नारायणीय · अध्याय 7.24
हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भवता
हते शोलक्रोधग्लपितघृतिरेतस्य सहजः ।
हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
प्रतिज्ञामातेने तव किल वधार्थं मुररिपो! ॥
विधातारं घोरं स खलु तपसित्वा नचिरतः
पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥
निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्-
बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते
स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-
त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्
वधिपायानस्मिन् व्यततुत् भवत्पादशरणे ॥
स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्-
महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।
गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो!
त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥
पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं
रुषान्धः प्राहैनं कुलहतक! कस्ते बलमिति ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥
अरे! क्वासौ क्वासौ सकलजगदात्मा हरिरिति
प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
अतः पश्चाद् विष्णो! न हि वदितुमीशोऽस्मि सहसा
कृपात्मन्! विश्वात्मन्! पवनपुरवासिन्! मृडय माम् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0