नारायणीय · अध्याय 8.32
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वम् ॥
योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥
कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्ताप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥
स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0