भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 10

10.1

इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमो ऽध्यायः
अथ दशमो ऽध्यायः
एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च ।
समानकरणे चेष्टा सा चारीत्यभिधीयते

10.2

विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् ।
यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते

10.3

एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता ।
द्विपादक्रमणं यत्तु करणं नाम तद्भवेत्

10.4

करणानां समायोगः खण्डमित्यभिधीयते ।
खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत्

10.5

चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा ।
चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः

10.6

यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् ।
नहि चार्या विना किञ्चिन्नाट्ये ऽङ्गं संप्रवर्तते

10.7

तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् ।
या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा

10.8

समपादा स्थितावर्ता शकटास्या तथैव च ।
अध्यर्धिका चाषगतिर्विच्यवा च तथापरा

10.9

एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता ।
उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता

10.10

समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश ।
एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः

10.11

अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च ।
ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका

10.12

डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते ।
विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा

10.13

मृगप्लुता च दण्डा च भ्रमरी चेति षोडश ।
आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत

10.14

पादैर्निरन्तरकृतैस्तथा समनखैरपि ।
समपादा स्मृता चारी विज्ञेया स्थानसंश्रया

10.15

भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् ।
पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता

10.16

निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ।
उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत्

10.17

सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् ।
तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः

10.18

पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः ।
वामः सव्यापसर्पी च चाषगत्यां विधीयते

10.19

विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् ।
निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्

10.20

तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् ।
पर्यायतश्च क्रियते एडकाक्रीडिता तु सा

10.21

अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः ।
ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता

10.22

तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा ।
जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता

10.23

अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः ।
द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा

10.24

शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च ।
यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता

10.25

मुष्टिहस्तश्च वक्षःस्थः करो ऽन्यश्च प्रवर्तितः ।
तलसञ्चरपादश्च जनिता चार्युदाहृता

10.26

पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् ।
द्वितीयेन तु पादेन तथापस्यन्दितामपि

10.27

तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः ।
समोत्सरितमत्तल्ली व्यायामे समुदाहृता

10.28

उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः ।
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता

10.29

एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः ।
आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम्

10.30

कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता

10.31

ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता

10.32

कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् ।
उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते

10.33

कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता

10.34

कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता

10.35

पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका

10.36

कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् ।
पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता

10.37

कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता

10.38

स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः ।
निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता

10.39

पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् ।
परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता

10.40

पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ।
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता

10.41

पृष्ठः प्रसारितः पादो वलितो ऽभ्यन्तरीकृतः ।
पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता

10.42

कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।
कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत्

10.43

अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ।
जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता

10.44

नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् ।
क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता

10.45

अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता

10.46

आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः ।
धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः

10.47

अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः ।
पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः

10.48

यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् ।
पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत्

10.49

पादचार्यां यथा पादो धरणीमेव गच्छति ।
एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत्

10.50

एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः ।
स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे

10.51

वैष्णवं समपादं च वैशाखं मण्डलं तथा ।
प्रत्यालीढं तथालीढं स्थानान्येतानि षण् नृणां

10.52

द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितो ऽपरः

10.53

किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम्

10.54

स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः ।
नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः

10.55

चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा ।
धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत्

10.56

इदमेव विपर्यस्तं प्रणयक्रोध इष्यते ।
उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा

10.57

शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि ।
दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु

10.58

शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् ।
समपादे समौ पादौ तालमात्रान्तरस्थितौ

10.59

स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् ।
अनेन कार्यं स्थानेन विप्रमङ्गलधारणम्

10.60

रूपणे पक्षिणां चैव वरं कौतुकमेव च ।
स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि

10.61

लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् ।
तालास्त्रयो ऽर्धतालश्च पादयोरन्तरं भवेत्

10.62

तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् ।
त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत्

10.63

वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् ।
स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः

10.64

व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् ।
शराणां च समुत्क्षेपो व्यायामकरणे तथा

10.65

रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः ।
ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ

10.66

त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा ।
धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत्

10.67

वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् ।
अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु

10.68

आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् ।
अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत्

10.69

उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः ।
मल्लानाञ्चैव संफेटः शत्रूणां च निरूपणम्

10.70

तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् ।
कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च

10.71

आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् ।
आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत्

10.72

नानाशस्त्रविमोक्षो हि कार्यो ऽनेन प्रयोक्तृभिः ।
न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे

10.73

भारतः सात्वतश्चैव वार्षगण्यो ऽथ कैशिकः ।
भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते

10.74

वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके ।
एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः

10.75

प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे ।
न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः

10.76

यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः ।
वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम्

10.77

शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् ।
प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि

10.78

खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च ।
शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः

10.79

कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा ।
पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च

10.80

खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः ।
एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे

10.81

सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः ।
स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः

10.82

केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते ।
गतिश्च वार्षगण्ये ऽपि सात्वतेन क्रमेण तु

10.83

शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते ।
शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा

10.84

उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशे ऽथवा पुनः ।
भारते प्रविचारो ऽयं कर्तव्यः स तु कैशिके

10.85

विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् ।
प्रविचारा प्रयोक्तव्या ह्येवमेते ऽङ्गलीलया

10.86

धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे ।
न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः

10.87

रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् ।
संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः

10.88

अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः ।
अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम्

10.89

व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् ।
सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः

10.90

सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् ।
शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता

10.91

अचञ्चलमकुब्जं चासन्नगात्रमथापि च ।
नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत्

10.92

कटी कर्णसमा यत्र कूर्परांसशिरस्तथा ।
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत्

10.93

नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः ।
अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः

10.94

नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् ।
कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम्

10.95

वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् ।
परिमार्जनमादानं सन्धानं मोक्षणम् तथा

10.96

धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् ।
संमार्जनं परामर्षमादानं ग्रहणं क्रिया

10.97

सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् ।
तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च

10.98

व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा ।
योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत्

10.99

भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् ।
बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा

10.100

स्निग्धान्यन्यानि च तथा रसकं पानकं तथा ।
आहारे ऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः

10.101

तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् ।
अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम्

10.102

अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् ।
अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा

10.103

व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् ।
एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc