भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 18

18.1

इति भरतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशो ऽध्यायः
अथ अष्टादशो ऽध्यायः
वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् ।
नामतः कर्मतश्चैव तथा चैव प्रयोगतः

18.2

नाटकं सप्रकरणमङ्को व्यायोग एव च ।
भाणः समवकारश्च वीथी प्रहसनं डिमः

18.3

ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे ।
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः

18.4

सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः ।
आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः

18.5

जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः ।
यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि

18.6

ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ ।
सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ

18.7

ज्ञेयं प्रकरणं चैव तथा नाटकमेव च ।
सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम्

18.8

वीथी समवकारश्च तथेहामृग एव च ।
उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः

18.9

कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम्

18.10

प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव ।
राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम्

18.11

नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव ।
अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम

18.12

नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा ।
सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम

18.13

अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् ।
कर्तव्यो ऽङ्कः सो ऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः

18.14

अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् ।
नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः

18.15

अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः ।
वस्तुव्यापी बिन्दुः काव्यसमुत्थो ऽत्र नित्यं स्यात्

18.16

यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः ।
किञ्चिदवलग्नबिन्दुः सो ऽङ्क इति सदावगन्तव्यः

18.17

ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः ।
नानावस्थोपेतः कार्यस्त्वङ्को ऽविप्रकृष्टस्तु

18.18

नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् ।
नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु

18.19

पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च ।
निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः

18.20

क्रोधप्रसादशोकाः शापोत्सर्गो ऽथ विद्रवोद्वाहौ ।
अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः

18.21

एकदिवसप्रवृत्तः कार्यस्त्वङ्को ऽर्थबीजमधिकृत्य ।
आवश्यककार्याणामविरोधेन प्रयोगेषु

18.22

एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् ।
आवश्यकाविरोधेन तत्र काव्यानि कार्याणि

18.23

रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः ।
बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम्

18.24

न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् ।
आवश्यकानां कार्याणां विरोधो हि तथा भवेत्

18.25

ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् ।
विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु

18.26

दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् ।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम्

18.27

विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः ।
अङ्कच्छेदे ऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः

18.28

सन्निहितनायको ऽङ्कः कर्तव्यो नाटके प्रकरणे वा ।
परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः

18.29

प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः ।
अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः

18.30

अनयोरन्तरविहितः प्रवेशको ऽर्थक्रियां समभिवीक्ष्य ।
संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः

18.31

अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्

18.32

यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् ।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः

18.33

अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशकः संविधातव्यः

18.34

नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः

18.35

कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् ।
अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः

18.36

बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा ।
बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य

18.37

यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् ।
वृत्तान्तस्वल्पकथैः प्रवेशकैः सो ऽभिधातव्यः

18.38

युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव ।
प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि

18.39

अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि ।
न वधः कर्तव्यः स्याद्यो ऽभ्युदयी नायकः ख्यातः

18.40

अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः ।
काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः

18.41

न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा ।
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः

18.42

कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य ।
ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः

18.43

सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् ।
निर्वहणे कर्तव्यो नित्यं हि रसो ऽद्भुतस्तज्ज्ञैः

18.44

नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् ।
प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि

18.45

यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम्

18.46

यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् ।
उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम्

18.47

यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च ।
तत्प्रकरणे ऽपि योज्यं सलक्षणं सर्वसन्धिषु तु

18.48

विप्रवणिक्षचिवानां पुरोहितामात्यसार्थवाहानाम् ।
चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम

18.49

नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् ।
बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः

18.50

दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् ।
मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु

18.51

सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् ।
गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या

18.52

यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमो ऽपि स्यात् ।
अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र

18.53

यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् ।
अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम्

18.54

मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भको ऽत्र तत्त्वज्ज्ञैः ।
संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत्

18.55

शुद्धः संकीर्णो वा द्विविधो विष्कम्भको ऽपि कर्तव्यः ।
मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः

18.56

अङ्कान्तरालविहितः प्रवेशको ऽर्थक्रियां समभिवीक्ष्य ।
संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः

18.57

अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः ।
प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा

18.58

प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् ।
अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या

18.59

स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी ।
बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव

18.60

राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता ।
नायकदेवीदूती सपरिजना नाटिका ज्ञेया

18.61

अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः ।
अत एव दशैतानि रूपाणीत्युदितानि वै

18.62

प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन ।
वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम्

18.63

देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ।
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः

18.64

द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च ।
वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र

18.65

अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः ।
द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः

18.66

कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु ।
वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु

18.67

नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् ।
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम्

18.68

या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना ।
कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता

18.69

अङ्को ऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य ।
अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति

18.70

युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा ।
नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः

18.71

वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा ।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटो ऽत्र विज्ञेयः

18.72

त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः ।
शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च

18.73

यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा ।
व्रतनियमतपोयुक्तो ज्ञेयो ऽसौ धर्मशृङ्गारः

18.74

अर्थस्येच्छायोगाद्बहुधा चैवार्थतो ऽर्थशृङ्गारः ।
स्त्रीसंप्रयोगविषयेष्वर्थार्था वा रतिर्यत्र

18.75

कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा ।
निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः

18.76

उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि ।
वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि

18.77

एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः ।
वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि

18.78

दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः ।
सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव

18.79

उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च ।
संक्षोभविद्रवकृतः संफेटकृतस्तथा चैव

18.80

स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः ।
ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च

18.81

यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव ।
ईहामृगे ऽपि ते स्युः केवलममरस्त्रिया योगः

18.82

यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् ।
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम्

18.83

ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन ।
डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि

18.84

प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव ।
षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः

18.85

शृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः ।
दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः

18.86

निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाधर्षणसंफेटकृतश्च कर्तव्यः

18.87

मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च ।
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च

18.88

षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः ।
कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः

18.89

डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् ।
व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि

18.90

व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः ।
अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव

18.91

बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे ।
न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम्

18.92

न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः ।
युद्धनियुद्धाघर्षणसंघर्षकृतश्च कर्तव्यः

18.93

एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ।
वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य

18.94

प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ।
दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः

18.95

करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च ।
स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव

18.96

नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः ।
कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु

18.97

यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् ।
तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु

18.98

कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु ।
हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात्

18.99

उपवनगमनक्रीडा विहारनारीरतिप्रमोदाः स्युः ।
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः

18.100

ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः ।
सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन्

18.101

प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् ।
अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम्

18.102

प्रहसनमतः परं सलक्षणं संप्रवक्ष्यामि ।
वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम्

18.103

भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् ।
कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम्

18.104

अविकृतभाषाचारं विशेषभावोपपन्नचरितपदम् ।
नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु

18.105

वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः ।
अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम्

18.106

लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः ।
स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः

18.107

वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् ।
भाणस्यापि तु लक्षणमतः परं संप्रवक्ष्यामि

18.108

आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च

18.109

परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः ।
आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव

18.110

धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव ।
एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः

18.111

भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् ।
वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः

18.112

सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः ।
वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा

18.113

अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः ।
उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च

18.114

वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् ।
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः

18.115

अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि ।
पदानि त्वगतार्थानि ये नराः पुनरादरात्

18.116

योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते ।
यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते

18.117

तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः ।
आक्षिप्ते ऽर्थे तु कस्मि.ण्श्चिच्छुभाशुभसमुत्थिते

18.118

कौशलादुच्यते ऽन्यो ऽर्थस्तदवस्पन्दितं भवेत् ।
हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया

18.119

मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् ।
न च गृह्यते ऽस्य वचनं विज्ञेयो ऽसत्प्रलापो ऽसौ

18.120

एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगे ऽस्मिन् ।
यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु

18.121

एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् ।
यत्कारणाद् गुणानां दोषीकरणं भवेद्विवादकृतम्

18.122

दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् ।
परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र

18.123

अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम् ।
अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम्

18.124

श्रुतिसारूप्याद्यस्मिन् बहवो ऽर्था युक्तिभिर्नियुज्यन्ते ।
यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम्

18.125

प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः ।
संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम्

18.126

बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः ।
इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः ।
पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc