तः ।
साधिक्षेपालापो ज्ञेयः सल्लापकः सो ऽपि

20.49

[धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् ।
साधिक्षेपं च वचो ज्ञेयः संलापको नाम]

20.50

मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा ।
संघातभेदजननस्तज्ज्ञैः संघात्यको ज्ञेयः

20.51

[बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् ।
कूटानां संघातो विज्ञेयः कूटसंघात्यः ]

20.52

इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता ।
कैशिक्यास्त्वथ लक्षणमतःपरं संप्रवक्ष्यामि

20.53

या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता ।
कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति

20.54

[बहुवद्यनृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या ।
माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च

20.55

चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः ।
स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः]

20.56

नर्म च नर्मस्फुञ्जो नर्मस्फोटो ऽथ नर्मगर्भश्च ।
कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः

20.57

आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात्

20.58

ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च ।
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म

20.59

नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः ।
ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव

20.60

विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः ।
असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः

20.61

विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र ।
प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भो ऽसौ

20.62

[पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् ।
तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ]

20.63

इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता ।
अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि

20.64

आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता ।
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया

20.65

[आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् ।
चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति

20.66

शाड्गुण्यसमार्ब्धा हठातिसन्धानविद्रवोपेता ।
लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी

20.67

संक्षिप्तकावपतौ वस्तूत्थापनमथापि संफेटः ।
एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि

20.68

अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः ।
संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम

20.69

भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् ।
क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात्

20.70

सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि ।
नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम्

20.71

संरम्भसंप्रयुक्तो बहुयुद्धकपटनिर्भेदः ।
शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः

20.72

एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया ।
रसप्रयोगमासां च कीर्त्यमानं निबोधत

20.73

हास्यशृङ्गरबहुला कैशिकी परिचक्षिता ।
सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः

20.74

रौद्रे भयानके चैव विज्ञेयारभटी बुधैः ।
बीभत्से करुणे चैव भारती संप्रकीर्तिता

20.75

[ न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः ।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा

20.76

सर्वेषां समवेतानां यस्य रूपं भवेद्बहु ।
स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः]

20.77

वृत्यन्त एशो ऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् ।
आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc