नारायणीय · अध्याय 9.33
वैवस्वताख्यमनुपुत्रनभागजात-
नाभागनामकनरेन्द्रसुतोऽम्बरीषुः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥
त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य
भक्त्यैव देव! नचिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
चक्रं भवान् प्रविततार सहस्रधारम् ॥
स द्वादशीव्रतमथो भ्वदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्दन्
पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥
तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससास्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्तिशीलो
मन्दं जगाम यमुनां नियमान् विधास्यन् ॥
राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्
वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥
कृत्यां च तामसिधरां भुवनं दहन्ती-
मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥
धावन्नशेषभुवनेषु भिया स पश्यन्
विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतीत्यपास्तः
शर्वं ययौ स च भवन्तमवन्दतैव ॥
भूयो भवन्निलयमेत्य मुनिं नमन्तं
प्रोचे भवानहमृषे! ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
याह्यम्बरीषपदमेव भजेति भूमन्! ॥
तावत् समेत्य मुनिना स गृहीतपादो
राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥
राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
सायुज्यमाप च स मां पवनेश! पायाः ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0