भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 7.25

7.25.1

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-
न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद् रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
कम्पः कश्चन सम्पपात् चलितोऽप्यम्भोजभूर्विष्टपात् ॥

7.25.2

दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो! ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥

7.25.3

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात् तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥

7.25.4

उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर-
ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् ।
व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित-
स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥

7.25.5

नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् ।
वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥

7.25.6

भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्न्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥

7.25.7

त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥

7.25.8

तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥

7.25.9

भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत-
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥

7.25.10

एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध-
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc