भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.98

12.98.1

यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद्
योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा
नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ॥

12.98.2

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी ।
बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा
तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो! नमस्ते ॥

12.98.3

नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं
न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः ।
शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥

12.98.4

मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्-
भूतग्रामेन्द्रियाद्यैरपि सकलजगत् स्वप्नसङ्कल्पकल्पम् ।
भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥

12.98.5

शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्! काल इत्यालपन्ति
त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।
वेदान्तैर्यत् तु गीतं पुरुषपरचिदात्माभिधं तत् तु तत्त्वं
प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण! तस्मै नमस्ते ॥

12.98.6

सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा
धत्ते यासावविद्या गुणफणिमतिवद् विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥

12.98.7

भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकावत्
तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।
स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्
विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण! तस्मै नमस्ते ॥

12.98.8

यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् ।
येनैवारोपिताः प्राङ् निजपदमपि ते च्यावितारश्च पश्चात्
तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥

12.98.9

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।
तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं
त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥

12.98.10

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्-
निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥

12.98.11

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
संभृआम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
विष्णो! कारुण्यसिन्धो! पवनपुरपते! पाहि सर्वामयौघात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc