भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 14

14.1

इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशो ऽध्यायः
अथ चतुर्दशो ऽध्यायः
यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः ।
लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम्

14.2

वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता ।
अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि

14.3

वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च ।
तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम्

14.4

आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः ।
सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः

14.5

द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा ।
तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः

14.6

व्यञ्जनानि स्वराश्चैव सन्धयो ऽथ विभक्तयः ।
नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा

14.7

एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् ।
विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत

14.8

अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश ।
हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः

14.9

तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ
ओ औ इति स्वरा ज्ञेयाः ॥
कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ
ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व
श ष स ह इति व्यञ्जनवर्गः ।
वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ ।
अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः

14.10

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च

14.11

अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः ।
ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ
पूपध्मानीया ओष्ठ्याः । -प -फ इति पफाभ्यां प्राक्
अर्धविसर्गसदृशः उपध्मानीयः । -क -ख इति कखाभ्यां
प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ ।
ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा
अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके ।
सर्ववर्णानां मुखं स्थानमित्यपरे ।
द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयो ऽपरे ।
अघोषा घोषवन्तस्तु ततो ऽन्ये परिकीर्तिताः

14.12

एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः ।
ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः

14.13

गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः ।
कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः

14.14

कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः ।
टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः

14.15

पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ ।
तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः

14.16

ऌॡ दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ ।
कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः

14.17

पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः ।
स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः

14.18

अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः ।
ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः

14.19

जिह्वामूलीयः -कः -प उपध्मानीयसंज्ञया ज्ञेयः ।
कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः

14.20

कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसंप्रयोगे तु ।
वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः

14.21

एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः ।
शब्दविषयप्रयोगे स्वरा.ण्स्तु भूयः प्रवक्ष्यामि

14.22

यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञो ऽसौ ।
य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः ।
पूर्वो ह्रस्वः तेषां परश्च दीर्घो ऽवगन्तव्यः

14.23

इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः ।
काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु

14.24

एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः ।
तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः

14.25

पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन ।
विस्तरशः पुनरेव प्रकरणवशात् संप्रवक्ष्यामि

14.26

अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् ।
द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम्

14.27

तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् ।
निर्देशसंप्रदानापदानप्रभृतिसंज्ञाभिः

14.28

नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते ।
पृथक्तत्रोपसर्गेभ्यो निपाता नियमे ऽच्युते

14.29

संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् ।
वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम्

14.30

पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि ।
स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् ।
प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम्

14.31

आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् ।
वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम्

14.32

प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः ।
उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रे ऽस्मिन्

14.33

प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च ।
यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु

14.34

प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च ।
यस्मात्पूरयते ऽर्थान् प्रत्यय उक्तस्ततस्तस्मात्

14.35

लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च ।
तांस्तान् पूरयते ऽर्थांस्तेषु यस्तद्धितस्तस्मात्

14.36

एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा ।
विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः

14.37

विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः ।
सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः

14.38

वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च ।
सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः

14.39

लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासो ऽपि ।
तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः

14.40

एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः ।
पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा

14.41

विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च ।
तत्र चूर्णपदस्येह सन्निबोधत लक्षणम्

14.42

अनिबद्धपदं छन्दोविधानानियताक्षरम् ।
अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः

14.43

निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् ।
निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम्

14.44

एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः ।
चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत्

14.45

षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि संख्यया ।
समञ्चार्धसमञ्चैव तथा विषममेव च

14.46

छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते ।
नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता

14.47

छन्दोहीनो न शब्दो ऽस्ति न च्छन्दश्शब्दवर्जितम् ।
तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः

14.48

एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् ।
मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा

14.49

सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह ।
सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते

14.50

नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा ।
एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा

14.51

त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा ।
अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता

14.52

अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा ।
एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च

14.53

प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा ।
विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च संकृतिः

14.54

पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् ।
अतो ऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते

14.55

छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः ।
असंख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः

14.56

गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते ।
प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि

14.57

वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु ।
शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते

14.58

षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि ।
शतानि पञ्च वृतानां बृहत्यां द्वादशैव च

14.59

पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च ।
त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च

14.60

सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा ।
जगत्यां समवर्णानां वृत्तानामिह सर्वशः

14.61

अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः ।
जगत्यामतिपूर्वायां वृत्तानां परिमाणतः

14.62

शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश ।
वृत्तानि चैव चत्वारि शक्वर्याः परिसंख्यया

14.63

द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च ।
अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम्

14.64

पञ्चषष्टिसहस्राणि सहस्रार्धञ्च संख्यया ।
षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च

14.65

एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः ।
तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते

14.66

धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु ।
तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च

14.67

द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः ।
चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु

14.68

अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च ।
तथा शतसहस्राणि पञ्च वृत्तशतद्वयम्

14.69

अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च ।
कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया

14.70

चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च ।
पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः

14.71

तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् ।
सप्त वै गदितास्त्वत्र नवतिश्चैव संख्यया

14.72

सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च ।
वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु

14.73

चत्वारिंशत्तथैकञ्च लक्षाणामथ संख्यया ।
तथा चेह सहस्राणि नवतिश्चतुरुत्तरा

14.74

शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् ।
ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः

14.75

अष्टाशीति सहस्राणि वृत्तानां षट् शतानि च ।
अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु

14.76

तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः ।
सप्त चैव सहस्राणि षोडशे द्वे शते तथा

14.77

कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै ।
कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम्

14.78

पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा ।
चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम्

14.79

षट् कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः ।
चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि

14.80

उक्तादुत्कृतिपर्यन्तवृत्तसंख्यां विचक्षणः ।
एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत्

14.81

सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै ।
तिस्रः कोटयो दश तथा सहस्राणां शतानि तु

14.82

चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु ।
सप्तभिः सहितान्येव सप्त चैव शतानि च

14.83

षड्विंशतिरिहान्यानि व्याख्यातानि समासतः ।
समानि गणनायुक्तिमाश्रित्य कथितानि वै

14.84

सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् ।
ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम्

14.85

त्रीण्यक्षराणि विज्ञेयस्त्रिको ऽंशः परिकल्पितः ।
गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः

14.86

गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् ।
जकारो गुरुमध्यस्थः सकारो ऽन्त्यगुरुस्तथा

14.87

लघुमध्यस्थितो रेफस्तकारो ऽन्त्यलघुः परः ।
लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम्

14.88

एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः ।
लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च

14.89

एभिर्विनिर्गताश्चान्या जातयो ऽथ समादयः ।
अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः

14.90

गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् ।
नियतः पदविच्छेदो यतिरित्यभिधीयते

14.91

गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च ।
सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित्

14.92

गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा ।
अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः

14.93

एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा ।
चतुस्त्रिका तु जगती सैकातिजगती पुनः

14.94

शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी ।
एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते

14.95

षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा ।
कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः

14.96

आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा ।
अष्टत्रिकाः संकृतौ स्यात् सैका चाभिकृतिः पुनः

14.97

उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः ।
गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ ।
लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ

14.98

संपद्विरामपादाश्च दैवतस्थानमक्षरम् ।
वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः

14.99

नैवातिरिक्तं हीनं वा यत्र संपद्यते क्रमः ।
विधाने च्छन्दसामेष संपदित्यभिसंज्ञितः

14.100

यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः ।
पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः

14.101

अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते ।
शरीराश्रयसंभूतं दिगाश्रयमथापि च

14.102

शारीरं मन्त्रसंभूतं छन्दो गायत्रसंज्ञितम् ।
क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते

14.103

तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् ।
ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम्

14.104

श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह ।
तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः

14.105

ध्रुवाविधाने चैवास्य संप्रवक्ष्यामि लक्षणम् ।
विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत्

14.106

छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा ।
अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः

14.107

अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा ।
तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि

14.108

सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः ।
दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च

14.109

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
त्रिष्टुप् च जगती चैव दिव्यो ऽयं प्रथमो गणः

14.110

तथातिजगती चैव शक्वरी चातिशक्वरी ।
अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः

14.111

कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा ।
संकृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा

14.112

एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् ।
लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च

14.113

प्रस्तारो ऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि ।
द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ

14.114

गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् ।
अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा

14.115

प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् ।
वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु

14.116

गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् ।
न्यस्येत् प्रस्तारमार्गो ऽयमक्षरोक्तस्तु नित्यशः

14.117

मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः ।
मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः

14.118

मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते ।
आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः

14.119

गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः ।
वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च

14.120

त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः ।
मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः

14.121

अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् ।
द्विगुणाञ्च लघोः कृत्वा संख्यां पिण्डेन योजयेत्

14.122

आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् ।
कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः

14.123

वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् ।
राश्यूनामर्धविषमां समासादभिनिर्दिशेत्

14.124

एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु ।
यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम्

14.125

समानां विषमाणां च संगुणय्य तथा स्फुटम् ।
राश्यूनामभिजानीयाद्विषमाणां समासतः

14.126

एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् ।
क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत्

14.127

सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् ।
जानीत समवृत्तानां संख्यां संक्षेपतस्तथा

14.128

वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् ।
न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ

14.129

एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः ।
गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत्

14.130

इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः ।
वृत्तान्येतेषु नाट्ये ऽस्मिन् प्रयोज्यानि निबोधत

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc